Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 1

SK
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय ||Bह्G_१.१||
SK
संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा | आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ||Bह्G_१.२||
SK
पश्यैतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् | व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ||Bह्G_१.३||
SK
अत्र शूरा महेष्वासा भीमार्जुन-समा युधि | युयुधानो विराटश् च द्रुपदश् च महारथः ||Bह्G_१.४||
SK
धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् | पुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुंगवः ||Bह्G_१.५||
SK
युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् | सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ||Bह्G_१.६||
SK
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ||Bह्G_१.७||
SK
भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः | अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ||Bह्G_१.८||
SK
अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः | नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ||Bह्G_१.९||
SK
अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ||Bह्G_१.१०||
SK
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः | भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ||Bह्G_१.११||
SK
तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः | सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||Bह्G_१.१२||
SK
ततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः | सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ||Bह्G_१.१३||
SK
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ | माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ||Bह्G_१.१४||
SK
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः | पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकोदरः ||Bह्G_१.१५||
SK
अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः | नकुलः सहदेवश् च सुघोष-मणिपुष्पकौ ||Bह्G_१.१६||
SK
काश्यश् च परमेष्वासः शिखण्डी च महा-रथः | धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ||Bह्G_१.१७||
SK
द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते | सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ||Bह्G_१.१८||
SK
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ||Bह्G_१.१९||
SK
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः | प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ||Bह्G_१.२०||
SK
हृषीकेशं तदा वाक्यम् इदम् आह मही-पते | सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ||Bह्G_१.२१||
SK
यावद् एतान् निरीक्षे ऽहं योद्धु-कामान् अवस्थितान् | कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ||Bह्G_१.२२||
SK
योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः | धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ||Bह्G_१.२३||
SK
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ||Bह्G_१.२४||
SK
भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ||Bह्G_१.२५||
SK
तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् | आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ||Bह्G_१.२६||
SK
श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि | तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ||Bह्G_१.२७||
SK
कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||Bह्G_१.२८||
SK
सीदन्ति मम गात्राणि मुखं च परिशुष्यति | वेपथुश् च शरीरे मे रोमहर्षश् च जायते ||Bह्G_१.२९||
SK
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते | न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ||Bह्G_१.३०||
SK
निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे ||Bह्G_१.३१||
SK
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च | किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ||Bह्G_१.३२||
SK
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च | त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ||Bह्G_१.३३||
SK
आचार्याः पितरः पुत्रास् तथैव च पितामहाः | मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा ||Bह्G_१.३४||
SK
एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन | अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ||Bह्G_१.३५||
SK
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन | पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ||Bह्G_१.३६||
SK
तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व-बान्धवान् | स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||Bह्G_१.३७||
SK
यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः | कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ||Bह्G_१.३८||
SK
कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् | कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन ||Bह्G_१.३९||
SK
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः | धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ||Bह्G_१.४०||
SK
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः | स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ||Bह्G_१.४१||
SK
संकरो नरकायैव कुल-घ्नानां कुलस्य च | पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ||Bह्G_१.४२||
SK
दोषैर् एतैः कुल-घ्नानां वर्ण-संकर-कारकैः | उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ||Bह्G_१.४३||
SK
उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन | नरके नियतं वासो भवतीत्य् अनुशुश्रुम ||Bह्G_१.४४||
SK
अहो बत महत् पापं कर्तुं व्यवसिता वयम् | यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ||Bह्G_१.४५||
SK
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः | धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ||Bह्G_१.४६||
SK
एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोक-संविग्न-मानसः ||Bह्G_१.४७||
SK
इति शङ्कराचार्य-कृते गीता-भाष्ये प्रथमो ऽध्यायः
SK
Bह्G २
SK
द्वितीयो ऽध्यायः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source