3.1 SK अर्जुन उवाच ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन | तत् किं कर्मणि घोरे मां नियोजयसि केशव ||Bह्G_३.१||
3.1 SK ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर् ज्ञानम् | हे जनार्दन ! यदि बुद्धि-कर्मणी समुच्चिते इष्टे तदैकं श्रेयः-साधनम् इति कर्मणो ज्यायसी बुद्धिर् इति कर्मणो ऽतिरिक्त-करणं बुद्धेर् अनुपपन्नम् अर्जुनेन कृतं स्यात् | न हि तद् एव तस्मात् फलतो ऽतिरिक्तं स्यात् | तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः | अश्रेयस्करं च कर्म कुर्व् इति मां प्रतिपादयति, तत् किं नु कारणम् इति भगवत उपालम्भम् इव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसा-लक्षणे मां नियोजयसि केशव इति च यद् आह, तच् च नोपपद्यते | अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तो ऽर्जुनेन चावधारित चेत्, तत् किं कर्मणि घोरे मां नियोजयसि इत्य् आदि कथं युक्तं वचनम् ||Bह्GS_३.१||
3 SK ==============================
3.2 SK व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ||Bह्G_३.२||
6 SK व्यामिश्रेणेव, यद्यपि विवक्ताभिधायी भगवान्, तथापि मम मन्द-बुद्धेर् व्यामिश्रम् इव भगवद्-वाक्यं प्रतिभाति | तेन मम बुद्धिं मोहयसीव, मम बुद्धि-व्यामोहापनयाय हि प्रवृत्तस् त्वं तु कथं मोहयसि ? अतः ब्रवीमि | बुद्धिं मोहयसि इव मे मम इति | त्वं तु भिन्न-कर्तृकयोः ज्ञान-कर्मणोर् एक-पुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत् तयोर् एकं बुद्धिं कर्म वा इदम् एवार्जुनस्य योग्यं बुद्धि-शक्त्य्-अवस्थानुरूपम् इति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयो ऽहम् आप्नुयां प्राप्नुयाम् |
3.2 SK यदि हि कर्म-निष्ठायां गुण-भूतम् अपि ज्ञानं भगवतोक्तं स्यात् | तत् कथं तयोर् एकं वद इत्य् एक-विषयैवार्जुनस्य शुश्रूषा स्यात् | न हि भगवता पूर्वम् उक्तम् अन्यतरद् एव ज्ञान-कर्मणोः वक्ष्यामि, नैव द्वयम् इति, येन उभय-प्राप्त्य्-असंभवम् आत्मनो मन्यमान एकम् एव प्रार्थयेत् ||Bह्GS_३.२||
8 SK ==============================
9 SK प्रश्नानुरूपम् एव प्रतिवचनं -
3.3 SK श्री-भगवान् उवाच लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ||Bह्G_३.३||
11 SK लोके ऽस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्वि-विधा द्वि-प्रकारा निष्ठा स्थितिः अनुष्ठेय-तात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदय-निःश्रेयस-प्राप्ति-साधनं वेदार्थ-संप्रदायम् आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघापाप | तत्र का सा द्विविधा निष्ठा इत्य् आह - तत्र ज्ञान-योगेन ज्ञानम् एव योगस् तेन सांख्यानाम् आत्मानात्म-विषय-विवेक-विज्ञानवतां ब्रह्मचर्याश्रमाद् एव कृत-संन्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां परमहंस-परिव्राजकानां ब्रह्मण्य् एवावस्थितानां निष्ठा प्रोक्ता | कर्म-योगेन कर्म एव योगः कर्म-योगस् तेन कर्म-योगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्य् अर्थः |
12 SK यदि चैकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम्, कथम् इहार्जुनाय उपसन्नाय प्रियाय विशिष्टाभिन्न-पुरुष-कर्तृके एव ज्ञान-कर्म-निष्ठे ब्रूयात् ? यदि पुनर् अर्जुनो ज्ञानं कर्म च द्वयं श्रुत्वा स्वयम् एवानुष्ठास्यति अन्येषां तु भिन्न-पुरुषानुष्ठेयतां वक्ष्यामि इति मतं भगवतः कल्प्येत, तदा राग-द्वेषवान् अप्रमाण-भूतो भगवान् कल्पितः स्यात् | तच् चायुक्तम् | तस्मात् कयापि युक्त्या न समुच्चयो ज्ञान-कर्मणोः ||
3.3 SK यद् अर्जुनेनोक्तं कर्मणो ज्यायस्त्वं बुद्धेस् तच् च स्थितम् अनिराकरणात् | तस्याश् च ज्ञान-निष्ठायाः संन्यासिनाम् एवानुष्ठेयत्वम् , भिन्न-पुरुषानुष्ठेयत्व-वचनात् | भगवत एवम् एवानुमतम् इति गम्यते ||Bह्GS_३.३||
14 SK ==============================
15 SK मां च बन्ध-कारणे कर्मण्य् एव नियोजयसि इति विषण्ण-मनसम् अर्जुनम् कर्म नारभे इत्य् एवं मन्वानम् आलक्ष्य आह भगवान् - न कर्मणामन् आरम्भाद् इति | अथवा - ज्ञान-कर्म-निष्ठयोः परस्पर-विरोधाद् एकेन पुरुषेण युगपद् अनुष्ठातुम् अशक्यत्वे सति इतरेतरानपेक्षयोर् एव पुरुषार्थ-हेतुत्वे प्राप्ते कर्म-निष्ठाया ज्ञान-निष्ठा-प्राप्ति-हेतुत्वेन पुरुषार्थ-हेतुत्वम्, न स्वातन्त्र्येण | ज्ञान-निष्ठा तु कर्म-निष्ठोपाय-लब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थ-हेतुः अन्यानपेक्षा, इत्य् एतम् अर्थं प्रदर्शयिष्यन् आह भगवान् -
3.4 SK न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते | न च संन्यसनाद् एव सिद्धिं समधिगच्छति ||Bह्G_३.४ ||
