Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 7

SK
मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः | असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ||Bह्G_७.१||
SK
मयि वक्ष्यमाण-विशेषणे परमेश्वरे आसक्तं मनो यस्य सः मय्य् आसक्त-मनाः, हे पार्थ ! योगं युञ्जन् मनः-समाधानं कुर्वन्, मद्-आश्रयो ऽहम् एव परमेश्वरः आश्रयो यस्य सः मद्-आश्रयः | यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्-साधनं कर्माग्निहोत्रादि तपो दानं वा किंचिद् आश्रयं प्रतिपद्यते, अयं तु योगी माम् एवाश्रयं प्रतिपद्यते, हित्वान्यत् साधनान्तरं मय्य् एव आसक्त-मना भवति | यस् त्वं एवं-भूतः सन् असंशयं समग्रं समस्तं विभूति-बल-शक्त्य्-ऐश्वर्यादि-गुण-संपन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयम् अन्तरेणैवम् एव भगवान् इति, तत् सृणु उच्यमानं मया ||Bह्GS_७.१||
SK
==============================
SK
तच् च मद्-विषयम् -
SK
ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः | यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ||Bह्G_७.२||
SK
ज्ञानं ते तुभ्यम् अहं स-विज्ञानं विज्ञान-सहितं स्वानुभव-युक्तम् इदं वक्ष्यामि कथयिष्याम्य् अशेषतः कार्त्स्न्येन | तज् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय - यज् ज्ञात्वा यज् ज्ञानं ज्ञात्वा नेह भूयः पुनर् अन्यत् ज्ञातव्यं पुरुषार्थ-साधनम् अवशिष्यते नावशिष्टं भवति | इति मत्-तत्त्व-ज्ञो यः, स सर्वज्ञो भवतीत्य् अर्थः | अतो विशिष्ट-फलत्वात् दुर्लभं ज्ञानम् ||Bह्GS_७.२||
SK
==============================
SK
कथम् इत्य् उच्यते -
SK
मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये | यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ||Bह्G_७.३||
SK
मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोति सिद्धये सिद्ध्य्-अर्थम् | तेषां यतताम् अपि सिद्धानाम्, सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चिद् एव हि मां वेत्ति तत्त्वतो यथावत् ||Bह्GS_७.३||
SK
==============================
SK
श्रोतारं प्ररोचनेनाभिमुखीकृत्याह -
SK
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च | अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ||Bह्G_७.४||
SK
भूमिः पृथिवी-तन्मात्रम् उच्यते, न स्थूला | भिन्ना प्रकृतिर् अष्टधा इति वचनात् | तथाब्-आदयो ऽपि तन्मात्राण्य् एव उच्यन्ते - आपो ऽनलो वायुः खम् | मन इति मनसः कारणम् अहंकारो गृह्यते | बुद्धिर् इत्य् अहंकार-कारणं महत्-तत्त्वम् | अहंकार इत्य् अविद्या-संयुक्तम् अव्यक्तम् | यथा विष-संयुक्तम् अन्नं विषम् इत्य् उच्यते, एवम् अहंकार-वासनावद् अव्यक्तं मूल-कारणम् अहंकार इत्य् उच्यते, प्रवर्तकत्वात् अहंकारस्य | अहंकार एव हि सर्वस्य प्रवृत्ति-बीजं दृष्टं लोके | इतीयं यथोक्ता प्रकृतिर् मे ममैश्वरी माया-शक्तिर् अष्टधा भिन्ना भेदम् आगता ||Bह्GS_७.४||
SK
==============================
SK
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् | जीव-भूतां महाबाहो ययेदं धार्यते जगत् ||Bह्G_७.५||
SK
अपरा न परा निकृष्टाशुद्धानर्थ-करी संसार-बन्धनात्मिकेयम् | इतो ऽस्याः यथोक्तायास् त्व् अन्यां विशुद्धां प्रकृतिं ममात्म-भूतां विद्धि मे परां प्रकृष्टं जीव-भूतां क्षेत्रज्ञ-लक्षणां प्राण-धारण-निमित्त-भूतां हे महाबाहो, यया प्रकृत्येदं धार्यते जगद् अन्तः-प्रविष्टया ||Bह्GS_७.५||
SK
