2.1 SK संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् | विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ||Bह्G_२.१||
2.2 SK कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् | अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ||Bह्G_२.२||
2.3 SK क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते | क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ||Bह्G_२.३||
2.4 SK कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन | इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ||Bह्G_२.४||
2.5 SK गुरून् अहत्वा हि महानुभावाञ् श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके | हत्वार्थ-कामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ||Bह्G_२.५||
2.6 SK न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः | यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||Bह्G_२.६||
2.7 SK कार्पण्य-दोषोपहत-स्वभावः पृच्छामि त्वां धर्म-संमूढ-चेताः | यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ||Bह्G_२.७||
2.8 SK न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् | अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ||Bह्G_२.८||
2.9 SK संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः | न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ||Bह्G_२.९||
2.10 SK तम् उवाच हृषीकेशः प्रहसन्न् इव भारत | सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ||Bह्G_२.१०||
11 SK अत्र च दृष्ट्वा तु पाण्डवानीकम् इत्य् आरभ्य यावत् न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह इत्य् एतद्-अन्तः प्राणिनां शोक-मोहादि-संसार-बीज-भूत-दोषोद्भव-कारण-प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः | तथा हि -- अर्जुनेन राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-संबन्धि-बान्धवेषु अहम् एतेषाम् ममैते इत्य् एवं भ्रान्ति-प्रत्यय-निमित्त-स्नेह-विच्छेदादि-निमित्तौ आत्मनः शोक-मोहौ प्रदर्शितौ | कथं भीष्मम् अहं संख्ये इत्य् आदिना | शोक-मोहाभ्यां ह्य् अभिभूत-विवेक-विज्ञानः स्वत एव क्षत्र-धर्मे युद्धे प्रवृत्तो ऽपि तस्माद् युद्धाद् उपरराम | पर-धर्मं च भिक्षा-जीवनादिकं कर्तुं प्रववृते | तथा च सर्व-प्राणिनां शोक-मोहादि-दोषाविष्ट-चेतसां स्वभावत एव स्वधर्म-परित्यागः प्रतिषिद्ध-सेवा च स्यात् | स्व-धर्मे प्रवृत्तानाम् अपि तेषां वाङ्-मनः-कायादीनां प्रवृत्तिः फलाभिसंधि-पूर्विकैव साहंकारा च भवति | तत्रैवं सति धर्माधर्मोपचयाद् इष्टानिष्ट-जन्म-सुख-दुःखादि-प्राप्ति-लक्षणः संसारो ऽनुपरतो भवति | इत्य् अतः संसार-बीज-भूतौ शोक-मोहौ | तयोश् च सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञानात् नान्यतो निवृत्तिर् इति तद्-उपदिदिक्षुः सर्व-लोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान् वासुदेवः--- अशोच्यान् इत्यादि |
12 SK अत्र केचिद् आहुः-सर्व-कर्म-संन्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-मात्राद् एव केवलात् कैवल्यं न प्राप्यत एव | किं तर्हि ? अग्निहोत्रादि-श्रौत-स्मार्त-कर्म-सहितात् ज्ञानात् कैवल्य-प्राप्तिर् इति सर्वासु गीतासु निश्चितो ऽर्थ इति | ज्ञापकं चाहुर् अस्यार्थस्य -- अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि [Gईता २.३३] कर्मण्य् एवाधिकारस् ते [Gईता २.४७], कुरु कर्मैव तस्मात् त्वम् [Gईता ४.१५] इत्य् आदि | हिंसादि-युक्तत्वात् वैदिकं कर्म अधर्माय इतीयम् अप्य् आशङ्का न कार्या | कथम् ? क्षात्रं कर्म युद्ध-लक्षणं गुरु-भ्रातृ-पुत्रादि-हिंसा-लक्षणम् अत्यन्तं क्रूरम् अपि स्व-धर्म इति कृत्वा नाधर्माय | तद्-अकरणे च ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि [Gईता २.३३] इति ब्रुवता यावज् जीवादि-श्रुति-चोदितानां पश्व्-आदि-हिंसा-लक्षणानां च कर्मणां प्राग् एव नाधर्मत्वम् इति सुनिश्चितम् उक्तं भवति -- इति |