17 SK न कर्मणा क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्त-दुरित-क्षय-हेतुत्वेन सत्त्व-शुद्धि-कारणानां तत्-कारणत्वेन च ज्ञानोत्पत्ति-द्वारेण ज्ञान-निष्ठा-हेतूनाम्,
18 SK ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः | यथादर्शतल-प्रख्ये पश्यत्य् आत्मानम् आत्मनि || [Mभ् १२ २०८.८] इत्य् आदि स्मरणात् |
19 SK अनारम्भाद् अननुष्ठानात् नैष्कर्म्यं निष्कर्म-भावं कर्म-शून्यतां ज्ञान-योगेन निष्ठां निष्क्रियात्म-स्वरूपेणैवावस्थानम् इति यावत् | पुरुषो नाश्नुते न प्राप्नोतीत्य् अर्थः | कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुत इति वचनात् तद्-विपर्ययात् तेषाम् आरम्भान् नैष्कर्म्यम् अश्नुत इति गम्यते | कस्मात् पुनः कारणात् कर्मणाम् अनारम्भान् नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् | न ह्य् उपायम् अन्तरेण उपेय-प्राप्तिर् अस्ति | कर्म-योगोपायत्वं च नैष्कर्म्य-लक्षणस्य ज्ञान-योगस्य, श्रुतौ इह च प्रतिपादनात् | श्रुतौ तावत् प्रकृतस्यात्म-लोकस्य वेद्यस्य वेदनोपायत्वेन तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन [BAU ४.४.२२] इत्य् आदिना कर्म-योगस्य ज्ञान-योगोपायत्वं प्रतिपादितम् | इहापि च - संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः [क्रईता ५.६], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [क्रईता ५.११], यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् [क्रईता १८.५] इत्य् आदि प्रतिपादयिष्यति |
3.4 SK ननु चाभयं सर्व-भूतेभ्यो दत्त्वा नैष्कर्म्यम् आचरेत् इत्य् आदौ कर्तव्य-कर्म-संन्यासाद् अपि नैष्कर्म्य-प्राप्तिं दर्शयति | लोके च कर्मणाम् अनारम्भान् नैष्कर्म्यम् इति प्रसिद्धतरम् | अतश् च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तम् | अत आह- न च संन्यसनाद् एवेति | नापि संन्यसनाद् एव केवलात् कर्म-परित्याग-मात्राद् एव ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां ज्ञान-योगेन निष्ठां समधिगच्छति न प्राप्नोति ||Bह्GS_३.४||
21 SK ==============================
22 SK कस्मात् पुनः कारणात् कर्म-संन्यास-मात्राद् एव केवलात् ज्ञान-रहितात् सिद्धिं नैष्कर्म्य-लक्षणां पुरुषो नाधिगच्छति इति हेत्व्-आकाङ्क्षायाम् आह -
3.5 SK न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् | कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ||Bह्G_३.५||
3.5 SK न हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चित् तिष्ठत्य् अकर्म-कृत् सन् | कस्मात् ? कार्यते प्रवर्त्यते हि यस्माद् अवश एवास्वतन्त्र एव कर्म सर्वः प्राणी प्रकृति-जैः प्रकृतितो जातैः सत्त्व-रजस्-तमोभिः गुणैः | अज्ञ इति वाक्य-शेषः, यतो वक्ष्यति गुणैर् यो न विचाल्यते इति | सांख्यानां पृथक्-करणात् अज्ञानाम् एव हि कर्म-योगः, न ज्ञानिनाम् | ज्ञानिनां तु गुणैर् अचाल्यमानानां स्वतश् चलनाभावात् कर्म-योगो नोपपद्यते | तथा च व्याख्यातम् वेदाविनाशिनम् [क्रईता २.२१] इत्य् अत्र ||Bह्GS_३.५||
25 SK ==============================
26 SK यत् त्व् अनात्मज्ञः चोदितं कर्म नारभते इति तद् असद् एवेत्य् आह -
3.6 SK कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ||Bह्G_३.६||
3.6 SK कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तः-अरणो मिथ्याचारो मृषाचारः पापाचारः स उच्यते ||Bह्GS_३.६||
29 SK ==============================
3.7 SK यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन | कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ||Bह्G_३.७||
3.7 SK यस् तु पुनः कर्मण्य् अधिकृतो ऽज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्-पाण्य्-आदिभिः | किम् आरभते इत्य् आह-कर्म-योगम् असक्तः सन् फलाभिसन्धि-वर्जितः स विशिष्यते इतरस्मात् मिथ्याचारात् ||Bह्GS_३.७||
32 SK ==============================
3.8 SK नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः | शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ||Bह्G_३.८||
3.8 SK नियतं नित्यं शास्त्रोपदिष्टम् | यो यस्मिन् कर्मण्य् अधिकृतः फलाय चाश्रुतं तन् नियतं कर्म, तत् कुरु त्वं हे अर्जुन ! यतः कर्म ज्यायो ऽधिकतरं फलतः | हि यस्माद् अकर्मणो ऽकरणात् अनारम्भात् | कथम् ? शरीर-यात्रा शरीर-स्थितिर् अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणो ऽकरणात् | अतो दृष्टः कर्माकर्मणोर् विशेषो लोके ||Bह्GS_३.८||
