SKसंन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि | यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ||Bह्G_५.१||
SKसंन्यासं परित्यागं कर्मणां आस्त्रीयाणाम् अनुष्ठेय-विशेषाणाम् शंससि प्रशंससि कथयसीत्य् एतत् | पुनर् योगं च तेषाम् एव अनुष्ठानम् अवश्य-कर्तव्यम् शंससि | अतो मे कतरत् श्रेयः इति संशयः - किं कर्मानुष्ठानं श्रेयः, किं वा तद्-धानम् इति | प्रशस्यतरं चानुष्ठेयम् | अतश् च यत् श्रेयः प्रशस्यतरम् एतयोः कर्म-संन्यास-कर्म-योगयोर् यद्-अनुष्ठानात् श्रेयो ऽवाप्तिर् मम स्याद् इति मन्यसे, तद् एकम् अन्यतरत् सह एक-पुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति ||Bह्GS_५.१||
SKस्वाभिप्रायम् आचक्षाणो निर्णयाय श्री-भगवान् उवाच -
SKसंन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ | तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ||Bह्G_५.२||
SKसंन्यासः कर्मणां परित्यागः कर्म-योगश् च तेषाम् अनुष्ठानं ताव् उभाव् अपि निःश्रेयस-करौ मोक्षं कुर्वाते ज्ञानोत्पत्ति-हेतुत्वेन | उभौ यद्यपि निःश्रेयस-करौ, तथापि तयोस् तु निःश्रेयस-हेत्वोः कर्म-संन्यासात् केवलात् कर्म-योगो विशिष्यत इति कर्म-योगं स्तौति ||Bह्GS_५.२||
SKज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति | निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ||Bह्G_५.३||
SKज्ञेयो ज्ञातव्यः स कर्म-योगी नित्य-संन्यासी इति यो न द्वेष्टि किंचित् न काङ्क्षति दुःख-सुखे तत्-साधने च | एवंविधो यः, कर्मणि वर्तमानो ऽपि स नित्य-संन्यासी इति ज्ञातव्य इत्य् अर्थः | निर्द्वन्द्वो द्वन्द्व-वर्जितो हि यस्मात् महाबाहो सुखं बन्धाद् अनायासेन प्रमुच्यते ||Bह्GS_५.३||
SKसंन्यास-कर्म-योगयोर् भिन्न-पुरुषानुष्ठेययोर् विरुद्धयोः फले ऽपि विरोधो युक्तः | न तूभयोर् निःश्रेयस-करत्वम् एवेति प्राप्त इदम् उच्यते -
SKसांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः | एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ||Bह्G_५.४||
SKसांख्य-योगौ पृथग् विरुद्ध-भिन्न-फलौ बालाः प्रवदन्ति न पण्डिताः | पण्डितास् तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्ति | कथम् ? एकम् अपि सांख्य-योगयोः सम्यग् आस्थितः सम्यग् अनुष्ठितवान् इत्य् अर्थः, उभयोर् विन्दते फलम् | उभयोस् तद् एव हि निःश्रेयसं फलम् | अतो न फले विरोधो ऽस्ति |
SKननु संन्यास-कर्म-योग-शब्देन प्रस्तुत्य सांख्य-योगयोः फलैकत्वं कथम् इहाप्रकृतं ब्रवीति ? नैष दोषः - यद्यप्य् अर्जुनेन संन्यासं कर्म-योगं च केवलम् अभिप्रेत्य प्रश्नः कृतः | भगवांस् तु तद्-अपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तर-वाच्यतया प्रतिवचनं ददौ सांख्य-योगाव् इति | ताव् एव संन्यास-कर्म-योगौ ज्ञान-तद्-उपाय-सम-बुद्धित्वादि-संयुक्तौ सांख्य-योग-शब्द-वाच्याव् इति भगवतो मतम् | अतो न अप्रकृत-प्रक्रियेति ||Bह्GS_५.४||
SKएकस्यापि सम्यग् अनुष्ठानात् कथम् उभयोः फलं विन्दते ? इत्य् उच्यते -
SKयत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते | एकं सांख्यं च योगं च यः पश्यति स पश्यति ||Bह्G_५.५||
