Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 17

SK
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः | तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ||Bह्G_१७.१||
SK
ये केचिद् अविशेषिताः शास्त्र-विधिं शास्त्र-विधानं श्रुति-स्मृति-शास्त्र-चोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धयान्विताः श्रद्धयास्तिक्य-बुद्ध्यान्विताः संयुक्ताः सन्तः | श्रुति-लक्षणं स्मृति-लक्षणं वा कंचित् शास्त्र-विधिम् अपश्यन्तो वृद्ध-व्यवहार-दर्शनाद् एव श्रद्दधानतया ये देवादीन् पूजयन्ति | ते इह ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विता इत्य् एवं गृह्यन्ते | ये पुनः कंचित् शास्त्र-विधिं उपलभमानैव तम् उत्सृज्यायथा-विधि देवादीन् पूजयन्ति | त इह ये शास्त्र-विधिम् उत्सृज्य यजन्त इति न परिगृह्यन्ते | कस्मात् ? श्रद्धयान्वितत्व-विशेषणात् | देवादि-पूजा-विधि-परं किंचित् शास्त्रं पश्यन्त एव तद् उत्सृज्याश्रद्दधानतया तद्-विहितायां देवादि-पूजायां श्रद्धयान्विताः प्रवर्तन्त इति न शक्यं कल्पयितुं यस्मात्, तस्मात् पूर्वोक्तैव ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विता इत्य् अत्र गृह्यन्ते | तेषाम् एवं-भूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः, किं सत्त्वं निष्ठावस्थानम्, आहो स्वित् रजः, अथवा तम इति | एतद् उक्तं भवति - या तेषां देवादि-विषया पूजा, सा किं सात्त्विकी, आहो स्वित् राजसी, उत तामसीति ||Bह्GS_१७.१||
SK
==============================
SK
सामान्य-विषयो ऽयं प्रश्नो नाप्रविभज्र्य प्रतिवचनम् अर्हतीति श्रीभगवानुवाच -
SK
त्रि-विधा भवति श्रद्धा देहिनां सा स्वभाव-जा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||Bह्G_१७.२||
SK
त्रि-विधा त्रि-प्रकारा भवति श्रद्धा | यस्यां निष्ठायां त्वं पृच्छसि | देहिनां शरीरिणां सा स्वभाव-जा | जन्मान्तर-कृतो धर्मादि-संस्कारो मरण-काले ऽभिव्यक्तः स्वभाव उच्यते, ततो जाता स्वभाव-जा | सात्त्विकी सत्त्व-निर्वृत्ता देव-पूजादि-विषया | राजसी रजो-निर्वृत्ता यक्ष-रक्षः-पूजादि-विषया | तामसी तमो-निर्वृत्ता प्रेत-पिशाचादि-पूजा-विषया | एवं त्रि-विधां ताम् उच्यमानां श्रद्धां शृण्व् अवधारय ||Bह्GS_१७.२||
SK
==============================
SK
सा इयं त्रिविधा भवति -
SK
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ||Bह्G_१७.३||
SK
सत्त्वानुरूपा विशिष्ट-संस्कारोपेतान्तः-करणानुरूपा सर्वस्य प्राणि-जातस्य श्रद्धा भवति भारत | यद्य् एवं ततः किं स्यात् ? इत्य् उच्यते - श्रद्धा-मयो ऽयं श्रद्धा-प्रायः पुरुषः संसारी जीवः | कथम् ? यो यच्-छ्रद्धो या श्रद्धा यस्य जीवस्य स यच्-छ्रद्धः स एव तच्-छ्रद्धानुरूप एव स जीवः ||Bह्GS_१७.३||
SK
==============================
SK
ततश् च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठानुमेया इत्य् आह -
SK
यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः | प्रेतान् भूत-गणांश् चान्ये यजन्ते तामसा जनाः ||Bह्G_१७.४||
SK
यजन्ते पूजयन्ति सात्त्विकाः सत्त्व-निष्ठा देवान्, यक्ष-रक्षांसि राजसाः, प्रेतान् भूत-गणांश् च सप्त-मातृकादींश् चान्ये यजन्ते तामसाः जनाः ||Bह्GS_१७.४||
SK
==============================
SK
एवं कार्यतो निर्णीताः सत्त्वादि-निष्ठाः शास्त्र-विध्य्-उत्सर्गे | तत्र कश्चिद् एव सहस्रेषु देव-पूजादि-परः सत्त्व-निष्ठो भवति, बाहुल्येन तु रजो-निष्ठास् तमो-निष्ठाश् चैव प्राणिनो भवन्ति | कथम् ? -
SK
अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः | दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः ||Bह्G_१७.५||
SK
अशास्त्र-विहितं न शास्त्र-विहितम् अशास्त्र-विहितं घोरं पीडा-करं प्राणिनाम् आत्मनश् च तपस् तप्यन्ते निर्वर्तयन्ति ये जनास् ते च दम्भाहंकार-संयुक्ताः | दम्भश् चाहंकारश् च दम्भाहंकारौ, ताभ्यां संयुक्ताः दम्भाहंकार-संयुक्ताः, काम-राग-बलान्विताः कामश् च रागश् च काम-रागौ तत्-कृतं बलं काम-राग-बलं तेनान्विताः काम-राग-बलान्विताः ||Bह्GS_१७.५||
SK
==============================
SK
कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः | मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ||Bह्G_१७.६||
SK
कर्शयन्तः कृशी-कुर्वन्तः शरीर-स्थं भूत-ग्रामं करण-समुदायम् अचेतसो ऽविवेकिनः मां चैव तत्-कर्म-बुद्धि-साक्षि-भूतम् अन्तः-शरीर-स्थं नारायणं कर्शयन्तः, मद्-अनुशासनाकरणम् एव मत्-कर्शनम् | तान् विद्ध्य् आसुर-निश्चयान् आसुरो निश्चयो येषां ते आसुर-निश्चयास् तान् परिहरणार्थं विद्धीति उपदेशः ||Bह्GS_१७.६||
SK
==============================
SK
आहाराणां च रस्य-स्निग्धादि-वर्ग-त्रय-रूपेण भिन्नानां यथा-क्रमं सात्त्विक-राजस-तामस-पुरुष-प्रियत्व-दर्शनम् इह क्रियते रस्य-स्निग्धादिषु आहार-विशेषेष्व् आत्मनः प्रीत्य्-अतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्-तमो-लिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्व-लिङ्गानां चोपादानार्थम् | तथा यज्ञादीनाम् अपि सत्त्वादि-गुण-भेदेन त्रि-विधत्व-प्रतिपादनम् इह राजस-तामसान् बुद्ध्वा कथं नु नाम परित्यजेत्, सात्त्विकान् एवानुतिष्ठेद् इत्य् एवम् अर्थम् आह -
SK
आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः | यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ||Bह्G_१७.७||
SK
आहारस् त्व् अपि सर्वस्य भोक्तुः प्राणिनस् त्रि-विधो भवति प्रियः इष्टः | तथा यज्ञस् तथा तपस् तथा दानम् | तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं सृणु ||Bह्GS_१७.७||
SK
==============================
SK
आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ||Bह्G_१७.८||
SK
आयुश् च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश् च आयुः-सत्त्व-बलारोग्य-सुख-प्रीतयस् तासां विवर्धनाः आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः | ते च रस्या रसोपेताः, स्निग्धाः स्नेहवन्तः, स्थिराश् चिर-काल-स्थायिनो देहे, हृद्याः हृदय-प्रियाः, आहाराः सात्त्विक-प्रियाः सात्त्विकस्येष्टाः ||Bह्GS_१७.८||
SK
==============================
SK
कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः | आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ||Bह्G_१७.९||
SK
==============================
SK
यात-यामं गत-रसं पूति पर्युषितं च यत् | उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ||Bह्G_१७.१०||
SK
यात-यामं मन्द-पक्वम्, निर्वीर्यस्य गत-रस-शब्देनोक्तत्वात् | गत-रसं रस-वियुक्तम्, पूति दुर्गन्धि, पर्युषितं च पक्वं सद् रात्र्य्-अन्तरितं च यत्, उच्छिष्टम् अपि भुक्त-शिष्टम् उच्छिष्टम्, अमेध्यम् अयज्ञार्हं भोजनम् ईदृशं तामस-प्रियम् ||Bह्GS_१७.१०||
SK
==============================
SK
अथेदानीं यज्ञस् त्रिविध उच्यते -
SK
अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते | यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ||Bह्G_१७.११||