36 SK ==============================
37 SK यच् च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यम् इति तद् अप्य् असत् | कथम् ?
3.9 SK यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः | तद् अर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ||Bह्G_३.९||
3.9 SK यज्ञो वै विष्णुः [Tऐत्त्S १.७.४] इति श्रुतेर् यज्ञ ईश्वरः | तद्-अर्थं यत् क्रियते तत् यज्ञार्थं कर्म | तस्मात् कर्मणो ऽन्यत्रान्येन कर्मणा लोको ऽयम् अधिकृतः कर्म-कृत् कर्म-बन्धनः [Tऐत्त्.Bहा. ३.१.६] कर्म बन्धनं यस्य सो ऽयं कर्म-बन्धनो लोकः, न तु यज्ञार्थात् | अतस् तद्-अर्थं यज्ञार्थं कर्म कौन्तेय, मुक्त-सङ्गः कर्म-फल-सङ्ग-वर्जितः सन् समाचार निर्वर्तय ||Bह्GS_३.९||
40 SK ==============================
41 SK इतश् चाधिकृतेन कर्म कर्तव्यम् -
3.10 SK सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ||Bह्G_३.१०||
3.10 SK सह-यज्ञाः यज्ञ-सहिताः प्रजास् त्रयो वर्णास् ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादाव् उवाच उक्तवान् प्रजापतिः प्रजानां स्राष्टा | अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिर् उत्पत्तिस् तां कुरुध्वम् | एष यज्ञो वो युष्माकम् अस्तु भवतु इष्ट-काम-धुक् | इष्टान् अभिप्रेतान् कामान् फल-विशेषान् दोग्धीति इष्ट-काम-धुक् ||Bह्GS_३.१०||
44 SK ============================== कथम् ?
3.11 SK देवान् भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ||Bह्G_३.११||
3.11 SK देवान् इन्द्रादीन् भावयत वर्धयतानेन यज्ञेन | ते देवा भावयन्तु आप्याययन्तु वृष्ट्य्-आदिना वो युष्मान् | एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्ष-लक्षणं विज्ञान-प्राप्ति-क्रमेणावाप्स्यथ | स्वर्गं वा परं श्रेयो ऽवाप्स्यथ ||Bह्GS_३.११||
47 SK ==============================
3.12 SK इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः | तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||Bह्G_३.१२||
3.12 SK इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति | स्त्री-पशु-पुत्रादीन् यज्ञ-भाविता यज्ञैर् वर्धितास् तोषिता इत्य् अर्थः | तैर् देवैर् दत्तान् भोगान् अप्रदायादत्त्वा, आनृण्यम् अकृत्वेत्य् अर्थः | एभ्यो देवेभ्यः | यो भुङ्क्ते स्व-देहेन्द्रियाण्य् एव तर्पयति स्तेन एव तस्कर एव स देवादि-स्वापहारी ||Bह्GS_३.१२||
51 SK ==============================
3.13 SK यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः | भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ||Bह्G_३.१३||
3.13 SK देव-यज्ञादीन् निर्वर्त्य तच्-छिष्टम् अशनम् अमृताख्यम् अशितुं शीलं येषां ते यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः सर्व-पापैश् चुल्ल्य्-आदि-पञ्च-सूनाकृतैः प्रमाद-कृत-हिंसादि-जनितैश् चान्यैः | ये त्व् आत्मंभरयो भुञ्जते ते त्व् अघं पापं स्वयम् अपि पापा ये पचन्ति पाकं निर्वर्तयन्ति आत्म-कारणात् आत्म-हेतोः ||Bह्GS_३.१३||
55 SK ==============================
56 SK इतश् चाधिकृतेन कर्म कर्तव्यम् | जगच्-चक्र-प्रवृत्ति-हेतुर् हि कर्म | कथम् ? इत्य् उच्यते -
3.14 SK अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः | यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ||Bह्G_३.१४||
58 SK अन्नाद् भुक्ताल् लोहित-रेतः-परिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि | पर्जन्याद् वृष्टेर् अन्नस्य संभवो ऽन्न-संभवः | यज्ञाद् भवति पर्जन्यः |
59 SK अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते | आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः || [Mअनु ३.७६] इति स्मृतेः |
3.14 SK यज्ञो ऽपूर्वम् | स च यज्ञः कर्म-समुद्भवः | ऋत्विग्-यजमानयोश् च व्यापारः कर्म, तद्-समुद्भवो यस्य यज्ञस्यापूर्वस्य स यज्ञः कर्म-समुद्भवः ||Bह्GS_३.१४||
61 SK ==============================
62 SK तच् चैवंविधं कर्म कुतो जातम् इत्य् आह -
3.15 SK कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् | तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||Bह्G_३.१५||
