Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 4

SK
श्री-भगवान् उवाच इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् | विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् ||Bह्G_४.१||
SK
इमम् अध्याय-द्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहम् | जगत्-परिपालयितॄणां क्षत्रियाणां बलाधानाय | तेन योग-बलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुं, ब्रह्म-क्षत्रे परिपालिते जगत् परिपालयितुम् अलम् | अव्ययम् अव्यय-फलत्वात् | न ह्य् अस्य सम्यग् दर्शन-निष्ठा-लक्षणस्य मोक्षाख्यं फलं व्येति | स च विवस्वान् मनवे प्राह | मनुर् इक्ष्वाकवे स्व-पुत्रायादिराजायाब्रवीत् ||Bह्GS_४.१||
SK
==============================
SK
एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः | स कालेनेह महता योगो नष्टः परन्तप ||Bह्G_४.२||
SK
एवं क्षत्रिय-परम्परा-प्राप्तम् इमं राजर्षयो राजानश् च ते ऋषयश् च राजर्षयो विदुर् इमं योगम् | स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्न-सम्प्रदायः संवृत्तो हे परन्तप ! आत्मनो विपक्ष-भूताः पर उच्यन्ते तान् शौर्य-तेजो-गभस्तिभिर् भानुर् इव तापयतीति परन्तपः शत्रु-तापन इत्य् अर्थः ||Bह्GS_४.२||
SK
==============================
SK
दुर्लभान् अजितेन्द्रियान् प्राप्य नष्टं योगम् इमम् उपलभ्य लोकं चापुरुषार्थ-सम्बन्धिनम् -
SK
स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः | भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ||Bह्G_४.३||
SK
स एवायम् मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः | भक्तो ऽसि मे सखा चासीति | रहस्यं हि यस्माद् एतद् उत्तमं योगो ज्ञानम् इत्य् अर्थः ||Bह्GS_४.३||
SK
==============================
SK
भगवता विप्रतिषिद्धम् उक्तम् इति मा भूत् कस्यचिद् बुद्धिर् इति परिहारार्थं चोद्यम् इव कुर्वन्न् अर्जुन उवाच -
SK
अपरं भवतो जन्म परं जन्म विवस्वतः | कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ||Bह्G_४.४||
SK
अपरम् अर्वाग् वसुदेव-गृहे भवतो जन्म परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वत आदित्यस्य | तत् कथम् एतद् विजानीयाम् अविरुद्धार्थतया यस् त्वम् एवादौ प्रोक्तवान् इमं योगम् | स एव त्वम् इदानीं मह्यं प्रोक्तवान् असीति ||Bह्GS_४.४||
SK
==============================
SK
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् श्री-भगवान् उवाच पदर्थो ह्य् अर्जुनस्य प्रश्नः -
SK
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||Bह्G_४.५||
SK
बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन तान्य् अहं वेद जाने सर्वाणि न त्वं वेत्थ जानीषे | धर्माधर्मादि-प्रतिबद्ध-ज्ञान-शक्तित्वात् | अहं पुनर् नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावत्वाद् अनावरण-ज्ञान-शक्तिर् इति वेदाहम् | हे परन्तप ||Bह्GS_४.५||
SK
==============================
SK
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावे ऽपि जन्म ? इत्य् उच्यते -
SK
अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् | प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ||Bह्G_४.६||
SK
अजो ऽपि जन्म-रहितो ऽपि सन्, तथाव्ययात्माक्षीण-ज्ञान-शक्ति-स्वभावो ऽपि सन्, तथा भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वर ईशन-शीलो ऽपि सन् | प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वम् इदं जगद् वर्तते | यया मोहितं जगत् सत् स्वम् आत्मानं वासुदेवं न जानाति | तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य संभवामि देहवान् इव भवामि जात इवात्म-माययात्मनो मायया, न परमार्थतो लोकवत् ||Bह्GS_४.६||
SK
==============================
SK
तच् च जन्म कदा किम्-अर्थं च ? इत्य् उच्यते -
SK
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत | अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ||Bह्G_४.७||
SK
यदा यदा हि धर्मस्य ग्लानिर् हानिर् वर्णाश्रमादि-लक्षणस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य भवति | भारत ! अभ्युत्थानम् उद्भवो ऽधर्मस्य तदात्मानं सृजाम्य् अहं मायया ||Bह्GS_४.७||
SK
==============================
SK
किम्-अर्थम् ?
SK
परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्म-संस्थापनार्थाय संभवामि युगे युगे ||Bह्G_४.८||
SK
परित्राणाय परिरक्षणाय साधूनां सन्-मार्ग-स्थानाम् | विनाशाय च दुष्कृतां पाप-कारिणाम् | किं च धर्म-संस्थापनार्थाय धर्मस्य सम्यक्-स्थापनं तद्-अर्थं सम्भवामि | युगे युगे प्रतियुगम् ||Bह्GS_४.८||
SK
==============================
SK
जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन ||Bह्G_४.९||
SK
तज्-जन्म माया-रूपं, कर्म च साधु-परित्राणादि, मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यो वेत्ति तत्त्वतस् तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर् जन्म पुनर् उत्पत्तिं नैति न प्राप्नोति, माम् एत्य् आगच्छति, स मुच्यते हे ऽर्जुन ||Bह्GS_४.९||
SK
==============================
SK
नैष मोक्ष-मार्ग इदानीं प्रवृत्तः | किं तर्हि ? पूर्वम् अपि -
SK
वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः | बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ||Bह्G_४.१०||
SK
वीत-राग-भय-क्रोधाः - रागश् च भयं च क्रोधश् च राग-भय-क्रोधाः, वीता विगता राग-भय-क्रोधा येभ्यस् ते वीत-राग-भय-क्रोधाः | मन्-मया ब्रह्म-विद ईश्वराभेद-दर्शिनः | माम् एव परमेश्वरम् उपाश्रिताः | केवल-ज्ञान-निष्ठा इत्य् अर्थः | बहवो ऽनेके ज्ञान-तपसा ज्ञानम् एव च परमात्म-विषयं तपः | तेन ज्ञान-तपसा | पूताः परां शुद्धिं गताः सन्तः | मद्-भावम् ईश्वर-भावं मोक्षम् आगताः समनुप्राप्ताः | इतर-तपो-निरपेक्षा ज्ञान-निष्ठा इत्य् अस्य लिङ्गं ज्ञान-तपसेति विशेषणम् ||Bह्GS_४.१०||