SKयत् सांख्यैर् ज्ञान-निष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् तद् योगैर् अपि ज्ञान-प्राप्त्य्-उपायत्वेनेश्वरे समर्प्य कर्माण्य् आत्मनः फलम् अनभिसंधायानुतिष्ठन्ति ये ते योगा योगिनः | तैर् अपि परमार्थ-ज्ञान-संन्यास-प्राप्ति-द्वारेण गम्यत इत्य् अभिप्रायः | अत एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वात् स पश्यति सम्यक् पश्यतीत्य् अर्थः ||Bह्GS_५.५||
SKएवं तर्हि योगात् संन्यास एव विशिष्यते | कथं तर्हीदम् उक्तम् तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते [Gईता ५.२] इति ? सृणु तत्र कारणम् - त्वया पृष्टां केवलं कर्म-संन्यासं कर्म-योगं चाभिप्रेत्य तयोर् अन्यतरः कः श्रेयान् ? इति | तद्-अनुरूपं प्रतिवचनं मयोक्तं कर्म-संन्यासात् कर्म-योगो विशिष्यते इति ज्ञानम् अनपेक्ष्य | ज्ञानापेक्षस् तु संन्यासः सांख्यम् इति मयाभिप्रेतः | परमार्थ-योगश् च स एव | यस् तु कर्म-योगो वैदिकः स च तादर्थ्यात् योगः संन्यास इति चोपचर्यते | कथं तादर्थ्यम् ? इत्य् उच्यते -
SKसंन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः | योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ||Bह्G_५.६||
SKसंन्यासस् तु पारमार्थिको दुःखम् आप्तुं प्राप्तुम् अयोगतो योगेन विना | योग-युक्तो वैदिकेन कर्म-योगेन वैदिकेन कर्म-योगेनेश्वर-समर्पित-रूपेण फल-निरपेक्षेण युक्तो मुनिः | मननाद् ईश्वर-स्वरूपस्य मुनिः | ब्रह्म परमात्म-ज्ञान-निष्ठा-लक्षणत्वात् प्रकृतः संन्यासो ब्रह्मोच्यते | न्यास इति ब्रह्मा ब्रह्मा हि परः [Mअहानार्U ७८] इति श्रुतेः | ब्रह्म परमार्थ-संन्यासं परमार्थ-ज्ञान-निष्ठा-लक्षणं न चिरेण क्षिप्रम् एवाधिगच्छति प्राप्नोति | अतो मयोक्तम् कर्म-योगो विशिष्यत इति ||Bह्GS_५.६||
SKयदा पुनर् अयं सम्यग्-दर्शन-प्राप्त्य्-उपायत्वेन -
SKयोग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ||Bह्G_५.७||
SKयोगेन युक्तो योग-युक्तो विशुद्धात्मा विशुद्ध-सत्त्वो विजितात्मा विजित-देहो जितेन्द्रियश् च सर्व-भूतात्म-भूतात्मा सर्वेषां ब्रह्मादीनां स्तम्ब-पर्यन्तानां भूतानाम् आत्म-भूत आत्मा प्रत्यक्-चेतनो यस्य स सर्व-भूतात्म-भूतात्मा सम्यग्-दर्शीत्य् अर्थः | स तत्रैवं वर्तमानो लोक-संग्रहाय कर्म कुर्वन्न् अपि न लिप्यते न कर्मभिर् बध्यते इत्य् अर्थः ||Bह्GS_५.७||
SKन चासौ परमार्थतः करोतीत्य् अतः -
SKनैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित् | पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ||Bह्G_५.८||
SKप्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||Bह्G_५.९||
SKयुक्तः समाहितः सन् मन्येत चिन्तयेत् | तत्त्वविद् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्व-वित् परमार्थ-दर्शीत्य् अर्थः | कदा कथं वा तत्त्वम् अवधारयन् मन्येत ? इत्य् उच्यते | मन्येतेति पूर्वेण संबन्धः | यस्यैवं तत्त्व-विदः सर्व-कार्य-करण-चेष्टासु कर्मस्व् अकर्मैव पश्यतः सम्यग्-दर्शिनस् तस्य सर्व-कर्म-संन्यास एवाधिकारः कर्मणो ऽभाव-दर्शनात् | न हि मृग-तृष्णिकायाम् उदक-बुद्ध्या पानाय प्रवृत्त उदकाभाव-ज्ञाने ऽपि तत्रैव पान-प्रयोजनाय प्रवर्तते ||Bह्GS_५.८-९||
SKयस् तु पुनर् अतत्त्व-वित् प्रवृत्तश् च कर्म-योगे -
SKब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ||Bह्G_५.१०||
SKब्रह्मणीश्वर आधाय निक्षिप्य तद्-अर्थं कर्म करोमीति भृत्य इव स्वाम्य्-अर्थं सर्वाणि कर्माणि | मोक्षे ऽपि फले सङ्गं त्यक्त्वा करोति यः सर्व-कर्माणि, लिप्यते न स पापेन न संबध्यते पद्म-पत्रम् इवाम्भसोदकेन ||Bह्GS_५.१०||
