Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 6

SK
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः | स संन्यासी च योगी च न निरग्निर् न चाक्रियः ||Bह्G_६.१||
SK
अनाश्रितो -- नाश्रितो ऽनाश्रितः | किम् ? कर्म-फलं कर्मणां फलं कर्म-फलं यत् तद्-अनाश्रितः, कर्म-फल-तृष्णा-रहित इत्य् अर्थः | यो हि कर्म-फले तृष्णावान् स कर्म-फलम् आश्रितो भवति | अयं तु तद्-विपरीतः, अतो ऽनाश्रितः कर्म-फलम् | एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्य-विपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति | यः कश्चिद् ईदृशः कर्मी स कर्म्य् अन्तरेभ्यो विशिष्यते | इत्य् एवम् अर्थम् आह - स संन्यासी च योगी चेति | संन्यासः परित्यागः स यस्यास्ति स संन्यासी च योगी च | योगश् चित्त-समाधानं स यस्यास्ति स योगी चेति एवंगुण-संपन्नो ऽयं मन्तव्यः | न केवलं निरग्निर् अक्रिय एव संन्यासी योगी चेति मन्तव्यः | निर्गताः अग्नयः कर्माङ्ग-भूता यस्मात् स निरग्निः | अक्रियश् चानग्नि-साधनाप्य् अविद्यमानाः क्रियास् तपो-दानादिका यस्यासाव् अक्रियः ||Bह्GS_६.१||
SK
==============================
SK
ननु च निरग्नेः अक्रियस्यैव श्रुति-स्मृति-योग-शास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् | कथम् इह साग्नेः स-क्रियस्य च संन्यासित्वं योगित्वं चाप्रसिद्धम् उच्यत इति | नैष दोषः, कयाचिद् गुण-वृत्त्या उभयस्य संपिपादयिषितत्वात् | तत् कथम् ? कर्म-फल-संकल्प-संन्यासात् संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म-फल-संकल्पस्य च चित्त-विक्षेप-हेतोः परित्यागाद् योगित्वं चेति गौणम् उभयम् | न पुनर् मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतम् इत्य् एतम् अर्थं दर्शयितुम् आह -
SK
यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव | न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ||Bह्G_६.२||
SK
यं सर्व-कर्म-तत्-फल-परित्याग-लक्षणं परमार्थ-संन्यासं संन्यासम् इति प्राहुः श्रुति-स्मृति-विदः, योगं कर्मानुष्ठान-लक्षणं तं परमार्थ-संन्यासं विद्धि जानीहि हे पाण्डाव | कर्म-योगस्य प्रवृत्ति-लक्षणस्य तद्-विपरीतेन निवृत्ति-लक्षणेन परमार्थ-संन्यासेन कीदृशं सामान्यम् अङ्गीकृत्य तद्-भाव उच्यते इत्य् अपेक्षायाम् इदम् उच्यते - अस्ति हि परमार्थ-संन्यासेन सादृश्यं कर्तृ-द्वारकं कर्म-योगस्य | यो हि परमार्थ-संन्यासी स त्यक्त-सर्व-कर्म-साधनतया सर्व-कर्म-तत्-फल-विषयं संकल्पं प्रवृत्ति-हेतु-काम-कारणं संन्यस्यति | अयम् अपि कर्म-योगी कर्म कुर्वाण एव फल-विषयं संकल्पं संन्यस्यतीति | एतम् अर्थं दर्शयिष्यन्न् आह - न हि यस्माद् असंन्यस्त-संकल्पो ऽसंन्यस्तो ऽपरित्यक्तः सङ्कल्पो ऽभिसन्धिर् येन सो ऽसंन्यस्त-सङ्कल्पः कश्चन कश्चिद् अपि कर्मी योगी समाधानवान् भवति | न संभवतीत्य् अर्थः | फल-संकल्पस्य चित्त-विक्षेप-हेतुत्वात् | तस्माद् यः कश्चन कर्मी संन्यस्त-फल-संकल्पो भवेत् स योगी समाधानवान् अविक्षिप्त-चित्तो भवेत् | चित्त-विक्षेप-हेतोः फल-संकल्पस्य संन्यस्तत्वाद् इत्य् अभिप्रायः | योगाङ्गत्वेन कर्मानुष्ठानात् कर्म-फल-सङ्कल्पस्य वा चित्त-विक्षेप-हेतोः परित्यागात् योगित्वं चेति संन्यासित्वं चेत्य् अभिप्रेतम् उच्यते |[*NOTE: Tहिस् लस्त् सेन्तेन्चे नोत् fओउन्द् इन् अल्ल् एदितिओन्स्.] ||Bह्GS_६.२||
SK
==============================
SK
एवं परमार्थ-संन्यास-कर्म-योगयोः कर्तृ-द्वारकं संन्यास-सामान्यम् अपेक्ष्य यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डाव [Gईता ६.२] इति कर्म-योगस्य स्तुत्य्-अर्थं संन्यासत्वम् उक्तम् | ध्यान-योगस्य फल-निरपेक्षः कर्म-योगो बहिरङ्गं साधनम् इति तं संन्यासत्वेन स्तुत्वाधुना कर्म-योगस्य ध्यान-योग-साधनत्वं दर्शयति -