13 SK तद् असत् | ज्ञान-कर्म-निष्ठयोर् विभाग-वचनाद् बुद्धि-द्वयाश्रययोः | अशोच्यान् इत्य् आदिना भगवता यावत् स्वधर्मम् अपि चावेक्ष्य इत्य् एतद्-अन्तेन ग्रन्थेन यत्-परमार्थात्म-तत्त्व-निरूपणं कृतम्, तत् सांख्यम् | तद्-विषया बुद्धिर् आत्मनो जन्मादि-षड्-विक्रियाभावाद् अकर्ता आत्मेति प्रकरणार्थ-निरूपणाद् या जायते, सा सांख्य-बुद्धिः | सा येषां ज्ञानिनाम् उचिता भवति, ते सांख्याः | एतस्या बुद्धेर् जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्म-विवेक-पूर्वको मोक्ष-साधनानुष्ठान-लक्षणो योगः | तद्-विषया बुद्धिः योग-बुद्धिः | सा येषां कर्मिणाम् उचिता भवति ते योगिनः | तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु इति | तयोश् च सांख्य-बुद्ध्य्-आश्रयां ज्ञान-योगेन निष्ठां सांख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता इति | तथा च योग-बुद्ध्य्-आश्रयां कर्म-योगेन निष्ठां विभक्तां वक्ष्यति - कर्म-योगेन योगिनाम् इति | एवं सांख्य-बुद्धिं योग-बुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञान-कर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्व-बुद्ध्य्-आश्रययोः युगपद्-एक-पुरुषाश्रयत्वासंभवं पश्यता | यथा एतद्-विभाग-वचनम् तथैव दर्शितं शातपथीये ब्राह्मणे - एतम् एव प्रव्राजिनो लोकम् इच्छन्तो ब्राह्मणाः प्रव्रजन्ति [BAU ४.४.२२] इति सर्व-कर्म-संन्यासं विधाय तच्-छेषेण किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोकः [BAU ४.४.२२] इति | तत्रैव च प्राग् दार-परिग्रहात् पुरुष आत्मो प्राकृतो धर्म-जिज्ञासोत्तर-कालं लोक-त्रय-साधनम् | पुत्रं, द्वि-प्रकारं च वित्तं मानुषं द्वि-प्रकारं च | तत्र मानुषं कर्म-रूपं पितृ-लोक-प्राप्ति-साधनं विद्यां च दैवं वित्तं देव-लोक-प्राप्ति-साधनम् | सो ऽकामयत [BAU १.४.१७] इति अविद्या-कामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि | तेभ्यो व्युत्थाय, प्रव्रजन्ति [BAU ४.४.२२] इति व्युत्थानम् आत्मानम् एव लोकम् इच्छतो ऽकामस्य विहितम् | तद् एतद् विभाग-वचनम् अनुपपन्नं स्याद् यदि श्रौत-कर्म-ज्ञानयोः समुच्चयो ऽभिप्रेतः स्याद् भगवतः |
14 SK न चार्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत् कर्मणस् ते [Gईता ३.१] इत्य् आदिः | एक-पुरुषानुष्ठेयत्वासंभवं बुद्धि-कर्मणोः भगवता पूर्वम् अनुक्तं कथम् अर्जुनो ऽश्रुतं बुद्धा च कर्मणो ज्यायस्त्वं भगवत्य् अध्यारोपयेन् मृषैव ज्यायसी चेत् कर्मणस् ते मता बुद्धिः इति |
15 SK किं च -- यदि बुद्धि-कर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, यच् छ्राय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् इति कथम् उभयोर् उपदेशे सति अन्यतर-विषय एव प्रश्नः स्यात् ? न हि पित्त-प्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्य् उपदिष्टे तयोर् अन्यतरत्-पित्त-प्रशमन-कारणं ब्रूहि इति प्रश्नः संभवति |
16 SK अथार्जुनस्य भगवद्-उक्त-वचनार्थ-विवेकानवधारण-निमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् -- मया बुद्धि-कर्मणोः समुच्चय उक्तः किम् अर्थम् इत्थं त्वं भ्रान्तो ऽसि -- इति | न तु पुनः प्रतिवचनम् अननुरूपं पृष्टाद् अन्यद् एव द्वे निष्ठा मया पुरा प्रोक्ता इति वक्तुं युक्तम् |