SKकेवलं सत्त्व-शुद्धि-मात्रम् एव फलं तस्य कर्मणः स्यात्, यस्मात् -
SKकायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ||Bह्G_५.११||
SKकायेन देहेन मनसा बुद्ध्या च केवलैर् ममत्व-वर्जितैः ईश्वरायैव कर्म करोमि, न मम फलाय इति ममत्व-बुद्धि-शून्यैर् इन्द्रियैर् अपि - केवल-शब्दः कायादिभिर् अपि प्रत्येकं संबध्यते, सर्व-व्यापारेषु ममता-वर्जनाय | योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फल-विषयम् आत्म-शुद्धये सत्त्व-शुद्धय इत्य् अर्थः | तस्मात् तत्रैव तवाधिकार इति कुरु कर्मैव ||Bह्GS_५.११||
SKयुक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् | अयुक्तः काम-कारेण फले सक्तो निबध्यते ||Bह्G_५.१२||
SKयुक्त ईश्वराय कर्मणि करोमि न मम फलाय इत्य् एवं समाहितः सन् कर्म-फलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्व-शुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-संन्यास-ज्ञान-निष्ठा-क्रमेणेति वाक्य-शेषः | यस् तु पुनर् अयुक्तो ऽसमाहितः काम-कारेण | करणं कारः कामस्य कारः काम-कारः | तेन काम-कारेण काम-प्रेरिततयेत्य् अर्थः | मम फलाय इदं करोमि कर्म इत्य् एवं फले सक्तो निबध्यते | अतस् त्वं युक्तो भव इत्य् अर्थः ||Bह्GS_५.१२||
SKयस् तु परमार्थ-दर्शी सः -
SKसर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी | नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ||Bह्G_५.१३||
SKसर्वाणि कर्माणि सर्व-कर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च | तानि सर्वाणि कर्माणि मनसा विवेक-बुद्ध्या, कर्मादाव् अकर्म-सन्दर्शनेन संत्यज्येत्य् अर्थः | आस्ते तिष्ठति सुखम् | त्यक्त-वाङ्-मनः-काय-चेष्टो निरायासः प्रसन्न-चित्त आत्मनो ऽन्यत्र निवृत्त-सर्व-बाह्य-प्रयोजन इति सुखम् आस्ते इत्य् उच्यते | वशी जितेन्द्रिय इत्य् अर्थः | क्व कथम् आस्ते ? इत्य् आह - नव-द्वारे पुरे | सप्त शीर्षाण्यान्य् आत्मन उपलब्धि-द्वाराणि, अर्वाक् द्वे मूत्र-पुरीष-विसर्गार्थे, तैर् द्वारैर् नव-द्वारं पुरम् उच्यते शरीरम् पुरम् इव पुरम् | आत्मैक-स्वामिकम्, तद्-अर्थ-प्रयोजनैश् च इन्द्रिय-मनो-बुद्धि-विषयैर् अनेक-फल-विज्ञानस्योत्पादकैः पौरैर् इवाधिष्ठितम् | तस्मिन् नव-द्वारे पुरे देही सर्वं कर्म संन्यस्यास्ते |
SKकिं विशेषणेन ? सर्वो हि देही संन्यास्य् असंन्यासी वा देहे एवास्ते | तत्रानर्थकं विशेषणम् इति | उच्यते - यस् त्व् अज्ञो देही देहेन्द्रिय-संघात-मात्रात्म-दर्शी स सर्वो ऽपि गेहे भूमाव् आसने वा ऽ ऽस इति मन्यते | न हि देह-मात्रात्म-दर्शिनो गेह इव देहे आस इति प्रत्ययः संभवति | देहादि-संघात-व्यतिरिक्तात्म-दर्शिनस् तु देहे आसे इति प्रत्यय उपपद्यते | पर-कर्मणां च परस्मिन्न् आत्मन्य् अविद्यययाध्यारोपितानां विद्यया विवेक-ज्ञानेन मनसा संन्यास उपपद्यते | उत्पन्न-विवेक-ज्ञानस्य सर्व-कर्म-संन्यासिनो ऽपि गेह इव देह एव नव-द्वारे पुर आसनम् | प्रारब्ध-फल-कर्म-संस्कार-शेषानुवृत्त्या देह एव विशेष-विज्ञानोत्पत्तेः | देहे एवास्त इत्य् अस्त्य् एव विशेषण-फलम् विद्वद्-अविद्वत्-प्रत्यय-भेदापेक्षत्वात् |
