Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 9

SK
इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे | ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ||Bह्G_९.१||
SK
इदं ब्रह्म-ज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्य् आह | तु-शब्दो विशेष-निर्धारणार्थः | इदम् एव तु सम्यग्-ज्ञानं साक्षात् मोक्ष-प्राप्ति-साधनम् वासुदेवः सर्वम् इति [Gईता ७.१२], आत्मैवेदं सर्वम् [CहाU ७.२५.२] एकम् एवाद्वितीयम् [CहाU ६.२.१] इत्य् आदि-श्रुति-स्मृतिभ्यः | नान्यत्, अथ ते ये ऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति [CहाU ७.२५.२] इत्य् आदि-श्रुतिभ्यश् च | ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्याम्य् अनसूयवे ऽसूया-रहिताय | किं तत् ? ज्ञानम् | किं-विशिष्टम् ? विज्ञान-सहितम् अनुभव-युक्तम्, यज् ज्ञात्वा प्राप्य मोक्ष्यसे ऽशुभात् संसार-बन्धनात् ||Bह्GS_९.१||
SK
==============================
SK
तच् च -
SK
राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ||Bह्G_९.२||
SK
राज-विद्या विद्यानां राजा, दीप्त्य्-अतिशयवत्त्वात् | दीप्यते हीयम् अतिशयेन ब्रह्म-विद्या सर्व-विद्यानाम् | तथा राज-गुह्यं गुह्यानां राजा | पवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धि-कारणं ब्रह्म-ज्ञानम् उत्कृष्टतमम् | अनेक-जन्म-सहस्र-संचितम् अपि धर्माधर्मादि स-मूलं कर्म क्षण-मात्राद् एव भस्मीकरोतीत्य् अतः किं तस्य पावनत्वं वक्तव्यम् ? किं च - प्रत्यक्षावगमं प्रत्यक्षेण सुखादेर् इवावगमो यस्य तत् प्रत्यक्षावगमम् | अनेक-गुणवतो ऽपि धर्म-विरुद्धत्वं दृष्टम्, न तथात्म-ज्ञानं धर्म-विरोधि, किंतु धर्म्यं धर्माद् अनपेतम् | एवम् अपि, स्याद् दुःख-संपाद्यम् इत्य् अत आह - सुसुखं कर्तुम्, यथा रत्न-विवेक-विज्ञानम् | तत्राल्पायासानाम् अन्येषां कर्मणां सुख-संपाद्यानाम् अल्प-फलत्वं दुष्कराणां च महा-फलत्वं दृष्टम् इति, इदं तु सुख-संपाद्यत्वात् फल-क्षयात् व्येतीति प्राप्ते, आह - अव्ययम् इति | नास्य फलतः कर्मवत् व्ययो ऽस्तीत्य् अव्ययम् | अतः श्रद्धेयम् आत्म-ज्ञानम् ||Bह्GS_९.२||
SK
==============================
SK
ये पुनः -
SK
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप | अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ||Bह्G_९.३||
SK
अश्रद्दधानाः श्रद्धा-विरहिता आत्म-ज्ञानस्य धर्मस्यास्य स्वरूपे तत्-फले च नास्तिकाः पाप-कारिणः, असुराणाम् उपनिषदं देह-मात्रात्म-दर्शनम् एव प्रतिपन्नाः | असुतृपः पापाः पुरुषा अश्रद्दधानाः | परंतप ! अप्राप्य मां परमेश्वरम्, मत्-प्राप्तौ नैवाशङ्केति मत्-प्राप्ति-मार्ग-भेद-भक्ति-मात्रम् अप्य् अप्राप्य इत्य् अर्थः | निवर्तन्ते निश्चयेन वर्तन्ते | क्व ? - मृत्यु-संसार-वर्त्मनि मृत्यु-युक्तः संसारो मृत्यु-संसारस्, तस्य वर्त्म नरक-तिर्यग्-आदि-प्राप्ति-मार्गः, तस्मिन्न् एव वर्तन्त इत्य् अर्थः ||Bह्GS_९.३||
SK
==============================
SK
स्तुत्यार्जुनम् अभिमुखीकृत्याह -
SK
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना | मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ||Bह्G_९.४||