SK
==============================
SK
तव तर्हि राग-द्वेषौ स्तः | येन केभ्यश्चित् एवात्म-भावं प्रयच्छसि, न सर्वेभ्यः | इत्य् उच्यते -
SK
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||Bह्G_४.११||
SK
ये यथा येन प्रकारेण येन प्रयोजनेन यत्-फलार्थितया मां प्रपद्यन्ते तांस् तथैव तत्-फल-दानेन भजाम्य् अनुगृह्णाम्य् अहम् इत्य् एतत् | तेषां मोक्षं प्रत्यनर्थित्वात् | न ह्य् एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति | अतो ये यत्-फलार्थिनस् तांस् तत्-फल-प्रदानेन, ये यथोक्त-कारिणस् त्व् अफलार्थिनो मुमुक्षवश् च तान् ज्ञान-प्रदानेन | ये ज्ञानिनः सन्न्यासिनो मुमुक्षवश् च तान् मोक्ष-प्रदानेन, तथार्तानार्ति-हरणेन इत्य् एवं यथा प्रपद्यन्ते ये तांस् तथैव भजामीत्य् अर्थः | न पुनार् राग-द्वेष-निमित्तं मोह-निमित्तं वा कंचिद् भजामि | सर्वथापि सर्वावस्थस्य ममेश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः | यत्-फलार्थितया यस्मिन् कर्मण्य् अधिकृता ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते हे पार्थ सर्वशः सर्व-प्रकारैः ||Bह्GS_४.११||
SK
==============================
SK
यदि तवेश्वरस्य रागादि-दोषाभावात् सर्व-प्राणिष्व् अनुजिघृक्षायां तुल्यायां सर्व-फल-प्रदान-समर्थे च त्वयि सति वासुदेवः सर्वं [Gईता ७.१९] इति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात् त्वाम् एव सर्वे न प्रतिपद्यन्ते ? इति शृणु तत्र कारणम् -
SK
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ||Bह्G_४.१२||
SK
काङ्क्षन्तो ऽभीप्सन्तः कर्मणां सिद्धिं फल-निष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिन् लोके देवता इन्द्राद्ग्न्य्-आद्याः | अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद, यथा पशुः | एवं स देवानाम् [BAU १.४.१०] इति श्रुतेः | तेषां हि भिन्न-देवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान् मानुषे लोके | मनुष्य-लोके हि शास्त्राधिकारः | क्षिप्रं हि मानुषे लोके इति विशेषणात् | अन्येष्व् अपि कर्म-फल-सिद्धिं दर्शयति भगवान् | मानुषे लोके वर्णाश्रमादि-कर्माधिकार इति विशेषः | तेषां च वर्णाश्रमाधिकारिणां कर्मिणां फल-सिद्धिः क्षिप्रं भवति कर्मजा कर्मणो जाता ||Bह्GS_४.१२||
SK
==============================
SK
मानुष एव लोके वर्णाश्रमादि-कर्माधिकारः | नान्येषु लोकेष्व् इति नियमः किं-निमित्तः ? इति | अथवा वर्णाश्रमादि-प्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश [Gईता ४.११] इत्य् उक्तं कस्मात् पुनः कारणान् नियमेन तवैव वर्त्मानुवर्तन्ते, नान्यस्य किम् ? उच्यते -
SK
चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः | तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ||Bह्G_४.१३||
SK
चातुर्वर्ण्यं चत्वार एव वर्णाश् चातुर्वर्ण्यं मयेश्वरेण सृष्टम् उत्पादितं ब्राह्मणो ऽस्य मुखम् आसीत् [Ṛक् ८.४.१९.२, Yअजुः ३२.११] इत्य् आदि श्रुतेः | गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च | गुणाः सत्त्व-रजस्-तमांसि | तत्र सात्त्विकस्य सत्त्व-प्रधानस्य ब्राह्मणस्य शमो दमस् तपः [Gईता १८.४२] इत्य् आदीनि कर्माणि | सत्त्वोप-सर्जन-रजः-प्रधानस्य क्षत्रियस्य शौर्य-तेजः-प्रभृतीनि कर्माणि | तम-उपसर्जन-रजः-प्रधानस्य वैश्यस्य कृष्य्-आदीनि कर्माणि | रज-उपसर्जन-तमः-प्रधानस्य शूद्रस्य शुश्रूषैव कर्म | इत्य् एवं गुण-कर्म-विभागशश् चातुर्गुण्यं मया सृष्टम् इत्य् अर्थः | तच् चेदं चातुर्वर्ण्यं नान्येषु लोकेषु | अतो मानुषे लोके इति विशेषणम् | हन्त तर्हि चातुर्वर्ण्य-सर्गादेः कर्मणः कर्तृत्वात् तत्-फलेन युज्यसे ऽतो न त्वं नित्य-मुक्तो नित्येश्वरश् चेति | उच्यते - यद्यपि माया-संव्यवहारेण तस्य कर्मणः कर्तारम् अपि सन्तं मां परमार्थतो विद्ध्य् अकर्तारं, अतएवाव्ययम् असंसारिणं च मां विद्धि ||Bह्GS_४.१३||
SK
==============================
SK
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस् तेषाम् अकर्तैवाहम् | यतो -
SK
न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा | इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ||Bह्G_४.१४||
SK
न मां तानि कर्माणि लिम्पन्ति देहाद्य्-आरम्भकत्वेनाहङ्काराभावात् | न च तेषां कर्मणां फले मे मम स्पृहा तृष्णा | येषां तु संसारिणाम् अहं कर्तेत्य् आभिमानः कर्मसु स्पृहा तत्-फलेषु च तान् कर्माणि लिम्पन्तीति युक्तम् | तद्-अभावान् न मां कर्माणि लिम्पन्तीति | एवं यो ऽन्ये ऽपि माम् आत्मत्वेनाभिजानाति नाहं कर्ता न मे कर्म-फले स्पृहेति न कर्मभिर् न बध्यते | तस्यापि न देहाद्य्-आरम्भकानि कर्माणि भवन्तीत्य् अर्थः ||Bह्GS_४.१४||
SK
==============================
SK
नाहं कर्ता, न मे कर्म-फले स्पृहेति -
SK
एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः | कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ||Bह्G_४.१५||
SK
एवं ज्ञात्वा कृतम् कर्म पूर्वैर् अप्य् अतिक्रान्तैर् मुमुक्षुभिः | कुरु तेन कर्मैव त्वम् | न तुष्णीम् आसनं नापि संन्यासः कर्तव्यः | तस्मात् त्वत्-पूर्वैर् अप्य् अनुष्ठितत्वाद् यद्य् अनात्मज्ञस् त्वं तद् आत्म-शुद्ध्य्-अर्थम् | तत्त्वविच् चेत् लोक-संग्रहार्थम् | पूर्वे जनकादिभिः पूर्वतरं कृतम् | नाधुनातन-कृतं निवर्तितम् ||Bह्GS_४.१५||
SK
==============================
SK
तत्र कर्म चेत् कर्तव्यं त्वद्-वचनाद् एव करोम्य् अहम् | किं विशेषितेन ? पूर्वैः पूर्वतरं कृतम् [Gईता ४.१५] इति | उच्यते -- यस्मान् महद् वैषम्यं कर्मणि | कथम् ?