SKयद्यपि कार्य-करण-कर्माण्य् अविद्ययात्मन्य् अध्यारोपितानि संन्यस्यास्ते इत्य् उक्तम्, तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं च स्यात् इत्य् आशङ्क्याह - नैव कुर्वन् स्वयम् न कार्य-करणानि कारयन् क्रियासु प्रवर्तयन् | किं ? यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्म-समवायि सत् संन्यासान् न संभवति ? यथा गच्छतो गतिर् गमन-व्यापार-परित्यागे न स्यात् तद्वत् ? किं वा स्वत एव आत्मनो नास्ति इति ? अत्रोच्यते - नास्त्य् आत्मनः स्वतः कर्तृत्वं कारयितृत्वं च | उक्तं हि -- अविकार्यो ऽयम् उच्यते [Gईता २.५५], शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते [Gईता ३.२६] इति | ध्यायतीव लेलायतीव [BAU ४.३.७] इति च श्रुतेः ||Bह्GS_५.१३||
SKन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ||Bह्G_५.१४||
SKन कर्तृत्वं स्वतः कुर्व् इति नापि कर्माणि रथ-घट-प्रासादादीनीप्सिततमानि लोकस्य सृजत्य् उत्पादयति प्रभुर् आत्मा | नापि रथादि कृतवतस् तत्-फलेन संयोगं न कर्म-फल-संयोगम् | यदि किंचिद् अपि स्वतो न करोति न कारयति च देही, कस् तर्हि कुर्वन् कारयन् च प्रवर्तत इति, उच्यते - स्वभावस् तु स्वो भावः स्वभावो ऽविद्या-लक्षणा प्रकृतिर् माया प्रवर्तते दैवी हि [Gईता ७.१४] इत्य् आदिना वक्ष्यमाणा ||Bह्GS_५.१४||
SKनादत्ते कस्य चित् पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||Bह्G_५.१५||
SKनादत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् | न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः | किम्-अर्थं तर्हि भक्तैः पूजादि-लक्षणं याग-दान-होमादिकं च सुकृतं प्रयुज्यते इत्य् आह - अज्ञानेनावृतं ज्ञानं विवेक-विज्ञानम्, तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्य् एवं मोहं गच्छन्त्य् अविवेकिनः संसारिणो जन्तवः ||Bह्GS_५.१५||
SKज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः | तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ||Bह्G_५.१६||
SKज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवस् तत् अज्ञानं येषां जन्तूनां विवेक-ज्ञानेन आत्म-विषयेण नाशितम् आत्मनो भवति, तेषां जन्तूनाम् आदित्यवत् यथादित्यः समस्तं रूप-जातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थ-तत्त्वम् ||Bह्GS_५.१६||
SKयत् परं ज्ञानं प्रकाशितम् -
SKतद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः | गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ||Bह्G_५.१७||
SKतस्मिन् ब्रह्मणि गता बुद्धिर् येषां ते तद्-बुद्धयः, तद्-आत्मानस् तद् एव परं ब्रह्म आत्मा येषां ते तद्-आत्मनाः, तन्-निष्ठाः निष्ठा अभिनिवेशस् तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्य् एव अवस्थानं येषां ते तन्-निष्ठाः, तत्-परायणा च तद् एव परम् अयनं परा गतिर् येषां भवति ते तत्-परायणाः केवलात्म-रतय इत्य् अर्थः | येषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते गच्छन्ति एवं-विद्याः अपुनर्-आवृत्तिम् अपुनर्-देह-संबन्धं ज्ञान-निर्धूत-कल्मषा यथोक्तेन ज्ञानेन निर्धूतो नाशितः कल्मषः पापादि-संसार-कारण-दोषो येषां ते ज्ञान-निर्धूत-कल्मषा यतयः इत्य् अर्थः ||Bह्GS_५.१७||
SKयेषां ज्ञानेन नाशितम् आत्मनो ऽज्ञानं ते पण्डिताः कथं तत्त्वं पयन्तीत्य् उच्यते -
SKविद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ||Bह्G_५.१८||