==============================
SK
एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ||Bह्G_७.६||
SK
एतद्-योनीनि एते परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे प्रकृती योनिर् येषां भूतानां तानि एतद्-योनीनि, भूतानि सर्वाणीति एवम् उपधारय जानीहि | यस्मात् मम प्रकृति योनिः कारणं सर्व-भूतानाम्, अतो ऽहं कृत्स्नस्य समस्तस्य जगतः प्रभव उत्पत्तिः प्रलयो विनाशस् तथा | प्रकृति-द्वय-द्वारेणाहं सर्वज्ञ ईश्वरो जगतः कारणम् इत्य् अर्थः ||Bह्GS_७.६||
SK
==============================
SK
यतस् तस्मात् -
SK
मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय | मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ||Bह्G_७.७||
SK
मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किंचित् नास्ति न विद्यते, अहम् एव जगत्-कारणम् इत्य् अर्थः, हे धनंजय | यस्माद् एवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वम् इदं जगत् प्रोतम् अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितम् इत्य् अर्थः | दीर्घ-तन्तुषु पटवत्, सूत्रे च मणि-गणा इव ||Bह्GS_७.७||
SK
==============================
SK
केन केन धर्मेण विशिष्टो त्वयि सर्वम् इदं प्रोतम् इत्य् उच्यते -
SK
रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः | प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ||Bह्G_७.८||
SK
रसो ऽहम्, अपां यः सारं स रसः, तस्मिन् रस-भूते मयि आपः प्रोता इत्य् अर्थः | एवं सर्वत्र | यथाहम् अप्सु रसः, एवं प्रभास्मि शशि-सूर्ययोः | प्रणव ॐकारः सर्व-वेदेषु, तस्मिन् प्रणव-भूते मयि सर्वे वेदाः प्रोताः | तथा खे आकाशे शब्दः सार-भूतः, तस्मिन् मयि खं प्रोतम् | तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुं-बुद्धिर् नृषु, तस्मिन् मयि पुरुषाः प्रोताः ||Bह्GS_७.८||
SK
==============================
SK
गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ | जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ||Bह्G_७.९||
SK
पुण्यः सुरभिर् गन्धः पृथिव्यां चाहम् | तस्मिन् मयि गन्ध-भूते पृथिवी प्रोता | पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम् अब्-आदिषु रसादेः पुण्यत्वोपलक्षणार्थम् | अपुण्यत्वं तु गन्धादीनाम् अविद्या-धर्माद्य्-अपेक्षं संसारिणां भूत-विशेष-संसर्ग-निमित्तं भवति | तेजश् च दीप्तिश् चास्मि विभावसौ अग्नौ | तथा जीवनं सर्व-भूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम् | तपश् चास्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः ||Bह्GS_७.९||
SK
==============================
SK
बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् | बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ||Bह्G_७.१०||
SK
बीजं प्ररोह-कारणं मां विद्धि सर्व-भूतानां हे पार्थ सनातनं चिरन्तनम् | किं च, बुद्धिर् विवेक-शक्तिर् अन्तः-करणस्य बुद्धिमतां विवेक-शक्तिमताम् अस्मि | तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम् ||Bह्GS_७.१०||
SK
==============================
SK
बलं बलवतां चाहं काम-राग-विवर्जितम् | धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ||Bह्G_७.११||
SK