17 SK नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभाग-वचनादि सर्वम् उपपननम् | किं च -- क्षत्रियस्य युद्धं स्मार्तं कर्म स्व-धर्म इति जानतः तत् किं कर्मणि घोरो मां नियोजयसि इत्य् उपालम्भो ऽनुपपन्नः |
18 SK तस्माद् गीता-शास्त्रे ईषन्-मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्म-ज्ञानस्य समुच्चयो न केनचिद् दर्शयितुं शक्यः | यस्य त्व् अज्ञानात् रागादि-दोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्ध-सत्त्वस्य ज्ञानम् उत्पन्नं परमार्थ-तत्त्व-विषयम् एकम् एवेदं सर्वं ब्रह्म अकर्तृ च इति, तस्य कर्मणि कर्म-प्रयोजने च निवृत्ते ऽपि लोक-संग्रहार्थं यत्न-पूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत् प्रवृत्ति-रूपं दृश्यते न तत् कर्म येन बुद्धेः समुच्चयः स्यात् | यथा भगवतो वासुदेवस्य क्षत्र-धर्म-चेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थ-सिद्धये, तद्वत् तत्-फलाभिसंध्य्-अहंकाराभावस्य तुल्यत्वाद् विदुषः | तत्त्वविन् नाहं करोमीति मन्यते, न च तत्-फलम् अभिसन्धत्ते | यथा च स्वर्गादि-कामार्थिनो ऽग्निहोत्रादि-कर्म-लक्षण-धर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टा ऽपि कामे तद् एव अग्निहोत्राद्य्-अनुतिष्ठतो ऽपि न तत्-काम्यम् अग्निहोत्रादि भवति | तथा च दर्शयति भगवान् - कुर्वन्न् अपि न लिप्यते न करोति न लिप्यते इति तत्र तत्र ||
19 SK यच् च पूर्वैः पूर्वतरं कृतम् कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः इति, तत् तु प्रविभज्य विज्ञेयम् | तत् कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्व-विदो ऽपि प्रवृत्त-कर्माणः स्युः, ते लोक-संग्रहार्थम् गुणा गुणेषु वर्तन्ते इति ज्ञानेनैव संसिद्धिम् आस्थिताः, कर्म-संन्यासे प्राप्ते ऽपि कर्मणा सहैव संसिद्धिम् आस्थिताः, न कर्म-संन्यासं कृतवन्त इत्य् अर्थः |
20 SK अथ न ते तत्त्व-विदः | ईश्वर-समर्पितेन कर्मणा साधन-भूतेन संसिद्धिं सत्त्व-शुद्धिम्, ज्ञानोत्पत्ति-लक्षणां वा संसिद्धिम्, आस्थिता जनकादय इति व्याख्येयम् | एतम् एवार्थं वक्ष्यति भगवान् सत्त्व-शुद्धये कर्म कुर्वन्ति इति | स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः इत्य् उक्त्वा सिद्धिं प्राप्तस्य पुनर्-ज्ञान-निष्ठां वक्ष्यति -- सिद्धिं प्राप्तो यथा ब्रह्म इत्य् आदिना ||
21 SK तस्माद् गीता-शास्त्रे केवलाद् एव तत्त्व-ज्ञानान् मोक्ष-प्राप्तिः न कर्म-समुच्चितात् इति निश्चितो ऽर्थः | यथा चायम् अर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ||
22 SK तत्रैव धर्म-संमूढ-चेतसो मिथ्या-ज्ञानवतो महति शोक-सागरे निमग्नस्य अर्जुनस्य अन्यत्रात्म-ज्ञानाद् उद्धरणम् अपश्यन् भगवान् वासुदेवः ततः कृपया अर्जुनम् उद्दिधारयिषुः आत्म-ज्ञानायावतारयन्न् आह -
2.11 SK श्री-भगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे | गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ||Bह्G_२.११||
2.11 SK न शोच्या अशोच्याः भीष्म-द्रोणादयः | सद्-वृत्तत्वात् परमार्थ-स्वरूपेण च नित्यत्वात्, तान् अशोच्यान् अन्वशोचो ऽनुशोचितवान् असि ते म्रियन्ते मन्-निमित्तम्, अहं तैर् विनाभूतः किं करिष्यामि राज्य-सुखादिना इति | त्वं प्रज्ञा-वादान् प्रज्ञावतां बुद्धिमतां वादांश् च वचनानि च भाषसे | तद् एतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्य् अभिप्रायः | यस्मात् गतासून् गत-प्राणान् मृतान्, अगतासून् अगत-प्राणान् जीवतश् च नानुशोचन्ति पण्डिताः आत्मज्ञाः | पण्डा आत्म-विषया बुद्धिर् येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य [BAU ३.५.१] इति श्रुतेः | परमार्थतस् तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढो ऽसि इत्य् अभिप्रायः ||Bह्GS_२.११||