3.15 SK कर्म ब्रह्मोद्भवं | ब्रह्म वेदः | स उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि | ब्रह्म पुनः वेदाख्यम् अक्षर-समुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षर-समुद्भवम् | ब्रह्म वेद इत्य् अर्थः | यस्मात् साक्षात् परमात्माख्याद् अक्षरात् पुरुष-निःश्वासवत् समुद्भूतं ब्रह्म तस्मात् सर्वार्थ-प्रकाशकत्वात् सर्व-गतम् | सर्व-गतम् अपि सत् नित्यं सदा यज्ञ-विधि-प्रधानत्वात् यज्ञे प्रतिष्ठितम् ||Bह्GS_३.१५||
65 SK ==============================
3.16 SK एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ||Bह्G_३.१६||
3.16 SK एवम् इत्थम् ईश्वरेण वेद-यज्ञ-पूर्वकं जगच्-चक्रं प्रवर्तितं नानुवर्तयतीह लोके यः कर्मण्य् अधिकृतः सन्न् अघायुर् अघं पापम् आयुर् जीवनं यस्य सो ऽघायुः पाप-जीवन इति यावत् | इन्द्रियारामः इन्द्रियैर् आरामः आरमणम् आक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हे पार्थ, स जीवति | तस्माद् अज्ञेनाधिकृतेन कर्तव्यम् एव कर्मेति प्रकरणार्थः | प्राग् आत्म-ज्ञान-निष्ठा-योग्यता-प्राप्तेस् तादर्थ्येन कर्म-योगानुष्ठानम् अधिकृतेनानात्मज्ञेन कर्तव्यम् एवेत्य् एतन् न कर्मणाम् अनारम्भाद् [Gईता ३.४] इत्य् अत आरभ्य शरीर-यात्रापि च ते न प्रसिध्येद् अकर्मण [Gईता ३.८] इत्य् एवम् अन्तेन प्रतिपाद्य, यज्ञार्थात् कर्मणो ऽन्यत्र [Gईता ३.९] इत्य् आदिना मोघं पार्थ स जीवति इत्य् एवम् अन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्यानात्मविदः कर्मानुष्ठाने बहु कारणम् उक्तम् | तद्-अकरणे च दोष-संकीर्तनं कृतम् ||Bह्GS_३.१६||
68 SK ==============================
69 SK एवं स्थिते किम् एवं प्रवर्तितं चक्त्रं सर्वेणानुवर्तनीयम् ? आहो स्वित् पूर्वोक्त-कर्म-योगानुष्ठानोपाय-प्राप्याम् अनात्म-विदा ज्ञान-योगेनैव निष्ठाम् आत्म-विद्भिः सांख्यैर् अनुष्ठेयाम् अप्राप्तेनैव ? इत्य् एवम् अर्थम् अर्जुनस्य प्रश्नम् आशङ्कय स्वयम् एव वा शास्त्रार्थस्य विवेक-प्रतिपत्त्य्-अर्थम् एतं वै तम् आत्मानं विदित्वा निवृत्त-मिथ्या-ज्ञानाः सन्तो ब्राह्मणा मिथ्या-ज्ञानवद्भ्यो ऽवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षा-चर्यं शरीर-स्थिति-मात्र-प्रयुक्तं चरन्ति | न तेषाम् आत्म-ज्ञान-निष्ठा-व्यतिरेकेणान्यत् कार्यम् अस्ति [BAU ३.५.१] इत्य् एवं श्रुत्य्-अर्थम् इह गीता-शास्त्रे प्रतिपिपादयिषितम् आविष्कुर्वन्न् आह भगवान् -
3.17 SK यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः | आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ||Bह्G_३.१७||
3.17 SK यस् तु सांख्य आत्म-ज्ञान-निष्ठ आत्म-रतिः आत्मन्य् एव रतिर् न विषयेषु यस्य स आत्म-रतिर् एव स्याद् भवेद् आत्म-तृप्तश् चात्मनैव तृप्तो नान्न-रसादिना स मानवो मनुष्यः संन्यासी आत्मन्य् एव च सन्तुष्टः | सन्तोषो हि बाह्यार्थ-लाभे सर्वस्य भवति, तम् अनपेक्ष्य आत्मन्य् एव च सन्तुष्टः सर्वतो वीत-तृष्ण इत्य् एतत् | य ईदृशः आत्म-वित् तस्य कार्यं करणीयं न विद्यते नास्तीत्य् अर्थः ||Bह्GS_३.१७||
72 SK ==============================
3.18 SK नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ||Bह्G_३.१८||
3.18 SK नैव तस्य परमात्म-रतेः कृतेन कर्मणार्थः प्रयोजनम् अस्ति | अस्तु तर्ह्य् अकृतेनाकरणेन प्रत्यवायाख्यो ऽनर्थः | नाकृतेनेह लोके कश्चन कश्चिद् अपि प्रत्यवाय-प्राप्ति-रूपः आत्म-हानि-लक्षणो वा नैवास्ति | न चास्य सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु भूतेषु कश्चिद् अर्थ-व्यपाश्रयः प्रयोजन-निमित्त-क्रिया-साध्यो व्यपाश्रयः | व्यपाश्रयणम् आलम्बनं कंचित् भूत-विशेषम् आश्रित्य न साध्यः कश्चिद् अर्थो ऽस्ति, येन तद्-अर्था क्रिया अनुष्ठेया स्यात् | न त्वम् एतस्मिन् सर्वतः संप्लुतोदक-स्थानीये सम्यग्-दर्शने वर्तसे ||Bह्GS_३.१८||
76 SK ==============================
3.19 SK तस्माद् असक्तः सततं कार्यं कर्म समाचर | असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ||Bह्G_३.१९||
3.19 SK तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय | असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्य् अर्थः ||Bह्GS_३.१९||
80 SK ==============================