SK
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते | योगारूढस्य तस्यैव शमः कारणम् उच्यते ||Bह्G_६.३||
SK
आरुरुक्षोर् आरोढुम् इच्छतः, अनारूढस्य, ध्यान-योगे ऽवस्थातुम् अशक्तस्यैवेत्य् अर्थः | कस्य तस्यारुरुक्षोः ? मुनेः, कर्म-फल-संन्यासिन इत्य् अर्थः | किम् आरुरुक्षोः ? योगम् | कर्म कारणं साधनम् उच्यते | योगारूढस्य पुनस् तस्यैव शमर् उपशमः सर्व-कर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्य् अर्थः | यावद् यावत् कर्मभ्य उपरमते, तावत् तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते | तथा सति स झटिति योगारूढो भवति | तथा चोक्तं व्यासेन -
SK
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च | शीलं स्थितिर् दण्ड-निधानम् आर्जवं ततस् ततश् चोपरमः क्रियाभ्यः || [Mभ् १२.१७५.३७] इति ||Bह्GS_६.३||
SK
==============================
SK
अथेदानीं कदा योगारूढो भवतीत्य् उच्यते -
SK
यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते | सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ||Bह्G_६.४||
SK
यदा समाधीयमान-चित्तो योगी हीन्द्रियार्थेष्व् इन्द्रियाणाम् अर्थाः शब्दादयस् तेष्व् इन्द्रियार्थेषु कर्मसु च नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभाव-बुद्ध्या नानुषज्जते ऽनुषङ्गं कर्तव्यता-बुद्धिं न करोतीत्य् अर्थः | सर्व-संकल्प-संन्यासी सर्वान् संकल्पान् इहामुत्रार्थ-काम-हेतून संन्यसितुं शीलम् अस्येति सर्व-संकल्प-संन्यासी | योगारूढः प्राप्त-योग इत्य् एतत्, तदा तस्मिन् काल उच्यते | सर्व-संकल्प-संन्यासीति वचनात् सर्वांश् च कामान् सर्वाणि च कर्माणि संन्यस्येद् इत्य् अर्थः | संकल्प-मूला हि सर्वे कामाः - संकल्प-मूलः कामो वै यज्ञाः संकल्प-संभवाः [Mअनु २.३]
SK
काम जानामि ते मूलं संकल्पात् त्वं हि जायसे | न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि || [Mअभ् १२.१७७.२५] इत्य् आदि-स्मृतेः |
SK
सर्व-काम-परित्यागे च सर्व-कर्म-संन्यासः सिद्धो भवति | स यथा-कामो भवति तत्-क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते [BAU ४.४.५] इत्य् आदि श्रुतिभ्यः | यद् यद् धि कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् [Mअनु २.४] इत्य् आदि-स्मृतिभ्यश् च | न्यायाच् च - न हि सर्व-संकल्प-संन्यासे कश्चित् स्पन्दितुम् अपि शक्तः | तस्मात् सर्व-संकल्प-संन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ||Bह्GS_६.४||
SK
==============================
SK
यदैवं योगारूढः, तदा तेन आत्मा उद्भृतो भवति संसाराद् अनर्थ-जातात् | अतः -
SK
उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् | आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ||Bह्G_६.५||
SK
उद्धरेत् संसार-सागरे निमग्नम् आत्मनात्मानं तत उत् ऊर्ध्वं हरेद् उद्धरेत्, योगारूढताम् आपादयेद् इत्य् अर्थः | नात्मानम् अवसादयेत् नाधो नयेत, नाधो गमयेत् | आत्मैव हि यस्माद् आत्मनो बन्धुः | न ह्य् अन्यः कश्चित् बन्धुः, यः संसार-मुक्तये भवति | बन्धुर् अपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहादि-बन्धनायतनत्वात् | तस्मात् युक्तम् अवधारणम् आत्मैव ह्य् आत्मनो बन्धुर् इति | आत्मैव रिपुः शत्रुः | यो ऽन्यो ऽपकारी बाह्यः शत्रुः सो ऽपि आत्म-प्रयुक्त एवेति युक्तम् एवावधारणम् आत्मैव रिपुर् आत्मन इति ||Bह्GS_६.५||
SK
==============================
SK
आत्मैव बन्धुर् आत्मैव रिपुर् आत्मन इत्य् उक्तम् | तत्र किं-लक्षण आत्मा आत्मनो बन्धुः, किं-लक्षणो वा आत्मात्मनो रिपुर् इत्य् उच्यते -
SK
बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः | अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||Bह्G_६.६||
SK