बलं सामर्थ्यम् ओजो बलवताम् अहम् | तच् च बलं काम-राग-विवर्जितम् | कामश् च रागश् च काम-रागौ | कामस् तृष्णा-संनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु - ताभ्यां काम-रागाभ्यां विवर्जितं देहादि-धारण-मात्रार्थं बलं सत्त्वम् अहम् अस्मि | न तु यत् संसारिणां तृष्णा-राग-कारणम् | किं च - धर्माविरुद्धः | धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देह-धारण-मात्राद्य्-अर्थो ऽशन-पानादि-विषयः, स कामो ऽस्मि | हे भरतर्षभ ||Bह्GS_७.११||
SK
==============================
SK
किं च -
SK
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये | मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ||Bह्G_७.१२||
SK
ये चैव सात्त्विकाः सत्त्व-निर्वृत्ता भावाः पदार्थाः, राजसाः रजो-निर्वृत्तास् तामसास् तमो-निर्वृत्ताश् च, ये केचित् प्राणिनां स्व-कर्म-वशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तान् एव | एवं यद्य् अपि ते मत्तो जायन्ते, तथापि न त्व् अहं तेषु तद्-अधीनस् तद्-वशः, यथा संसारिणः | ते पुनर् मयि मद्-वशाः मद्-अधीनाः ||Bह्GS_७.१२||
SK
==============================
SK
एवं-भूतम् अपि परमेश्वरं नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावं सर्व-भूतात्मानं निर्गुणं संसार-दोष-बीज-प्रदाह-कारणं मां नाभिजानाति जगद् इत्य् अनुक्रोशं दर्शयति भगवान् | तच् च किं-निमित्तं जगतो ऽज्ञानम् ? इत्य् उच्यते -
SK
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् | मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ||Bह्G_७.१३||
SK
त्रिभिर् गुण-मयैः गुण-विकारैः राग-द्वेष-मोहादि-प्रकारैर् भावैः पदार्थैर् एभिर् यथोक्तैः सर्वम् इदं प्राणि-जातं जगन् मोहितम् अविवेकिताम् आपादितं सन् नाभिजानानि माम् | एभ्यो यथोक्तेभ्यो गुणेभ्यः परं व्यतिरिक्तं विलक्षणं चाव्ययं व्यय-रहितं जन्मादि-सर्व-भाव-विकार-वर्जितम् इत्य् अर्थः ||Bह्GS_७.१३||
SK
==============================
SK
कथं पुनर् दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायाम् अतिक्रामतीत्य् उच्यते -
SK
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया | माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ||Bह्G_७.१४||
SK
दैवी देवस्य ममेश्वरस्य विष्णोः स्वभाव-भूता हि यस्माद् एषा यथोक्ता गुण-मयी मम माया दुरत्यया दुःखेनात्ययो ऽतिक्रमणं यस्याः सा दुरत्यया | तत्रैवं सति सर्व-धर्मान् परित्यज्य माम् एव मायाविनं स्वात्म-भूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्व-भूत-मोहिनीं तरन्त्य् अतिक्रामन्ति | ते संसार-बन्धनान् मुच्यन्त इत्य् अर्थः ||Bह्GS_७.१४||
SK
==============================
SK
यदि त्वां प्रपन्नाः मायाम् एतां तरन्ति, कस्मात् त्वाम् एव सर्वे न प्रपद्यन्ते ? इत्य् उच्यते -
SK
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ||Bह्G_७.१५||
SK
न मां परमेश्वरं नारायणं दुष्कृतिनः पाप-कारिणः मूढाः प्रपद्यन्ते नराधमा नराणां मध्ये ऽधमाः निकृष्टः | ते च माययापहृत-ज्ञानाः संमुषित-ज्ञाना आसुरं भावं हिंसानृतादि-लक्षणम् आश्रिताः ||Bह्GS_७.१५||
SK
==============================
SK
ये पुनर् नरोत्तमाः पुण्य-कर्माणः -
SK
चतुर्-विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन | आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ||Bह्G_७.१६||
SK
चतुर्-विधाश् चतुः-प्रकारा भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्य-कर्माणो हे ऽर्जुन | आर्त आर्ति-परिगृहीतस् तस्कर-व्याघ्र-रोगादिनाभिभूत आपन्नः | जिज्ञासुर् भगवत्-तत्त्वं ज्ञातुम् इच्छति यः | अर्थार्थी धन-कामः | ज्ञानी विष्णोस् तत्त्व-विच् च हे भरतर्षभ ||Bह्GS_७.१६||
