Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 11

SK
मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् | यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ||Bह्G_११.१||
SK
मद्-अनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्म-संज्ञितम् आत्मानात्म-विवेक-विषयं यत् त्वयोक्तं वचो वाक्यं तेन ते वचसा मोहो ऽयं विगतो मम | अविवेक-बुद्धिर् अपगतेत्य् अर्थः ||Bह्GS_११.१||
SK
==============================
SK
किं च -
SK
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम् ||Bह्G_११.२||
SK
भव उत्पत्तिर् अप्ययः प्रलयस् तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया, न संक्षेपतः | त्वत्तस् त्वत्-सकाशात् | कमल-पत्राक्ष कमलस्य पत्रं कमल-पत्रं तद्वद् अक्षिणी यस्य तव स त्वं कमल-पत्राक्षो, हे कमलपत्राक्ष ! महात्मनो भावो माहात्म्यम् अपि चाव्ययम् अक्षयम् | श्रुतम् इत्य् अनुवर्तते ||Bह्GS_११.२||
SK
==============================
SK
एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर | द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ||Bह्G_११.३||
SK
एवम् एतन् नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वर | तथापि द्रष्टुम् इच्छामि ते तव ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः संपन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तम ||Bह्GS_११.३||
SK
==============================
SK
मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो | योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ||Bह्G_११.४||
SK
मन्यसे चिन्तयसि यदि मयार्जुनेन तच् छक्यं द्रष्टुम् इति प्रभो ! स्वामिन् ! योगेश्वर योगिनो योगास् तेषाम् ईश्वरो योगेश्वरः, हे योगेश्वर ! यस्माद् अहम् अतीवार्थी द्रष्टुम्, ततस् तस्मान् मे मद्-अर्थं त्वम् आत्मानम् अव्ययम् ||Bह्GS_११.४||
SK
==============================
SK
एवं चोदितो ऽर्जुनेन भगवान् उवाच -
SK
पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः | नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ||Bह्G_११.५||
SK
पश्य मे पार्थ ! रूपाणि शतशो ऽथ सहस्रशः | अनेकश इत्य् अर्थः | तानि च नाना-विधान्य् अनेक-प्रकाराणि दिवि भवानि दिव्यान्य् अप्राकृतानि नाना-वर्णाकृतीनि च नाना विलक्षणा नील-पीतादि-प्रकारा वर्णास् तथाकृतयश् चावयव-संस्थान-विशेषो येषां रूपाणां तानि नाना-वर्णाकृतीनी च ||Bह्GS_११.५||
SK
==============================
SK
पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा | बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ||Bह्G_११.६||
SK
पश्यादित्यान् द्वादश | वसून् अष्टौ | रुद्रान् एकादश | अश्विनौ द्वौ | मरुतः सप्त-सप्त-गणा ये तान् | तथा च बहून्य् अन्यान्य् अप्य् अदृष्ट-पूर्वाणि मनुष्य-लोके त्वया त्वत्तो ऽन्येन वा केनचित् | पश्याश्चर्याण्य् अद्भुतानि भारत ||Bह्GS_११.६||
SK
==============================
SK
न केवलम् एतावद् एव -
SK
इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् | मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ||Bह्G_११.७||
SK
इहैक-स्थम् एकस्मिन्न् एव स्थितं जगत् कृत्स्नं समस्तं पश्याद्य इदानीं स-चराचरं सह चरेणाचरेण च वर्तते मम देहे गुडाकेश | यच् चान्यत् जय-पराजयादि | यत् शङ्कसे, यद् वा जयेम यदि वा नो जयेयुर् [Gईता २.६] इति यत् अवोचः, तद् अपि द्रष्टुं यदीच्छसि ||Bह्GS_११.७||
SK
==============================
SK
किं तु - न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ||Bह्G_११.८||
SK
न तु मां विश्व-रूप-धरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्व-चक्षुषा स्वकीयेन चक्षुषा | येन तु शक्यसे द्रष्टुं दिव्येन, तद् दिव्यं ददामि ते तुभ्यं चक्षुः | तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योग-शक्त्य्-अतिशयम् इत्य् अर्थः ||Bह्GS_११.८||
SK
==============================
SK
संजय उवाच -
SK
एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः | दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ||Bह्G_११.९||
SK
एवं यथोक्त-प्रकारेणोक्त्वा ततो ऽनन्तरं राजन् धृतराष्ट्र ! महा-योगेश्वरो महांश् चासौ योगेश्वरश् महा-योगेश्वरो हरिर् नारायणो दर्शयामास दर्शितवान् पार्थाय पृथा-सुताय परमं रूपं विश्व-रूपम् ऐश्वरम् ||Bह्GS_११.९||
SK
==============================
SK
अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् | अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ||Bह्G_११.१०||