SKविद्या-विनय-संपन्ने विद्या च विनयश् च विद्या-विनयौ, विनय उपामः, ताभ्यां विद्या-विनयाभ्यां संपन्नो विद्या-विनय-संपन्नो विद्वान् विनीतश् च यो ब्राह्मणस् तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः | विद्या-विनय-संपन्ने उत्तम-संस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कार-हीनायाम् अत्यन्तम् एव केवल-तामसे हस्त्य्-आदौ च, सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैस् तथा राजसैस् तथा तामसैश् च संस्कारैर् अत्यन्तम् एवास्पृष्टां समम् एकम् अविक्रियं तद् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः सम-दर्शिनः ||Bह्GS_५.१८||
SKनन्व् अभोज्यान्नास् ते दोषवन्तः, समासमाभ्यां विषम-समे पूजातः [Gऔतम-धर्म-सूत्र २.८.२०] इति स्मृतेः | न ते दोषवन्तः | कथम् ? -
SKइहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ||Bह्G_५.१९||
SKइहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर् जितो वईकृतः सर्गो जन्म, येषां साम्ये सर्व-भूतेषु ब्रह्मणि समभावे स्थितं नि चलीभूतं मनो ऽन्तःकरणम् | निर्दोषं यद्यपि दोषवत्सु वपाकादिषु मूढैस् तद्दोषैर् दोषवत् इव विभाव्यते, तथापि तद्दोषैर् अस्पृष्टाम् इति निर्दोषं दोषवर्जितं हि यस्मात् | नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य | वक्ष्यति च भगवान् इच्छादीनां क्षेत्रधर्मत्वम्, अनादित्वान्निर्गुणत्वात् इति च | नाप्य् अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः | अतः समं ब्रह्म एकं च | तस्मात् ब्रह्मणि एव ते स्थिताः | तस्मात् न दोषगन्धमात्रमपि तान् स्पृअति, देहादिसंघातात्म-दर्शनाभिमानाभावात् तेषाम् | देहादिसंघातात्म-दर्शनाभिमानवद्विषयं तु तत् सूत्रम् समासमाभ्यां विषमसमे पूजातः इति, पूजाविषयत्वेन विशेषणात् | दृश्यते हि ब्रह्मवित् षडाङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् | ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतर् ब्रह्मणि ते स्थिताः इति युक्तम् | कर्मविषयं च समासमाभ्याम् इत्य् आदि | इदं तु सर्व-कर्म-संन्यासविषयं प्रस्तुतम्, सर्व-कर्माणि मनसा इत्यारभ्य आध्यायपरिसमाप्तेः ||Bह्GS_५.१९||
SKयस्मात् निर्दोषं समं ब्रह्मात्मा, तस्मात् -
SKन प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् | स्थिर-बुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ||Bह्G_५.२०||
SKन प्रहृषेयेत् प्रहर्षं न कुर्यात् प्रियम् इष्टां प्राप्य लब्ध्वा | नोद्विजेत् प्राप्य चाप्रियम् अनिष्टां लब्ध्वा | देह-मात्रात्म-दर्शिनां हि प्रियाप्रिय-प्राप्ती हर्ष-विषादौ कुर्वाते, न केवलात्म-दर्शिनः, तस्य प्रियाप्रिय-प्राप्त्य्-असंभवात् | किं च - सर्व-भूतेष्व् एकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा बुद्धिर् यस्य स स्थिर-बुद्धिर् असंमूढः संमोह-वर्जितश् च स्यात् यथोक्त-ब्रह्मविद् ब्रह्मणि स्थितो ऽकर्म-कृत् सर्व-कर्म-संन्यासीत्य् अर्थः ||Bह्GS_५.२०||
SKकिं च, ब्रह्मणि स्थितः -
SKबाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् | स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ||Bह्G_५.२१||
SKबाह्य-स्पर्शेषु बाह्या च ते स्पर्शाश् च बाह्य-स्पर्शाः | स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयास् तेषु बाह्य-स्पर्शेषु | असक्त आत्मा अन्तः-करणं यस्य सो ऽयम् असक्तात्मा विषयेषु प्रीति-वर्जितः सन् विन्दति लभते | आत्मनि यत् सुखं तद् विन्दतीत्य् एतत् | स ब्रह्म-योग-युक्तात्मा ब्रह्मणि योगः समाधिर् ब्रह्म-योगस् तेन ब्रह्म-योगेन युक्तः समाहितस् तस्मिन् व्यापृत आत्मा अन्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा | सुखम् अक्षयम् अश्नुते व्याप्नोति | तस्माद् बाह्य-विषय-प्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेद् आत्मन्य् अक्षय-सुखार्थीत्य् अर्थः ||Bह्GS_५.२१||