SK
किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः | तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ||Bह्G_४.१६||
SK
किं कर्म किम् चाकर्मेति कवयो मेधाविनो ऽप्य् अत्रास्मिन् कर्मादि-विषये मोहिता मोहं गताः | अतस् ते तुभ्यम् अहं कर्माकर्म च प्रवक्ष्यामि यज् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे ऽशुभात् संसारात् ||Bह्GS_४.१६||
SK
==============================
SK
न चैतत् त्वया मन्तव्यं, कर्म नाम देहादि-चेष्टा लोक-प्रसिद्धं, अकर्म नाम तद्-अक्रिया तूष्णीम् आसनम् | किं तत्र बोद्धव्यम् ? इति | कस्मात् ? उच्यते -
SK
कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ||Bह्G_४.१७||
SK
कर्मणः शास्त्र-विहितस्य हि यस्माद् अप्य् अस्ति बोद्धव्यम् | बोद्धव्यम् चास्त्य् एव विकर्मणः प्रतिषिद्धस्य | तथाकर्मणश् च तूष्णीम्भावस्य बोद्धव्यम् अस्तीति त्रिष्व् अप्य् अध्याहारः कर्तव्यः | यस्माद् गहना विषमा दुर्ज्ञाना कर्मण इत्य् उपलक्षणार्थं कर्मादीनां कर्माकर्म-विकर्मणां गतिर् याथात्म्यं तत्त्वम् इत्य् अर्थः ||Bह्GS_४.१७||
SK
==============================
SK
किं पुनस् तत्त्वं कर्मादेर् यद् बोद्धव्यम् वक्ष्यामीति प्रतिज्ञातम् ? उच्यते --
SK
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः | स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ||Bह्G_४.१८||
SK
कर्मणि | कर्म क्रियत इति कर्म व्यापार-मात्रं, तस्मिन् कर्मण्य् अकर्म कर्माभावं यः पश्येत् | अकर्मणि च कर्माभावे कर्तृ-तन्त्रत्वात् प्रवृत्ति-निवृत्त्योर् वस्त्व् अप्राप्यैव हि सर्व एव क्रियाकारकादि-व्यवहारो ऽविद्याभूमाव् एव कर्म यः पश्येत् पश्यति | स बुद्धिमान् मनुष्येषु, स युक्तो योगी च कृत्स्न-कर्म-कृत् समस्त-कर्म-कृच् च स इति स्तूयते कर्माकर्मणोर् इतरेतर-दर्शी |
SK
ननु किम् इदं विरुद्धम् उच्यते कर्मण्य् अकर्म यः पश्येद् इति | अकर्मणि च कर्म इति | न हि कर्माकर्म स्याद् अकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद् द्रष्टा ? न | अकर्मैव परमार्थतः सत्-कर्मवद् अवभासते मूढ-दृष्टेर् लोकस्य, तथा कर्मैवाकर्मवत् | तत्र यथाभूत-दर्शनार्थम् आह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि | अतो न विरुद्धम् बुद्धिमत्त्वाद्य्-उपपत्तेश् च | बोद्धव्यम् इति च यथाभूत-दर्शनम् उच्यते | न च विपरीत-ज्ञानाद् अशुभान् मोक्षणं स्यात् यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [Gईता ४.१६] इति चोक्तम् | तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस् तद्-विपर्यय-ग्रहण-निवृत्त्य्-अर्थं भगवतो वचनं कर्मण्य् अकर्म यः इत्य् आदि |
SK
न चात्र कर्माधिकरण-कर्मास्ति, कुण्डे बदराणीव | नाप्य् अकर्माधिकरणं कर्मास्ति कर्माभावत्वाद् अकर्मणः | अतो विपरीत-गृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायाम् उदकं शुक्तिकायां वा रजतम् |
SK
ननु कर्म कर्मैव सर्वेषां न क्वचिद् व्यभिचरति | तन् न नौ-स्थस्य नावि गच्छन्त्यां तटस्थेस्व् अगतिषु नगेषु प्रतिकूल-गति-दर्शनात् | दूरेषु चक्षुषासन्निकृष्टेषु गच्छत्सु गत्य्-अभाव-दर्शनात् | एवम् इहाप्य् अकर्मण्य् अहं करोमीति कर्म-दर्शनं कर्मणि चाकर्म-दर्शनं विपरीत-दर्शनं येन, तन्-निराकरणार्थम् उच्यते कर्मण्य् अकर्म यः पश्येत् इत्य् आदि |
SK
तद् एतद् उक्त-प्रतिवचनम् अप्य् असकृद् अत्यन्त-विपरीत-दर्शन-भाविततया मोमुह्यमानो लोकः श्रुतम् अप्य् असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्या-प्रसङ्गम् अवतार्यावतार्य चोदयतीति पुनः पुनर् उत्तरम् आह भगवान् | दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः | अव्यक्तो ऽयम् अचिन्त्यो ऽयं [Gईता २.२५], न जायते म्रियते [Gईता २.२७] इत्य् आदिनात्मनि कर्माभावः श्रुति-स्मृति-न्याय-प्रसिद्ध उक्तो वक्ष्यमाणश् च | तस्मिन्न् आत्मनि कर्माभावे ऽकर्मणि कर्म-विपरीत-दर्शनम् अत्यन्त-निरूढम् | यतः किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः [Gईता ४.१६] देहाद्य्-आश्रयं कर्मात्मन्य् अध्यारोप्य | अहं कर्ता ममैतत् कर्म, मयास्य कर्मणः फलं भोक्तव्यम् इति च | तथा अहं तूष्णीं भवामि, येनाहं निरायासो ऽकर्मा सुखी स्याम् इति कार्य-करणाश्रय-व्यापारोपरमं तत्-कृतं चसुखित्वम् आत्मन्य् अध्यारोप्य न करोमि किंचित् तूष्णीं सुखम् आसम् इत्य् अभिमन्यते लोकः | तत्रेदं लोकस्य विपरीत-दर्शनापनयनायाह भगवान् कर्मण्य् अकर्म यः पश्येद् इत्य् आदि |
SK
अत्र च कर्म कर्मैव सत् कार्य-करणाश्रयं कर्म-रहितो ऽविक्रिय आत्मनि सर्वैर् अध्यस्तम् | यतः पण्डितो ऽप्य् अहं करोमीति मन्यते | अथ आत्म-समवेततया सर्व-लोक-प्रसिद्धे कर्मणि नदी-कुल-स्थेष्व् इव गतिः प्रतिलौम्येन | अतो ऽकर्म कर्माभावं यथा-भूतं गत्य्-अभावम् इव वृक्षेषु यः पश्येत् | अकर्मणि च कार्य-करण-व्यापारोपरमे कर्मवद् आत्मन्य् अध्यारोपिते तूष्णीम् अकुर्वन् सुखम् आसे इत्य् अहङ्काराभिसन्धि-हेतुत्वात् तस्मिन्न् अकर्मणि च कर्म यः पश्येत् | य एवं कर्माकर्म-विभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु | स युक्तो योगी कृत्स्न-कर्म-कृच् च | सो ऽशुभान् मोक्षितः कृत-कृत्यो भवतीत्य् अर्थः |
SK
अयं श्लोको ऽन्यथा व्याख्यातः कैश्चित् | कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे ऽनुष्ठीयमानानां तत्-फलाभावाद् अकर्माणि तान्य् उच्यन्ते गौण्या वृत्त्या | तेषां चाकरणम् अकर्म | तच् च प्रत्यवाय-फलत्वात् कर्मोच्यते गौण्यैव वृत्त्या | तत्र नित्ये कर्मण्य् अकर्म यः पश्येत् फलाभावात् | यथा धेनुर् अपि गौर् अगौर् उच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्वत् | तथा नित्याकरणे त्व् अकर्मणि कर्मः आश्येन् नरकादि-प्रत्यवाय-फलं प्रयच्छतीति | नैतद् युक्तं व्याख्यानम् | एवं-ज्ञानाद् अशुभान् मोक्षानुपपत्तेः | यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् [Gईता ४.१६] इति भगवतोक्तं वचनं बोध्येत | कथम् ? नित्यानाम् अनुष्ठानाद् अशुभात् स्यान् नाम मोक्षणम् | न तु तेषां फलाभाव-ज्ञानात् | न हि नित्यानां फलाभाव-ज्ञानम् अशुभ-मुक्ति-फलत्वेन चोदितं नित्य-कर्म-ज्ञानं वा | न च भगवतिवेहोक्तम् |