SK
अफलाकाङ्क्षिभिर् अफलार्थिभिर् यज्ञो विधि-दृष्टः शास्त्र-चोदनादृष्टौ यो यज्ञ इज्यते निर्वर्त्यते, यष्टव्यम् एवेति यज्ञ-स्वरूप-निर्वर्तनम् एव कार्यम् इति मनः समाधाय, नानेन पुरुषार्थो मम कर्तव्य इत्य् एवं निश्चित्य, स सात्त्विको यज्ञ उच्यते ||Bह्GS_१७.११||
SK
==============================
SK
अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् | इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ||Bह्G_१७.१२||
SK
अभिसन्धाय तु उद्दिश्य फलं दम्भार्थम् अपि चैव यद् इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ||Bह्GS_१७.१२||
SK
==============================
SK
विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् | श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ||Bह्G_१७.१३||
SK
विधि-हीनं यथा-चोदित-विपरीतम्, असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम्, अन्नं यस्मिन् यज्ञे सो ऽसृष्टान्नस् तम् असृष्टान्नम् | मन्त्र-हीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्र-हीनम्, अदक्षिणम् उक्त-दक्षिणा-रहितम्, श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते तमो-निर्वृत्तं कथयन्ति ||Bह्GS_१७.१३||
SK
==============================
SK
अथ इदानीं तपस् त्रि-विधम् उच्यते -
SK
देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् | ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ||Bह्G_१७.१४||
SK
देवा च द्विजा च गुरवश् च प्राज्ञाश् च देव-द्विज-गुरु-प्राज्ञास् तेषां पूजनं देव-द्विज-गुरु-प्राज्ञ-पूजनम् | शौचम् | आर्जवम् ऋजुत्वम् | ब्रह्मचर्यम् अहिंसा च शरीर-निर्वर्त्यं शारीरं शरीर-प्रधानैः सर्वैर् एव कार्य-करणैः कर्त्रादिभिः साध्यं शारीरं तप उच्यते | पञ्चैते तस्य हेतवः [Gईता १८.१५] इति हि वक्ष्यति ||Bह्GS_१७.१४||
SK
==============================
SK
अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ||Bह्G_१७.१५||
SK
अनुद्वेग-करं प्राणिनाम् अदुःख-करं वाक्यं सत्यं प्रिय-हितं च यत् प्रिय-हिते दृष्टादृष्टार्थे | अनुद्वेग-करत्वादिभिर् धर्मैर् वाक्यं विशेष्यते | विशेषण-धर्म-समुचयार्थश् च-शब्दः | पर-प्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्य-प्रिय-हितानुद्वेग-करत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा हीनता स्याद् यदि, न तद् वाङ्-मयं तपः | तथा सत्य-वाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनतायां न वाङ्-मय-तपस्त्वम् | तथा प्रिय-वाक्यस्यापीतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनस्य न वाङ्-मय-तपस्त्वम् | तथा हित-वाक्यस्यापीतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनस्य न वाङ्-मय-तपस्त्वम् | किं पुनस् तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेग-करं प्रियं हितं च, तत् तपो वाङ्-मयम् | यथा शान्तो भव वत्स, स्वाध्यायं योगं चानुतिष्ठ, तथा ते श्रेयो भविष्यतीति | स्वाध्यायाभ्यसनं चैव यथा-विधि वाङ्-मयं तप उच्यते ||Bह्GS_१७.१५||
SK
==============================
SK
मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः | भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ||Bह्G_१७.१६||
SK