SK
अनेक-वक्त्र-नयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तद् अनेक-वक्त्र-नयनम्, अनेकाद्भुत-दर्शनम् अनेकान्य् अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तद् अनेकाद्भुत-दर्शनं रूपम् | तथानेक-दिव्याभरणम् अनेकानि दिव्यान्य् आभरणानि यस्मिन् तद् अनेक-दिव्याभरणम् | तथा दिव्यानेकोद्यतायुधं दिव्यान्य् अनेकान्य् अस्यादीनि उद्यतान्य् आयुधानि यस्मिन् तद् दिव्यानेकोद्यतायुधम् | दर्शयामासेति पूर्वेण संबन्धः ||Bह्GS_११.१०||
SK
==============================
SK
किं च -
SK
दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् | सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ||Bह्G_११.११||
SK
दिव्य-माल्याम्बर-धरं दिव्यानि माल्यानि पुष्पाण्य् अम्बराणि वस्राणि च ध्रियन्ते येनेश्वरेण तं दिव्य-माल्याम्बर-धरम्, दिव्य-गन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्य-गन्धानुलेपनम्, सर्वाश्चर्य-मयं सर्वाश्चर्य-प्रायं देवम् अनन्तं नास्यान्तो ऽस्तीत्य् अनन्तस् तम्, विश्वतो-मुखं सर्वतो-मुखं सर्व-भूतात्म-भूतत्वात्, तं दर्शयामास | अर्जुनो ददर्शेति वाध्याह्रियते ||Bह्GS_११.११||
SK
==============================
SK
या पुनर् भगवतो विश्व-रूपस्य भाः, तस्या उपमोच्यते -
SK
दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता | यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ||Bह्G_११.१२||
SK
अन्तरिक्षे वा दिवि सूर्याणां सहस्रं सूर्य-सहस्रं तस्य युगपद् उत्थितस्य सूर्य-सहस्रस्य या युगपद् उत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनो विश्व-रूपस्यैव भासः | यदि वा न स्यात्, ततो विश्व-रूपस्यैव भा अतिरिच्यते इत्य् अभिप्रायः ||Bह्GS_११.१२||
SK
==============================
SK
किं च - तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा | अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ||Bह्G_११.१३||
SK
तत्र तस्मिन् विश्व-रूप एकस्मिन् स्थितम् एक-स्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देव-पितृ-मनुष्यादि-भेदैर् अपश्यद् दृष्टवान् देव-देवस्य हरेः शरीरे पाण्डावो ऽर्जुनस् तदा ||Bह्GS_११.१३||
SK
==============================
SK
ततः स विस्मयाविष्टो हृष्ट-रोमा धनंजयः | प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ||Bह्G_११.१४||
SK
ततस् तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टो हृष्टानि रोमाणि यस्य सो ऽयं हृष्ट-रोमा चाभवद् धनञ्जयः | प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वी-भूतः सन् शिरसा देवं विश्व-रूप-धरं कृताञ्जलिः नमस्कारार्थं संपुटीकृत-हस्तः सन्न् अभाषत उक्तवान् ||Bह्GS_११.१४||
SK
==============================
SK
कथम् ? यत् त्वया दर्शितं विश्व-रूपम्, तद् अहं पश्यामीति स्वानुभवम् आविष्कुर्वन्न् अर्जुन उवाच -
SK
पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-संघान् | ब्रह्माणम् ईशं कमलासन-स्थम् ऋषींश् च सर्वान् उरगांश् च दिव्यान् ||Bह्G_११.१५||
SK
पश्याम्य् उपलभे हे देव, तव देहे देवान् सर्वान्, तथा भूत-विशेष-संघान् भूत-विशेषाणां स्थावर-जङ्गमानां नाना-संस्थान-विशेषाणां संघा भूत-विशेष-संघास् तान्, किं च - ब्रह्माणं चतुर्-मुखम् ईशम् ईशितारं प्रजानां कमलासन-स्थं पृथिवी-पद्म-मध्ये मेरु-कर्णिकासन-स्थम् इत्य् अर्थः | ऋषींश् च वसिष्ठादीन् सर्वान्, उरगांश् च वासुकि-प्रभृतीन् दिव्यान् दिवि भवान् ||Bह्GS_११.१५||
SK
==============================
SK
अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि त्वा सर्वतो ऽनन्त-रूपम् | नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्व-रूप ||Bह्G_११.१६||
SK
अनेक-बाहूदर-वक्त्र-नेत्रम् अनेके बाहवर् उदराणि वक्त्राणि नेत्राणि च यस्य तव स त्वम् अनेक-बाहूदर-वक्त्र-नेत्रस् तम् अनेक-बाहूदर-वक्त्र-नेत्रम् | पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्त-रूपम् अनन्तानि रूपाण्य् अस्य इत्य् अनन्त-रूपस् तम् अनन्त-रूपम् | नान्तम्, अन्तो ऽवसानम्, न मध्यम्, मध्यं नाम द्वयोः कोट्योर् अन्तरम् | न पुनस् तवादिम् - न देवस्यान्तं पश्यामि, न मध्यं पश्यामि, न पुनर् आदिं पश्यामि | हे विश्वेश्वर विश्व-रूप ||Bह्GS_११.१६||
SK
==============================
SK
किं च - किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्क-द्युतिम् अप्रमेयम् ||Bह्G_११.१७||
SK