SK
मया मम यः परो भावस् तेन ततं व्याप्तं सर्वम् इदं जगद् अव्यक्त-मूर्तिना | न व्यक्ता मूर्तिः स्वरूपं यस्य मम सो ऽहम् अव्यक्त-मूर्तिस् तेन मयाव्यक्त-मूर्तिना, करणागोचर-स्वरूपेणेत्य् अर्थः | तस्मिन् मय्य् अव्यक्त-मूर्तौ स्थितानि मत्-स्थानि, सर्व-भूतानि ब्रह्मादीनि स्तम्ब-पर्यन्तानि | न हि निरात्मकं किंचित् भूतं व्यवहारायावकल्पते | अतो मत्-स्थानि मयात्मना आत्मवत्त्वेन स्थितानि | अतो मयि स्थितानीत्य् उच्यन्ते | तेषां भूतानाम् अहम् एवात्मा इत्य् अतस् तेषु स्थित इति मूढ-बुद्धीनाम् अवभासते | अतो ब्रवीमि - न चाहं तेषु भूतेष्व् अवस्थितः | मूर्तवत् संश्लेषाभावेन आकाशस्याप्य् अन्तरतमो ह्य् अहम् | न ह्य् असंसर्गि वस्तु क्वचित् आधेय-भावेनावस्थितं भवति ||Bह्GS_९.४||
SK
==============================
SK
अत एवासंसर्गित्वान् मम -
SK
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् | भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ||Bह्G_९.५||
SK
न च मत्-स्थानि भूतानि ब्रह्मादीनि | पश्य मे योगं युक्तिं घटानं मे मम ऐश्वरम् ईश्वरस्येमम् ऐश्वरम्, योगम् आत्मनो याथात्म्यम् इत्य् अर्थः | तथा च श्रुतिर् असंसर्गित्वाद् असङ्गतां दर्शयति - असङ्गो न हि सज्जते [BAU ३.९.२६] इति | इदं चाश्चर्यम् अन्यत् पश्य - भूत-भृद् असङ्गो ऽपि सन् भूतानि बिभर्ति | न च भूत-स्थः | यथोक्तेन न्यायेन दर्शितत्वात् भूत-स्थत्वानुपपत्तेः | कथं पुनर् उच्यते ऽसौ ममात्मेति ? विभज्य देहादि-सङ्घातं तस्मिन्न् अहंकारम् अध्यारोप्य लोक-बुद्धिम् अनुसरन् व्यपदिशति ममात्मेति, न पुनर् आत्मन आत्मान्य इति लोकवद् अजानन् | तथा भूत-भावनो भूतानि भावयत्य् उत्पादयति वर्धयतीति वा भूत-भावनः ||Bह्GS_९.५||
SK
==============================
SK
यथोक्तेन श्लोक-द्वयेनोक्तम् अर्थं दृष्टन्तेनोपपादयन्न् आह -
SK
यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् | तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ||Bह्G_९.६||
SK
यथा लोके आकाश-स्थित आकाशे स्थितो नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्र-गो महान् परिमाणतः, तथा आकाशवत् सर्व-गते मय्य् असंश्लेषेणैव स्थितानीत्य् एवम् उपधारय विजानीहि ||Bह्GS_९.६||
SK
==============================
SK
एवं वायुर् आकाशे इव मयि स्थितानि सर्व-भूतानि स्थिति-काले | तानि -
SK
सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ||Bह्G_९.७||
SK
सर्व-भूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां निकृष्टं यान्ति मामिकां मदीयां कल्प-क्षये प्रलय-काले | पुनर् भूयस् तानि भूतानि उत्पत्ति-काले कल्पादौ विसृजामि उत्पादयाम्य् अहं पूर्ववत् ||Bह्GS_९.७||
SK
==============================
SK
एवम् अविद्या-लक्षणाम् -
SK
प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः | भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ||Bह्G_९.८||
SK
प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूत-ग्रामं भूत-समुदायम् इमं वर्तमानं कृत्स्नम् अवशम् अस्वतन्त्रम् | अविद्यादि-दोषैः परवशीकृतम् | प्रकृतेर् वशात् स्वभाव-वशात् ||Bह्GS_९.८||