SK
एतेनाकर्मणि कर्म-दर्शनं प्रत्युक्तम् | न ह्य् अकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यता-मात्रम् | न चाकरणान् नित्यस्य प्रत्यवायो भवतीति विज्ञानात् किंचित् फलं स्यात् | नापि नित्याकरणं ज्ञेयत्वेन चोदितम् | नापि कर्माकर्मेति मिथा-दर्शनाद् अशुभान् मोक्षणम् | बुद्धिमत्त्वं, युक्तता, कृत्स्न-कर्म-कृत्त्वादि च फलम् उपपद्यते स्तुतिर् वा | मिथ्या-ज्ञानम् एव हि साक्षाद् अशुभ-रूपं कुतो ऽन्यस्माद् अशुभान् मोक्षणम् ? न हि तमस् तमसो निवर्तकं भवति |
SK
ननु कर्मणि यद् अकर्म-दर्शनम् अकर्मणि वा कर्म-दर्शनं, न तन्-मिथ्या-ज्ञानम् | किं तर्हि गौणं फल-भावाभाव-निमित्तम् ? न, कर्माकर्म-विज्ञानाद् अपि गौणात् फलस्याश्रवणात् | नापि श्रुत-हान्य-श्रुत-परिकल्पनया कश्चिद् विशेषो लभ्यते | स्व-शब्देनापि शक्यं वक्तुं नित्य-कर्मणां फलं नास्त्य् अकरणाच् च तेषां नरक-पातः स्याद् इति | तत्र व्याजेन पर-व्यामोह-रूपेण कर्मण्य् अकर्म यः पश्येद् इत्य् आदिना किम् ? तत्रैव व्याचक्षाणेन भगवतोक्तं वाक्यं लोक-व्यामोहार्थम् इति व्यक्तं कल्पितं स्यात् | न चैतच् छद्म-रूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनर् उच्यमानं सुबोधं स्याद् इत्य् एवं वक्तुं युक्तम् | कर्मण्य् एवाधिकारस् ते [Gईता २.४७] इत्य् अत्र हि स्फुटतर उक्तो ऽर्थो न पुनर् वक्तव्यो भवति | सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यम् एव, न निष्प्रयोजनं बोद्धव्यम् इत्य् उच्यते |
SK
न च मिथ्या-ज्ञानं बोद्धव्यं भवति तत्-प्रत्युपस्थापितं वा वस्त्व्-आभासम् | नापि नित्यानाम् अकरणाद् अभावात् प्रयवाय-भावोत्पत्तिः | नासतो विद्यते भावो [Gईता २.१६] इति वचनात् | तत्-कथम् असतः सज् जायते [CहाU ६.२.२] इति च दर्शितम् | असतः सज्-जन्म-प्रतिषेधाद् असतः सद्-उत्पत्तिं ब्रुवता ऽसद् एव सद् भवेत् | सच् चासद् भवेद् इत्य् उक्तं स्यात् | तच् चायुक्तं, सर्व-प्रमाण-विरोधात् | न च निष्फलं विदध्यात् कर्म शास्त्रं दुःख-स्वरूपत्वात् | दुःखस्य च बुद्धि-पूर्वकतया कार्यत्वानुपपत्तेः | तद्-अकरणे च नरक-पाताभ्युपगमे ऽनर्थायैव | उभयथापि करणे ऽकरणे च शास्त्रं निष्फलं कल्पितं स्यात् | स्वाभ्युपगम-विरोधश् च नित्यं निष्फलं कर्मेत्य् अभ्युपगम्य मोक्ष-फलायेति ब्रुवतः | तस्माद् यथा-श्रुत एवार्थः कर्मण्य् अकर्म य इत्य् आदेः | तथा च व्याख्यातो ऽस्माभिः श्लोकः ||Bह्GS_४.१८||
SK
==============================
SK
तद् एतत् कर्मण्य् अकर्मादि-दर्शनं स्तूयते -
SK
यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः | ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ||Bह्G_४.१९||
SK
यस्य यथोक्त-दर्शिनः सर्वे यावन्तः समारम्भाः कर्माणि समारभ्यन्त इति समारम्भाः | काम-संकल्प-वर्जिताः कामैस्तत्-कारणैश् च सङ्कल्प-वर्जिता मुधैव चेष्टा-मात्रा अनुष्ठीयन्ते | प्रवृत्तेन चेल् लोक-सङ्ग्रहार्थं, निवृत्तेन चेज् जीवन-मात्रार्थं, तं ज्ञानाग्नि-दग्ध-कर्माणं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं, तद् एवाग्निस् तेन ज्ञानाग्निना दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य | तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्म-विदः ||Bह्GS_४.१९||
SK
==============================
SK
यस् तु कर्मादाव् अकर्मादि-दर्शी सो ऽकर्मादि-दर्शनाद् एव निष्कर्मा सन्न्यासी जीवन-मात्रार्थ-चेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि प्राग्-विवेकतः प्रवृत्तः | यस् तु प्रारब्ध-कर्मा सन्न् उत्तर-कालम् उत्पन्नात्म-सम्यग्-दर्शनः स्यात्, स सर्व-कर्मणि प्रयोजनम् अपश्यन् स-साधनं कर्म परियजत्य् एव | स कुतश्चिन् निमित्तात् कर्म-परित्यागासम्भवे सति कर्मणि तत्-फले च सङ्ग-रहिततया स्व-प्रयोजनाभावाल् लोक-सङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तो ऽपि नैव किंचित् करोति ज्ञानाग्नि-दग्ध-कर्मत्वात् तदीयं कर्माकर्मैव सम्पद्यत इत्य् एतम् अर्थं दर्शयिष्यन्न् आह -
SK
त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः | कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ||Bह्G_४.२०||
SK
त्यक्त्वा कर्मस्व् अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्य-तृप्तो निराकाङ्क्षो विषयेष्व् इत्य् अर्थः | निराश्रय आश्रय-रहितः | आश्रयो नाम यद् आश्रित्य पुरुषार्थं सिसाधयिषति | दृष्टादृष्ट-फल-साधनाश्रय-रहित इत्य् अर्थः | विदुषा क्रियमाणं कर्म परमार्थतो ऽकर्मैव | तस्य निष्क्रियात्म-दर्शन-सम्पन्नत्वात् | तेनैवम्भूतेन स्व-प्रयोजनाभावात् स-साधनं कर्म परित्यक्तव्यम् एवेति प्राप्ते, ततो निर्गमासम्भवाल् लोक-सङ्ग्रह-चिकीर्षया शिष्ट-विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मण्य्-अभिप्रवृत्तो ऽपि निष्क्र्यात्म-दर्शन-सम्पन्नत्वान् नैव किंचित् करोति सः ||Bह्GS_४.२०||
SK
==============================
SK
यः पुनः पूर्वोक्त-विपरीतः प्राग् एव कर्माम्भाद् ब्रह्मणि सर्वान्तरे प्रत्यग्-आत्मनि निष्क्रिये संजातात्म-दर्शनः, स दृष्टादृष्टेष्ट-विषयाशीर् विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनम् अप्यश्यन् स-साधनं कर्म संन्यस्य शरीर-यात्रा-मात्र-चेष्टो यतिर् ज्ञान-निष्ठो मुच्यत इति | एतद् अर्थं दर्शयितुम् आह-
SK
निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः | शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ||Bह्G_४.२१||
SK
निराशीर् निर्गता आशिषो यस्मात् स निराशीः | यत-चित्तात्मा चित्तम् अन्तः-करणम् | आत्मा बाह्यः कार्य-करण-संघातः | ताव् उभाव् अपि यतौ संयतौ यस्य स यत-चित्तात्मा | त्यक्त-सर्व-परिग्रहः - त्यक्तः सर्वः परिग्रहो येन स त्यक्त-सर्व-परिग्रहः | शारीरं शरीर-स्थिति-मात्र-प्रयोजनं केवलं तत्रापि अभिमान-वर्जितं कर्म कुर्वन् | नाप्नोति न प्राप्नोति किल्बिषम् अनिष्ट-रूपं पापं धर्मं च | धर्मो ऽपि मुमुक्षोर् अनिष्ट-रूपं किल्बिषम् एव | बन्धापादकत्वात् | तस्मात् ताभ्यां मुक्तो भवति, संसारान् मुक्तो भवतीत्य् अर्थः |