25 SK ==============================
26 SK कुतस् ते अशोच्याः ? यतो नित्याः | कथम् ?
2.12 SK न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्यामः सर्वे वयम् अतः परम् ||Bह्G_२.१२||
2.12 SK न त्व् एव जातु कदाचिद् अहं नासम् किन्त्व् आसम् एव | अतीतेषु देहोत्पत्ति-विनाशेषु घटादिषु वियद् इव नित्य एव अहम् आसम् इत्य् अभिप्रायः | तथा न त्वं नासीः, किन्त्व् आसीर् एव | तथा नेमे जनाधिपा आसन् किन्त्व् आसन्न् एव | तथा न चैव न भविष्यामः, किन्तु भविष्याम एव, सर्वे वयम् अतो ऽस्माद् देह-विनाशात् परम् उत्तर-काले ऽपि | त्रिष्व् अपि कालेषु नित्या आत्म-स्वरूपेण इत्य् अर्थः | देहाभेदानुवृत्त्या बहु-वचनम्, नात्म-भेदाभिप्रायेण ||Bह्GS_२.१२||
29 SK ==============================
30 SK तत्र कथम् इव नित्य आत्मेति दृष्टान्तम् आह -
2.13 SK देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा | तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ||Bह्G_२.१३||
2.13 SK देहो ऽस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनो ऽस्मिन् वर्तमाने देहा यथा येन प्रकारेण कौमारं कुमार-भावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयो-हानिः जीर्णावस्था, इत्य् एताः तिस्रो ऽवस्थाः अन्योन्य-विलक्षणाः | तासां प्रथमावस्था-नाशे न नाशः, द्वितीयावस्थोपजने न उपजन आत्मनः | किं तर्हि ?अविक्रियस्यैव द्वितीय-तृतीयावस्था-प्राप्तिः आत्मनो दृष्टा | तथा तद्वद् एव देहाद् अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तर-प्राप्तिः अविक्रियस्यैव आत्मन इत्य् अर्थः | धीरो धीमान् तत्रैवं सति न मुह्यति न मोहम् आपद्यते ||Bह्GS_२.१३||
33 SK ============================== यद्यप्य् आत्म-विनाश-निमित्तो मोहो न संभवति नित्य आत्मा इति विजानतः, तथापि शीतोष्ण-सुख-दुःख-प्राप्ति-निमित्तो मोहो लौकिको दृश्यते, सुख-वियोग-निमित्तो मोहो दुःख-संयोग-निमित्त च शोकः | इत्य् एतद् अर्जुनस्य वचनम् आशङ्कय भगवान् आह -
2.14 SK मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः | आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ||Bह्G_२.१४||
2.14 SK मात्रा आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि | मात्राणां स्पर्शाः शब्दादिभिः संयोगाः | ते शीतोष्णसुख-दुःख-दाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति | अथवा स्पृश्यन्त इति स्पर्शा विषयाः शब्दादयः | मात्राश् च स्पर्शाश् च शीतोष्ण-सुख-दुःख-दाः | शीतं कदाचित् सुखं कदाचित् दुःखम् | तथा उष्णम् अपि अनियत-स्वरूपम् | सुख-दुःखे पुनः नियत-रूपे यतो न व्यभिचरतः | अतस् ताभ्यां पृथक् शीतोष्णयोः ग्रहणम् | यस्मात् ते मात्रा-स्पर्शादयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याः | अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व | तेषु हर्षं विषादं वा मा कार्षीः इत्य् अर्थः ||Bह्GS_२.१४||
36 SK ============================== शीतोष्णादीन् सहतः किं स्याद् इति शृणु ---
2.15 SK यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ | सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ||Bह्G_२.१५||