SK
==============================
SK
तर्हि तस्य ते परमेश्वरस्य भूत-ग्रामम् इमं विषमं विदधतः, तन्-निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्याद् इतीदम् आह भगवान् -
SK
न च मां तानि कर्माणि निबध्नन्ति धनंजय | उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ||Bह्G_९.९||
SK
न च माम् ईश्वरं तानि भूत-ग्रामस्य विषम-सर्ग-निमित्तानि कर्माणि निबध्नन्ति धनंजय | तत्र कर्मणाम् असंबन्धित्वे कारणम् आह - उदासीनवत् आसीनं यथा उदीसीन उपेक्षकः कश्चित् तद्वद् आसीनम् आत्मनो ऽविक्रियत्वात् | असक्तं फलासङ्ग-रहितम्, अभिमान-वर्जितम्, अहं करोमीति तेषु कर्मसु | अतो ऽन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश् चासंबन्ध-कारणम्, अन्यथा कर्मभिर् बध्यते मूढः कोश-कारवद् इत्य् अभिप्रायः ||Bह्GS_९.९||
SK
==============================
SK
तत्र भूत-ग्रामम् इमं विसृजाम्य् उदासीनवद् आसीनम् इति च विरुद्धम् उच्यते, इति तत्-परिहारार्थम् आह -
SK
मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् | हेतुनानेन कौन्तेय जगद् विपरिवर्तते ||Bह्G_९.१०||
SK
मयाध्यक्षेण सर्वतो दृशि-मात्र-स्वरुपेणाविक्रियात्मनाध्यक्षेण मया, मम माया त्रिगुणात्मिकाविद्या-लक्षणा प्रकृतिः सूयते उत्पादयति स-चराचरं जगत् | तथा च मन्त्र-वर्णः -
SK
एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा | कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेता केवलो निर्गुणश् च || [Śवेत्U ६.११] इति |
SK
हेतुना निमित्तेनानेनाध्यक्षत्वेन कौन्तेय जगत् स-चराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु | दृशि-कर्मत्वापत्ति-निमित्ता हि जगतः सर्वा प्रवृत्तिः - अहम् इदं भोक्ष्ये, पश्यामीदम्, शृणोमीदम्, सुखम् अनुभवामि, दुःखम् अनुभवामि, तद्-अर्थम् इदं करिष्ये, इदं ज्ञास्यामि, इत्य् आद्यावगति-निष्ठावगत्य्-अवसानैव | यो अस्याध्यक्षः परमे व्योमन् [Ṛक् ८.७.१७.७, Tऐत्त्B २.८.९] इत्य् आदयश् च मन्त्रा एतम् अर्थं दर्शयन्ति | ततश् चैकस्य देवस्य सर्वाध्यक्ष-भूत-चैतन्य-मात्रस्य परमार्थतः सर्व-भोगानभिसंबन्धिनो ऽन्यस्य चेतनान्तरस्याभावे भोक्तुर् अन्यस्याभावात् | किं-निमित्तेयं सृष्टिर् इत्य् अत्र प्रश्न-प्रतिवचने ऽनुपपन्ने, को अद्धा वेद क इह प्रवोचत् | कुत आजाता कुत इयं विसृष्टिः [Ṛक् ८.७.१७.८] इत्य् आदि-मन्त्र-वर्णेभ्यः | दर्शितं च भगवता - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [Gईता ५.१५] इति ||Bह्GS_९.१०||
SK
==============================
SK
एवं मां नित्य-शुद्ध-बुद्धम् उक्त-स्वभावं सर्वज्ञं सर्व-जन्तूनाम् आत्मानम् अपि सन्तम् -
SK
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् | परं भावम् अजानन्तो मम भूत-महेश्वरम् ||Bह्G_९.११||
SK
अवजानन्त्य् अवज्ञां परिभवं कुर्वन्ति मां मूढा अविवेकिनः | मानुषीं मनुष्यसंबन्धिनीं तनुं देहम् आश्रितम्, मनुष्यदेहेन व्यवहरन्तमित्य् एतत्, परं प्रकृष्टं भावं परम् आत्म-तत्त्वम् आकाश-कल्पम् आकाशाद् अप्य् अन्तरतमम् अजानन्तो मम भूत-महेश्वरं सर्व-भूतानां महान्तम् ईश्वरं स्वात्मानम् | ततश् च तस्य ममावज्ञान-भावनेन आहतास् ते वराकाः ||Bह्GS_९.११||