बन्धुर् आत्मात्मनस् तस्य, तस्यात्मनः स आत्मा बन्धुर् येनात्मनात्मैव जितः | आत्मा कार्य-करण-संघातो येन वशीकृतः, जितेन्द्रिय इत्य् अर्थः | अनात्मनस् त्व् अजितात्मनस् तु शत्रुत्वे शत्रु-भावे वर्तेत आत्मैव शत्रुवत्, यथानात्मा शत्रुर् आत्मनो ऽपकारी, तथात्मा आत्मनो ऽपकारे वर्तेत इत्य् अर्थः ||Bह्GS_६.६||
SK
==============================
SK
जितात्मनः प्रशान्तस्य परमात्मा समाहितः | शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ||Bह्G_६.७||
SK
जितात्मनः कार्य-करण-संघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तः-करणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षाद्-आत्म-भावेन वर्तते इत्य् अर्थः | किं च शीतोष्ण-सुख-दुःखेषु तथा माने ऽपमाने च मानापमानयोः पूजा-परिभवयोः समः स्यात् ||Bह्GS_६.७||
SK
==============================
SK
ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः | युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ||Bह्G_६.८||
SK
ज्ञान-विज्ञान-तृप्तात्मा ज्ञानं शास्त्रोक्त-पदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभव-करणम्, ताभ्यां ज्ञान-विज्ञानाभ्यां तृप्तः संजातालं-प्रत्ययः आत्मान्तः-करणं यस्य स ज्ञान-विज्ञान-तृप्तात्मा, कूटास्थो ऽप्रकम्प्यः, भवतीत्य् अर्थः | विजितेन्द्रियश् च | य ईदृशः, युक्तः समाहित इति स उच्यते कथ्यते | स योगी सम-लोष्टाश्म-काञ्चनः लोष्टाश्म-काञ्चनानि समानि यस्य सः सम-लोष्टाश्म-काञ्चनः ||Bह्GS_६.८||
SK
==============================
SK
किं च -
SK
सुहृन्-मित्रार्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु | साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ||Bह्G_६.९||
SK
सुहृद् इत्य् आदि लोकार्धम् एकं पदम् | सुहृत् इति प्रत्युपकारम् अनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनो न कस्यचित् पक्षं भजते, मध्य-स्थो यो विरुद्धयोर् उभयोः हितैषी, द्वेष्य आत्मनो ऽप्रियः, बन्धुः संबन्धी इत्य् एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्ध-कारिषु सर्वेष्व् एतेषु सम-बुद्धिः | कः किं-कर्मा इत्य् अव्यापृत-बुद्धिर् इत्य् अर्थः | विशिष्यते, विमुच्यते इति वा पाठान्तरम् | योगारूढानां सर्वेषाम् अयम् उत्तम इत्य् अर्थः ||Bह्GS_६.९||
SK
==============================
SK
अत एवम् उत्तम-फल-प्राप्तये -
SK
योगी युञ्जीत सततम् आत्मानं रहसि स्थितः | एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ||Bह्G_६.१०||
SK
योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदात्मानम् अन्तः-करणं रहसि एकान्ते गिरि-गुहादौ स्थितः सन् एकाकी असहायः | रहसि स्थितः एकाकी चेति विशेषणात् संन्यासं कृत्वा इत्य् अर्थः | यत-चित्तात्मा चित्तम् अन्तः-करणम् आत्मा देहश् च संयतौ यस्य स यत-चित्तात्मा, निराशीर् वीत-तृष्णो ऽपरिग्रहः परिग्रह-रहितश् चेत्य् अर्थः | संन्यासित्वे ऽपि त्यक्त-सर्व-परिग्रहः सन् युञ्जीत इत्य् अर्थः ||Bह्GS_६.१०||
SK
==============================
SK
अथेदानीं योगं युञ्जतः आसनाहार-विहारादीनां योग-साधनत्वेन नियमो वक्तव्यः, प्राप्त-योगस्य लक्षणं तत्-फलादि च, इत्य् अत आरभ्यते | तत्रासनम् एव तावत् प्रथमम् उच्यते -
SK
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः | नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ||Bह्G_६.११||
SK
शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मन आसनं नात्युच्छ्रितं नातीव उच्छ्रितं नाप्य् अतिनीचम्, तच् च चैलाजिन-कुशोत्तरं चैलम् अजिनं कुशाश् चोत्तरे यस्मिन्न् आसने तद् आसनं चैलाजिन-कुशोत्तरम् | पाठ-क्रमाद् विपरीतो ऽत्र क्रमश् चैलादीनाम् ||Bह्GS_६.११||
SK
==============================
SK
प्रतिष्ठाप्य, किम् ?