2.15 SK यं हि पुरुषं समे दुःख-सुखे यस्य तं सम-दुःख-सुखं सुख-दुःख-प्राप्तौ हर्ष-विषाद-रहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्म-दर्शनात् एते यथोक्ताः शीतोष्णादयः, स नित्यात्म-स्वरूप-दर्श-निष्ठो द्वन्द्व-सहिष्णुः अमृतत्वाय अमृत-भावाय मोक्षायेत्य् अर्थः कल्पते समर्थो भवति ||Bह्GS_२.१५||
39 SK ==============================
40 SK इतश् च शोक-मोहौ अकृत्वा शीतोष्णादि-सहनं युक्तम्, यस्मात् ---
2.16 SK नासतो विद्यते भावो नाभावो विद्यते सतः | उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ||Bह्G_२.१६||
42 SK न असतो ऽविद्यमानस्य शीतोष्णादेः स-कारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता ||
43 SK न हि शीतोष्णादि स-कारणं प्रमाणैर् निरूप्यमाणं वस्तु सम्भवति | विकारो हि सः, विकारश् च व्यभिचरति | यथा घटादि-संस्थानं चक्षुषा निरूप्यमाणं मृद्-व्यतिरेकेणानुपलब्धेर् असत् | तथा सर्वो विकारः कारण-व्यतिरेकेणानुपलब्धेर् असत् | जन्म-प्रध्वंसाभ्यां प्राग् ऊर्ध्वं चानुपलब्धेः | कार्यस्य घटादेः मृद्-आदि-कारणस्य च तत्-कारण-व्यतिरेकेणानुपलब्धेर् असत्त्वम् ||
44 SK तद्-असत्त्वे सर्वाभाव-प्रसङ्ग इति चेत्, न | सर्वत्र बुद्धि-द्वयोपलब्धेः, सद्-बुद्धिर् असद्-बुद्धिर् इति | यद्-विषया बुद्धिर् न व्यभिचरति, तत् सत् | यद्-विषया व्यभिचरति, तद् असत् | इति सद्-असद्-विभागे बुद्धि-तन्त्रे स्थिते | सर्वत्र द्वे बुद्धी सर्वैर् उपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन् घटः सन् पटः, सन् हस्ती इति | एवं सर्वत्र | तयोर् बुद्ध्योः घटादि-बुद्धिर् व्यभिचरति | तथा च दर्शितम् | न तु सद्-बुद्धिः | तस्मात् घटादि-बुद्धि-विषयो ऽसन्, व्यभिचारात् | न तु सद्-बुद्धि-विषयः, अव्यभिचारात् ||
45 SK घटे विनष्टे घट-बुद्धौ व्यभिचरन्त्यां सद्-बुद्धिर् अपि व्यभिचरतीति चेत् न | पटाद् एवपि सद्-बुद्धि-दर्शनात् | विशेषण-विषयैव सा सद्-बुद्धिः |
46 SK सद्-बुद्धिवत् घट-बुद्धिर् अपि घटान्तरा दृश्यत इति चेत्, न | पटादौ अदर्शनात् ||
47 SK सद्-बुद्धिर् अपि नष्टे घटे न दृश्यत इति चेत्, न | विशेष्याभावात् | सद्-बुद्धिर् विशेषण-विषया सती विशेष्याभावे विशेषणानुपपत्तौ किं-विषया स्यात् ? न तु पुनः सद्-बुद्धेः विषयाभावात् ||
48 SK एकाधिकरणत्वं घटादि-विशेष्याभावे न युक्तम् इति चेत्, न | इदम् उदकम् इति मरीच्य्-आदौ अन्यतराभावे ऽपि सामानाधिकरण्य-दर्शनात् ||
49 SK तस्माद् देहादेर् द्वन्द्वस्य च स-कारणस्य असतो न विद्यते भाव इति | तथा सतश् च आत्मनो ऽभावो ऽविद्यमानता न विद्यते, सर्वत्राव्यभिचारात् इत्य् अवोचाम ||
2.16 SK एवम् आत्मानात्मनोः सद्-असतोः उभयोर् अपि दृष्टः उपलब्धो ऽन्तो निर्णयः सत् सद् एव, असत् असद् एवेति, त्व् अनयोः यथोक्तयोः तत्त्व-दर्शिभिः | तद् इति सर्व-नाम सर्वं च ब्रह्म, तस्य नाम तद् इति, तद्-भावस् तत्त्वम्, ब्रह्मणो याथात्म्यम् | तद् द्रष्टुं शीलं येषां ते तत्त्व-दर्शिनः, तैस् तत्त्व-दर्शिभिः | त्वम् अपि तत्त्व-दर्शिनां दृष्टिम् आश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियत-रूपाणि द्वन्द्वानि विकारो ऽयम् असन्न् एव मरीचि-जलवन् मिथ्यावभासते इति मनसि निश्चित्य तितिक्षस्व इत्य् अभिप्रायः ||Bह्GS_२.१६||
51 SK ==============================
52 SK किं पुनस् तत् यत् सद् एव सर्वदैव अस्तीति | उच्यते ---