SK
==============================
SK
कथम् ? -
SK
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः | राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||Bह्G_९.१२||
SK
मोघाशा वृथा आशा आशिषो येषां ते मोघाशाः | तथा मोघ-कर्माणो यानि चाग्निहोत्रादीनि तैर् अनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्-परिभवात्, स्वात्म-भूतस्यावज्ञानात् मोघान्य् एव निष्फलानि कर्माणि भवन्तीति मोघ-कर्माणः | तथा मोघ-ज्ञाना मोघं निष्फलं ज्ञानं येषां ते मोघ-ज्ञानाः, ज्ञानम् अपि तेषां निष्फलम् एव स्यात् | विचेतसो विगत-विवेकाश् च ते भवन्तीत्य् अभिप्रायः | किं च - ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोह-करीं देहात्म-वादिनीं श्रिताः आश्रिताः, | छिन्धि, भिन्धि, पिब, खाद, परस्वम् अपहर, इत्य् एवं वदन-शीलाः क्रूर-कर्माणो भवन्तीत्य् अर्थः | असुर्या नाम ते लोकाः [ĪशU ३] इति श्रुतेः ||Bह्GS_९.१२||
SK
==============================
SK
ये पुनः श्रद्दधाना भगवद्-भक्ति-लक्षणे मोक्ष-मार्गे प्रवृत्ताः -
SK
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः | भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ||Bह्G_९.१३||
SK
महातमानस् त्व् अक्षुद्र-चित्ताः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शम-दम-दया-श्रद्धादि-लक्षणाम् आश्रिताः सन्तो भजन्ति सेवन्ते ऽनन्य-मनसो ऽनन्य-चित्ता ज्ञात्वा भूतादिं भूतानां वियद्-आदीनां प्राणिनां चादिं कारणम् अव्ययम् ||Bह्GS_९.१३||
SK
==============================
SK
कथम् ? -
SK
सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः | नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ||Bह्G_९.१४||
SK
सततं सर्वदा भगवन्तं ब्रह्म-स्वरूपं मां कीर्तयन्तः, यतन्तश् च इन्द्रियोपसंहार-शम-दम-दयाहिंसादि-लक्षणैर् धर्मैः प्रयतन्तश् च, दृढ-व्रता दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढ-व्रता नमस्यन्तश् च मां हृदयेशयम् आत्मानं भक्त्या नित्य-युक्ताः सन्त उपासते सेवन्ते ||Bह्GS_९.१४||
SK
==============================
SK
ते केन केन प्रकारेण उपासते इत्य् उच्यते -
SK
ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते | एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ||Bह्G_९.१५||
SK
ज्ञान-यज्ञेन ज्ञानम् एव भगवद्-विषयं यज्ञस् तेन ज्ञान-यज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं चाप्य् अन्ये ऽन्याम् उपासनां परित्यज्योपासते | तच् च ज्ञानम् - एकत्वेनैकम् एव परं ब्रह्मेति परमार्थ-दर्शनेन यजन्त उपासते | केचिच् च पृथक्त्वेन आदित्य-चन्द्रादि-भेदेन स एव भगवान् विष्णुर् अवस्थित इत्य् उपासते | केचित् बहुधावस्थितः स एव भगवान् सर्वतो-मुखो विश्व-रूप इति तं विश्व-रूपं सर्वतो-मुखं बहुधा बहु-प्रकारेणोपासते ||Bह्GS_९.१५||
SK
==============================
SK
यदि बहुभिः प्रकारैर् उपासते, कथं त्वाम् एव उपासत इति | अत आह -
SK
अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् | मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ||Bह्G_९.१६||
SK
अहं क्रतुः श्रौत-कर्म-भेदो ऽहम् एव | अहं यज्ञः स्मार्तः | किं च स्वधान्नम् अहम्, पितृभ्यो यद् दीयते | अहम् औषधं सर्व-प्राणिभिर् यत् अद्यते तत् औषध-शब्द-शब्दितं व्रीहि-यवादि-साधारणम् | अथवा स्वधेति सर्व-प्राणि-साधारणम् अन्नम्, औषधम् इति व्याध्य्-उपशमनार्थं भेषजम् | मन्त्रो ऽहम्, येन पितृभ्यो देवताभ्यश् च हविर् दीयते | अहम् एव आज्यं हविश् च | अहम् अग्निः, यस्मिन् हूते हविः सो ऽग्निर् अहम् | अहं हुतं हवन-कर्मश् च ||Bह्GS_९.१६||
SK
============================== किं च -
SK
पिताहम् अस्य जगतो माता धाता पितामहः | वेद्यं पवित्रम् ॐकार ऋक् साम यजुर् एव च ||Bह्G_९.१७||
SK
पिता जनयिताहम् अस्य जगतः, माता जनयित्री, धाता कर्म-फलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम्, पवित्रं पावनम् ॐकारः, ऋक् साम यजुए एव च ||Bह्GS_९.१७||
SK
==============================
SK
किं च -
SK
गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ||Bह्G_९.१८||
SK
गतिः कर्म-फलम्, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासो यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानाम्, प्रपन्नानाम् आर्ति-हरः | सुहृत् प्रत्युपकारानपेक्षः सन्न् उपकारी, प्रभव उत्पत्तिर् जगतः, प्रलयः प्रलीयते ऽस्मिन् इति, तथा स्थानं तिष्ठत्य् अस्मिन्न् इति, निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम्, बीजं प्ररोह-कारणं प्ररोह-धर्मिणाम्, अव्ययं यावत्-संसार-भावित्वात् अव्ययम्, न ह्य् अबीजं किंचित् प्ररोहति | नित्यं च प्ररोह-दर्शनाद् बीज-संततिर् न व्येतीति गम्यते ||Bह्GS_९.१८||
SK
==============================
SK
किं च -
SK
तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च | अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ||Bह्G_९.१९||
SK
तपाम्य् अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिर् उल्बणैः | अहं वर्षं कैश्चिद् रश्मिभिर् उत्सृजामि | उत्सृज्य पुनर् निगृह्णामि कैश्चिद् रश्मिभिर् अष्टभिर् मासैः पुनर् उत्सृजामि प्रावृषि | अमृतं चैव देवानाम्, मृत्युश् च मर्त्यानाम् | सद् यस्य यत् संबन्धितया विद्यमानं तत्, तद्-विपरीतम् असच् चैवाहम् अर्जुन | न पुनर् अत्यन्तम् एवासद् भगवान्, स्वयं कार्य-कारणे वा सद्-असती ||Bह्GS_९.१९||
SK
==============================
SK
ये पूर्वोक्तैर् निवृत्ति-प्रकारैर् एकत्व-पृथक्त्वादि-विज्ञानैर् यज्ञैर् मां पूजयन्त उपासते ज्ञान-विदः, ते यथा-विज्ञानं माम् एव प्राप्नुवन्ति | ये पुनर् अज्ञाः काम-कामाः -
SK
त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते | ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ||Bह्G_९.२०||
SK
त्रैविद्या ऋग्-यजुः-साम-विदो मां वस्व्-आदि-देव-रूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोम-पानेन पूत-पापाः शुद्ध-किल्बिषाः, यज्ञैर् अग्निष्टोमादिभिर् इष्ट्वा पूजयित्वा स्वर्-गतिं स्वर्ग-गमनं स्वर् एव गतिः स्वर्-गतिस् ताम्, प्रार्थयन्ते | ते च पुण्यं पुण्य-फलम् आसाद्य संप्राप्य सुरेन्द्र-लोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देव-भोगान् देवानां भोगान् ||Bह्GS_९.२०||