SK
==============================
SK
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते | प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ||Bह्G_७.१७||
SK
तेषां चतुर्णां मध्ये ज्ञानी तत्त्व-वित् तत्त्व-वित्त्वान् नित्य-युक्तो भवति | एक-भक्तिश् च, अन्यस्य भजनीयस्यादर्शनात् | अतः स एक-भक्तिर् विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यत इत्य् अर्थः | प्रियो हि यस्माद् अहम् आत्मा ज्ञानिनो ऽतस् तस्याहम् अत्यर्थं प्रियः | प्रसिद्धं हि लोके आत्मा प्रियो भवतीति | तस्माज् ज्ञानिन आत्मत्वाद् वासुदेवः प्रियो भवतीत्य् अर्थः | स च ज्ञानी मम वासुदेवस्य आत्मैवेति ममात्यर्थं प्रियः ||Bह्GS_७.१७||
SK
==============================
SK
न तर्ह्य् आर्तादयस् त्रयो वासुदेवस्य प्रियाः ? न | किं तर्हि ? -
SK
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् | आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ||Bह्G_७.१८||
SK
उदारा उत्कृष्टाः सर्व एवैते | त्रयो ऽपि मम प्रिया एवेत्य् अर्थः | न हि कश्चिन् मद्-भक्तो वासुदेवस्याप्रियो भवति | ज्ञानी त्व् अत्यर्थं प्रियो भवतीति विशेषः | तत् कस्मात् ? इत्य् अत आह - ज्ञानी त्व् आत्मैव, नान्यो मत्त इति मे मम मतं निश्चयः | आस्थित आरोढुं प्रवृत्तः स ज्ञानी हि यस्माद् अहम् एव भगवान् वासुदेवो नान्यो ऽस्मीत्य् एवं युक्तात्मा समाहित-चित्तः सन् माम् एव परं ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्य् अर्थः ||Bह्GS_७.१८||
SK
==============================
SK
ज्ञानी पुनर् अपि स्तूयते -
SK
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते | वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ||Bह्G_७.१९||
SK
बहूनां जन्मनां ज्ञानार्थ-संस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्त-परिपाक-ज्ञानो मां वासुदेवं प्रत्यग्-आत्मानं प्रत्यक्षतः प्रपद्यते | कथम् ? वासुदेवः सर्वम् इति | य एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, स महात्मा | न तत्-समो ऽन्यो ऽस्ति, अधिको वा | अतः सुदुर्लभः, मनुष्याणां सहस्रेष्व् इति ह्य् उक्तम् ||Bह्GS_७.१९||
SK
==============================
SK
आत्मैव सर्व्ं वासुदेव इत्य् एवम् अप्रतिपत्तौ कारणम् उच्यते -
SK
कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः | तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ||Bह्G_७.२०||
SK
कामैस् तैस् तैः पुत्र-पशु-स्वर्गादि-विषयैर् हृत-ज्ञानाः अपहृत-विवेक-विज्ञानाः प्रपद्यन्ते ऽन्य-देवताः प्राप्नुवन्ति वासुदेवाद् आत्मनो ऽन्या देवताः | तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमस् तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जित-संस्कार-विशेषेण नियताः नियमिताः स्वयात्मीयया ||Bह्GS_७.२०||
SK
==============================
SK
तेषां च कामिनाम् -
SK
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति | तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ||Bह्G_७.२१||
SK
यो यः कामी यां यां देवता-तनुं श्रद्धया संयुक्तो भक्तश् च सन्न् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनो ऽचलां स्थिरां श्रद्धां ताम् एव विदधामि स्थिरीकरोमि ||Bह्GS_७.२१||
SK
==============================
SK
ययैव पूर्वं प्रवृत्तः स्वभावतो यो यां देवता-तनुं श्रद्धयार्चितुम् इच्छति -