2.17 SK अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् | विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ||Bह्G_२.१७||
2.17 SK अविनाशि न विनष्टुं शीलं यस्येति | तु-शब्दो ऽसतो विशेषणार्थः | तत् विद्धि विजानीहि | किम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सद्-आख्येन ब्रह्मणा साकाशम्, आकाशेनैव घटादयः | विनाशम् अदर्शनम् अभावम् | अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य | नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात्, देहादिवत् | नाप्य् आत्मीयेन, आत्मीयाभावात् | यथा देवदत्तो धन-हान्या व्येति, न तु एवं ब्रह्म व्येति | अतो ऽव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुम् अर्हति, न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरो ऽपि | आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् ||Bह्GS_२.१७||
55 SK ==============================
56 SK किं पुनस् तद् असत् यत् स्वात्म-सत्तां व्यभिचरतीति, उच्यते -
2.18 SK अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ||Bह्G_२.१८||
58 SK अन्तः विनाशः विद्यते येषां ते अन्तवन्तः | यथा मृगतृष्णिकादौ सद्-बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः | तथा इमे देहाः स्वप्नमायादेहादिवच अन्तवन्तः नित्यस्य शरीरिणः शरीरवतो ऽनाशिनो ऽप्रमेयर्य आत्मनो ऽन्तवन्त इति उक्ताः विवेकिभिरित्य् अर्थः | नित्यस्य अनाशिनः इति न पुनरुक्तम् | नित्यत्वस्य द्विविधत्वात् लोका, नाशस्य च | यथा देहो भस्मीभूतो ऽदर्शनं गतो नष्ट उच्यते | विद्यमानो ऽपि यथा अन्यथा परिणतो व्याध्यादि-युक्तो जातो नष्ट उच्यते | तत्र नित्यस्य ठ् अनाशिनः इति द्विविधेनापि नाशेन असंबन्धो ऽस्येत्य् अर्थः | अन्यथा पृथिव्यादिवद् अपि नित्यत्वं स्यात् आत्मनः | तत् मा भूदिति नित्यस्य अनाशिनः इत्याह | अप्रमेयम्य न प्रमेयस्य प्रत्यक्षादि-प्रमाणैः अपरिच्छाद्यस्येत्य् अर्थः ||
59 SK ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् | न | आत्मनः स्वतःसिद्धत्वात् | सिरा हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति | न हि पूर्वम् इत्थमहम् इति आत्मानमप्रमाय प चात् प्रमेयपरिच्छादाय प्रवर्तते | न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति | शास्त्रं तु अन्त्यं प्रमाणम् अतद्-धर्माध्यारोपण-मात्र-निवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, न ह्य् अज्ञातार्थज्ञापकत्वेन | तथा च श्रुतिः --- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः [BAU ३.४.१] इति | यस्माद् एवं नित्यो ऽविक्रियश् चात्मा तस्माद् युध्यस्व, युद्धाद् उपरमं मा कार्षीः इत्य् अर्थः |
2.18 SK न ह्य् अत्र युद्ध-कर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोक-मोह-प्रतिबद्धः तूष्णीम् आस्ते | अतः तस्य प्रतिबन्धापनयन-मात्रं भगवता क्रियते | तस्माद् युध्यस्व इति अनुवाद-मात्रम्, न विधिः ||Bह्GS_२.१८||
61 SK ==============================
62 SK शोक-मोहादि-संसार-कारण-निवृत्त्य्-अर्थं गीता-शास्त्रम्, न प्रवर्तकम् इत्य् एतस्यार्थस्य साक्षि-भूते ऋचौ आनिनाय भगवान् | यत् तु मन्यसे युद्धा भीष्मादयो मया हन्यन्ते अहम् एव तेषां हन्ता इति, एषा बुद्धिर् मृषैव ते | कथम् ?