3.20 SK कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः | लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ||Bह्G_३.२०||
3.20 SK कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः | के ? जनकादयः जनका वपतिप्रभृतयः | यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसंग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैवासंन्यस्यैव कर्म संसिद्धिमास्थिता इत्य् अर्थः | अथाप्राप्तसम्यगदर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्त्रमेण संसिद्धिमास्थिता इति व्याख्येयः लोकः | अथ मन्यसे पूर्वेरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् | तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृताथेनेति | तथापि प्रारब्धकर्मायत्तः त्वं लोकसंग्रहम् एवापि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन् कर्तुम् अर्हसि ||Bह्GS_३.२०||
84 SK ==============================
85 SK लोक-संग्रहः किम् अर्थं कर्तव्य इत्य् उच्यते -
3.21 SK यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः | स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ||Bह्G_३.२१||
3.21 SK यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरो ऽन्यः जनः तदनुगतः | किं च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्य् अर्थः ||Bह्GS_३.२१||
88 SK ==============================
89 SK यद्य् अत्र ते लोक-संग्रह-कर्तव्यतायां विप्रतिपत्तिस् तर्हि मां किं न पश्यसि ?
3.22 SK न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन | नानवाप्तम् अवाप्तव्यं वर्तैव च कर्मणि ||Bह्G_३.२२||
3.22 SK न मे मम पार्थ नास्ति न विद्यते कर्तव्यं त्रिष्व् अपि लोकेषु किंचन किंचिद् अपि | कस्मात् ? नानवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम् | तथापि वर्त एव च कर्मण्य् अहम् ||Bह्GS_३.२२||
92 SK ==============================
3.23 SK यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||Bह्G_३.२३||
3.23 SK यदि हि पुनर् अहं न वर्तेय जातु कदाचित् कर्मण्य् अतन्द्रितो ऽनलसः सन् मम श्रेष्ठस्य सतो वत्र्म मार्गम् अनुवर्तन्ते मनुष्याः | हे पार्थ ! सर्वशः सर्व-प्रकारैः ||Bह्GS_३.२३||
95 SK ==============================
3.24 SK उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् | संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ||Bह्G_३.२४||
3.24 SK उत्सीदेयुर् विनश्येयुर् इमे सर्वे लोकाः लोक-स्थिति-निमित्तस्य कर्मणो ऽभावात् न कुर्यां कर्म चेद् अहम् | किं च, संकरस्य च कर्ता स्याम् | तेन कारणेन उपहन्याम् इमाः प्रजाः | प्रजानाम् अनुग्रहाय प्रवृत्त उपहतिम् उपहननं कुर्याम् इत्य् अर्थः | मम ईश्वरस्याननुरूपम् आपद्यते ||Bह्GS_३.२४||
98 SK ==============================
99 SK यदि पुनर् अहम् इव त्वं कृतार्थ-बुद्धिः, आत्मविद् अन्यो वा, तस्यापि आत्मनः कर्तव्याभावे ऽपि परानुग्रह एव कर्तव्य इत्य् आह -
3.25 SK सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत | कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ||Bह्G_३.२५||
3.25 SK सक्ताः कर्मण्य् अस्य कर्मणः फलं मम भविष्यतीति केचिद् अविद्वांसो यथा कुर्वन्ति भारत, कुर्याद् विद्वान् आत्मवित् तथासक्तः सन् | तद्वत् किम् अर्थं करोति ? तत् सृणु - चिकीर्षुः कर्तुम् इच्छुः लोक-संग्रहम् ||Bह्GS_३.२५||
102 SK ==============================
103 SK एवं लोक-संग्रहं चिकीर्षेर् न ममात्म-विदः कर्तव्यम् अस्ति अन्यस्य वा लोक-संग्रहं मुक्त्वा | ततस् तस्य आत्म-विदः इदम् उपदिश्यते -
3.26 SK न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् | जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ||Bह्G_३.२६||
3.26 SK बुद्धि-भेदो बुद्धि-भेदो मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम् इति निश्चय-रूपाया बुद्धेर् भेदनं चालनं बुद्धि-भेदस् तं न जनयेन् नोत्पादयेद् अज्ञानाम् अविवेकिनां कर्म-सङ्गिनां कर्मण्य् आसक्तानां आसङ्गवताम् | किं नु कुर्यात् ? जोषयेत् कारयेत् सर्व-कर्माणि विद्वान् स्वयं तद् एवाविदुषां कर्म युक्तो ऽभियुक्तः समाचरन् ||Bह्GS_३.२६||
106 SK ==============================
