Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · भगवद्गीता शाङ्करभाष्यम्

Bhagavadgītā with Śaṅkara's commentary

Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17)

भगवद्गीता शाङ्करभाष्यम्

Adhyāya 15

SK
श्री-भगवान् उवाच ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् | छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ||Bह्G_१५.१||
SK
ऊर्ध्व-मूलं कालतः सूक्ष्मत्वात् कारणत्वान् नित्यत्वात् महत्त्वाच् चोर्ध्वम् | उच्यते ब्रह्माव्यक्तं माया शक्तिमत्, तन् मूलम् अस्येति सो ऽयं संसार-वृक्षः ऊर्ध्व-मूलः | श्रुतेश् च - ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [Kअठ्U २.३.१] इति | पुराणे च -
SK
अव्यक्त-मूल-प्रभवस् तस्यैवानुग्रहोत्थितः | बुद्धि-स्कन्ध-मयश् चैव इन्द्रियान्तर-कोटरः ||
SK
महा-भूत-विशाखश् च विषयैः पत्रवांस् तथा | धर्माधर्म-सुपुष्पश् च सुख-दुःख-फलोदयः ||
SK
आजीव्यः सर्व-भूतानां ब्रह्म-वृक्षः सनातनः | एतद् ब्रह्म-वनं चास्य ब्रह्माचरति साक्षिवत् ||
SK
एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना | ततश् चात्म-गतिं प्राप्य तस्मान् नावर्तते पुनः || [Mभ् १४.३५.२०-२२] इत्य् आदि |
SK
तम् ऊर्ध्व-मूलं संसारं माया-मयं वृक्षम् आहुः | अधः-शाखं महद्-अहंकार-तन्मात्रादयः शाखा इवास्याधो भवन्तीति सो ऽयम् अधः-शाखः, तम् अधः-शाखम् | न श्वो ऽपि स्थातेत्य् अश्वत्थस् तं क्षण-प्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्त्य् अव्ययं संसार-मायाया अनादि-काल-प्रवृत्तत्वात् सो ऽयं संसार-वृक्षो ऽव्ययः, अनाद्य्-अन्त-देहादि-संतानाश्रयो हि सुप्रसिद्धः, तम् अव्ययम् | तस्यैव संसार-वृक्षस्य इदम् अन्यत् विशेषणम् - छन्दांसि यस्य पर्णानि, छन्दांसि च्छादनाद् ऋग्-यजुः-साम-लक्षणानि यस्य संसार-वृक्षस्य पर्णानीव पर्णानि | यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसार-वृक्ष-परिरक्षणार्था धर्माधर्म-तद्-धेतु-फल-प्रकाशनार्थत्वात् | यथा-व्याख्यातं संसार-वृक्षं स-मूलं यस् तं वेद स वेद-वित्, वेदार्थ-विद् इत्य् अर्थः | न हि स-मूलात् संसार-वृक्षाद् अस्माज् ज्ञेयो ऽन्यो ऽणु-मात्रो ऽप्य् अवशिष्टो ऽस्तीत्य् अतः सर्वज्ञः सर्व-वेदार्थ-विद् इति स-मूल-संसार-वृक्ष-ज्ञानं स्तौति ||Bह्GS_१५.१||
SK
==============================
SK
तस्यैतस्य संसार-वृक्षस्यापरावयव-कल्पनोच्यते -
SK
अधश् चोर्ध्वं प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः | अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्य-लोके ||Bह्G_१५.२||
SK
अधो मनुष्यादिभ्यो यावत् स्थावरम्, अत ऊर्ध्वं च यावद् ब्रह्मणो विश्व-सृजो धाम इत्य् एतद्-अन्तं यथा-कर्म यथा-श्रुतं ज्ञान-कर्म-फलानि, तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः | गुण-प्रवृद्धाः गुणैः सत्त्व-रजस्-तमोभिः प्रवृद्धाः स्थूलीकृता उपादान-भूतैः | विषय-प्रवाला विषयाः शब्दादयः प्रवाला इव देहादि-कर्म-फलेभ्यः शाखाभ्यो ऽङ्कुरी-भवन्तीव, तेन विषय-प्रवालाः शाखाः | संसार-वृक्षस्य परम-मूलं उपादान-कारणं पूर्वम् उक्तम् | अथेदानीं कर्म-फल-जनित-राग-द्वेषादि-वासना मूलानीव धर्माधर्म-प्रवृत्ति-कारणान्य् अवान्तर-भावीनि तान्य् अधश् च देवाद्य्-अपेक्षया मूलान्य् अनुसन्ततान्य् अनुप्रविष्टनि कर्मानुबन्धीनि कर्म धर्माधर्म-लक्षणम् अनुबन्धः पश्चाद्-भावि, येषाम् उद्भूतिम् अनु उद्भवति, तानि कर्मानुबन्धीनि मनुष्य-लोके विशेषतः | अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः ||Bह्GS_१५.२||