SK
किं च शारीरं केवलं कर्मेत्य् अत्र किं शरीर-निर्वर्त्यं शारीरं कर्माभिप्रेतम् ? आहो स्विच् छरीर-स्थिति-मात्र-प्रयोजनं शारीरं कर्म ? इति | किं चातो यदि शरीर-निर्वर्त्यं शारीरं कर्म यदि वा शरीर-स्थिति-मात्र-प्रयोजनं शरीरम् ? इति | उच्यते -- यदा शरीर-निर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् तदा दृष्टादृष्ट-प्रयोजनं कर्म प्रतिषिद्धम् अपि शरीरेण कुर्वन् नाप्नोति किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत | शास्त्रीयं च कर्म दृष्टादृष्ट-प्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्य् अपि ब्रुवतो ऽप्राप्त-प्रतिषेध-प्रसङ्गः | शारीरं कर्म कुर्वन् इति विशेषणात् केवल-शब्द-प्रयोगाच् च वाङ्-मनस-निर्वर्त्यं कर्म विधि-प्रतिषेध-विषयं धर्माधर्म-शब्द-वाच्यं कुर्वन् प्राप्नोति किल्बिषम् इत्य् उक्तं स्यात् |
SK
तत्रापि वाङ्-मनसाभ्यां विहितानुष्ठान-पक्षे किल्बिष-प्राप्ति-वचनं विरुद्धम् आपद्येत | प्रतिषिद्ध-सेवि-पक्षे ऽपि भूतार्थानुवाद-मात्रम् अनर्थकं स्यात् | यदा तु शरीर-स्थिति-मात्र-प्रयोजनं शारीरं कर्माभिप्रेतं भवेत्, तदा दृष्टादृष्ट-प्रयोजनं कर्म विधि-प्रतिषेध-गम्यं शरीर-वाङ्-मनस-निर्वर्त्यम् अन्यद् अक्रुवंस् तैर् एव शरीरादिभिः शरीर-स्थिति-मात्र-प्रयोजनं केवल-शब्द-प्रयोगात् अहं करोमि इत्य् अभिमान-वर्जितः शरीरादि-चेष्टा-मात्रं लोक-दृष्ट्या कुर्वन् नाप्नोति किल्बिषम् | एवम्भूतस्य पाप-शब्द-वाच्य-किल्बिष-प्राप्त्य्-असम्भवात् किल्बिषं संसारं नाप्नोति | ज्ञानाग्नि-दग्ध-सर्व-कर्मत्वाद् अप्रतिबन्धेन मुच्यते एवेति पूर्वोक्त-सम्यग्-दर्शन-फलानुवाद एवैषः | एवं शरीरं केवलं कर्म इत्य् अस्यार्थस्य परिग्रहे निरवद्यं भवति ||Bह्GS_४.२१||
SK
==============================
SK
त्यक्त-सर्व-परिग्रहस्य यतेर् अन्नादेः शरीर-स्थिति-हेतोर्ः परिग्रहस्याभावाद् याचनादिना शरीर-स्थितौ कर्तव्यतायां प्राप्तायां अयाचितम् असंक् प्तम् उपपन्नं यदृच्छया [Mभ् १४.४६.१९; Bऔधयन-धर्म-सूत्र २१.८.१२] इत्य् आदिना वचनेनानुज्ञातं यतेः शरीर-स्थिति-हेतोर् अन्नादेः प्राप्ति-द्वारम् आविष्कुर्वन्न् आह -
SK
यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ||Bह्G_४.२२||
SK
यदृच्छा-लाभ-सन्तुष्टः प्रार्थितोपनतो लाभो यदृच्छा-लाभः, तेन सन्तुष्टः संजातालं-प्रत्ययः | द्वन्द्वातीतो द्वन्द्वैः शीतोष्णादिभिर् हन्यमानो ऽप्य् अविषण्ण-चित्तो द्वन्द्वातीत उच्यते | विमत्सरो विगत-मत्सरो निर्वैर-बुद्धिः | समस् तुल्यो यदृच्छा-लाभस्य सिद्धाव् असिद्धौ च, य एवम्भूतो यतिर् अन्नादेः शरीर-स्थिति-हेतोर् लाभालाभयोः समो हर्ष-विषाद-वर्जितः, कर्मादाव् अकर्मादि-दर्शी, यथा-भूतात्म-दर्शन-निष्ठः सन् शरीर-स्थिति-मात्र-प्रयोजने भिक्षाटनादि-कर्मणि शरीरादि-निर्वर्त्ये नैव किंचित् करोमीति [Gईता ५.८] गुणा गुणेषु वर्तन्त [Gईता ३.२८] इत्य् एवं सदा सम्परिचक्षाण आत्मनः कर्तृत्वाभावं पश्यन्न् एव किंचिद् भिक्षाटनादिकं कर्म करोति | लोक-व्यवहार-सामान्य-दर्शनेन तु लौकिकैर् आरोपित-कर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति | स्वानुभवेन तु शास्त्र-प्रमाणादि-जनितेनाकर्त्रैव | स एवं पराध्यारोपित-कर्तृत्वं शरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते, बन्ध-हेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वाद् इत्य् उक्तानुवाद एवैषः ||Bह्GS_४.२२||
SK
==============================
SK
त्यक्त्वा कर्म-फलासङ्गं [Gईता ४.२०] इत्य् अनेन श्लोकेन यः प्रारब्ध-कर्मा सन् यदा निष्क्रिय-ब्रह्मात्म-दर्शन-सम्पन्नः स्यात् तदा तस्यात्मनः कर्तृ-कर्म-प्रयोजनाभाव-दर्शिनः कर्म-परित्यागे प्राप्ते कुतश्चिन् निमित्तात् तद्-असम्भवे सति पूर्ववत् तस्मिन् कर्मण्य् अभिप्रवृत्तस्यापि नैव किंचित् करोति स [Gईता ४.२०] इतिकर्माभावः प्रदर्शितः | यस्यैवं कर्माभावो दर्शितस् तस्यैव -
SK
गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः | यज्ञायाचरतः कर्म समग्रं प्रविलीयते ||Bह्G_४.२३||
SK
गत-सङ्गस्य सर्वतो निवृत्तासक्तेर् मुक्तस्य निवृत्त-धर्माधर्मादि-बन्धनस्य, ज्ञानावस्थित-चेतसो ज्ञान एवावस्थितं चेतो यस्य सो ऽयं ज्ञानावस्थित-चेताः | तस्य यज्ञाय यज्ञ-निर्वृत्त्य्-अर्थम् आचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण फलेन वर्तत इति समग्रं कर्म तत्-समग्रं प्रविलीयते विनश्यतीत्य् अर्थः ||Bह्GS_४.२३||
SK
==============================
SK
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम् अकुर्वत् समग्रं प्रविलीयत इत्य् उच्यते ? यतः -
SK
ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ||Bह्G_४.२४||
SK
ब्रह्मार्पणं येन करणेन ब्रह्मविद् हविर् अग्नाव् अर्पयति | तद् ब्रह्मैवेति पश्यति तस्यात्म-व्यतिरेकेणाभावं पश्यति | यथा शुक्तिकायां रजताभावं पश्यति तद् उच्यते ब्रह्मैवार्पणम् इति | यथा यद् रजतं तच् छुक्तिकैवेति | ब्रह्म अर्पणम् इत्य् असमस्ते पदे यद्-अर्पण-बुद्ध्या गृह्यते लोके तद् अस्य ब्रह्म-विदो ब्रह्मैवेत्य् अर्थः |
SK
ब्रह्म हविस् तथा यद् धविर् बुद्ध्या गृह्यमाणं तद् ब्रह्मैवासय् | तथा ब्रह्माग्नौ इति समस्तं पदम् | अग्निर् अपि ब्रह्मैव | यत्र हूयते ब्रह्मणा कर्त्रा ब्रह्मैव कर्तेत्य् अर्थः | यत् तेन हुतं हवन-क्रिया तद् ब्रह्मैव | यत् तेन गन्तव्यं फलं तद् अपि ब्रह्मैव | ब्रह्म-कर्म-समाधिना ब्रह्मैव कर्म ब्रह्म-कर्म तस्मिन् समाधिर् यस्य स ब्रह्म-कर्म-समाधिस् तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम् |
SK
एवं लोक-सङ्ग्रहं चिकीर्षुणापि क्रियमाणं करम्, परमार्थतो ऽकर्म ब्रह्म-बुद्ध्य्-उपमृदित्वात् | एवं सति निवृत्त-कर्मणो ऽपि सर्व-कर्म-सन्न्यासिनः सम्यग्-दर्शन-स्तुत्य्-अर्थं यज्ञत्व-सम्पादनं ज्ञानस्य सुतराम् उपपद्यते | यद्-अर्पणाद्य्-अधियज्ञे प्रसिद्धं तद् अस्याध्यात्मं ब्रह्मैव परमार्थ-दर्शिन इति | अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् | तस्माद् ब्रह्मैवेदं सर्वम् इत्य् अभिजानतो विदुषः सर्व-कर्माभावः |