SK
==============================
SK
ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति | एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं काम-कामा लभन्ते ||Bह्G_९.२१||
SK
ते तं भुक्त्वा स्वर्ग-लोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति आविशन्ति | एवं यथोक्तेन प्रकारेण त्रयी-धर्मं केवलं वैदिकं कर्मानुप्रपन्ना गतागतं गतं चागतं च गतागतं गमनागमनं काम-कामाः कामान् कामयन्त इति काम-कामा लभन्ते गतागतम् एव, न तु स्वातन्त्र्यं क्वचिल् लभन्त इत्य् अर्थः ||Bह्GS_९.२१||
SK
==============================
SK
ये पुनर् निष्कामाः सम्यग्-दर्शिनः -
SK
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ||Bह्G_९.२२||
SK
अनन्या अपृथग्-भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तश् चिन्तयन्तो मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थ-दर्शिनां नित्याभियुक्तानां सतताभियोगिनां योग-क्षेमं योगो ऽप्राप्तस्य प्रापणं क्षेमस् तद्-रक्षणं तद्-उभयं वहामि प्रापयाम्य् अहम् | ज्ञानी त्व् आत्मैव मे मतम् [Gईता ७.१८] स च मम प्रियः [Gईता ७.१७] यस्माद् तस्मात् ते ममात्म-भूताः प्रियाश् चेति |
SK
नन्व् अन्येषाम् अपि भक्तानां योग-क्षेमं वहत्य् एव भगवान् | सत्यं वहत्य् एव | किंत्व् अयं विशेषः - अन्ये ये भक्तास् ते आत्मार्थं स्वयम् अपि योग-क्षेमम् ईहन्ते | अनन्य-दर्शिनस् तु नात्मार्थं योग-क्षेमम् ईहन्ते | न हि ते जीविते मरणे वात्मनो गृद्धिं कुर्वन्ति | केवलम् एव भगवच्-छरणास् ते | अतो भगवान् एव तेषां योग-क्षेमं वहतीति ||Bह्GS_९.२२||
SK
==============================
SK
नन्व् अन्यापि देवतास् त्वम् एव चेत् तद्-भक्ताश् च त्वाम् एव यजन्ते | सत्यम् एवम् -
SK
ये ऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः | ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ||Bह्G_९.२३||
SK
ये ऽप्य् अन्य-देवता-भक्ता अन्यासु देवतासु भक्ता अन्य-देवता-भक्ताः सन्तो यजन्ते पूजयन्ति श्रद्धया आस्तिक्य-बुद्ध्यान्विता अनुगताः, ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् अविधिर् अज्ञानं तत्-पूर्वकं यजन्त इत्य् अर्थः ||Bह्GS_९.२३||
SK
==============================
SK
कस्मात् ते ऽविधि-पूर्वकं यजन्त इत्य् उच्यते | यस्मात् -
SK
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च | न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ||Bह्G_९.२४||
SK
अहं हि सर्व-यज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुर् एव च | मत्-स्वामिको हि यज्ञः, अधियज्ञो ऽहम् एवात्र [Gईता ८.४] इति ह्य् उक्तम् | तथा न तु माम् अभिजानन्ति तत्त्वेन यथावत् | अतश् चाविधि-पूर्वकम् इष्ट्वा याग-फलाच् च्यवन्ति प्रच्यवन्ते ते ||Bह्GS_९.२४||
SK
==============================
SK
ये ऽप्य् अन्य-देवता-भक्ति-मत्त्वेनाविधि-पूर्वकं यजन्ते, तेषाम् अपि याग-फलम् अवश्यंभावि | कथम् ? -
SK
यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः | भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो ऽपि माम् ||Bह्G_९.२५||
SK
यान्ति गच्छन्ति देव-व्रता देवेषु व्रतं नियमो भक्तिश् च येषां ते देव-व्रता देवान् यान्ति | पितॄन् अग्निष्व् आत्तादीन् यान्ति पितृ-व्रताः श्राद्धादि-क्रिया-पराः पितृ-भक्ताः | भूतानि विनायक-मातृ-गण-चतुर्-भगिन्यादीनि यान्ति भूतेज्या भूतानां पूजकाः | यान्ति मद्-याजिनो मद्-यजन-शीला वैष्णवा माम् एव यान्ति | समाने ऽप्य् आयासे माम् एव न भजन्ते ऽज्ञानात्, तेन ते ऽल्प-फल-भाजो भवन्तीत्य् अर्थः ||Bह्GS_९.२५||
SK
==============================
SK
न केवलं मद्-भक्तानाम् अनावृत्ति-लक्षणम् अनन्त-फलम्, सुखाराधनश् चाहम् | कथम् ? -
SK
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ||Bह्G_९.२६||
SK
पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रयच्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्ति-पूर्वकं प्रापितं भक्त्य्-उपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्ध-बुद्धेः ||Bह्GS_९.२६||
SK
==============================
SK
यतः एवम्, अतः -
SK
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् | यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ||Bह्G_९.२७||
SK
यत् करोषि स्वतः प्राप्तम्, यद् अश्नासि, यच् च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यद् ददासि प्रयच्छसि ब्राह्मणादिभ्यो हिरण्यान्नाज्यादि, यत् तपस्यसि तपश् चरसि कौन्तेय, तत् कुरुष्व मद्-अर्पणं मत्-समर्पणम् ||Bह्GS_९.२७||
SK
==============================
SK
एवं कुर्वतस् तव यत् भवति, तत् सृणु -
SK
शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः | संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ||Bह्G_९.२८||
SK
शुभाशुभ-फलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभ-फलानि कर्माणि तैः शुभाशुभ-फलैः कर्म-बन्धनैः कर्माण्य् एव बन्धनानि कर्म-बन्धनानि तैः कर्म-बन्धनैर् एवं मद्-अर्पणं कुर्वन् मोक्ष्यसे | सो ऽयं संन्यास-योगो नाम, संन्यासश् चासौ मत्-समर्पणतया कर्मत्वाद् योगश् चासाव् इति, तेन संन्यास-योगेन युक्त आत्मान्तः-करणं यस्य तव स त्वं संन्यास-योग-युक्तात्मा सन् विमुक्तः कर्म-बन्धनैर् जीवन्न् एव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि ||Bह्GS_९.२८||
SK
==============================
SK
राग-द्वेषवांस् तर्हि भगवान्, यतो भक्तान् अनुगृह्णाति, नेतरान् इति तन् न -
SK
समो ऽहं सर्व-भूतेषु न मे द्वेष्यो ऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ||Bह्G_९.२९||
SK
समस् तुल्यो ऽहं सर्व-भूतेषु | न मे द्वेष्यो ऽस्ति न प्रियः | अग्निवद् अहम् - दूर-स्थानां यथाग्निः शीतं नापनयति, समीपम् उपसर्पताम् अपनयति | तथाहं भक्तान् अनुगृह्णामि, नेतरान् | ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते - स्वभावत एव, न मम राग-निमित्तम् - वर्तन्ते | तेषु चाप्य् अहं स्वभावत एव वर्ते, नेतरेषु | नैतावता तेषु द्वेषो मम् ||Bह्GS_९.२९||
SK
==============================
SK