मनः-प्रसादः मनसः प्रशान्तिः स्वच्छतापादनं प्रसादः | सौम्यत्वं यत् सौमनस्यम् आहुः | मुखादि-प्रसादादि-कार्योन्नेयान्तः-करणस्य वृत्तिः | मौनं वाङ्-नियमो ऽपि मनः-संयम-पूर्वको भवतीति कार्येण कारणम् उच्यते मनः-संयमो मौनम् इति | आत्म-विनिग्रहो मनो-निरोधः सर्वतः सामान्य-रूप आत्म-विनिग्रहः | वाग्-विषयस्यैव मनसः संयमः मौनम् इति विशेषः | भाव-संशुद्धिः परैः व्यवहार-काले ऽमायावित्वं भाव-संशुद्धिः | इत्य् एतत् तपो मानसम् उच्यते ||Bह्GS_१७.१६||
SK
==============================
SK
यथोक्तं कायिकं वाचिकं मानसं च तपस् तप्तं नरैः सत्त्वादि-गुण-भेदेन कथं त्रि-विधं भवतीति, उच्यते -
SK
श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः | अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ||Bह्G_१७.१७||
SK
श्रद्धया आस्तिक्य-बुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपस् तत् प्रकृतं त्रि-विधं त्रि-प्रकारं त्र्य्-अधिष्ठानं नरैर् अनुष्ठातृभिर् अफलाकाङ्क्षिभिः फलाकाङ्क्षा-रहितैर् युक्तैः समाहितैर् यद् ईदृशं तपः, तत् सात्त्विकं सत्त्व-निर्वृत्तं परिचक्षते कथयन्ति शिष्टाः ||Bह्GS_१७.१७||
SK
==============================
SK
सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् | क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ||Bह्G_१७.१८||
SK
सत्कारः साधु-कारः साधु अयं तपस्वी ब्राह्मण इत्य् एवम् अर्थम् | मानो माननं प्रत्युत्थानाभिवादनादिस् तद्-अर्थम् | पूजा पाद-प्रक्षालनार्चनाशयितृत्वादिस् तद्-अर्थं च तपः सत्कार-मान-पूजार्थम् | दम्भेन चैव यत् क्रियते तपस् तद् इह प्रोक्तं कथितं राजसं चलं कादाचित्क-फलत्वेन अध्रुवम् ||Bह्GS_१७.१८||
SK
==============================
SK
मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः | परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ||Bह्G_१७.१९||
SK
मूढ-ग्राहेण अविवेक-निश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तप उदाहृतम् ||Bह्GS_१७.१९||
SK
==============================
SK
इदानीं दान-त्रैविध्यम् उच्यते -
SK
दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे | देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ||Bह्G_१७.२०||
SK
दातव्यम् इति एवं मनः कृत्वा यद् दानं दीयते ऽनुपकारिणे प्रत्युपकारासमर्थाय, समर्थायापि निरपेक्षं दीयते | देशे पुण्ये कुरुक्षेत्रादौ | काले संक्रान्त्य्-आदौ | पात्रे च षड्-अङ्ग-विद् वेद-पारग इत्य् आदौ | तद् दानं सात्त्विकं स्मृतम् ||Bह्GS_१७.२०||
SK
==============================
SK
यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः | दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ||Bह्G_१७.२१||
SK
यत् तु दानं प्रत्युपकारार्थं काले त्व् अयं मां प्रत्युपकरिष्यतीत्य् एवम् अर्थम्, फलं वास्य दानस्य मे भविष्यत्य् अदृष्टम् इति | तद् उद्दिश्य पुनर् दीयते च परिक्लिष्टं खेद-संयुक्तम्, तद् दानं राजसं स्मृतम् ||Bह्GS_१७.२१||
SK
==============================
SK
अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते | असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ||Bह्G_१७.२२||
SK
अदेश-काले ऽदेशे ऽपुण्ये देशे म्लेच्छाशुच्य्-आदि-संकीर्णे | अकाले पुण्य-हेतुत्वेनाप्रख्याते संक्रान्त्य्-आदि-विशेष-रहिते ऽपात्रेभ्यश् च मूर्ख-तस्करादिभ्यः | देशादि-संपत्तौ वा असत्कृतं प्रिय-वचन-पाद-प्रक्षालन-पूजादि-रहितम् अवज्ञातं पात्र-परिभव-युक्तं च यद् दानम्, तत् तामसम् उदाहृतम् ||Bह्GS_१७.२२||
SK
==============================
SK
यज्ञ-दान-तपः-प्रभृतीनां साद्गुण्य-करणायायम् उपदेश उच्यते -
SK
ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः | ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ||Bह्G_१७.२३||
SK
ॐ तत् सद् इति एवं निर्देशः, निर्दिश्यते ऽनेनेति निर्देशः | त्रिविधो नाम निर्देशो ब्रह्मणः स्मृतश् चिन्तितो वेदान्तेषु ब्रह्म-विद्भिः | ब्राह्मणास् तेन निर्देशेन त्रिविधेन वेदाश् च यज्ञाश् च विहिताः निर्मिताः पुरा पूर्वम् इति निर्देश-स्तुत्य्-अर्थम् उच्यते ||Bह्GS_१७.२३||
SK
==============================
SK
तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः | प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ||Bह्G_१७.२४||
SK
तस्मात् ओम् इत्य् उदाहृत्य उच्चार्य यज्ञ-दान-तपः-क्रिया यज्ञादि-स्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्र-चोदिताः सततं सर्वदा ब्रह्म-वादिनां ब्रह्म-वदन-शीलानाम् ||Bह्GS_१७.२४||
SK
==============================
SK
तद् इत्य् अनभिसंधाय फलं यज्ञ-तपः-क्रियाः | दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ||Bह्G_१७.२५||
SK
तद् इत्य् अनभिसंधाय | तद् इति ब्रह्माभिधानम् उच्चार्यानभिसंधायश् च यज्ञादि-कर्मणः फलं यज्ञ-तपः-क्रिया यज्ञ-क्रियाश् च तपः-क्रियाश् च यज्ञ-तपः-क्रिया दान-क्रियाश् च विविधाः क्षेत्र-हिरण्य-प्रदानादि-लक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्ष-काङ्क्षिभिर् मोक्षार्थिभिर् मुमुक्षुभिः ||Bह्GS_१७.२५||
SK
==============================
SK
ॐ-तच्-छब्दयोर् विनियोग उक्तः | अथेदानीं सच्-छब्दस्य विनियोगः कथ्यते -
SK
सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ||Bह्G_१७.२६||
SK
सद्-भावे | असतः सद्-भावे यथा-विद्यमानस्य पुत्रस्य जन्मनि | तथा साधु-भावे चासद्-वृत्तस्यासाधोः सद्-वृत्तता साधु-भावस् तस्मिन् साधु-भावे च | सद् इत्य् एतद् अभिधानं ब्रह्मणः प्रयुज्यते ऽभिधीयते | प्रशस्ते कर्मणि विवाहादौ च तथा सच्-छब्दः पार्थ युज्यते प्रयुज्यत इत्य् एतत् ||Bह्GS_१७.२६||
SK
==============================
SK
यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते | कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ||Bह्G_१७.२७||
SK
यज्ञे यज्ञ-कर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सद् इति चोच्यते विद्वद्भिः | कर्म चैव तद्-अर्थीयं यज्ञ-दान-तपो ऽर्थीयम् | अथवा, यस्याभिधान-त्रयं प्रकृतं तद्-अर्थीयं यज्ञ-दान-तपो ऽर्थीयम् ईश्वरार्थीयम् इत्य् एतत् | सद् इत्य् एवाभिधीयते | तद् एतद् यज्ञ-दान-तप-आदि-कर्मासात्त्विकं विगुणम् अपि श्रद्धा-पूर्वकं ब्रह्मणो ऽभिधान-त्रय-प्रयोगेण स-गुणं सात्त्विकं संपादितं भवति ||Bह्GS_१७.२७||
SK
==============================
SK
तत्र च सर्वत्र श्रद्धा-प्रधानतया सर्वं संपाद्यते यस्मात्, तस्मात् -
SK
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् | असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ||Bह्G_१७.२८||
SK
अश्रद्धया हुतं हवनं कृतम् | अश्रद्धया दत्तं ब्राह्मणेभ्यः | अश्रद्धया तपस् तप्तम् अनुष्ठितम् | तथाश्रद्धयैव कृतं यत् स्तुति-नमस्कारादि, तत् सर्वम् असद् इत्य् उच्यते मत्-प्राप्ति-साधन-मार्ग-बाह्यत्वात् पार्थ | न च तद् बहुलायासम् अपि प्रेत्य फलाय नो अपीहार्थम्, साधुभिर् निन्दितत्वाद् इति ||Bह्GS_१७.२८||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये सप्तदशो ऽध्यायः |
SK
[*NOTE: Bह्G १८ नोत् इन्च्लुदेद्!]

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source