SK
कारक-बुद्ध्य्-अभावाच् च | नहि कारक-बुद्धि-रहितं यज्ञाख्यं कर्म दृष्टम् | सर्वम् एवाग्नि-होत्रादिकं कर्म शब्द-समर्पित-देवता-विशेष-सम्प्रदानादि-कारक-बुद्धिमत्-कर्त्र्-अभिमान-फलाभिसन्धिमच् च दृष्टम् | नोपमृदित-क्रियाकारक-फल-भेद-बुद्धिमत् कर्तृत्वाभिमान-फलाभिसन्धि-रहितं वा | इदं तु ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धि कर्मातो ऽकर्मैव तत् |
SK
तथा च दर्शितं कर्मण्य् अकर्म यः पश्येत् [Gईता ४.१८], कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः [Gईता ४.२०], गुणा गुणेषु वर्तन्ते [Gईता ३.२८], नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् [Gईता ५.८] इत्य् आदिभिः | तथा च दर्शयंस् तत्र तत्र क्रिया-कारक-फल-भेद-बुद्ध्य्-उपमर्दं करोति | दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादि-हानिः | तथा मति-पूर्वकाम् अतिपूर्वकादीनां कर्मणां कार्य-विशेषस्यारम्भकत्वं दृष्टम् | तथेहापि ब्रह्म-बुद्ध्य्-उपमृदितार्पणादि-कारक-क्रिया-फल-भेद-बुद्धेर् बाह्य-चेष्टा-मात्रेण कर्मापि विदुषो ऽकर्म सम्पद्यते | अत उक्तं समग्रं प्रविलीयते [Gईता ४.२३] इति |
SK
अत्र केचिद् आहुः - यद् ब्रह्म तद् अर्पणादीनि | ब्रह्मैव किलार्पणादिना पञ्च-विधेन कारकात्मना व्यवस्थितं सत् तद् एव कर्म करोति | तत्र नार्पणादि-बुद्धिर् निवर्त्यते | किन्त्व् अर्पणादिषु ब्रह्म-बुद्धिर् आधीयते | यथा प्रतिमादौ विष्ण्व्-आदि-बुद्धिः, यथा वा नामादौ ब्रह्म-बुद्धिर् इति | सत्यम् एवम् अपि स्याद् यदि ज्ञान-यज्ञ-स्तुत्य्-अर्थं प्रकरणं न स्यात् | अत्र तु सम्यग्-दर्शनं ज्ञान-यज्ञ-शब्दितम् अनेकान् यज्ञ-शब्दितान् क्रिया-विशेषान् उपन्यस्य श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [Gईता ४.३३] इति ज्ञानं स्तौति | अत्र च समर्थम् इदं वचनं ब्रह्मार्पणम् इत्य् आदि ज्ञानस्य यज्ञत्व-सम्पादने, अन्यथा सर्वस्य ब्रह्मत्वे ऽर्पणादीनाम् एव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् | ये त्व् अर्पणादिषु प्रतिमायां विष्णु-दृष्टिवद् ब्रह्म-दृष्टिः क्षिप्यते | नामादिष्व् इव चेति ब्रुवते, न तेषां ब्रह्म-विद्योक्तेह विवक्षिता स्यात् | अर्पणादि-विषयत्वाज् ज्ञानस्य | न च दृष्टि-सम्पादन-ज्ञानेन मोक्ष-फलं प्राप्यते | ब्रह्मैव तेन गन्तव्यम् इति चोच्यते |
SK
विरुद्धं च सम्यग्-दर्शनम् अन्तरेण मोक्ष-फलं प्राप्यत इति | प्रकृति-विरोधश् च | सम्यग्-दर्शनं च प्रकृतं कर्मण्य् अकर्म यः पश्येत् [Gईता ४.१८] इत्य् अत्रान्ते च सम्यग्-दर्शनं तस्यैवोपसंहारात् | श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [Gईता ४.३३] ज्ञानं लब्ध्वा परां शान्तिं [Gईता ४.३९] इत्य् आदिना सम्यग्-दर्शन-स्तुतिम् एव कुर्वन्न् उपक्षीणो ऽध्यायः | तत्राकस्माद् अर्पणादौ ब्रह्म-दृष्टिर् अप्रकरणे प्रतिमायाम् इव विष्णु-दृष्टिर् उच्यत इत्य् अनुपपन्नम् | तस्माद् यथा-व्याख्यातार्थ एवायं श्लोकः ||Bह्GS_४.२४||
SK
==============================
SK
तत्राधुना सम्यग्-दर्शनस्य यज्ञत्वं सम्पाद्य तत्-स्तुत्य्-अर्थम् अन्ये ऽपि यज्ञा उपक्षिप्यन्ते -
SK
दैवम् एवापरे यज्ञं योगिनः पर्युपासते | ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ||Bह्G_४.२५||
SK
दैवम् एव देवा इज्यन्ते येन यज्ञेनासौ दैवो यज्ञस् तम् एवापरे यज्ञं योगिनः कर्मिणः पर्युपासते, कुर्वन्तीत्य् अर्थः | ब्रह्माग्नौ सत्यं ज्ञानम् अनन्तं ब्रह्म [Tऐत्त्U २.१] विज्ञानम् आनन्दं ब्रह्म [BAU ३.९.२८], यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः [BAU ३.४.१], इत्य् आदि वचनोक्तम् अशनायापिपासादि-सर्व-संसार-धर्म-वर्जितं नेति नेति [BAU ४.४.२२] इति निरस्ताशेष-विशेषं ब्रह्म-शब्देनोच्यते | ब्रह्म च तद्-अग्निश् च स होमाधिकरणत्व-विवक्षया ब्रह्माग्निस् तस्मिन् ब्रह्माग्नाव् अपरे ऽन्ये ब्रह्म-विदो यज्ञं यज्ञ-शब्द-वाच्य आत्मा आत्म-नामसु यज्ञ-शब्दस्य पाठात् [Nइरुक्ति १४.११] तम् आत्मानं यज्ञं परमार्थतः परम् एव ब्रह्म सन्तं बुद्ध्याद्य्-उपाधि-संयुक्तम् अध्यस्त-सर्वोपाधि-धर्मकम् आहुति-रूपं यज्णिनैवात्मनैवोक्त-लक्षणोपजुह्वति प्रक्षिपन्ति, सोपाधिकस्यात्मनो निरुपाधिकेन पर-ब्रह्म-स्वरूपेणैव यद् दर्शनं, स तस्मिन् होमस् तं कुर्वन्ति, ब्रह्मात्मैकत्व-दर्शन-निष्ठाः सन्न्यासिन इत्य् अर्थः | सो ऽयं सम्यग्-दर्शन-लक्षणो यज्ञो दैव-यज्ञादिषु यज्ञेषूपक्षिप्यन्ते ब्रह्मार्पणम् इत्य् आद्-श्लोकैः प्रस्तुतः श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप [Gईता ४.३३] इत्य् आदिना स्तुत्य्-अर्थम् ||Bह्GS_४.२५||
SK
==============================
SK
श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति | शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ||Bह्G_४.२६||
SK
श्रोत्रादीनीन्द्रियाण्य् अन्ये योगिनः संयमाग्निषु प्रतीन्द्रियं संयमो भिद्यत इति बहु-वचनम् | संयमा एवाग्नयस् तेषु जुह्वति | इन्द्रिय-संयमम् एव कुर्वन्तीत्य् अर्थः | शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति, इन्द्रियाण्य् एवाग्नयस् तेष्व् इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिर् अविरुद्ध-विषय-ग्रहणं होमं मन्यन्ते ||Bह्GS_४.२६||
SK
==============================
SK
किं च - सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे | आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ||Bह्G_४.२७||
SK
सर्वाणीन्द्रिय-कर्माणि इन्द्रियाणां कर्माणीन्द्रिय-कर्माणि | तथा प्राण-कर्माणि प्राणो वायुर् आध्यात्मिकस् तत्-कर्माण्य् आकुञ्चन-प्रसारणादीनि तानि चापर आत्म-संयम-योगाग्नौ, आत्मनि संयम आत्म-संयमः | स एव योगाग्निस् तस्मिन्न् आत्म-संयम-योगाग्नौ जुह्वति प्रक्षिपन्ति | ज्ञान-दीपिते स्नेहेनेव प्रदीपिते विवेक-विज्ञानेनोज्ज्वल-भावम् आपादिते प्रविलापयन्तीत्य् अर्थः ||Bह्GS_४.२७||