SK
तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः | उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ||Bह्G_६.१२||
SK
तत्र तस्मिन्न् आसन उपविश्य योगं युञ्ज्यात् | कथम् ? सर्व-विषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियश् चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स यत-चित्तेन्द्रिय-क्रियः | स किम्-अर्थं योगं युञ्ज्याद् इत्य् आह - आत्म-विशुद्धये ऽन्तः-करणस्य विशुद्ध्य्-अर्थम् इत्य् एतत् ||Bह्GS_६.१२||
SK
==============================
SK
बाह्यम् आसनम् उक्तम् | अधुना शरीर-धारणं कथम् इत्य् उच्यते -
SK
समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः | संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ||Bह्G_६.१३||
SK
समं काय-शिरो-ग्रीवं कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं तत् समं धारयन् अचलं च | समं धारयतश् चलनं संभवति | अतो विशिनष्टि - अचलम् इति | स्थिरः स्थिरो भूत्वा इत्य् अर्थः | स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वैवेति | इव-शब्दो लुप्तो द्रष्टव्यः | न हि स्व-नासिकाग्र-संप्रेक्षणम् इह विधित्सितम् | किं तर्हि ? चक्षुषो दृष्टि-संनिपातः | स चान्तः-करण-समाधानापेक्षो विवक्षितः | स्व-नासिकाग्र-संप्रेक्षणम् एव चेद् विवक्षितम्, मनस् तत्रैव समाधीयेत, नात्मनि | आत्मनि हि मनसः समाधानं वक्ष्यति आत्म-संस्थं मनः कृत्वेति | तस्माद् इव-शब्द-लोपेनाक्ष्णोर् दृष्टि-संनिपात एव संप्रेक्ष्य इत्य् उच्यते | दिशश् चानवलोकयन् दिशां चावलोकनम् अन्तरा कुर्वन् इत्य् एतत् ||Bह्GS_६.१३||
SK
==============================
SK
किं च -
SK
प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः | मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ||Bह्G_६.१४||
SK
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मान्तः-करणं यस्य सो ऽयं प्रशान्तात्मा, विगत-भीः विगत-भयः, ब्रह्मचारि-व्रते स्थितः | ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरु-शुश्रूषा-भिक्षान्न-भुक्त्य्-आदि तस्मिन् स्थितः | तद्-अनुष्ठाता भवेद् इत्य् अर्थः | किं च, मनः संयम्य मनसो वृत्तीर् उपसंहृत्य इत्य् एतत्, मच्-चित्तो मयि परमेश्वरे चित्तं यस्य सो ऽयं मच्-चित्तः, युक्तः समाहितः सन्न् आसीत उपविशेत् | मत्-परो ऽहं परो यस्य सो ऽयं मत्-परो भवति | कश्चित् रागी स्त्री-चित्तः, न तु स्त्रियम् एव परत्वेन गृह्णाति | किं तर्हि ? राजानं महा-देवं वा | अयं तु मच्-चित्तो मत्-परश् च ||Bह्GS_६.१४||
SK
==============================
SK
अथेदानीं योग-फलम् उच्यते -
SK
युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः | शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ||Bह्G_६.१५||
SK
युजन् समाधानां कुर्वन्न् एवं यथोक्तेन विधानेन सदात्मनां सर्वदा योगी नियत-मानसो नियतं संयतं मानसं मनो यस्य सो ऽयं नियत-मानसः, शान्तिम् उपरतिं निर्वाण-परमां निर्वाणं मोक्षस् तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाण-परमा तां निर्वाण-परमाम्. मत्-संस्थां मद्-अधीनाम् अधिगच्छति प्राप्नोति ||Bह्GS_६.१५||
SK
==============================
SK
इदानीं योगिनः आहारादि-नियम उच्यते -
SK
नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः | नश् चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ||Bह्G_६.१६||
SK
नात्यश्नत आत्म-संमितम् अन्न-परिमाणम् अतीत्याश्नतो ऽत्यश्नतो न योगो ऽस्ति | न चैकान्तम् अनश्नतो योगो ऽस्ति | यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयो ऽन्नं न तद् अवति [ŚअतपथB ९.२.१.२] इति श्रुतेः | तस्मात् योगी न आत्म-संमिताद् अन्नाद् अधिकं न्यूनं वाश्नीयात् | अथवा, योगिनो योग-शास्त्रे परिपठिताद् अन्न-परिमाणाद् अतिमात्रम् अश्नतो योगो नास्ति | उक्तं हि -
SK
अर्धं स-व्यञ्जनान्नस्य तृतीयम् उदकस्य च | वायोः संचरणार्थं तु चतुर्थम् अवशेषयेत् || इत्य् आदि परिमाणम् |
SK
तथा - न चातिस्वप्न-शीलस्य योगो भवति नैव चातिमात्रं जाग्रतो भवति चार्जुन ||
SK
==============================
SK
कथं पुनर् योगो भवतीत्य् उच्यते -
SK
युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु | युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा ||Bह्G_६.१७||
SK
युक्ताहार-विहारस्य आह्रियत इत्य् आहारो ऽन्नम्, विहरणं विहारः पाद-क्रमः, तौ युक्तौ नियत-परिमाणौ यस्य स युक्ताहार-विहारस् तस्य, तथा युक्त-चेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य | तथा युक्त-स्वप्नावबोधस्य युक्तौ स्वप्नश् चावबोधश् च तौ नियत-कालौ यस्य तस्य, युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु युक्त-स्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्व-संसार-दुःख-क्षय-कृद् योगो भवतीत्य् अर्थः ||Bह्GS_६.१७||