SK
==============================
SK
यस् त्व् अयं वर्णितः संसार-वृक्षः -
SK
न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा | अश्वत्थम् एनं सु-विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ||Bह्G_१५.३||
SK
न रूपम् अस्येह यथोपवर्णितं तथा नैव उपलभ्यते, स्वप्न-मरीच्य्-उदक-माया-गन्धर्व-नगर-समत्वात् | दृष्ट-नष्ट-स्वरूपो हि स इत्य् अत एव नान्तो न पर्यन्तो निष्ठा परिसमाप्तिर् वा विद्यते | तथा न चादिः | ᳚इत आरभ्यायं प्रवृत्तः᳚ इति न केनचिद् गम्यते | न च संप्रतिष्ठा स्थितिर् मध्यम् अस्य न केनचिद् उपलभ्यते | अश्वत्थम् एनं यथोक्तं सुविरूढ-मूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तम् एनं सुविरूढ-मूलम् | असङ्ग-शस्त्रेण असङ्गः पुत्र-वित्त-लोकैषणाभ्यो व्युत्थानं तेनासङ्ग-शस्त्रेण दृढेन परमात्माभिमुख्य-निश्चय-दृढीकृतेन पुनः पुनर् विवेकाभ्यासाश्म-निशितेन च्छित्वा संसार-वृक्षं स-बीजम् उद्धृत्य ||Bह्GS_१५.३||
SK
==============================
SK
ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः | तम् एव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ||Bह्G_१५.४||
SK
ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम्, परिमार्गणम् अन्वेषणं ज्ञातव्यम् इत्य् अर्थः | यस्मिन् पदे गताः प्रविष्टा न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय | कथं परिमार्गितव्यम् इत्य् आह - तम् एव च यः पद-शब्देनोक्त आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्य् एवं परिमार्गितव्यं तच्-छरणतया इत्य् अर्थः | को ऽसौ पुरुषः ? इत्य् उच्यते - यतो यस्मात् पुरुषात् संसार-माया-वृक्ष-प्रवृत्तिः प्रसृता निःसृता ऐन्द्रजालिकाद् इव माया | पुराणी चिरंतनी ||Bह्GS_१५.४||
SK
==============================
SK
कथं-भूतास् तत् पदं गच्छन्तीत्य् उच्यते -
SK
निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः | द्वन्द्वैर् विमुक्ताः सुख-दुःख-संज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ||Bह्G_१५.५||
SK
निर्मान-मोहा मानश् च मोहश् च मान-मोहौ, तौ निर्गतौ येभ्यस् ते निर्मान-मोहा मान-मोह-वर्जिताः | जित-सङ्ग-दोषाः सङ्ग एव दोषः सङ्ग-दोषः, जितः सङ्ग-दोषो यैस् ते जित-सङ्ग-दोषाः | अध्यात्म-नित्याः परमात्म-स्वरूपालोचन-नित्यास् तत्-पराः | विनिवृत्त-कामा विशेषतो निर्लेपेन निवृत्ताः कामा येषां ते विनिवृत्त-कामाः | यतयः संन्यासिनो द्वन्द्वैः प्रियाप्रियादिभिर् विमुक्ताः सुख-दुःख-संज्ञैः परित्यक्ता गच्छन्त्य् अमूढा मोह-वर्जिताः पदम् अव्ययं तद् यथोक्तम् ||Bह्GS_१५.५||
SK
==============================
SK
तद् एव पदं पुनर् विशेष्यते -
SK
न तद् भासयते सूर्यो न शशाङ्को न पावकः | यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ||Bह्G_१५.६||
SK
तत् धामेति व्यवहितेन धाम्ना संबध्यते | तद् धाम तेजो-रूपं पदं न भासयते सूर्य आदित्यः सर्वावभासन-शक्तिमत्त्वे ऽपि सति | तथा न शशाङ्कश् चन्द्रः, न पावको नाग्निर् अपि | यद् धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते, यच् च सूर्यादिर् न भासयते, तद् धाम पदं परमं विष्णोर् मम पदम् ||Bह्GS_१५.६||