SK
==============================
SK
द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे | स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ||Bह्G_४.२८||
SK
द्रव्य-यज्ञास् तीर्थेषु द्रव्य-विनियोगं यज्ञ-बुद्ध्या कुर्वन्ति ये ते द्रव्य-यज्ञाः | तपो-यज्ञास् तपो यज्ञो येषां तपस्विनां ते तपो-यज्ञाः | योग-यज्ञाः प्राणायाम-प्रत्याहारादि-लक्षणो योगो यज्ञो येषां ते योग-यज्ञाः | तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च स्वाध्यायो यथा-विधि ऋग्-आद्य्-अभ्यासो यज्ञो येषां ते स्वाध्याय-यज्ञाः | ज्ञान-यज्ञा ज्ञानं शास्त्रार्थ-परिज्ञानं यज्ञो येषां ते ज्ञान-यज्ञाः | स्वाध्याय-यज्ञा ज्ञान-यज्ञाश् च यतयो यतन-शीलाः | शंसित-व्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशित-व्रताः ||Bह्GS_४.२८||
SK
==============================
SK
किं च - अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे | प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ||Bह्G_४.२९||
SK
अपाने ऽपान-वृत्तौ जुह्वति प्रतिक्षिपन्ति प्राणं प्राण-वृत्तिं, पूरकाख्यं प्राणायामं कुर्वन्तीत्य् अर्थः | प्राणे ऽपानं तथापरे जुह्वति | रेचकाख्यं च प्राणायामं कुर्वन्तीत्य् एतत् | प्राणापान-गती मुख्य-नासिकाभ्यां वायोर् निर्गमनं प्राणस्य गतिस् तद्-विपर्ययेणाधो-गमनम् अपानस्य गतिस्, ते प्राणापान-गती | एते रुद्ध्वा निरुध्य प्राणायाम-परायणाः प्राणायाम-तत्-पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्य् अर्थः ||Bह्GS_४.२९||
SK
==============================
SK
किं च -
SK
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति | सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ||Bह्G_४.३०||
SK
अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः, प्राणान् वायु-भेदान् प्राणेष्व् एव जुह्वति | यस्य यस्य वायोर् जयः क्रियत इतरान् वायु-भेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति | सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपितकल्मषा यज्ञैर् यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञ-क्षपित-कल्मषाः ||Bह्GS_४.३०||
SK
==============================
SK
एवं यथोक्तान् यज्ञान् निर्वत्र्य ---
SK
यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् | नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ||Bह्G_४.३१||
SK
यज्ञ-शिष्टामृत-भुजो यज्ञानां शिष्टं यज्ञ-शिष्टं यज्ञ-शिष्टं च तद् अमृतं च यज्ञ-शिष्टामृतं तद् भुञ्जत इति यज्ञ-शिष्टामृत-भुजः | यथोक्तान् यज्ञान् कृत्वा तच्-छिष्टेन कालेन यथा-विधि-चोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञ-शिष्टामृत-भुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश् चेत् | कालातिक्रमापेक्षयेति सामर्थ्याद् गम्यते | नायं लोकः सर्व-प्राणि-साधारणो ऽप्य् अस्ति यथोक्तानां यज्ञानाम् एको ऽपि यज्ञो यस्य नास्ति सो ऽयज्ञस् तस्य | कुतो ऽन्यो विशिष्ट-साधन-साध्यः कुरु-सत्तम ||Bह्GS_४.३१||
SK
==============================
SK
एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ||Bह्G_४.३२||
SK
एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञा वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेण अवगम्यमाना ब्रह्मणो मुखे वितता उच्यन्ते | तद् यथा वाचि हि प्राणं जुहुमः इत्य् आदयः | कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि तान् सर्वान् अनात्मजान्, निर्व्यापारो ह्य् आत्मा | अत एवं ज्ञात्वा विमोक्ष्यसे ऽशुभात् | न मद्-व्यापारा इमे, निर्व्यापारो ऽहम् उदासीन इत्य् एवं ज्ञात्वास्मात् सम्यग्-दर्शनान् मोक्ष्यसे संसार-बन्धनाद् इत्य् अर्थः ||Bह्GS_४.३२||
SK
==============================
SK
ब्रह्मार्पणम् [Gईता ४.२४] इत्य् आदि लोकेन सम्यग्-दर्शनस्य यज्ञत्वं संपादितम् | यज्ञाश् चानेक उपदिष्टाः | तैः सिद्ध-पुरुषार्थ-प्रयोजनैर् ज्ञानं स्तूयते | कथम् ? ---
SK
श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||Bह्G_४.३३||
SK
श्रेयान् द्रव्य-मयात् द्रव्य-साधन-साध्याद् यज्ञाज् ज्ञान-यज्ञो हे परंतप | द्रव्य-मयो हि यज्ञः फलस्यारम्भकः, ज्ञान-यज्ञो न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः | कथम् ? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्ष-साधने सर्वतः संप्लुतोदक-स्थानीये परिसमाप्यते अन्तर्भवतीत्य् अर्थः | यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंचित् प्रजाः साधु कुर्वन्ति यस् तद् वेद यत् स वेद [CहाU ४.१.४] इति श्रुतेः ||Bह्GS_४.३३||
SK
==============================
SK
तद् एतद् विशिष्टां ज्ञानं तर्हि केन प्राप्यत इत्य् उच्यते ---
SK
तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ||Bह्G_४.३४||
SK
तत् विद्धि विजानीहि येन विधिना प्राप्यते इति | आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन | कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? इति परिप्रश्नेन, सेवया गुरु-शुश्रूषया एवम् आदिना | प्रश्रयेणावर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्त-विशेषणं ज्ञानिनः | ज्ञानवन्तो ऽपि केचिद् यथावत् तत्त्व-दर्शन-शीलाः, अपरे न | अतो विशिनष्टि तत्त्व-दर्शिन इति | ये सम्यग्-दर्शिनस् तैर् उपदिष्टं ज्ञानं कार्य-क्षमं भवति | नेतरद् इति भगवतो मतम् ||Bह्GS_४.३४||
SK
==============================
SK
तथा च सतीदमपि समर्थं वचनम् --
SK
यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव | येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ||Bह्G_४.३५||
SK
यज् ज्ञात्वा यज् ज्ञानं तैर् उपदिष्टम् अधिगम्य प्राप्य पुनर् भूयो मोहम् एवं यथेदानीं मोहं गतो ऽसि पुनर् एवं न यास्यसि हे पाण्डाव | किं च ---- येन ज्ञानेन भूतान्य् अशेषेण ब्रह्मादीनि स्तम्ब-पर्यन्तानि द्रक्ष्यसि साक्षाद् आत्मनि प्रत्यग् आत्मनि मत्-संस्थानीमानि भूतानीत्य् अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति | क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्-प्रसिद्धं द्रक्ष्यसीत्य् अर्थः ||Bह्GS_४.३५||