SK
==============================
SK
अथाधुना कदा युक्तो भवति ? इत्य् उच्यते -
SK
यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते | निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ||Bह्G_६.१८||
SK
यदा विनियतं विशेषेण नियतं संयतम् एकाग्रताम् आपन्नं चित्तं हित्वा बाह्यार्थ-चिन्ताम् आत्मन्य् एव केवले ऽवतिष्ठते, स्वात्मनि स्थितिं लभते इत्य् अर्थः | निःस्पृहः सर्व-कामेभ्यो निर्गता दृष्टादृष्ट-विषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्य् उच्यते तदा तस्मिन् काले ||Bह्GS_६.१८||
SK
==============================
SK
तस्य योगिनः समाहितं यत् चित्तं तस्योपमोच्यते -
SK
यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता | योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ||Bह्G_६.१९||
SK
यथा दीपः प्रदीपो निवात-स्थो निवाते वात-वर्जिते देशे स्थितो नेङ्गते न चलति, सोपमा उपमीयते ऽनयेत्य् उपमा योगज्ञैश् चित्त-प्रचार-दर्शिभिः स्मृता चिन्तिता योगिनो यत-चित्तस्य संयतान्तः-करणस्य युञ्जतो योगम् अनुतिष्ठत आत्मनः समाधिम् अनुतिष्ठत इत्य् अर्थः ||Bह्GS_६.१९||
SK
==============================
SK
एवं योगाभ्यास-बलाद् एकाग्रीभूतं निवात-प्रदीप-कल्पं सत् -
SK
यत्रोपरमते चित्तं निरुद्धं योग-सेवया | यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ||Bह्G_६.२०||
SK
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारित-प्रचारं योग-सेवया योगानुष्ठानेन, यत्र चैव यस्मिंश् च काल आत्मना समाधि-परिशुद्धेनान्तः-करणेनात्मानं परं चैतन्यं ज्योतिः-स्वरूपं पश्यन्न् उपलभमानः स्व एवात्मनि तुष्यति तुष्टिं भजते ||Bह्GS_६.२०||
SK
==============================
SK
किं च -
SK
सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ||Bह्G_६.२१||
SK
सुखम् आत्यन्तिकम् अत्यन्तम् एव भवतीत्य् आत्यन्तिकम् अनन्तम् इत्य् अर्थः, यत् तत् बुद्धि-ग्राह्यं बुद्ध्यैव इन्द्रिय-निरपेक्षया गृह्यते इति बुद्धि-ग्राह्यम् अतीन्द्रियम् इन्द्रिय-गोचरातीतम् अविषय-जनितम् इत्य् अर्थः, वेत्ति तद् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले, न चैवायं विद्वान् आत्म-स्वरूपे स्थितस् तस्मान् नैव चलति तत्त्वतस् तत्त्व-स्वरूपान् न प्रच्यवत इत्य् अर्थः ||Bह्GS_६.२१||
SK
==============================
SK
किं च -
SK
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ||Bह्G_६.२२||
SK
यं लब्ध्वा यम् आत्म-लाभं लब्ध्वा प्राप्यश् चापरम् अन्यल् लाभं लाभान्तरं ततो ऽधिकम् अस्तीति न मन्यते न चिन्तयति | किं च, यस्मिन् आत्म-तत्त्वे स्थितो दुःखेन शस्त्र-निपातादि-लक्षणेन गुरुणा महतापि न विचाल्यते ||Bह्GS_६.२२||
SK
==============================
SK
यत्रोपरमते इत्य् आद्यारभ्य यावद्भिर् विशेषणैर् विशिष्ट आत्मावस्था-विशेषो योग उक्तः -
SK
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् | स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ||Bह्G_६.२३||
SK
तं विद्याद् विजानीयाद् दुःख-संयोग-वियोगं दुःखैः संयोगो दुःख-संयोगः, तेन वियोगो दुःख-संयोग-वियोगः, तं दुःख-संयोग-वियोगं योग इत्य् एव संज्ञितं विपरीत-लक्षणेन विद्याद् विजानीयाद् इत्य् अर्थः | योग-फलम् उपसंहृत्य पुनर् अन्वारम्भेण योगस्य कर्तव्यतोच्यते निश्चयानिर्वेदयोर् योग-साधनत्व-विधानार्थम् | स यथोक्त-फलो योगो निश्चयेनाध्यवसायेन योक्तव्यो ऽनिर्विण्ण-चेतसा न निर्विण्णम् अनिर्विण्णम् | किं तत् ? चेतस् तेन निर्वेद-रहितेन चेतसा चित्तेनेत्य् अर्थः ||Bह्GS_६.२३||
SK
==============================
SK
किं च -
SK
संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः | मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ||Bह्G_६.२४||
SK
संकल्प-प्रभवान् संकल्पः प्रभवो येषां कामानां ते संकल्प-प्रभवाः कामास् तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतो निर्लेपेन | किं च, मनसैव विवेक-युक्तेन इन्द्रिय-ग्रामम् इन्द्रिय-समुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ||Bह्GS_६.२४||
SK
==============================
SK
शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया | आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ||Bह्G_६.२५||
SK
शनैः शनैर् न सहसोपरमेद् उपरतिं कुर्यात् | कया ? बुद्ध्या | किं-विशिष्टया ? धृति-गृहीतया धृत्या धैर्येण गृहीतया धृति-गृहीतया धैर्येण युक्तया इत्य् अर्थः | आत्म-संस्थम् आत्मनि संस्थितम् आत्मैव सर्वं न ततो ऽन्यत् किंचिद् अस्तीत्य् एवम् आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् | एष योगस्य परमो विधिः ||Bह्GS_६.२५||