2.19 SK य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||Bह्G_२.१९||
2.19 SK य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-क्रियायाः कर्तारं य च एनम् अन्यो मन्यते हतं देह-हननेन हतो ऽहम् इति हनन-क्रियायाः कर्म-भूतम् | तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् | हन्ता अहं, हतो ऽस्म्य् अहम् इति देह-हननेन आत्मानम् अहं प्रत्यय-विषयं यौ विजानीतः तौ आत्म-स्वरूपानभिज्ञौ इत्य् अर्थः | यस्मात् न अयम् अत्मा हन्ति न हनन-क्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्य् अर्थः, अविक्रियत्वात् ||Bह्GS_२.१९||
65 SK ==============================
66 SK कथम् अविक्रिय आत्मेति द्वितीयो मन्त्रः --
2.20 SK न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ||Bह्G_२.२०||
68 SK न जायते नोत्पद्यते, जनि-लक्षणा वस्तु-विक्रिया न आत्मनो विद्यते इत्य् अर्थः | तथा न म्रियते वा | वा-शब्दः चार्थे | न म्रियते च इति अन्त्या विनाश-लक्षणा विक्रिया प्रतिषिध्यते | कदाचिच् छब्दः सर्व-विक्रिया-प्रतिषेधैः संबध्यते -- न कदाचित् जायते, न कदाचित् म्रियते, इत्य् एवम् | यस्मात् अयम् आत्मा भूत्वा भवन-क्रियाम् अनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते | यो हि भूत्वा न भविता स म्रियत इत्य् उच्यते लोका | वा-शब्दात् न-शब्दाच् च अयम् आत्मा अभूत्वा वा भविता देहवत् न भूयः | तस्मात् न जायते | यो हि अभूत्वा भविता स जायत इत्य् उच्यते | नैवम् आत्मा | अतो न जायते | यस्माद् एवं तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यश् च |
69 SK यद्यपि आद्य्-अन्तयोर् विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्य-भाविनीनां विक्रियाणां स्व-शब्दैर् एव प्रतिषेधः कर्तव्यो ऽनुक्तानाम् अपि यौवनादि-समस्त-विक्रियाणां प्रतिषेधो यथा स्यात् इत्य् आह-- शाश्वत इत्य् आदिना | शाश्वत इति अपक्षय-लक्षणा विक्रिया प्रतिषिध्यते | शश्वद्-भवः शाश्वतः | न अपक्षीयते स्वरूपेण, निरवयवत्वात् | नापि गुण-क्षयेण अपक्षयः, निर्गुणत्वात् | अपक्षय-विपरीतापि वृद्धि-लक्षणा विक्रिया प्रतिषिध्यते --- पुराण इति | यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते | अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः न वर्धते इत्य् अर्थः | तथा न हन्यते | हन्तिः अत्र विपरिणामार्थे द्रष्टव्यो ऽपुनरुक्ततायै | न विपरिणम्यते इत्य् अर्थः |
2.20 SK हन्यमाने विपरिणम्यमाने ऽपि शरीराः | अस्मिन् मन्त्रे षड्-भाव-विकारा लौकिक-वस्तु-विक्रिया आत्मनि प्रतिषिध्यन्ते | सर्व-प्रकार-विक्रिया-रहित आत्मा इति वाक्यार्थः | यस्माद् एवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः ||Bह्GS_२.२०||
71 SK ==============================