किरीटिआनं किरीटां नाम शिरोभूषणविशेषस् तत् यस्यास्ति सः किरीटी तं किरीटिआनम्, तथा गदिनं गदास्य विद्यते इति गदी तं गदिनम्, तथा चक्रिणं चक्त्रम् अस्यास्तीति चक्री तं चक्रिणं च, तेजो-राशिं तेजःपुजं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिर् अस्यास्तीति सर्वतोदीप्तिमान्, तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश् चार्कश् चानलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिस् तेजो यस्य तव स त्वं दीप्तानलार्कद्युतिस् तं त्वां दीप्तानलार्कद्यतिम् अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्य् एतत् ||Bह्GS_११.१७||
SK
==============================
SK
इत एव ते योग-शक्ति-दर्शनात् अनुमिनोमि -
SK
त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् | त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ||Bह्G_११.१८||
SK
त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः | त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते ऽस्मिन्न् इति निधानं पर आश्रय इत्य् अर्थः | किं च, त्वम् अव्ययो न तव व्ययो विद्यत इत्य् अव्ययः | शाश्वत-धर्म-गोप्ता शश्वद्-भवः शाश्वतो नित्यो धर्मस् तस्य गोप्ता शाश्वत-धर्म-गोप्ता | सनातनश् चिरन्तनस् त्वं पुरुषः परमः मतो ऽभिप्रेतः मे मम ||Bह्GS_११.१८||
SK
==============================
SK
किं च - अनादि-मध्यान्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् | पश्यामि त्वां दीप्त-हुताश-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ||Bह्G_११.१९||
SK
अनादि-मध्यान्तम् आदि च मध्यं चान्तश् च न विद्यते यस्य सो ऽयम् अनादि-मध्यान्तस्, तं त्वाम् अनादि-मध्यान्तम् | अनन्त-वीर्यं न तव वीर्यस्यान्तो ऽस्तीत्य् अनन्त-वीर्यस्, तं त्वाम् अनन्त-वीर्यम् | तथानन्त-बाहुम् अनन्ता बाहवो यस्य तव स त्वम्, अनन्त-बाहुस् तं त्वाम् अनन्त-बाहुम् | शशि-सूर्य-नेत्रं शशि-सूर्यौ नेत्रे यस्य तव स त्वं शशि-सूर्य-नेत्रस्, तं त्वां शशि-सूर्य-नेत्रं चन्द्रादित्य-नयनम् | पश्यामि त्वां दीप्त-हुताश-वक्त्रं दीप्तश् चासौ हुताशश् च वक्त्रं यस्य तव स त्वं दीप्त-हुताश-वक्त्रस्, तं त्वां दीप्त-हुताश-वक्त्रम् | स्व-तेजसा विश्वम् इदं समस्तं तपन्तम् ||
SK
==============================
SK
द्याव्-आपृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः | दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं लोक-त्रयं प्रव्यथितं महात्मन् ||Bह्G_११.२०||
SK
द्याव्-आपृथिव्योर् इदम् अन्तरं ह्य् अन्तरिक्षं व्याप्तं त्वयैकेन विश्व-रूप-धरेण दिशश् च सर्वा व्याप्ताः | दृष्ट्वा उपलभ्याद्भुतं विस्मापकं रूपम् इदं तवोग्रं क्रूरं लोकानां त्रयं लोक-त्रयं प्रव्यथितं भीतं प्रचलितं वा | हे महात्मन् ! अक्षुद्र-स्वभाव ||Bह्GS_११.२०||
SK
==============================
SK
अथाधुना पुरा यद् वा जयेम यदि वा नो जयेयुः [Gईता २.६] इत्य् अर्जुनस्य यः संशय आसीत्, तन्-निर्णयाय पाण्डव-जयम् ऐकान्तिकं दर्शयामीति प्रवृत्तो भगवान् | तं पश्यन्न् आह | किं च - अमी हि त्वा सुर-संघा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति | स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||Bह्G_११.२१||
SK
अमी हि युध्यमाना योद्धारस् त्वा त्वां सुर-संघाः ये ऽत्र भू-भारावतारायावतीर्णा वस्व्-आदि-देव-संघा मनुष्य-संस्थानास् त्वां विशन्ति प्रविशन्तो दृश्यन्ते | तत्र केचित् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायने ऽप्य् अशक्ताः सन्तः | युद्धे प्रत्युपस्थित उत्पातादि-निमित्तानि उपलक्ष्य स्वस्त्य् अस्तु जगत इति उक्त्वा महर्षि-सिद्ध-संघाः महर्षीणां सिद्धानां च संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः संपूर्णाभिः ||Bह्GS_११.२१||
SK
==============================
SK
किं चान्यत् - रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च | गन्धर्व-यक्षासुर-सिद्ध-संघा वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ||Bह्G_११.२२||
SK
रुद्रादित्याः वसवो ये च साध्याः रुद्रादयो गणाः विश्वे-देवा अश्विनौ च देवौ मरुतश् च ऊष्मपा च पितरः, गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्षः हाहाहूहूप्रभृतयो यक्षाः कुबेरप्रभृतयो ऽसुराः विरोचनप्रभृतयः सिद्धाः कपिलादयस् तेषां संघाः गन्धर्वयक्षासुरसिद्धसंघाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तस् ते एव सर्वे ||Bह्GS_११.२२||
SK
==============================
SK
यस्मात् - रूपं महत् ते बहु-वक्त्र-नेत्रं महा-बाहो बहु-बाहूरु-पादम् | बहूदरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ||Bह्G_११.२३||
SK