SK
==============================
SK
तत्र एवम् आत्म-संस्थं मनः कर्तुं प्रवृत्तो योगी -
SK
यतो यतो निश्चरति मन चञ्चलम् अस्थिरम् | ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ||Bह्G_६.२६||
SK
यतो यतो यस्माद् यस्मान् निमित्तात् शब्दादेर् निश्चरति निर्गच्छति स्वभाव-दोषान् मनश् चञ्चलम् अत्यर्थं चलम्, अत एवास्थिरम्, ततस् ततस् तस्मात् तस्मात् शब्दादेर् निमित्तान् नियम्य तत्-तन्-निमित्तं याथात्म्य-निरूपणेन शब्दादेः निमित्तान् नियम्य तत्-तन्-नमित्तं याथात्म्य-निरूपणेन आभासीकृत्य वैराग्य-भावनया च एतत् मन आत्मन्य् एव वशं नयेत् आत्म-वश्यताम् आपादयेत् | एवं योगाभ्यास-बलात् योगिन आत्मन्य् एव प्रशाम्यति मनः ||Bह्GS_६.२६||
SK
==============================
SK
प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् | उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ||Bह्G_६.२७||
SK
प्रशान्तमनसं प्रकर्षेण शान्तं मनो यस्य सः प्रशान्तमनास् तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं नितिशयम् उपैति उपगच्छति शान्त-रजसं प्रक्षीण-मोहादि-क्लेश-रजसम् इत्य् अर्थः, ब्रह्म-भूतं जीवन्मुक्तम् ब्रह्मैव सर्वम् इत्य् एवं निश्चयवन्तं ब्रह्म-भूतम् अकल्मषं धर्माधर्मादि-वर्जितम् ||Bह्GS_६.२७||
SK
==============================
SK
युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः | सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ||Bह्G_६.२८||
SK
युञ्जन्न् एवं यथोक्तेन क्रमेण योगी योगान्तराय-वर्जितः सदा सर्वदात्मानं विगत-कल्मषो विगत-पापः, सुखेनानायासेन ब्रह्म-संस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्म-संस्पर्र्शं सुखम् अत्यन्तम् अन्तम् अतीत्य वर्तत इत्य् अत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ||Bह्GS_६.२८||
SK
==============================
SK
इदानीं योगस्य यत् फलं ब्रह्मैकत्व-दर्शनं सर्व-संसार-विच्छेद-कारणं तत् प्रदर्शयते -
SK
सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि | ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ||Bह्G_६.२९||
SK
सर्व-भूत-स्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्व-भूतानि च आत्मनि ब्रह्मादीनि स्तम्ब-पर्यन्तानि च सर्व-भूतानि आत्मन्य् एकतां गतानि ईक्षते पश्यति योग-युक्तात्मा समाहितान्तः-करणः सर्वत्र सम-दर्शनः सर्वेषु ब्रह्मादि-स्थावरान्तेषु विषमेषु सर्व-भूतेषु समं निर्विशेषं ब्रह्मात्मैकत्व-विषयं दर्शनं ज्ञानं यस्य स सर्वत्र सम-दर्शनः ||Bह्GS_६.२९||
SK
==============================
SK
एतस्यात्मैकत्व-दर्शनस्य फलम् उच्यते -
SK
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||Bह्G_६.३०||
SK
यो मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादि-भूत-जातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्व-दर्शिनो ऽहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि | स च मे न प्रणश्यति स च विद्वान् मे मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम चैकात्मकत्वात् | स्वात्मा हि नामात्मनः प्रिय एव भवति | यस्माच् चाहम् एव सर्वात्मैकत्व-दर्शी ||Bह्GS_६.३०||
SK
==============================
SK
इत्य् एतत् पूर्व-लोकार्थं सम्यग् दर्शनम् अनूद्य तत्-फलं मोक्षो ऽभिधीयते -
SK
सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः | सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ||Bह्G_६.३१||
SK
सर्वथा सर्व-प्रकारैः वर्तमानो ऽपि सम्यग्-दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यम् उक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्य् अर्थः ||Bह्GS_६.३१||
SK
==============================
SK
किं चान्यत् -
SK
आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः ||Bह्G_६.३२||
SK
आत्मौपम्येन आत्मा स्वयम् एवोपमीयते ऽनयेत्य् उपमा | तस्या उपमाया भाव औपम्यं तेनात्मौपम्येन, सर्वत्र सर्व-भूतेषु समं तुल्यं पश्यति यो ऽर्जुन, स च किं समं पश्यतीत्य् उच्यते - यथा मम सुखम् इष्टं तथा सर्व-प्राणिनां सुखम् अनुकूलम् | वा-शब्दश् चार्थे | यदि वा यच् च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्व-प्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्य् एवम् आत्मौपम्येन सुख-दुःखे ऽनुकूल-प्रतिकूले तुल्यतया सर्व-भूतेषु समं पश्यति, न कस्यचित् प्रतिकूलम् आचरति, अहिंसक इत्य् अर्थः | यः एवम् अहिंसकः सम्यग् दर्शन-निष्ठः, स योगी परम उत्कृष्टो मतो ऽभिप्रेतः सर्व-योगिनां मध्ये ||Bह्GS_६.३२||