SK- ओ)O(ओ - इतश् च निवर्तयेत् -
SKये हि संस्पर्शजा भोगा दुःख-योनय एव ते | आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ||Bह्G_५.२२||
SKये हि यस्मात् संस्स्पर्शजा विषयेन्द्रिय-संस्पर्शेभ्यो जाता भोगा भुक्तयो दुःख-योनय एव ते, अविद्या-कृतत्वात् | दृश्यन्ते ह्य् आध्यात्मिकादीनि दुःखानि तन्-निमित्तान्य् एव | यथा इह-लोके तथा पर-लोके ऽपीति गम्यते एव-शब्दात् | न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा विषय-मृग-तृष्णिकाया इन्द्रियाणि निवर्तयेत् | न केवलं दुःख-योनय एव, आद्य्-अन्त-वन्तश् च, आदिर् विषयेन्द्रिय-संयोगो भोगानाम् अन्तश् च तद्-वियोग एव | अतः आद्य्-अन्त-वन्तो ऽनित्याः, मध्य-क्षण-भावित्वात् इत्य् अर्थः | कौन्तेय, न तेषु भोगेषु रमते बुधो विवेक्य् अवगत-परमार्थ-तत्त्वः | अत्यन्त-मूढानाम् एव हि विषयेषु रतिर् दृश्यते, यथा पशु-प्रभृतीनाम् ||Bह्GS_५.२२||
SKअयं च श्रेयो-मार्ग-प्रतिपक्षी कष्टतमो दोषः सर्वानर्थ-प्राप्ति-हेतुर् दुर्निवारश् चेति तत्-परिहारे यत्नाधिक्यं कर्तव्यम् इत्य् आह भगवान् -
SKशक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् | काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||Bह्G_५.२३||
SKशक्नोत्य् उत्सहत इहैव जीवन्न् एव यः सोढुं प्रसहितुं प्राक् पूर्वम् शरीरविमोक्षणात् आ मरणात् इत्य् अर्थः | मरण-सीमा-करणं जीवतो ऽवयंभावि हि काम-क्रोधोद्भवो वेगः, अनन्तनिमित्तवान् हि सः इति यावत् मरणं तावत् न विस्राम्भणीय इत्य् अर्थः | कामः इन्द्रियगोचरप्राप्ते इष्टो विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गṄधस् तृष्णा स कामः | क्रोधश् चात्मनः प्रतिकूलेषु दुःख-हेतुषु दृयमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः स क्रोधः | तौ काम-क्रोधाव् उद्भवो यस्य वेगस्य स काम-क्रोधोद्भवो वेगः | रोमाञ्चन-प्रहृष्ट-नेत्र-वदनादि-लिङ्गो ऽन्तः-करण-प्रक्षोभ-रूपः कामोद्भवो वेगः | गात्र-प्रकम्प-प्रस्वेद-संदष्टौष्ठ-पुट-रक्त-नेत्रादि-लिङ्गः क्रोधोद्भवो वेगः | तं काम-क्रोधोद्भवं वेगं य उत्सहते प्रसहते सोढुं प्रसहितुम्, सो युक्तो योगी सुखी चेह लोके नरः || ||Bह्GS_५.२३||
SKकथं-भूतश् च ब्रह्मणि स्थितो ब्रह्म प्राप्नोति ? इत्य् आह भगवान् -
SKयो ऽन्तः-सुखो ऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः | स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ||Bह्G_५.२४||
SKयो ऽन्तः-सुखो ऽन्तर् आत्मनि सुखं यस्य सो ऽन्तः-सुखः, तथान्तर् एवात्मन्य् आराम आरमणम् आक्रीडा यस्य सो ऽन्तर्-आरामः | तथैवान्तर् एव आत्मन्य् एव ज्योतिः प्रकाशो यस्य सो ऽन्तर्-ज्योतिर् एव, य ईदृशः सो योगी ब्रह्म-निर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्न् एव ब्रह्म-भूतः सन्न् अधिगच्छति प्राप्नोति ||Bह्GS_५.२४||
SKलभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः | छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ||Bह्G_५.२५||