SK
==============================
SK
ननु सर्वा हि गतिर् आगत्य्-अन्ताः | संयोगाः विप्रयोगान्ताः [Mभ् ११.२.३] इति हि प्रसिद्धम् | कथम् उच्यते तत् धाम गतानां नास्ति निवृत्तिः ? इति | सृणु तत्र कारणम् -
SK
ममैवांशो जीव-लोके जीव-भूतः सनातनः | मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ||Bह्G_१५.७||
SK
ममैव परम् आत्मनो नारायणस्य, अंशो भागो ऽवयव एक-देश इत्य् अनर्थान्तरं जीव-लोके जीवानां लोके संसारे जीव-भूतः कर्ता भोक्तेति प्रसिद्धः सनातनश् चिरन्तनः | यथा जल-सूर्यकः सूर्यांशो जल-निमित्तापाये सूर्यम् एव गत्वा न निवर्तते च तेनैवात्मना गच्छति, एवम् एव | यथा घटाद्य्-उपाधि-परिच्छिन्नो घटाद्य्-आकाश आकाशांशः सन् घटादि-निमित्तापाये आकाशं प्राप्य न निवर्तते | अत उपपन्नम् उक्तम् यद् गत्वा न निवर्तन्ते इति |
SK
ननु निरवयवस्य परमात्मनः कुतो ऽवयव एक-देशो ऽंशः इति ? सावयवत्वे च विनाश-प्रसङ्गो ऽवयव-विभागात् | नैष दोषः, अविद्या-कृतोपाधि-परिच्छिन्न एक-देशो ऽंश इव कल्पितो यतः | दर्शितश् चायम् अर्थः क्षेत्राध्याये विस्तरशः | स च जीवो मद्-अंशत्वेन कल्पितः कथं संसरत्य् उत्क्रामति च ? इत्य् उच्यते - मनः-षष्ठानीन्द्रियाणि श्रोत्रादीनि प्रकृति-स्थानि स्व-स्थाने कर्ण-शष्कुल्य्-आदौ प्रकृतौ स्थितानि कर्षति आकर्षति ||Bह्GS_१५.७||
SK
==============================
SK
कस्मिन् काले ? -
SK
शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः | गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ||Bह्G_१५.८||
SK
यच् चापि यदा चापि उत्क्रामतीश्वरो देहादि-संघात-स्वामी जीवः, तदा कर्षति [१५.८] इति श्लोकस्य द्वितीय-पादो ऽर्थ-वशात् प्राथम्येन संबध्यते | यदा च पूर्वस्मात् शरीरात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वैतानि मनः-षष्ठानीन्द्रियाणि संयाति सम्यक् याति गच्छति | किम् इव ? इत्य् आह - वायुः पवनो गन्धान् इव आशयात् पुष्पादेः ||Bह्GS_१५.८||
SK
==============================
SK
कानि पुनस् तानि -
SK
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च | अधिष्ठाय मनश् चायं विषयान् उपसेवते ||Bह्G_१५.९||
SK
श्रोत्रं चक्षुः स्पर्शनं च त्वग्-इन्द्रियं रसनं घ्राणम् एव च मनश् च षष्ठं प्रत्येकम् इन्द्रियेण सह, अधिष्ठाय देह-स्थो विषयान् शब्दादीन् उपसेवते ||Bह्GS_१५.९||
SK
==============================
SK
एवं देह-गतं देहात् -
SK
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ||Bह्G_१५.१०||
SK
उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं वापि देहे तिष्ठन्तं भुञ्जानां वा शब्दादींश् चोपलभमानं गुणान्वितं सुख-दुःख-मोहाद्यैर् गुणैर् अन्वितम् अनुगतं संयुक्तम् इत्य् अर्थः | एवं-भूतम् अप्य् एनम् अत्यन्त-दर्शन-गोचर-प्राप्तं विमूढा दृष्टादृष्ट-विषय-भोग-बलाकृष्ट-चेतस् तयानेकधा मूढा नानुपश्यन्ति | अहो कष्टं वर्तते इत्य् अनुक्रोशति च भगवान् | ये तु पुनः प्रमाण-जनित-ज्ञान-चक्षुषस् त एनं पश्यन्ति ज्ञान-चक्षुषो विविक्त-दृष्टय इत्य् अर्थः ||Bह्GS_१५.१०||
SK
==============================
SK
यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् | यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ||Bह्G_१५.११||
SK