SK
==============================
SK
एतस्य यथोक्तस्य सम्यग्-दर्शन-लक्षणस्य योगस्य दुःख-संपाद्यताम् आलक्ष्य शुश्रुषुर् ध्रुवं तत्-प्राप्त्य्-उपायम् अर्जुन उवाच -
SK
यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन | एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ||Bह्G_६.३३||
SK
यो ऽयं योगस् त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्याहं न पश्यामि नोपलभे, चञ्चलत्वान् मनसः | किम् ? स्थिराम् अचलां स्थितिम् ||Bह्GS_६.३३||
SK
==============================
SK
असिद्धम् तत् -
SK
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ||Bह्G_६.३४||
SK
चञ्चलं हि मनः | कृष्णेति कृषतेर् विलेखनार्थस्य रूपम् | भक्त-जन-पापादि-दोषाकर्षाणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण | हि यस्मात् मनश् चञ्चलं न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशीकरोति | किं च - बलवत् प्रबलम्, न केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् | किं च - दृढं तन्तु-नाग-वद् अच्छेद्यम् | तस्य एवंभूतस्य मनसो ऽहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोर् दुष्करो निग्रहस् ततो ऽपि दुष्करं मन्ये इत्य् अभिप्रायः ||Bह्GS_६.३४||
SK
==============================
SK
श्री-भगवान् उवाच, एवम् एतद् यथा ब्रवीषि -
SK
असंशयं महाबाहो मनो दुर्णिग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येणश् च गृह्यते ||Bह्G_६.३५||
SK
असंशयं नास्ति संशयो मनो दुर्निग्रहं चलम् इत्य् अत्र हे महाबाहो | किंत्व् अभ्यासेन त्व् अभ्यासो नामश् चित्त-भूमौ कस्यांचित् समान-प्रत्ययावृत्तिश् चित्तस्य | वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्ट-भोगेषु दोष-दर्शनाभ्यासाद् वैतृष्ण्यम् | तेन च वैराग्येण गृह्यते विक्षेप-रूपः प्रचारश् चित्तस्य | एवं तन् मनो गृह्यते निगृह्यते निरुध्यत इत्य् अर्थः ||Bह्GS_६.३५||
SK
==============================
SK
यः पुनर् असंयतात्मा, तेन -
SK
असंयतात्मना योगो दुष्प्रापेति मे मतिः | वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ||Bह्G_६.३६||
SK
असंयतात्मनाभ्यास-वैराग्याभ्याम् असंयतः आत्मान्तः-करणं यस्य सो ऽयम् असंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःखेन प्राप्यतेति मे मतिः | यस् तु पुनर् वश्यात्माभ्यास-वैराग्याभ्यां वश्यत्वम् आपादितः आत्मा मनो यस्य सो ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयो ऽपि प्रयत्नं कुर्वता शक्यो ऽवाप्तुं योगर् उपायतो यथोक्ताद् उपायात् ||Bह्GS_६.३६||
SK
==============================
SK
तत्र योगाभ्यासाङ्गीकरणेन इहलोक-परलोक-प्राप्ति-निमित्तानि कर्माणि संन्यस्तानि, योग-सिद्धि-फलं च मोक्ष-साधनं सम्यग् दर्शनं न प्राप्तम् इति, योगी योग-मार्गात् मरण-काले चलित-चित्त इति तस्य नाशम् आशङ्कयार्जुन उवाच -
SK
अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः | अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ||Bह्G_६.३७||
SK
अयतिर् अप्रयत्नवान् योग-मार्गे श्रद्धयास्तिक्य-बुद्ध्या चोपेतो योगाद् अन्त-काले च चलितं मानसं मनो यस्य स चलित-मानसो भ्रष्ट-स्मृतिः सो ऽप्राप्य योग-संसिद्धिं योग-फलं सम्यग्-दर्शनं कां गतिं हे कृष्ण गच्छति ||Bह्GS_६.३७||
SK
==============================
SK
कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति | अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||Bह्G_६.३८||
SK
कश्चित् किं न उभय-विभ्रष्टः कर्म-मार्गात् योग-मार्गाच् च विभ्रष्टः सन् छिन्नाभ्रम् इव नश्यति, किं वा न नश्यत्य् अप्रतिष्ठो निराश्रयो हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे ||Bह्GS_६.३८||
SK
==============================
SK
एतन् मे संशयं कृष्णश् छेत्तुम् अर्हस्य् अशेषतः | त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ||Bह्G_६.३९||
SK
एतन् मे मम संशयं कृष्णश् छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः | त्वद्-अन्यस् त्वत्तो ऽन्यः ऋषिर् देवो वा च्छेत्ता नाशयिता संशयस्यास्य न हि यस्माद् उपपद्यते न संभवति | अतस् त्वम् एव च्छेत्तुम् अर्हसीत्य् अर्थः ||Bह्GS_६.३९||
SK
==============================
SK
श्री-भगवान् उवाच -
SK
पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते | न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ||Bह्G_६.४०||
SK
हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशस् तस्य विद्यते नास्ति | नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति | न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते | पितैव पुत्रेति पुत्रो ऽपि तात उच्यते | शिष्यो ऽपि पुत्र उच्यते | यतो न गच्छति ||Bह्GS_६.४०||