SK
स तया श्रद्धया युक्तस् तस्या राधनम् ईहते | लभते च ततः कामान् मयैव विहितान् हि तान् ||Bह्G_७.२२||
SK
स तया मद्-विहितया श्रद्धया युक्तः सन् तस्या देवता-तन्वा राधनम् आराधनम् ईहते चेष्टते | लभते च ततस् तस्या आराधिताया देवता-तन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्म-फल-विभाग-ज्ञतया विहितान् निर्मितान् तान्, हि यस्मात् ते भगवता विहिताः कामास् तस्मात् तान् अवश्यं लभते इत्य् अर्थः | हितान् इति पद-च्छेदे हितत्वं कामानाम् उपचरितं कल्प्यम् | न हि कामा हिताः कस्यचित् ||Bह्GS_७.२२||
SK
==============================
SK
यस्माद् अन्तवत् साधन-व्यापाराविवेकिनः कामिनश् च ते | अतः -
SK
अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् | देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि ||Bह्G_७.२३||
SK
अन्तवद् विनाशि तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् अल्प-प्रज्ञानाम् | देवान् देव-यजो यान्ति देवान् यजन्तीति देव-यजः, ते देवान् यान्ति | मद्-भक्ता यान्ति माम् अपि | एवं समाने ऽप्य् आयासे माम् एव न प्रपद्यन्ते ऽनन्त-फलाय | अहो खलु कष्टं वर्तत इत्य् अनुक्रोशं दर्शयति भगवान् ||Bह्GS_७.२३||
SK
==============================
SK
किं-निमित्तं माम् एव न प्रपद्यन्त इत्य् उच्यते - अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः | परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ||Bह्G_७.२४||
SK
अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्य-प्रसिद्धम् ईश्वरम् अपि सन्तम् अबुद्धयो ऽविवेकिनः परं भावं परम् आत्म-स्वरूपम् अजानन्तो ऽविवेकिनः ममाव्ययं व्यय-रहितम् अनुत्तमं निरतिशयं मदीयं भावम् अजानन्तो मन्यन्त इत्य् अर्थः ||Bह्GS_७.२४||
SK
==============================
SK
तद्-अज्ञानं किं-निमित्तम् इत्य् उच्यते -
SK
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः | मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ||Bह्G_७.२५||
SK
नाहं प्रकाशः सर्वस्य लोकस्य, केषांचिद् एव मद्-भक्तानां प्रकाशो ऽहम् इत्य् अभिप्रायः | योग-माया-समावृतो योगो गुणानां युक्तिर् घटनं सैव माया योग-माया | तया योगमायया समावृतः, संछन्न इत्य् अर्थः | अत एव मूढो लोको ऽयं नाभिजानाति माम् अजम् अव्ययम् ||Bह्GS_७.२५||
SK
==============================
SK
वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि मां तु वेद न कश्चन ||Bह्G_७.२६||
SK
यया योगमायया समावृतं मां लोको नाभिजानाति, नासौ योगमाया मदीया सती ममेश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति | यथान्यस्यापि मायाविनो माया ज्ञानं तद्वत् | यतः एवम्, अतः -- अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि चार्जुन, भविष्याणि च भूतानि वेदाहम् | मां तु वेद न कश्चन मद्-भक्तं मच्-छरणम् एकं मुक्त्वा | मत्-तत्त्व-वेदनाभावाद् एव न मां भजते ||Bह्GS_७.२६||
SK
==============================
SK
केन पुनर् मत्-तत्त्व-वेदन-प्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्व-भूतानि मां न विदन्ति ? इत्य् अपेक्षायाम् इदम् आह -
SK
इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत | सर्व-भूतानि संमोहं सर्गे यान्ति परन्तप ||Bह्G_७.२७||
SK