सृणु मद्-भक्तेर् माहात्म्यम् -
SK
अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् | साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ||Bह्G_९.३०||
SK
अपि चेत् यद्य् अपि सुदुराचारः सुष्ठु दुराचारो ऽतीव कुत्सिताचारो ऽपि भजते माम् अनन्य-भाक् अनन्य-भक्तिः सन्, साधुर् एव सम्यग्-वृत्त एव स मन्तव्यो ज्ञातव्यः | सम्यग् यथावद् व्यवसितो हि सः, यस्मात् साधु-निश्चयः सः ||Bह्GS_९.३०||
SK
==============================
SK
उत्सृज्यश् च बाह्यां दुराचारताम् अन्तः सम्यग्-व्यवसाय-सामर्थ्यात् -
SK
क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||Bह्G_९.३१||
SK
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्म-चित्त एव | शश्वन् नित्यं शान्तिं चोपशमं निगच्छति प्राप्नोति | सृणु परमार्थम्, कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न मे मम भक्तो मयि समर्पितान्तरात्मा मद्-भक्तो न प्रणश्यतीति ||Bह्GS_९.३१||
SK
==============================
SK
किं च -
SK
मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पाप-योनयः | स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ||Bह्G_९.३२||
SK
मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा ये ऽपि स्युः पाप-योनयः पापा योनिर् येषां ते पाप-योनयः स्युर् भवेयुः | पाप-योनयः पापा योनिर् येषां ते पाप-योनयः पाप-जन्मानः | के ते ? इत्य् आह -स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ||Bह्GS_९.३२||
SK
==============================
SK
किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा | अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ||Bह्G_९.३३||
SK
किं पुनर् ब्राह्मणाः पुण्याः पुण्य-योनयो भक्ता राजर्षयस् तथा राजानश् च ते ऋषयश् चेति राजर्षयः | यत एवम्, अतो ऽनित्यं क्षण-भङ्गुरम् असुखं च सुख-वर्जितम् इमं लोकं मनुष्य-लोकं प्राप्य पुरुषार्थ-साधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ||Bह्GS_९.३३||
SK
==============================
SK
कथम् ? -
SK
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु | माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ||Bह्G_९.३४||
SK
मयि वासुदेवे मनो यस्य तव स त्वं मन्-मना भव | तथा मद्-भक्तो भव | मद्-याजी मद्-यजन-शीलो भव | माम् एव च नमस्कुरु | माम् एवेश्वरस्यागमिष्यसि युक्त्वा समाधाय चित्तम् | एवम् आत्मानं मां अहं हि सर्वेषां भूतानाम् आत्मा परा च गतिः परम् अयनं तं माम् एवम्भूतम् एष्यस्तीत्य् अतीतेन पदेन सम्बन्धः | मत्-परायणः सन्न् इत्य् अर्थः ||Bह्GS_९.३४||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः
SK
Bह्G १०
SK
अथ विभूति-योगो नाम दशमो ऽध्यायः
SK
(भगवत्-पाद-श्रीमच्-छङ्कराचार्य-कृत-भाष्यम्)
SK
सप्तमे ऽध्याये भगवतस् तत्त्वं विभूतयश् च प्रकाशिताः, नवमे च | अथेदानीं येषु येषु भावेषु चिन्त्यो भगवांस् ते ते भावा वक्तव्याः | तत्त्वं च भगवतो वक्तव्यम् उक्तम् अपि, दुर्विज्ञेयत्वात्, इत्य् अतः श्री-भगवान् उवाच -

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source