यतन्तः प्रयत्नं कुर्वन्तो योगिनश् च समाहित-चित्ता एनं प्रकृतम् आत्मानं पश्यन्त्य् अयम् अहम् अस्मीत्य् उपलभन्त आत्मनि स्वस्यां बुद्धाव् अवस्थितम् | यतन्तो ऽपि शास्त्रादि-प्रमाणैर् अकृतात्मानो ऽसंस्कृतात्मानस् तपसा इन्द्रिय-जयेन च, दुश्चरिताद् अनुपरताः, अशान्त-दर्पाः प्रयत्नं कुर्वन्तो ऽपि नैनं पश्यन्त्य् अचेतसो ऽविवेकिनः ||Bह्GS_१५.११||
SK
==============================
SK
यत् पदं सर्वस्यावभासकमप्य् अग्न्यादित्य् आदिकं ज्योतिः नावभासयते, यत् प्राप्ता च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधि-भेदम् अनुविधीयमानाः जीवाः - घटाकाशादयः इव आकाशस्य - अंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुश् चतुर्भिः श्लोकैः विभूतिसंक्षेपमाह भगवान् -
SK
यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् | यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ||Bह्G_१५.१२||
SK
यत् आदित्य-गतम् आदित्याश्रयम् | किं तत् ? तेजो दीप्तिः प्रकाशो जगद् भासयते प्रकाशयत्य् अखिलं समस्तम् | यच् चन्द्रमसि शशभृति तेजो ऽवभासकं वर्तते, यच् चाग्नौ हुतवहे, तत् तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस् तज् ज्योतिः | अथवा, आदित्य-गतं तेजश् चैतन्यात्मकं ज्योतिर् यच् चन्द्रमसि, यच् चाग्नौ वर्तते तत् तेजो विद्धि मामकं मदीयं मम विष्णोस् तज् ज्योतिः |
SK
ननु स्थावरेषु जङ्गमेषु च तत् समानं चैतन्यात्मकं ज्योतिः | तत्र कथम् इदं विशेषणम् - यद् आदित्य-गतम् इत्य् आदि | नैष दोषः, सत्त्वाधिक्याद् विस्तरत्वोपपत्तेः | आदित्य्-आदिषु हि सत्त्वम् अत्यन्त-प्रकाशम् अत्यन्त-भास्वरम् | अतस् तत्रैवाविस्तरं ज्योतिर् इति तद् विशिष्यते, न तु तत्रैव तद् अधिकम् इति | यथा हि लोके तुल्ये ऽपि मुख-संस्थाने न काष्ठ-कुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति, तद्वत् ||Bह्GS_१५.१२||
SK
==============================
SK
किं च - गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा | पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||Bह्G_१५.१३||
SK
गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगद् अहम् ओजसा बलेन | यद् बलं काम-राग-विवर्जितम् ऐश्वरं रूपं जगद्-विधारणाय पृथिव्याम् प्रविष्टं येन पृथिवी गुर्वी नाधः पतति न विदीर्यते च | तथा च मन्त्र-वर्णः - येन द्यौर् उग्रा पृथिवी च दृढा [Tऐत्त्S ४.१.८] इति, स दाधार पृथिवीम् [Ṛक् ८.७.३.१] इत्य् आदिश् च | अतो गाम् आविश्य च भूतानि चराचराणि धारयामीति युक्तम् उक्तम् | किं च, पृथिव्यां जाता ओषधीः सर्वाः व्रीहि-यवाद्याः पुष्णामि पुष्टि-मतीः रस-स्वादुमती च करोमि सोमो भूत्वा रसात्मकः सोमः सन् रसात्मकः रस-स्वभावः | सर्व-रसानाम् आकरः सोमः | स हि सर्व-रसात्मकः सर्वाः ओषधीः स्वात्म-रसान् अनुप्रवेशयन् पुष्णाति ||Bह्GS_१५.१३||
SK
==============================
SK
किं च -
SK
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः | प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ||Bह्G_१५.१४||
SK
अहम् एव वै वैश्वानर उदर-स्थो ऽग्निर् भूत्वा - अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदम् अन्नं पच्यते यद् इदम् अद्यते [BAU ५.९.१] इत्य् आदि-श्रुतेः | वैश्वानरः सन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्टः प्राणापान-समायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पङ्क्ति करोम्य् अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च | भोक्ता वै वानरो ऽग्निः | अग्नेर् भोज्यम् अन्नं सोमः | तद् एतद् उभयम् अग्नीषोमौ सर्वम् इति पश्यतो ऽन्न-दोष-लेपो न भवति ||Bह्GS_१५.१४||