107 SK अविद्वान् अज्ञः कथं कर्मसु सज्जते ? इत्य् आह -
3.27 SK प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ||Bह्G_३.२७||
3.27 SK प्रकृतेः प्रकृतिः प्रधानं सत्त्व-रजस्-तमसां गुणानां साम्यावस्था | तस्याः प्रकृतेः गुणैः विकारैः कार्य-करण-रूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्व-प्रकारैर् अहंकार-विमूढात्मा कार्य-करण-संघातात्म-प्रत्ययो ऽहंकारस् तेन विविधं नानाविधं मूढ आत्मा अन्तः-करणं यस्य सो ऽयं कार्य-करण-धर्मा कार्य-करणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्-तत्-कर्मणाम् अहं कर्तेति मन्यते ||Bह्GS_३.२७||
110 SK ==============================
3.28 SK तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः | गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||Bह्G_३.२८||
3.28 SK तत्त्ववित् तु महाबाहो | कस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्य् अर्थः | गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति ||Bह्GS_३.२८||
114 SK ==============================
3.29 SK प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु | तान् अकृत्स्न-विदो मन्दान् कृत्स्नविन् न विचालयेत् ||Bह्G_३.२९||
3.29 SK प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुण-कर्मसु वयं कर्म कुर्मः फलाय इति | तान् कर्म-सङ्गिनो ऽकृत्स्न-विदः कर्म-फल-मात्र-दर्शिनो मन्दान् मन्द-प्रज्ञान् कृत्स्न-वित् आत्म-वित् स्वयं न विचालयेत् बुद्धि-भेद-करणम् एव चालनं तन् न कुर्यात् इत्य् अर्थः ||Bह्GS_३.२९||
118 SK ==============================
119 SK कथं पुनः कर्मण्य् अधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यम् इति, उच्यते --
3.30 SK मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा | निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ||Bह्G_३.३०||
3.30 SK मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्याध्यात्म-चेतसा विवेक-बुद्ध्या, अहं कर्ता ईश्वराय भृत्यवत् करोमि इत्य् अनया बुद्ध्या | किं च, निराशीस् त्यक्ताशीः निर्ममो मम-भावश् च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगत-ज्वरो विगत-सन्तापो विगत-शोकः सन्न् इत्य् अर्थः ||Bह्GS_३.३०||
122 SK ==============================
123 SK यद् एतन् मम मतं कर्म कर्तव्यम् इति स-प्रमाणम् उक्तं तत् तथा -
3.31 SK ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः | श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ||Bह्G_३.३१||
3.31 SK ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तो ऽसूयां च मयि परम-गुरौ वासुदेवे ऽकुर्वन्तो, मुच्यन्ते ते ऽप्य् एवंभूताः कर्मभिर् धर्माधर्माख्यैः ||Bह्GS_३.३१||
126 SK ==============================
3.32 SK ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ||Bह्G_३.३२||
3.32 SK ये तु तद्-विपरीता एतन् मम मतम् अभ्यसूयन्तो निन्दन्तो नानुतिष्ठन्ति नानुवर्तन्ते मे मतम् | सर्वेषु ज्ञानेषु विविधं मूढास् ते | सर्व-ज्ञान-विमूढांस् तान् विद्धि जानीहि नष्टान् नाशं गतान् अचेतसो ऽविवेकिनः ||Bह्GS_३.३२||
129 SK ==============================
130 SK कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्तः पर-धर्मान् अनुतिष्ठन्ति ? स्व-धर्मं च नानुवर्तन्ते ? त्वत्-प्रतिकूलाः कथं न बिभ्यति त्वच्-छासनातिक्रम-दोषात् ? तत्राह -
3.33 SK सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||Bह्G_३.३३||
3.33 SK सदृशम् अनुरूपं चेष्टते चेष्टां करोति | कस्याः ? स्वस्याः स्वकीयायाः प्रकृतेः | प्रकृतिर् नाम पूर्व-कृत-धर्माधर्मादि-संस्कारा वर्तमान-जन्मादाव् अभिव्यक्ताः | सा प्रकृतिः | तस्याः सदृशम् एव सर्वो जन्तुर् ज्ञानवान् अपि चेष्टते, किं पुनर् मूर्खः ? तस्मात् प्रकृतिं यान्त्य् अनुगच्छन्ति भूतानि प्राणिनः | निग्रहो निषेध-रूपः किं करिष्यति मम वान्यस्य वा ? दुर्निग्रहा प्रकृतिर् इति वाक्य-शेषः ||Bह्GS_३.३३||
133 SK ==============================
134 SK यदि सर्वो जन्तुर् आत्मनः प्रकृति-सदृशम् एव चेष्टते, न च प्रकृति-शून्यः कश्चिद् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्य-प्राप्ताव् इदम् उच्यते -