रूपं महद् अतिप्रमाणं ते तव बहु-वक्त्र-नेत्रं बहूनि वक्त्राणि मुखानि चक्षूंषि च यस्मिन् तद् रूपं बहु-वक्त्र-नेत्रम् | हे महा-बाहो ! बहु-बाहूरु-पादं बहवो बाहव ऊरवः पादाश् च यस्मिन् रूपे तद् बहु-बाहूरु-पादम् | किं च, बहूदरं बहूनि उदराणि यस्मिन्न् इति बहूदरम् | बहु-दंष्ट्रा-करालं बह्वीभिर् दंष्ट्राभिः करालं विकृतं तद् बहु-दंष्ट्रा-करालम् | दृष्ट्वा रूपम् ईदृशं लोका लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिता भयेन | तथाहम् अपि ||Bह्GS_११.२३||
SK
==============================
SK
तत्रेदं कारणम् - नभः-स्पृशं दीप्तम् अनेक-वर्णं व्यात्ताननं दीप्त-विशाल-नेत्रम् | दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ||Bह्G_११.२४||
SK
नभः-स्पृशं द्यु-स्पर्शम् इत्य् अर्थः | दीप्तं प्रज्वलितम् | अनेक-वर्णम् अनेके वर्णा भयङ्कराः नाना-संस्थाना यस्मिन् त्वयि तं त्वाम् अनेक-वर्णम् | व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम् | दीप्त-विशाल-नेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्त-विशाल-नेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतो ऽन्तरात्मा मनो यस्य मम सो ऽहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं चोपशमनं मनस्-तुष्टिम् | हे विष्णो ||Bह्GS_११.२४||
SK
==============================
SK
कस्मात् ? दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वैव कालानल-संनिभानि | दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्-निवास ||Bह्G_११.२५||
SK
दंष्ट्रा-करालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैवोपलभ्य कालानल-संनिभानि प्रलय-काले लोकानां दाहको ऽग्निः कालानलस् तत्-सदृशानि कालानल-संनिभानि मुखानि दृष्ट्वेत्य् एतत् | दिशः पूर्वापर-विवेकेन न जाने दिङ्-मूढो जातो ऽस्मि | अतो न लभे च नोपलभे च शर्म सुखम् | अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्-निवास ||Bह्GS_११.२५||
SK
==============================
SK
येभ्यो मम पराजयाशङ्का यासीत् सा चापगता | यतः -
SK
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपाल-संघैः | भीष्मो द्रोणः सूत-पुत्रस् तथासौ सहास्मदीयैर् अपि योध-मुख्यैः ||Bह्G_११.२६||
SK
अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधन-प्रभृतयः - त्वरमाणाः विशन्तीति व्यवहितेन संबन्धः - सर्वे सहैव सहिताः अवनि-पाल-संघैर् अवनिं पृथ्वीं पालयन्तीत्य् अवनि-पालास् तेषां संघैः, किं च भीष्मो द्रोणः सूत-पुत्रः कर्णस् तथासौ सहास्मदीयैर् अपि धृष्टद्युम्न-प्रभृतिभिर् योध-मुख्यैर् योधानां मुख्यैः प्रधानैः सह ||Bह्GS_११.२६||
SK
==============================
SK
किं च - वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा-करालानि भयानकानि | केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ||Bह्G_११.२७||
SK
वक्त्राणि मुखानि ते तव त्वरमाणास् त्वरा-युक्ताः सन्तो विशन्ति | किं-विशिष्टनि मुखानि ? दंष्ट्रा-करालानि भयानकानि भयङ्कराणि | किं च, केचित् मुखानि प्रविष्टानां मध्ये विलग्ना दशनान्तरेषु मांसम् इव भक्षितं संदृश्यन्त उपलभ्यन्ते चूर्णितैश् चूर्णीकृतैर् उत्तमाङ्गैः शिरोभिः ||Bह्GS_११.२७||
SK
==============================
SK
कथं प्रविशन्ति मुखानि ? इत्य् आह -
SK
यथा नदीनां बहवो ऽम्बु-वेगाः समुद्रम् एवाभिमुखा द्रवन्ति | तथा तवामी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ||Bह्G_११.२८||
SK
यथा नदीनां स्रवन्तीनां बहवो ऽनेके ऽम्बूनां वेगा अम्बु-वेगास् त्वरा-विशेषाः समुद्रम् एवाभिमुखाः प्रतिमुखा द्रवन्ति प्रविशन्ति | तथा तद्वत् तवामी भीष्मादयो नर-लोक-वीरा मनुष्य-लोके शूराः विशन्ति वक्त्राण्य् अभिविज्वलन्ति प्रकाशमानानि ||Bह्GS_११.२८||
SK
==============================
SK
ते किम्-अर्थं प्रविशन्ति कथं च ? इत्य् आह -
SK
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध-वेगाः | तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्ध-वेगाः ||Bह्G_११.२९||
SK
यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणो विशन्ति नाशाय विनाशाय समृद्ध-वेगाः समृद्ध उद्भूतो वेगो गतिर् येषां ते समृद्ध-वेगाः | तथैव नाशाय विशन्ति लोकाः प्राणिनस् तवापि वक्त्राणि समृद्ध-वेगाः ||Bह्GS_११.२९||
SK
==============================
SK
त्वं पुनः -
SK
लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः | तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ||Bह्G_११.३०||
SK
लेलिह्यसे आस्वादयसि ग्रसमानो ऽन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैर् वक्त्रैर् ज्वलद्भिर् दीप्यमानैस् तेजोभिर् आपूर्य संव्याप्य जगत् समग्रं सहाग्रेण समस्तम् इत्य् एतत् | किं च, भासो दीप्तयस् तवोग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापन-शील ||Bह्GS_११.३०||