SKलभन्ते ब्रह्म-निर्वाणं मोक्षम् ऋषयः सम्यग्-दर्शिनः संन्यासिनः क्षीण-कल्मषाः क्षीण-पापा निर्दोषाश् छिन्न-द्वैधाः छिन्न-संशया यतात्मानः संयतेन्द्रियाः सर्व-भूत-हिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रता अहिंसका इत्य् अर्थः ||Bह्GS_५.२५||
SKकाम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् | अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ||Bह्G_५.२६||
SKकाम-क्रोध-वियुक्तानां कामश् च क्रोधश् च काम-क्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यत-चेतसां संयतान्तः-करणानाम् अभित उभयतो जीवतां मृतानां च ब्रह्म-निर्वाणं मोक्षो वर्तते विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मनां तेषां विदितात्मनां सम्यग्-दर्शिनाम् इत्य् अर्थः ||Bह्GS_५.२६||
SK- ओ)O(ओ - सम्यग् दर्शन-निष्ठानां संन्यासिनां सद्यो-मुक्तिर् उक्ता | कर्म-योगश् च ईश्वरार्पित-सर्व-भावेनेश्वरे ब्रह्मण्य् आधाय क्रियमाणः सत्त्व-शुद्धि-ज्ञान-प्राप्ति-सर्व-कर्म-संन्यास-क्रमेण मोक्षाय इति भगवान् पदे पदे ऽब्रवीत्, वक्ष्यति च | अथेदानीं ध्यान-योगं सम्यग्-दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्र-स्थानीयान् श्लोकान् उपदिशति स्म -
SKस्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ||Bह्G_५.२७||
SKयतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः | विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ||Bह्G_५.२८||
SKस्पर्शान् शब्दादीन् कृत्वा बहिर् बाह्यान् श्रोत्रादि-द्वारेणान्तर्-बुद्धौ प्रवेशिताः शब्दादयो विषयास् तान् अचिन्तयतो शब्दादयो बाह्या बहिर् एव कृता भवन्ति | तान् एवं बहिः कृत्वा चक्षुश् चैवान्तरे भ्रुवोः कृत्वेत्य् अनुषज्यते | तथा प्राणापानौ नासाभ्यन्तर-चारिणौ समौ कृत्वा | यतेन्द्रिय-मनो-बुद्धिर् यतानि संयतानीन्द्रियाणि मनो बुद्धिश् च यस्य स यतेन्द्रिय-मनो-बुद्धिः | मननात् मुनिः संन्यासी | मोक्ष-परायण एवं देह-संस्थानान् मोक्ष-परायणो मोक्ष एव परम् अयनं परा गतिर् यस्य सो ऽयं मोक्ष-परायणो मुनिर् भवेत् | विगतेच्छा-भय-क्रोध इच्छा च भयं च क्रोधश् चेच्छा-भय-क्रोधास् ते विगताः यस्मात् स विगतेच्छा-भय-क्रोधः | य एवं वर्तते सदा संन्यासी, मुक्त एव सः | न तस्य मोक्षो ऽन्यः कर्तव्यो ऽस्ति ||
SKभोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् | सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ||Bह्G_५.२९||
SKएवं समाहित-चित्तेन किं विज्ञेयम् इत्य् उच्यते | भोक्तारं यज्ञ-तपसां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च, सर्व-लोक-महेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्व-भूतानां सर्व-प्राणिनां प्रत्युपकार-निरपेक्षतया उपकारिणं सर्व-भूतानां हृदयेशयं सर्व-कर्म-फलाध्यक्षं सर्व-प्रत्यय-साक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्व-संसारोपरतिम् ऋच्छति प्राप्नोति ||Bह्GS_५.२९||
SKइति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये पञ्चमो ऽध्यायः ||
SK(शङ्कराचार्य-भाष्यः)
SKअतीतानन्तराध्यायान्ते ध्यान-योगस्य सम्यग् दर्शनं प्रत्य् अन्तरङ्गस्य सूत्र-भूताः श्लोकाः स्पर्शान् कृत्वा बहिः [Gईता ५.२७] इत्य् आदय उपदिष्टः | तेषां वृत्ति-स्थानीयो ऽयं षष्ठो ऽध्याय आरभ्यते | तत्र ध्यान-योगस्य बहिरङ्गं कर्मेति यावद् ध्यान-योगारोहण-समर्थस् तावद् गृहस्थेनाधिकृतेन कर्तव्यं कर्म इत्य् अतस् तत् स्तौति |