3.34 SK इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ | तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ||Bह्G_३.३४||
3.34 SK इन्द्रियस्येन्द्रियस्यार्थे सर्वेन्द्रियाणाम् अर्थे शब्दादि-विषये इष्टे रागो ऽनिष्टे द्वेष इत्य् एवं प्रतीन्द्रियार्थं रागद्वेषाव् अवश्यंभाविनौ तत्रायं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते | शास्त्रार्थे प्रवृत्तः पूर्वम् एव राग-द्वेषयोर् वशं नागच्छेत् | या हि पुरुषस्य प्रकृतिः सा राग-द्वेष-पुरःसरैव स्व-कार्ये पुरुषं प्रवर्तयति | तदा स्वधर्म-परित्यागः पर-धर्मानुष्ठानं च भवति | यदा पुना राग-द्वेषौ तत्-प्रतिपक्षेण नियमयति तदा शास्त्र-दृष्टिर् एव पुरुषो भवति, न प्रकृति-वशः | तस्मात् तयो राग-द्वेषयोर् वशं नागच्छेत् | यतस् तौ ह्य् अस्य पुरुषस्य परिपन्थिनौ श्रेयो-मार्गस्य विघ्न-कर्तारौ तस्कराव् इव पथीत्य् अर्थः ||Bह्GS_३.३४||
137 SK ==============================
138 SK तत्र राग-द्वेष-प्रयुक्तो मन्यते शास्रार्थम् अप्य् अन्यथा पर-धर्मो ऽपि धर्मत्वाद् अनुष्ठेय एव इति, तद् असत् -
3.35 SK श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् | स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ||Bह्G_३.३५||
3.35 SK श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मो विगुणो ऽपि विगत-गुणो ऽपि अनुष्ठीयमानः पर-धर्मात् स्वनुष्ठितात् साद्गुण्येन संपादिताद् अपि | स्व-धर्मे स्थितस्य निधनं मरणम् अपि श्रेयः पर-धर्मे स्थितस्य जीवितात् | कस्मात् ? पर-धर्मः भयावहः नरकादि-लक्षणं भयम् आवहतीति यतः ||Bह्GS_३.३५||
141 SK ==============================
142 SK यद्यपि अनर्थ-मूलम् ध्यायतो विषयान् पुंस [Gईता २.६२] इति राग-द्वेषौ ह्य् अस्य परिपन्थिनौ [Gईता ३.३४] इति चोक्तम् | विक्षिप्तम् अनवधारितं च तद् उक्तम् | तत् संक्षिप्तं निश्चितं च इदम् एवेति ज्ञातुम् इच्छन् अर्जुन उवाच ज्ञाते हि तस्मिन् तद्-उच्छेदाय यत्नं कुर्याम् इति अर्जुन उवाच-
3.36 SK अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः | अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ||Bह्G_३.३६||
3.36 SK अथ केन हेतु-भूतेन प्रयुक्तः सन् राज्ञेव भृत्यो ऽयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन्न् अपि हे वार्ष्णेय वृष्णि-कुल-प्रसूत ! बलाद् इव नियोजितो राज्ञेवेत्य् उक्तो दृष्टान्तः ||Bह्GS_३.३६||
145 SK ==============================
146 SK शृणु त्वं तं वैरिणं सर्वानर्थ-करं यं त्वं पृच्छसीति भगवान् उवाच -
3.37 SK काम एष क्रोध एष रजो-गुण-समुद्भवः | महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ||Bह्G_३.३७||
148 SK ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः | वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना || [VइP ६.५.७४]
149 SK इत्य् ऐश्वर्यादि-षट्कं यस्मिन् वासुदेवे नित्यम् अप्रतिबद्धत्वेन सामस्त्येन च वर्तते,
150 SK उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् | वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति || [VइP ६.५.७८]
151 SK उत्पत्त्य्-आदि-विषयं च विज्ञानं यस्य स वासुदेवो वाच्यो भगवान् इति |
3.37 SK काम इति | काम एष सर्व-लोक-शत्रुर् यन्-निमित्ता सर्वानर्थ-प्राप्तिः प्राणिनाम् | स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते | अतः क्रोधो ऽप्य् एष एव रजो-गुण-समुद्भवो रजश् च तद्-गुणश् च रजो-गुणः स समुद्भवो यस्य स कामो रजो-गुण-समुद्भवः | रजो-गुणस्य वा समुद्भवः | कामो ह्य् उद्भूतो रजः प्रवर्तयन् पुरुषं प्रवर्तयति | तृष्णया ह्य् अहंकारित इति दुःखिनां रजः-कार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते | महाशनो महद् अशनं अस्येति महाशनः | अतएव महा-पाप्मा | कामेन हि प्रेरितो जन्तुः पापं करोति | अतो विद्ध्य् एनं कामम् इह संसारे वैरिणम् ||Bह्GS_३.३७||
153 SK ==============================
154 SK कथं वैरी ? इति दृष्टान्तैः प्रत्याययति -
3.38 SK धूमेनाव्रियते वह्निर् यथादर्शो मलेन च | यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ||Bह्G_३.३८||