SK
==============================
SK
यतः एवम् उग्र-स्वभावः, अतः -
SK
आख्याहि मे को भवान् उग्र-रूपो नमो ऽस्तु ते देव-वर प्रसीद | विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ||Bह्G_११.३१||
SK
आख्याहि कथय मे मह्यं को भवान् उग्र-रूपः क्रूराकारः | नमो ऽस्तु ते तुभ्यं हे देव-वर देवानां प्रधान, प्रसीद प्रसादं कुरु | विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम्, न हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टम् ||Bह्GS_११.३१||
SK
==============================
SK
श्री-भगवान् उवाच - कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः | ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ||Bह्G_११.३२||
SK
कालो ऽस्मि लोक-क्षय-कृत् लोकानां क्षयं करोतीति लोक-क्षय-कृत् प्रवृद्धो वृद्धिं गतः | यद्-अर्थं प्रवृद्धस् तच् छृणु - लोकान् समाहर्तुं संहर्तुम् इहास्मिन् काले प्रवृत्तः | ऋते ऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्म-द्रोण-कर्ण-प्रभृतयः सर्वे, येभ्यस् तव आशङ्का, ये ऽवस्थिताः प्रत्यनीकेषु अनीकम् अनीकं प्रति प्रत्यनीकेषु प्रतिपक्ष-भूतेषु अनीकेषु योधा योद्धारः ||Bह्GS_११.३२||
SK
==============================
SK
यस्माद् एवम् - तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् ||Bह्G_११.३३||
SK
तस्मात् त्वम् उत्तिष्ठ भीष्म-प्रभृतयो ऽतिरथा अजेया देवैर् अप्य् अर्जुनेन जिता इति यशः लभस्व | केवलं पुण्यैर् हि तत् प्राप्यते | जित्वा शत्रून् दुर्योधन-प्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम् | मयैवैते निहता निश्चयेन हताः प्राणैर् वियोजिताः पूर्वम् एव | निमित्त-मात्रं भव त्वम् | हे सव्यसाचिन् ! सव्येन वामेनापि हस्तेन शराणां क्षेपात् सव्यसाचीत्य् उच्यते ऽर्जुनः ||Bह्GS_११.३३||
SK
==============================
SK
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योध-वीरान् | मया हतांस् त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ||Bह्G_११.३४||
SK
द्रोणं च, येषु येषु योधेष्व् अर्जुनस्याशङ्का तांस् तान् व्यपदिशति भगवान् मया हतान् इति | तत्र द्रोण-भीष्मयोस् तावत् प्रसिद्धम् आशङ्का-कारणम् | द्रोणस् तु धनुर्-वेदाचार्यो दिव्यास्त्र-संपन्नः | आत्मनश् च विशेषतो गुरुर् गरिष्ठः | भीष्मश् च स्वच्छन्द-मृत्युर् दिव्यास्त्र-संपन्नश् च परशुरामेण द्वन्द्व-युद्धम् अगमत्, न च पराजितः | तथा जयद्रथः | यस्य पिता तपश् चरति मम पुत्रस्य शिरो भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतीति | कर्णो ऽपि वासव-दत्तया शक्त्या त्व् अमोघया संपन्नः सूर्य-पुत्रः कानीनो यतः, अतस् तन्-नाम्नैव निर्देशः | मया हतान् त्वं जहि निमित्त-मात्रेण | मा व्यथिष्ठास् तेभ्यो भयं मा कार्षीः | युध्यस्व जेतासि दुर्योधन-प्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ||Bह्GS_११.३४||
SK
==============================
SK
संजय उवाच -
SK
एतच् छ्रुत्वा वचनं केशवस्य कृताञ्जलिर् वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ||Bह्G_११.३५||
SK
एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा | भूयः पुनर् एवाहोक्तवान् कृष्णं स-गद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य च हर्षोद्भवात्, अश्रु-पूर्ण-नेत्रत्वे सति श्लेष्मणा कण्ठावरोधः | ततश् च वाचो ऽपाटवं मन्द-शब्दत्वं यत् स-गद्गदस् तेन सह वर्ततेति स-गद्गदं वचनम् आहेति वचन-क्रिया-विशेषणम् एतत् | भीत-भीतः पुनः पुनर् भयाविष्ट-चेताः सन् प्रणम्य प्रह्वो भूत्वा | आहेति व्यवहितेन संबन्धः ||Bह्GS_११.३५||
SK
==============================
SK
अर्जुन उवाच - स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः ||Bह्G_११.३६||
SK
स्थाने युक्तम् | किं तत् ? तव प्रकीत्र्या त्वन्-माहात्म्य-कीर्तनेन श्रुतेन | हे हृषीकेश ! यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् इत्य् अर्थः | अथवा विषय-विशेषणं स्थान इति | युक्तो हर्षादि-विषयो भगवान्, यत ईश्वरः सर्वात्मा सर्व-भूत-सुहृच् चेति | तथानुरज्यते ऽनुरागं चोपैति | तच् च विषय इति व्याख्येयम् | किं च, रक्षांसि भीतानि भयाविष्टनि दिशो द्रवन्ति गच्छन्ति | तच् च स्थाने विषये | सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्ध-संघाः सिद्धानां समुदायाः कपिलादीनाम्, तच् च स्थाने ||Bह्GS_११.३६||
SK
==============================
SK