SK
==============================
SK
किं त्व् अस्य भवति ? -
SK
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ||Bह्G_६.४१||
SK
योग-मार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान्, तत्र चोषित्वा वासम् अनुभूय शाश्वतीर् नित्याः समाः संवत्सरान्, तद्-भोग-क्षये शुचीनां यथोक्त-कारिणां श्रीमतां विभूति-मतां गेहे गृहे योग-भ्रष्टः अभिजायते ||Bह्GS_६.४१||
SK
==============================
SK
अथ वा योगिनाम् एव कुले भवति धीमताम् | एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ||Bह्G_६.४२||
SK
अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनाम् एव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् | एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःख-लभ्यतरं पूर्वम् अपेक्ष्य लोके जन्म यद् ईदृशं यथोक्त-विशेषणे कुले ||Bह्GS_६.४२||
SK
==============================
SK
यस्मात् -
SK
तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् | यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||Bह्G_६.४३||
SK
तत्र योगिनां कुले तं बुद्धि-संयोगं बुद्ध्या संयोगं बुद्धि-संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम् | यतते च प्रयत्नं च करोति ततस् तस्मात् पूर्व-कृतात् संस्कारात् भूयो बहुतरं संसिद्धौ संसिद्धि-निमित्तं हे कुरु-नन्दन ||Bह्GS_६.४३||
SK
==============================
SK
कथं पूर्व-देह-बुद्धि-संयोगेति तद् उच्यते -
SK
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः | जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ||Bह्G_६.४४||
SK
यः पूर्व-जन्मनि कृतो ऽभ्यासः स पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्माद् अवशो ऽपि स योग-भ्रष्टः | न कृतं चेद् योगाभ्यासजात् संस्कारात् बलवत्तरम् अधर्मादि-लक्षणं कर्म, तदा योगाभ्यास-जनितेन संस्कारेण ह्रियते | अधर्मश् चेत् बलवत्तरः कृतः, तेन योगजो ऽपि संस्कारो ऽभिभूयत एव, तत्-क्षये तु योगजः संस्कारः स्वयम् एव कार्यम् आरभते, न दीर्घ-कालस्थस्यापि विनाशस् तस्यास्तीत्य् अर्थः | अतो जिज्ञासुर् अपि योगस्य स्वरूपं ज्ञातुम् इच्छन्न् अपि योग-मार्गे प्रवृत्तः संन्यासी योग-भ्रष्टः, सामर्थ्यात् सो ऽपि शब्द-ब्रह्म वेदोक्त-कर्मानुष्ठान-फलम् अतिवर्तते ऽतिक्रामत्य् अपाकरिष्यति | किम् उत बुद्ध्वा यो योगं तन्-निष्ठो ऽभ्यासं कुर्यात् ||Bह्GS_६.४४||
SK
==============================
SK
कुतश् च योगित्वं श्रेय इति -
SK
प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः | अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ||Bह्G_६.४५||
SK
प्रयत्नाद् यतमानः, अधिकं यतमान इत्य् अर्थः | तत्र योगी विद्वान् संशुद्ध-किल्बिषो विशुद्ध-किल्बिषः संशुद्ध-पापो ऽनेक-जन्म-संसिद्धिर् अनेकेषु जन्मसु किंचित् किंचित् संस्कार-जातम् उपचित्य तेन उपचितेनानेक-जन्म-कृतेन संसिद्धो ऽनेक-जन्म-संसिद्धस् ततः लब्ध-सम्यग्-दर्शनः सन् याति परां प्रकृष्टं गतिम् ||Bह्GS_६.४५||
SK
==============================
SK
यस्माद् एवं तस्मात् -
SK
तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः | कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ||Bह्G_६.४६||
SK
तपस्विभ्यो ऽधिको योगी, ज्ञानिभ्यो ऽपि ज्ञानम् अत्र शास्त्रार्थ-पाण्डित्यम्, तद्वद्भ्यो ऽपि मतो ज्ञातो ऽधिकः श्रेष्ठ इति | कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यो ऽधिको योगी विशिष्टो यस्मात् तस्माद् योगी भवार्जुन ||Bह्GS_६.४६||
SK
==============================
SK
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना | श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ||Bह्G_६.४७||
SK
योगिनाम् अपि सर्वेषां रूद्रादित्यादि-ध्यान-पराणां मध्ये मद्-गतेन मयि वासुदेवे समाहितेनान्तरात्मनान्तः-करणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमो ऽतिशयेन युक्तो मतो ऽभिप्रेत इति ||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृत श्रीमद्-भगवद्-गीता-भाष्ये षष्टो ऽध्यायः
SK
Bह्G ७
SK
अथ ज्ञान-विज्ञान-योगाख्यः सप्तमो ऽध्यायः
SK
(शङ्कर-भाष्यः)
SK
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना | श्रद्धावान्भजते यो मां स मे युक्ततमो मतः [Gईता ६.४७]
SK
इति प्रश्न-बीजम् उपन्यस्य, स्वयम् एव ईदृशं मदीयं तत्त्वम्, एवं मद्-गतान्तर्-आत्मा स्याद् इत्य् एतत् विवक्षुः श्री-भगवान् उवाच -

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source