3.38 SK धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मको ऽप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथोल्बेन च जरायुणा गर्भ-वेष्टनेन चावृत आच्छादितो गर्भस् तथा तेनेदम् आवृतम् ||Bह्GS_३.३८||
157 SK ==============================
158 SK किं पुनस् तद् इदं-शब्द-वाच्यं यत् कामेनावृतम् इत्य् उच्यते -
3.39 SK आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा | काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ||Bह्G_३.३९||
3.39 SK आवृतम् एतेन ज्ञानं ज्ञानिनो नित्य-वैरिणा, ज्ञानी हि जानात्य् अनेनाहम् अनर्थे प्रयुक्तः पूर्वम् एवेति | दुःखी च भवति नित्यम् एव | अतो ऽसौ ज्ञानिनो नित्य-वैरी, न तु मूर्खस्य | स हि कामं तृष्णा-काले मित्रम् इव पश्यन् तत्-कार्ये दुःखे प्राप्ते जानाति तृष्णयाहं दुःखित्वम् आपादित इति, न पूर्वम् एव | अतो ज्ञानिन एव नित्य-वैरी | किं-रूपेण ? काम-रूपेण काम इच्छैव रूपम् अस्येति कामरूपस् तेन दुष्पूरेण दुःखेन पूरणम् अस्येति दुष्पूरस् तेनानलेन नास्यालं पर्याप्तिर् विद्यत इत्य् अनलस् तेन च ||Bह्GS_३.३९||
161 SK ==============================
162 SK किम् अधिष्ठानः पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्य लोकस्य ? इत्य् अपेक्षायाम् आह, ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति-
3.40 SK इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते | एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ||Bह्G_३.४०||
3.40 SK इन्द्रियाणि मनो बुद्धिश् चास्य कामस्याधिष्ठानम् आश्रय उच्यते | एतैर् इन्द्रियादिभिर् आश्रयैर् विमोहयति विविधं मोहयत्य् एष कामो ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम् ||Bह्GS_३.४०||
165 SK ==============================
3.41 SK तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ | पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ||Bह्G_३.४१||
3.41 SK तस्मात् त्वम् इन्द्रियाण्य् आदौ पूर्वम् एव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञान-विज्ञान-नाशनं ज्ञानं शास्त्रत आचार्यतश् चात्मादीनाम् अवबोधः | विज्ञानं विशेषतस् तद्-अनुभवस् तयोर् ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोर् नाशनं नाश-करं प्रजहिहि आत्मनः परित्यजेत्य् अर्थः ||Bह्GS_३.४१||
169 SK ==============================
170 SK इन्द्रियाण्य् आदौ नियम्य कामं शत्रुं जहिहि इत्य् उक्तम् | तत्र किम् आश्रयः कामं जह्यात् इत्य् उच्यते --
3.42 SK इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः | मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ||Bह्G_३.४२||
3.42 SK इन्द्रियाणि श्रोत्रादीनि पञ्च | देहं स्थूलं बाह्यं परिच्छिन्नं चापेक्ष्य सौक्ष्म्यान्तरत्व-व्यापित्वाद्य्-अपेक्षया पराणि प्रकृष्टान्य् आहुः पण्डिताः | तथा इन्द्रियेभ्यः परं मनः संकल्प-विकल्पात्मकम् | तथा मनसस् तु परा बुद्धिर् निश्चयात्मिका | तथा यः सर्व-दृश्येभ्यो बुद्ध्य्-अन्तेभ्यो ऽभ्यन्तरो यं देहिनम् इन्द्रियादिभिर् आश्रयैर् युक्तः कामो ज्ञानावरण-द्वारेण मोहयतीत्य् उक्तम् | बुद्धेः परतस् तु स | स बुद्धेर् द्रष्टा | पर आत्मा ||Bह्GS_३.४२||
173 SK ==============================
3.43 SK एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना | जहि शत्रुं महाबाहो काम-रूपं दुरासदम् ||Bह्G_३.४३||
3.43 SK एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वात्मानं स्वेनैवात्मना संस्कृतेन मनसा सम्यक् समाधायेत्य् अर्थः | जह्य् एनं शत्रुं हे महाबाहो ! काम-रूपं दुरासदं दुःखेनासद आसादनं प्राप्तिर् यस्य तं दुरासदं दुर्विज्ञेयानेक-विशेषम् इति ||Bह्GS_३.४३||
3 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये तृतीयो ऽध्यायः
179 SK अथ चतुर्थो ऽध्यायः (शङ्कर-भाष्यः)
180 SK यो ऽयं योगो ऽध्याय-द्वयेनोक्तो ज्ञान-निष्ठा-लक्षणः स सन्न्यासः कर्म-योगोपायः | यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च गीतासु च सर्वास्व् अयम् एव योगो विवक्षितो भगवता | अतएव परिसमाप्तः प्रवृत्तिं वेदार्थं मन्वानस् तं वंश-कथनेन स्तौति श्री-भगवान् |
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source