भगवतो हर्षादि-विषयत्वे हेतुं दर्शयति -
SK
कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे | अनन्त देवेश जगन्-निवास त्वम् अक्षरं सद् असत् तत्-परं यत् ||Bह्G_११.३७||
SK
कस्माच् च हेतोस् ते तुभ्यं न नमेरन् नमस्कुर्युर् हे महात्मन् ! गरीयसे गुरुतराय | यतो ब्रह्मणो हिरण्यगर्भस्यापि आदि-कर्ता कारणम् अतस् तस्माद् आदि-कर्त्रे | कथम् एते न नमस्कुर्युः ? अतो हर्षादीनां नमस्कारस्य च स्थानं त्वम् अर्हो विषय इत्य् अर्थः | हे ऽनन्त देवेश हे जगन्-निवास त्वम् अक्षरं तत् परम्, यद् वेदान्तेषु श्रूयते | किं तत् ? सद् असद् इति | सद् विद्यमानम्, असच् च यत्र नास्तीति बुद्धिः | त उपधान-भूते सद्-असती यस्याक्षरस्य, यद्-द्वारेण सद् असद् इत्य् उपचर्यते | परमार्थतस् तु सद्-असतोः परं तत् अक्षरं यद् अक्षरं वेद-विदो वदन्ति [Gईता ८.११] | तत् त्वम् एव, नान्यद् इत्य् अभिप्रायः ||Bह्GS_११.३७||
SK
==============================
SK
पुनर् अपि स्तौति - त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् | वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ||Bह्G_११.३८||
SK
त्वम् आदि-देवो जगतः स्रष्टृत्वात् | पुरुषः, पुरि शयनात् पुराणश् चिरन्तनस् त्वम् एवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयते ऽस्मिन् जगत् सर्वं महा-प्रलयादाव् इति | किं च, वेत्तासि, वेदितासि सर्वस्यैव वेद्य-जातस्य | यच् च वेद्यं वेदनार्हं तच् चासि परं च धाम परमं पदं वैष्णवम् | त्वया ततं व्याप्तं विश्वं समस्तम् | हे ऽनन्त-रूप ! अन्तो न विद्यते तव रूपाणाम् ||Bह्GS_११.३८||
SK
==============================
SK
किं च - वायुर् यमो ऽग्निर् वरुणः शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च | नमो नमस् ते ऽस्तु सहस्र-कृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ||Bह्G_११.३९||
SK
वायुस् त्वं यमश् चाग्निः वरुणो ऽपां पतिः शशाङ्कश् चन्द्रमाः प्रजापतिस् त्वं कश्यपादिः प्रपितामहश् च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणो ऽपि पिता इत्य् अर्थः | नमो नमस् ते तुभ्यम् अस्तु सहस्र-कृत्वः | पुनश् च भूयो ऽपि नमो नमस् ते | बहुशो नमस्कार-क्रियाभ्यासावृत्ति-गणनं कृत्व-सुचोच्यते | पुनश् च भूयो ऽपीति श्रद्धा-भक्त-यति-शयाद् अपरितोषम् आत्मनो दर्शयति ||Bह्GS_११.३९||
SK
==============================
SK
तथा - नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व | अनन्त-वीर्यामित-विक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ||Bह्G_११.४०||
SK
नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्, अथ पृष्ठतस् ते पृष्ठतो ऽपि च ते नमो ऽस्तु ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय | हे सर्व ! अनन्त-वीर्यामित-विक्रमो ऽनन्तं वीर्यम् अस्य, अमितो विक्रमो ऽस्य | वीर्यं सामर्थ्यं विक्रमः पराक्रमः | वीर्यवान् अपि कश्चित् शत्रु-वधादि-विषये न पराक्रमते, मन्द-पराक्रमो वा | त्वं त्व् अनन्त-वीर्यो ऽमित-विक्रमश् चेत्य् अनन्त-वीर्यामित-विक्रमः | सर्वं समस्तं जगत् समाप्नोषि सम्यग् एकेनात्मना व्याप्नोषि यतः, ततस् तस्माद् असि भवसि सर्वस् त्वम् | त्वया विनाभूतं न किंचिद् अस्तीत्य् अभिप्रायः ||Bह्GS_११.४०||
SK
==============================
SK
यतो ऽहं त्वन्-माहात्म्यापरिज्ञानाद् अपराद्धः | अतः -
SK
सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति | अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ||Bह्G_११.४१||
SK
सखा समान-वया इति मत्वा ज्ञात्वा विपरीत-बुद्ध्या प्रसभम् अभिभूय प्रसह्य यद् उक्तं हे कृष्ण हे यादव हे सखेति चाजानताज्ञानिना मूढेन | किम् अजानता ? इत्य् आह - महिमानं माहात्म्यं तवेदम् ईश्वरस्य विश्व-रूपम् | तवेदं महिमानम् अजानतेति वैयधिकरण्येन संबन्धः | तवेमम् इति पाठो यद्य् अस्ति, तदा सामानाधिकरण्यम् एव | मया प्रमादात् विक्षिप्त-चित्ततया, प्रणयेन वापि | प्रणयो नाम स्नेह-निमित्तो विस्रम्भः | तेनापि कारणेन यद् उक्तवान् अस्मि ||Bह्GS_११.४१||
SK
==============================
SK
यच् चावहासार्थम् असत्कृतो ऽसि विहार-शय्यासन-भोजनेषु | एको ऽथ वाप्य् अच्युत तत्-समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ||Bह्G_११.४२||
SK
यच् चावहासार्थं परिहास-प्रयोजनायासत्कृतः परिभूतो ऽसि भवसि | क्व ? विहार-शय्यासन-भोजनेषु | विहरणं विहारः पाद-व्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम्, इत्य् एतेषु विहार-शय्यासन-भोजनेषु, एकः परोक्षः सन्न् असत्कृतो ऽसि परिभूतो ऽसि | अथवापि हे ऽच्युत ! तत् समक्षम्, तच्-छब्दः क्रिया-विशेषणार्थः, प्रत्यक्षं वासत्कृतो ऽसि तत् सर्वम् अपराध-जातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ||Bह्GS_११.४२||