इच्छा-द्वेष-समुत्थेन इच्छा च द्वेषश् चेच्छा-द्वेषौ | ताभ्यां समुत्तिष्ठतीतीच्छा-द्वेष-समुत्थस् तेनेच्छा-द्वेष-समुत्थेन | केनेति विशेषापेक्षायाम् इदम् आह - द्वन्द्व-मोहेन द्वन्द्व-निमित्तो मोहो द्वन्द्व-मोहस् तेन | ताव् एव इच्छा-द्वेषौ शीतोष्णवत् परस्पर-विरुद्धौ सुख-दुःख-तद्-धेतु-विषयौ यथा-कालं सर्व-भूतैः संबध्यमानौ द्वन्द्व-शब्देनाभिधीयेते | तत्र यदेच्छा-द्वेषौ सुख-दुःख-तद्-धेतु-संप्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्व-भूतानां प्रज्ञायाः स्व-वशापादन-द्वारेण परमार्थात्म-तत्त्व-विषय-ज्ञानोत्पत्ति-प्रतिबन्ध-कारणं मोहं जनयतः | न हीच्छा-द्वेष-दोष-वशीकृत-चित्तस्य यथा-भूतार्थ-विषय-ज्ञानम् उत्पद्यते बहिर् अपि | किम् उ वक्तव्यं ताभ्याम् आविष्ट-बुद्धेः संमूढस्य प्रत्यग्-आत्मनि बहु-प्रतिबन्धे ज्ञानं नोत्पद्यतेति | अतस् तेन इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन, भारत भरतान्वयज, सर्व-भूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्ति-काले इत्य् एतत्, यान्ति गच्छन्ति हे परंतप | मोह-वशान्य् एव सर्व-भूतानि जायमानानि जायन्त इत्य् अभिप्रायः | यत एवम् अतस् तेन द्वन्द्व-मोहेन प्रतिबद्ध-प्रज्ञानानि सर्व-भूतानि संमोहितानि माम् आत्म-भूतं न जानन्ति | अत एव आत्म-भावेन मां न भजन्ते ||Bह्GS_७.२७||
SK
==============================
SK
के पुनर् अनेन द्वन्द्व-मोहेन निर्मुक्ताः सन्तस् त्वां विदित्वा यथा-शास्त्रम् आत्म-भावे भजन्त इत्य् अपेक्षितम् अर्थं दर्शयितुम् उच्यते -
SK
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् | ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ||Bह्G_७.२८||
SK
येषां तु पुनर् अन्त-गतं समाप्त-प्रायं क्षीणं पापं जनानां पुण्य-कर्मणां पुण्यं कर्म येषां सत्त्व-शुद्धि-कारणं विद्यते ते पुण्य-कर्माणस् तेषां पुण्य-कर्मणाम्, ते द्वन्द्व-मोह-निर्मुक्ता यथोक्तेन द्वन्द्व-मोहेन निर्मुक्ता भजन्ते मां परमात्मनां दृढ-व्रताः | एवम् एव परमार्थ-तत्त्वं नान्यथेत्य् एवं सर्व-परित्याग-व्रतेन निश्चित-विज्ञाना दृढ-व्रता उच्यन्ते ||Bह्GS_७.२८||
SK
==============================
SK
ते किम्-अर्थं भजन्ते ? इत्य् उच्यते -
SK
जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये | ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ||Bह्G_७.२९||
SK
जरा-मरण-मोक्षाय जरा-मरणयोर् मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्-समाहित-चित्ताः सन्तो यतन्ति प्रयतन्ते ये, ते यद् ब्रह्म परं तद् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यग्-आत्म-विषयं वस्तु तद् विदुः | कर्म चाखिलं समस्तं विदुः ||Bह्GS_७.२९||
SK
==============================
SK
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः | प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ||Bह्G_७.३०||
SK
साधिभूताधिदैवम् अधिभूतं चाधिदैवं चाधिभूताधिदैवम्, सहाधिभूताधिदैवेन वर्तत इति साधिभूताधिदैवं च मां ये विदुः | साधियज्ञं च सहाधियज्ञेन साधियज्ञं ये विदुः, प्रयाण-काले मरण-काले ऽपि च मां ते विदुः | युक्त-चेतसः समाहित-चित्ता इति ||Bह्GS_७.३०||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये सप्तमो ऽध्यायः ||
SK
Bह्G ८
SK
अथ ब्रह्माक्षर-निर्देशो नाम अष्टमो ऽध्यायः
SK
(श्रीमच्-छङ्कराचार्य-भगवत्-पाद-विरचित-भाष्यः)
SK
==============================
SK
ते ब्रह्म तद् विदुः कृत्स्नम् इत्य् आदिना भगवतार्जुनस्य प्रश्न-बीजानि उपदिष्टनि | अतस् तत्-प्रश्नार्थम् अर्जुन उवाच -

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source