SK
==============================
SK
किं चैतस्य ज्ञानस्य माहात्म्यम् ---
SK
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः | सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ||Bह्G_४.३६||
SK
अपि चेद् असि पापेभ्यः पाप-कृद्भ्यः सर्वेभ्यो ऽतिशयेन पाप-कृत् पाप-कृत्तमः सर्वं ज्ञान-प्लवेनैव ज्ञानम् एव प्लवं कृत्वा वृजिनं वृजिनार्णवं पाप-समुद्रं संतरिष्यसि | धर्मो ऽपीह मुमुक्षोः पापम् उच्यते ||Bह्GS_४.३६||
SK
==============================
SK
ज्ञानं कथं नाशयति पापम् ? इति स-दृष्टान्तम् उच्यते ---
SK
यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन | ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ||Bह्G_४.३७||
SK
यथैधांसि काष्ठानि समिद्धः सम्यग् इद्धो दीप्तो ऽग्निर् भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानम् एव अग्निर् ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोतीत्य् अर्थः | न हि साक्षाद् एव ज्ञानाग्निः कर्माणीन्धनवत् भस्मीकर्तुं शक्नोति | तस्मात् सम्यग् दर्शनं सर्व-कर्मणां निर्बीजत्वे कारणम् इत्य् अभिप्रायः | सामर्थ्याद् येन कर्मणा अरीरम् आरब्धं तत् प्रवृत्त-फलत्वाद् उपभोगेनैव क्षीयते | तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्ये [CहाU ६.१४.१] अतो यान्य् अप्रवृत्त-फलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञान-सहभावीनि चातीतानेक-जन्म-कृतानि च तान्य् एव सर्वाणि भस्मसात् कुरुते ||Bह्GS_४.३७||
SK
==============================
SK
यतः एवम् अतः---
SK
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते | तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ||Bह्G_४.३८||
SK
न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धि-करम् इह विद्यते | तज् ज्ञानं स्वयम् एव योग-संसिद्धो योगेन कर्म-योगेन समाधि-योगेन च संसिद्धः संस्कृतो योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्य् अर्थः ||Bह्GS_४.३८||
SK
============================== येनैकान्तेन ज्ञान-प्राप्तिर् भवति स उपाय उपदिश्यते ---
SK
श्रद्धावांल् लभते ज्ञानं तत्-परः संयतेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ||Bह्G_४.३९||
SK
श्रद्धावान् श्रद्धालुर् लभते ज्ञानम् | श्रद्धालुत्वे ऽपि भवति कश्चिन् मन्द-प्रस्थानः, अत आह --- तत्-परः | गुरूपासदनादाव् अभियुक्तो ज्ञान-लब्ध्य्-उपाये श्रद्धावान् | तत्-परो ऽप्य् अजितेन्द्रियः स्यात् इत्य् अत आह --- संयतेन्द्रियः | संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणि स संयतेन्द्रियः | य एवंभूतः श्रद्धावान् तत्-परः संयतेन्द्रियश् च सो ऽवश्यं ज्ञानं लभते | प्रणिपातादिस् तु बाह्यो ऽनैकान्तिको ऽपि भवति, मायावित्वादि-संभवात् | न तु तत् श्रद्धावत्त्वादौ इत्य् एकान्ततो ज्ञान-लब्ध्य्-उपायः | किं पुनर् ज्ञान-लाभात् स्याद् इत्य् उच्यते -- ज्ञानं लब्ध्वा परं मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रम् एवाधिगच्छति | सम्यग्-दर्शनात् क्षिप्रम् एव मोक्षो भवतीति सर्व-शास्त्र-न्याय-प्रसिद्धः सुनिश्चितो ऽर्थः ||Bह्GS_४.३९||
SK
==============================
SK
अत्र संशयो न कर्तव्यः, पापिष्ठो हि संशयः | कथम् इत्य् उच्यते ---
SK
अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति | नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ||Bह्G_४.४०||
SK
अज्ञश् चानात्मज्ञश् चाश्रद्दधानश् च गुरु-वाक्य-शास्त्रेष्व् अविश्वासवांश् च संशयात्मा च संशय-चित्तश् च विनश्यति | अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा | संशयात्मा तु पापिष्ठः सर्वेषाम् | कथम् ? नायं साधारणो ऽपि लोको ऽस्ति | तथा न परो लोकः | न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशय-चित्तस्य | तस्मात् संशयो न कर्तव्यः ||Bह्GS_४.४०||
SK
==============================
SK
कस्मात् ? ----
SK
योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||Bह्G_४.४१||
SK
योग-संन्यस्त-कर्माणं परमार्थ-दर्शन-लक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थ-दर्शिना धर्माधर्माख्यानि तं योग-संन्यस्त-कर्माणम् | कथं योग-संन्यस्त-कर्मा ? इत्य् आह - ज्ञान-संछिन्न-संशयं ज्ञानेनात्मेश्वरैकत्व-दर्शन-लक्षणेन संछिन्नः संशयो यस्य यो ज्ञान-संछिन्न-संशयः | य एवं योग-संन्यस्त-कर्मा तम् आत्मवन्तम् अप्रमत्तं गुण-चेष्टा-रूपेण दृष्टानि कर्माणि न निबध्नन्त्य् अनिष्टादि-रूपं फलं नारभन्ते | हे धनंजय ||Bह्GS_४.४१||
SK
==============================
SK
यस्मात् कर्म-योगानुष्ठानाद् अशुद्धि-क्षय-हेतुक-ज्ञान-संछिन्न-संशयो न निबध्यते कर्मभिर् ज्ञानाग्नि-दग्ध-कर्मत्वाद् एव, यस्माच् च ज्ञान-कर्मानुष्ठान-विषये संशयवान् विनश्यति ---
SK
तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः | छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ||Bह्G_४.४२||
SK
तस्मात् पापिष्ठम् अज्ञान-संभूतम् अज्ञानाद् अविवेकाज् जातं हृत्-स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोक-मोहादि-दोष-हरं सम्यग् दर्शनं ज्ञानं तद् एवासिः खड्गस् तेन ज्ञानासिना आत्मनः स्वस्य, आत्म-विषयत्वात् संशयस्य | न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत | अत आत्म-विषयो ऽपि स्वस्यैव भवति | छित्त्वा एनं संशयं स्व-विनाश-हेतु-भूतम्, योगं सम्यग्-दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्व् इत्य् अर्थः | उत्तिष्ठ चेदानीं युद्धाय भारत इति ||Bह्GS_४.४२||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये चतुर्थो ऽध्यायः
SK
Bह्G ५
SK
अथ पञ्चमो ऽध्यायः (शङ्कर-भाष्य)
SK
अर्जुन उवाच -

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source