SKननु किम्-अर्थं ध्यान-योगारोहण-सीमा-करणम्, यावतानुष्ठेयम् एव विहितं कर्म यावज्जीवम् | न, आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते [Gईता ३.३] इति विशेषणात् | आरूढस्य च शमेनैव संबन्ध-करणात् | आरुरुक्षोर् आरूढस्य च शमः कर्मश् चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात् तदारुरुक्षोर् आरूढस्य चेति शम-कर्म-विषय-भेदेन विशेषणं विभाग-करणं चानर्थकं स्यात् |
SKतत्राश्रमिणां कश्चिद् योगम् आरुरुक्षुर् भवति | आरूढश् च कश्चित् | अन्ये नारुरुक्षवः | न चारूढाः | तान् अपेक्ष्यारुरुक्षोर् आरूढस्य चेति विशेषणं विभाग-करणं चोपपद्यत एवेति चेत्, न | तस्यैवेति वचनात् | पुनर् योग-ग्रहणाच् च योगारूढस्येति | य आसीत् पूर्वं योगम् आरुरुक्षुस् तस्यैवारूढस्य शम एव कर्तव्यः | कारणं योग-फलं प्रत्युच्यतेति | अतो न यावज्-जीवं कर्तव्यत्व-प्राप्तिः कस्यचिद् अपि कर्मणः | योग-विभ्रष्ट-वचनाच् च |
SKगृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे ऽध्याये, स योग-विभ्रष्टो ऽपि कर्म-गतिं कर्म-फलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात् | अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वाद् अनारभ्यत्वे स्वं फलम् आरभत एव | नित्यस्य च कर्मणो वेद-प्रमाणावबुद्धत्वात् फलेन भवितव्यम् इत्य् अवोचाम | अन्यथा वेदस्यानर्थार्थत्व-प्रसङ्गाद् इति |
SKन च कर्मणि सत्य् उभय-विभ्रष्ट-वचनम् अर्थवत् | कर्मणो विभ्रंश-कारणानुपपत्तेः | कर्म कृतम् ईश्वरे संन्यस्येत्य् अतः कर्तरि कर्म फलं नारभतेति चेन्, न | ईश्वरे संन्यासस्याधिकतर-फल-हेतुत्वोपपत्तेः | मोक्षायैवेति चेत्, स्व-कर्मणां कृतानाम् ईश्वरे न्यासो मोक्षायैव, न फलान्तराय योग-सहितः |
SKयोगाच् च विभ्रष्ट इत्य् अतस् तं प्रति नाश-शङ्का युक्तैवेति चेत्, न | एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः [Gईता ६.१०] ब्रह्मचारि-व्रते स्थितः [Gईता ६.१४] इति कर्म-संन्यास-विधानात् | न चात्र गृहस्थस्य निराशीर् अपरिग्रहः इत्य् आदि-वचनम् अनुकूलम् | उभय-विभ्रष्ट-प्रश्नानुपपत्तेश् च |
SKअनाश्रित इत्य् अनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्, न | ध्यान-योगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षा-संन्यास-स्तुति-परत्वात् |
SKन केवलं निरग्निर् अक्रिय एव संन्यासी योगी च | किं तर्हि ? कर्म्य् अपि, कर्म-फलासङ्गं संन्यस्य कर्म-योगम् अनुतिष्ठन् सत्त्व-शुद्ध्य्-अर्थं, स संन्यासी च योगी च भवतीति स्तूयते | न चैकेन वाक्येन कर्म-फलासङ्ग-संन्यास-स्तुतिश् चतुर्थाश्रम-प्रतिषेधश् चोपपद्यते | न च प्रसिद्धं निरग्नेर् अक्रियस्य परमार्थ-संन्यासिनः श्रुति-स्मृति-पुराणेतिहास-योग-शास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् | स्व-वचन-विरोधाच् च - सर्व-कर्माणि मनसा संन्यस्य... नैव कुर्वन् न कारयन् आस्ते [Gईता ५.१३] मौनी संतुष्टो येन केनचित्... अनिकेतः स्थिर-मतिः [Gईता १२.१९] विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः [Gईता २.७१] सर्वारम्भ-परित्यागी [Gईता १२.१६] इति च तत्र तत्र भगवता स्व-वचनानि दर्शितानि | तैर् विरुध्येतश् चतुर्थाश्रम-प्रतिषेधः | तस्मान् मुनेर् योगम् आरुरुक्षोः प्रतिपन्न-गार्हस्थ्यस्याग्निहोत्रादि-कर्म फल-निरपेक्षम् अनुष्ठीयमानं ध्यान-योगारोहण-साधनत्वं सत्त्व-शुद्धि-द्वारेण प्रतिपद्यत इति स संन्यासी च योगी चेति स्तूयते -