SK
==============================
SK
यतस् त्वम् -
SK
पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरुर् गरीयान् | न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ||Bह्G_११.४३||
SK
पितासि जनयितासि लोकस्य प्राणि-जातस्य चराचरस्य स्थावर-जङ्गमस्य | न केवलं त्वम् अस्य जगतः पिता | पूज्यश् च पूजार्हः, यतो गुरुर् गरीयान् गुरुतरः | कस्माद् गुरुतरस् त्वम् इत्य् आह - न त्वत्-समस् त्वत्-तुल्यो ऽस्ति | न हीश्वर-द्वयं संभवति, अनेके वरत्वे व्यवहारानुपपत्तेः | त्वत्-सम एव तावद् अन्यो न संभवति | कुत एवान्यो ऽभ्यधिकः स्यात् लोक-त्रये ऽपि सर्वस्मिन् ? अप्रतिम-प्रभाव ! प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वम् अप्रतिम-प्रभावो हे ऽप्रतिम-प्रभाव निरतिशय-प्रभाव इत्य् अर्थः ||Bह्GS_११.४३||
SK
==============================
SK
यत एवम् -
SK
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ||Bह्G_११.४४||
SK
तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैर् धृत्वा कायं शरीरम्, प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम्, ईड्यं स्तुत्यम् | त्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते, सर्वं सखेव सख्युर् अपराधम्, यथा वा प्रियः प्रियाया अपराधं क्षमते | एवम् अर्हसि हे देव ! सोढुं प्रसहितुम् क्षन्तुम् इत्य् अर्थः ||Bह्GS_११.४४||
SK
==============================
SK
अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्-निवास ||Bह्G_११.४५||
SK
अदृष्ट-पूर्वं न कदाचिद् अपि दृष्ट-पूर्वम् इदं विश्व-रूपं तव मयान्यैर्वा, तत् अहं दृष्ट्वा हृषितो ऽस्मि | भयेन च प्रव्यथितं मनः मे | अतस् तद् एव मे मम दर्शय हे देव रूपं यत् मत्सखम् | प्रसीद देवेश, जगन्-निवास जगतो निवासो जगन्-निवासः, हे जगन्-निवास ||Bह्GS_११.४५||
SK
==============================
SK
किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव | तेनैव रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ||Bह्G_११.४६||
SK
किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्र-हस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहम्, तथैव पूर्ववद् इत्य् अर्थः | यत एवम्, तस्मात् तेनैव रूपेण वसुदेव-पुत्र-रूपेण चतुर्-भुजेन, सहस्र-बाहो ! वार्तमानिकेन विश्व-रूपेण, भव विश्व-मूर्ते | उपसंहृत्य विश्व-रूपम्, तेनैव रूपेण भवेत्य् अर्थः ||Bह्GS_११.४६||
SK
==============================
SK
अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्व-रूपम्, प्रिय-वचनेन आश्वासयन् श्री-भगवान् उवाच -
SK
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्म-योगात् | तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ||Bह्G_११.४७||
SK
मया प्रसन्नेन, प्रसादो नाम त्वय्य् अनुग्रह-बुद्धिः, तद्वता प्रसन्नेन मया तव | हे ऽर्जुन ! इदं परं रूपं विश्व-रूपं दर्शितम् आत्म-योगाद् आत्मन ऐश्वर्यस्य सामर्थ्यात् | तेजो-मयं तेजः-प्रायं विश्वं समस्तम् अनन्तम् अन्त-रहितं आदौ भवम् आद्यं, यद् रूपं मे मम त्वद्-अन्येन त्वत्तो ऽन्येन केनचिन् न दृष्ट-पूर्वम् ||Bह्GS_११.४७||
SK
==============================
SK
आत्मनो मम रूप-दर्शनेन कृतार्थ एव त्वं संवृत्त इति तत् स्तौति -
SK
न वेद यज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः | एवं-रूपः शक्य अहं नृ-लोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ||Bह्G_११.४८||
SK
न वेद-यज्ञाध्ययनैश् चतुर्णाम् अपि वेदानाम् अध्ययनैर् यथावत् यज्ञाध्ययनैश् च - वेदाध्ययनैर् एव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययन-ग्रहणं यज्ञ-विज्ञानोपलक्षणार्थम् - तथा न दानैस् तुला-पुरुषादिभिः, न च क्रियाभिर् अग्निहोत्रादिभिः श्रौतादिभिः, नापि तपोभिर् उग्रैश् चान्द्रायणादिभिर् उग्रैर् घोरैः, एवं-रूपो यथा-दर्शितं विश्व-रूपं यस्य सो ऽहम् एवं-रूपो न शक्यो ऽहं नृ-लोके मनुष्य-लोके द्रष्टुं त्वद्-अन्येन त्वत्तो ऽन्येन कुर-प्रवीर ||Bह्GS_११.४८||
SK
==============================
SK
मा ते व्यथा मा च विमूढ-भावो दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् | व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ||Bह्G_११.४९||
SK
मा ते व्यथा मा भूत् ते भयम्, मा च विमूढ-भावो विमूढ-चित्तता, दृष्ट्वोपलभ्य रूपं घोरम् ईदृक् यथा-दर्शितं ममेदम् | व्यपेत-भीर् विगत-भयः, प्रीत-मनाश् च सन् पुनर् भूयस् त्वं तद् एव चतुर्-भुजं रूपं शङ्ख-चक्र-गदाधरं तवेष्टं रूपम् इदं प्रपश्य ||Bह्GS_११.४९||