SK
==============================
SK
किं च -
SK
सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च | वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् ||Bह्G_१५.१५||
SK
सर्वस्य च प्राणि-जातस्याहम् आत्मा सन् हृदि बुद्धौ संनिविष्टः | अतो मत्त आत्मनः सर्व-प्राणिनां स्मृतिर् ज्ञानं तद्-अपोहनं चापगमनं च | येषां यथा पुण्य-कर्मणां पुण्य-कर्मानुरोधेन ज्ञान-स्मृती भवतः, तथा पाप-कर्मणां पाप-कर्मानुरूपेण स्मृति-ज्ञानयोर् अपोहनं चापायनम् अपगमनं च | वेदैश् च सर्वैर् अहम् एव परमात्मा वेद्यो वेदितव्यः | वेदान्त-कृद् वेदान्तार्थ-संप्रदाय-कृद् इत्य् अर्थः, वेद-विद् वेदार्थ-विद् एव चाहम् ||Bह्GS_१५.१५||
SK
==============================
SK
भगवत ईश्वरस्य नारायणाख्यस्य विभूति-संक्षेप उक्तो विशिष्टोपाधि-कृतो यद् आदित्य-गतं तेजः [Gईता १५.१२] इत्य् आदिना | अथाधुना तस्यैव क्षराक्षरोपाधि-प्रविभक्ततया निरुपाधिकस्य केवलस्य तत्त्व-स्वरूप-निर्दिधारयिषयोत्तर-श्लोका आरभ्यन्ते | तत्र सर्वम् एवातीतान् आगतान् अन्तराध्यायार्थ-जातं त्रिधा राशीकृत्य आह -
SK
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ||Bह्G_१५.१६||
SK
द्वाव् इमौ पृथग्-राशी-कृतौ पुरुषाव् इत्य् उच्येते लोके संसारे - क्षरश् च क्षरतीति क्षरो विनाशी इत्य् एको राशिः | अपरः पुरुषो ऽक्षरस् तद्-विपरीतः, भगवतो माया-शक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्ति-बीजम् अनेक-संसारि-जन्तु-काम-कर्मादि-संस्काराश्रय अक्षरः पुरुष उच्यते | कौ तौ पुरुषौ ? इत्य् आह स्वयम् एव भगवान् - क्षरः सर्वाणि भूतानि, समस्तं विकार-जातम् इत्य् अर्थः | कूटास्थः कूटाः राशी राशिर् इव स्थितः | अथवा, कूटा माया वचना जिह्मता कुटिलता इति पर्यायाः | अनेक-माया-वचनादि-प्रकारेण स्थितः कूटास्थः | संसार-बीजानन्त्यात्, न क्षरतीत्य् अक्षर उच्यते ||Bह्GS_१५.१६||
SK
==============================
SK
आभ्यां क्षराक्षराभ्याम् अन्यो विलक्षणः क्षराक्षरोपाधि-द्वय-दोषेणास्पृष्टः नित्य-शुद्ध-बुद्धम् उक्त-स्वभावः -
SK
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः | यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ||Bह्G_१५.१७||
SK
उत्तम उत्कृष्टतमः पुरुषस् त्व् अन्यो ऽत्यन्त-विलक्षण आभ्यां परमात्मेति परमश् चासौ देहाद्य्-अविद्या-कृतात्मभ्यः, आत्मश् च सर्व-भूतानां प्रत्यक्-चेतनः, इत्य् अतः परमात्मेत्य् उदाहृत उक्तो वेदान्तेषु | स एव विशिष्यते यो लोक-त्रयं भूर्-भुवः-स्वर्-आख्यं स्वकीयया चैतन्य-बल-शक्त्या आविश्य प्रविश्य बिभर्ति स्वरूप-सद्-भाव-मात्रेण बिभर्ति धारयति | अव्ययो नास्य व्ययो विद्यत इत्य् अव्ययः | कः ? ईश्वरः सर्वज्ञो नारायणाख्य ईशन-शीलः ||Bह्GS_१५.१७||
SK
==============================
SK
यथा-व्याख्यातस्येश्वरस्य पुरुषोत्तम इत्य् एतत् नाम प्रसिद्धम् | तस्य नाम-निर्वचन-प्रसिद्धयार्थवत्त्वं नाम्नो दर्शयन् निरतिशयो ऽहम् ईश्वर इत्य् आत्मानं दर्शयति भगवान् -
SK
यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः | अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||Bह्G_१५.१८||
SK
यस्मात् क्षरम् अतीतो ऽहं संसार-माया-वृक्षम् अश्वत्थाख्यम् अतिक्रान्तो ऽहम् अक्षराद् अपि संसार-माया-रूप-वृक्ष-बीज-भूताद् अपि चोत्तम उत्कृष्टतमः ऊर्ध्वतमो वा | अतस् ताभ्यां क्षराक्षराभ्याम् उत्तमत्वाद् अस्मि लोके वेदे च प्रथितः प्रख्यातः | पुरुषोत्तम इत्य् एवं मां भक्त-जना विदुः | कवयः काव्यादिषु चेदं नाम निबध्नन्ति | पुरुषोत्तम इत्य् अनेनाभिधानेनाभिगृणन्ति ||Bह्GS_१५.१८||
SK
==============================
SK
अथेदानीं यथा-निरुक्तम् आत्मानं यो वेद, तस्येदं फलम् उच्यते -
SK
यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् | स सर्व-विद् भजति मां सर्व-भावेन भारत ||Bह्G_१५.१९||
SK
यो माम् ईश्वरं यथोक्त-विशेषणम् एवं यथोक्तेन प्रकारेण असंमूढः संमोह-वर्जितः सन् जानात्य् अयम् अहम् अस्मीति पुरुषोत्तमं, स सर्व-वित् सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्व-भूत-स्थं भजति मां सर्व-भावेन सर्वात्मतया हे भारत ||Bह्GS_१५.१९||
SK
==============================
SK
अस्मिन् अध्याये भगवत्-तत्त्व-ज्ञानं मोक्ष-फलम् उक्त्वा, अथ इदानीं तत् स्तौति -
SK
इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ | एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ||Bह्G_१५.२०||
SK
इति एतद् गुह्यतमं गोप्यतमम्, अत्यन्त-रहस्यं इत्य् एतत् | किं तत् ? शास्त्रम् | यद्य् अपि गीताख्यं समस्तम् शास्त्रम् उच्यते, तथाप्य् अयम् एवाध्याय इह शास्त्रम् इत्य् उच्यते स्तुत्य्-अर्थं प्रकरणात् | सर्वो हि गीता-शास्त्रार्थो ऽस्मिन् अध्याये समासेन उक्तः | न केवलं गीता-शास्त्रार्थ एव, किंतु सर्वश् च वेदार्थ इह परिसमाप्तः | यस् तं वेद स वेद-वित् [Gईता १५.१] वेदैश् च सर्वैर् अहम् एव वेद्यः [Gईता १५.१५] इति चोक्तम् | इदम् उक्तं कथितं मया हे ऽनघ अपाप ! एतच् छास्त्रं यथा-दर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् नान्यथा | कृत-कृत्यश् च भारत कृतं कृत्यं कर्तव्यं येन स कृत-कृत्यः | विशिष्ट-जन्म-प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्-तत्त्वे विदिते कृतं भवेद् इत्य् अर्थः | न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिद् इत्य् अभिप्रायः | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते [Gईता ४.३३] इति चोक्तम् |
SK
एतद् धि जन्म-सामग्र्यं ब्राह्मणस्य विशेषतः | प्राप्यैतत् कृत-कृत्यो हि द्विजो भवति नान्यथा || [Mअनु १२.९३]
SK
इति च मानवं वचनम् | यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थस् त्वं भारतेति ||Bह्GS_१५.२०||
SK
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये पञ्चदशो ऽध्यायः ||
SK
Bह्G १६
SK
अथ दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः
SK
(श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्)
SK
दैवी आसुरी राक्षसी चेति प्राणिणां प्रकृतयो नवमे ऽध्याये सूचिताः | तासां विस्तरेण प्रदर्शनाय अभयं सत्त्व-संशुद्धिर् इत्य् आदिर् अध्यायः आरभ्यते | तत्र संसार-मोक्षाय दैवी प्रकृतिः, निबन्धायासुरी राक्षसी चेति दैव्या आदानाय प्रदर्शनं क्रियते | इतरयोः परिवर्जनाय च श्री-भगवान् उवाच -

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.

Source