SK
==============================
SK
संजय उवाच - इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः | आश्वासयाम् आस च भीतम् एनं भूत्वा पुनः सौम्य-वपुर् महात्मा ||Bह्G_११.५०||
SK
इत्य् एवम् अर्जुनं वासुदेवस् तथा-भूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः | आश्वासयामास च आश्वासितवान् भीतम् एनम्, भूत्वा पुनः सौम्य-वपुः प्रसन्न-देहो महात्मा ||Bह्GS_११.५०||
SK
==============================
SK
अर्जुन उवाच - दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन | इदानीम् अस्मि संवृत्तः स-चेताः प्रकृतिं गतः ||Bह्G_११.५१||
SK
दृष्ट्वेदं मानुषं रूपं मत्-सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम्, अधुनास्मि संवृत्तः संजातः | किम् ? स-चेताः प्रसन्न-चित्तः प्रकृतिं स्वभावं गतश् चास्मि ||Bह्GS_११.५१||
SK
==============================
SK
श्री-भगवान् उवाच -
SK
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम | देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ||Bह्G_११.५२||
SK
सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्येति सुदुर्दर्शम् | इदं रूपं दृष्टवान् असि यन् मम, देवा अप्य् अस्य मम रूपस्य नित्यं सर्वदा दर्शन-काङ्क्षिणः | दर्शनेप्सवो ऽपि न त्वम् इव दृष्टवन्तः, न द्रक्ष्यन्ति चेत्य् अभिप्रायः ||Bह्GS_११.५२||
SK
==============================
SK
कस्मात् ? -
SK
नाहं वेदैर् न तपसा न दानेन न चेज्यया | शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ||Bह्G_११.५३||
SK
नाहं वेदैः ऋग्-यजुः-सामाथर्व-वेदैश् चतुर्भिर् अपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गो-भू-हिरण्यादिना, न चेज्यया यज्ञेन पूजया वा शक्यः एवं-विधो यथा-दर्शित-प्रकारो द्रष्टुं दृष्टवान् असि मां यथा त्वम् ||Bह्GS_११.५३||
SK
==============================
SK
कथं पुनः शक्य इत्य् उच्यते -
SK
भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||Bह्G_११.५४||
SK
भक्त्या तु किं-विशिष्टया इत्य् आह - अनन्ययापृथग्-भूतया, भगवतो ऽन्यत्र पृथङ् न कदाचिद् अपि या भवति सा त्व् अनन्या भक्तिः | सर्वैर् अपि करणैः वासुदेवाद् अन्यन् न उपलभ्यते यया, सानन्या भक्तिः, तया भक्त्या शक्यो ऽहम् एवं-विधो विश्व-रूप-प्रकारो हे ऽर्जुन, ज्ञातुं शास्त्रतः | न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्-कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप ||Bह्GS_११.५४||
SK
==============================
SK
अधुना सर्वस्य गीता-शास्त्रस्य सार-भूतो ऽर्थो निःश्रेयसार्थो ऽनुष्ठेयत्वेन समुच्चित्योच्यते -
SK
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः | निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ||Bह्G_११.५५||
SK
मत्-कर्म-कृन् मद्-अर्थं कर्म मत्-कर्म, तत् करोतीति मत्-कर्म-कृत् | मत्-परमः - करोति भृत्यः स्वामि-कर्म, न त्व् आत्मनः परमा प्रेत्य गन्तव्या गतिर् इति स्वामिनं प्रतिपद्यते | अयं तु मत्-कर्म-कृन् माम् एव परमां गतिं प्रतिपद्यते इति मत्-परमः, अहं परमः परा गतिर् यस्य सो ऽयं मत्-परमः | तथा मद्-भक्तो माम् एव सर्व-प्रकारैः सर्व-प्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्-भक्तः | सङ्ग-वर्जितो धन-पुत्र-मित्र-कलत्र-बन्धु-वर्गेषु सङ्ग-वर्जितः सङ्गः प्रीतिः स्नेहस् तद्-वर्जितः | निर्वैरो निर्गत-वैरः सर्व-भूतेषु शत्रु-भाव-रहित आत्मनो ऽ त्यन्तापकार-प्रवृत्तेष्व् अपि | य ईदृशो मद्-भक्तः स माम् एति | अहम् एव तस्य परा गतिः, नान्या गतिः काचित् भवति | अयं तवोपदेश इष्टो मया उपदिष्टः | हे पाण्डाव ! इति ||Bह्GS_११.५५||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये एकादशो ऽध्यायः
SK
Bह्G १२
SK
अथ भक्ति-योगो नाम द्वादशो ऽध्यायः
SK
(श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्)
SK
द्वितीयाध्याय-प्रभृतिषु विभूत्य्-अन्तेषु अध्यायेषु परमात्मनो ब्रह्मणो ऽक्षरस्य विध्वस्त-सर्वोपाधि-विशेषस्योपासनम् उक्तम् | सर्व-योगैश्वर्य-सर्व-ज्ञान-शक्तिमत्-सत्त्वोपाधेर् ईश्वरस्य तत्र चोपासनं तत्र तत्रोक्तम् | विश्व-रूपाध्याये त्व् ऐश्वरम् आद्यं समस्त-जगद्-आत्म-रूपं विश्व-रूपं त्वदीयं दर्शितम् उपासनार्थम् एव त्वया | तच् च दर्शयित्वा उक्तवान् असि मत्-कर्म-कृद् [Gईता ११.५५] इत्य् आदि | अतो ऽहम् अनयोर् उभयोः पक्षयोर् विशिष्टतर-बुभुत्सया त्वां पृच्छामीत्य् अर्जुन उवाच -

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source