72 SK य एनं वेत्ति हन्तारम् इत्यनेन मन्त्रेण हनन-क्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, न जायते इत्य् अनेन अविक्रियत्वं हेतुम् उक्त्वा प्रतिज्ञातार्थम् उपसंहरति--
2.21 SK वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||Bह्G_२.२१||
74 SK वेद विजानाति अविनाशिनम् अन्त्य-भाव-विकार-रहितं नित्यं विपरिणाम-रहितं यो वेद इति संबन्धः | एनं पूर्वेण मत्रेणोक्त-लक्षणम् अजं जन्म-रहितम् अव्ययम् अपक्षय-रहितं कथं केन प्रकारेण स विद्वान् पुरुषो ऽधिकृतः हन्ति हनन-क्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति | न कथंचित् कंचित् हन्ति, न कथंचित् कंचित् घातयति इति उभयत्र आक्षेपः एवार्थः प्रश्नार्थासंभवात् | हेत्व्-अर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्व-कर्म-प्रतिषेध एव प्रकरणार्थो ऽभिप्रेतो भगवता | हन्तेस् तु आक्षेपः उदाहरणार्थत्वेन कथितः | विदुषः कं कर्मासंभवे हेतु-विशेषं पश्यन् कर्माण्य् आक्षिपति भगवान् कथं स पुरुषः इति |
75 SK ननु उक्त एवात्मनो ऽविक्रियत्वं सर्व-कर्मासंभव-कारण-विशेषः | सत्यम् उक्तः | न तु स कारण-विशेषः, अन्यत्वात् विदुषो ऽविक्रियाद् आत्मनः | न हि अविक्रियं स्थाणुं विदितवतः कर्म न संभवति इति चेत्, न | विदुषः आत्मत्वात् | न देहादि-संघातस्य विद्वत्ता | अतः पारिशेष्यात् असंहत आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपो युक्तः कथं स पुरुषः इति | यथा बुद्ध्याद्य् आहृतस्य शब्दाद्य्-अर्थस्य अविक्रिय एव सन् बुद्धि-वृत्त्य्-अविवेक-विज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवम् एव आत्मानात्म-विवेक-ज्ञानेन बुद्धि-वृत्त्या विद्या असत्य-रूपयैव परमार्थतो ऽविक्रिय एव आत्मा विद्वान् उच्यते | विदुषः कर्मासंभव-वचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयो ऽवगम्यते ||
76 SK ननु विद्यापि अविदुष एव विधीयते, विदित-विद्यस्य पिष्ट-पेषणवत् विद्या-विधानानर्थक्यात् | तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न | अनुष्ठेयस्य भावाभाव-विशेषोपपत्तेः | अग्निहोत्रादि-विध्य्-अर्थ-ज्ञानोत्तर-कालम् अग्निहोत्रादि-कर्म अनेक-साधनोपसंहार-पूर्वकम् अनुष्ठेयं कर्ता अहम्, मम कर्तव्यम् इत्य् एवं प्रकार-विज्ञानवतो ऽविदुषः यथा अनुष्ठेयं भवति, न तु तथा न जायते इत्य् आद्य् आत्म-स्वरुप-विध्य्-अर्थ-ज्ञानोत्तर-काल-भावि किंचिद् अनुष्ठेयं भवति | किन्तु नाहं कर्ता, नाहं भोक्ता इत्य् आद्य् आत्मैकत्वाकर्तृत्वादि-विषय-ज्ञानात् नान्यद् उत्पद्यते इति एष विशेष उपपद्यते | यः पुनः कर्ता अहम् इति वेत्ति आत्मानम्, तस्य मम इदं कर्तव्यम् इति अवश्यंभाविनी बुद्धिः स्यात् | तद्-अपेक्षया सो ऽधिक्रियते इति तं प्रति कर्माणि संभवन्ति | स च अविद्वान् उभौ तौ न विजानीतः इति वचनात् विशेषितस्य च विदुषः कर्माक्षेप-वचनात् कथं स पुरुषः इति |
77 SK तस्मात् विशेषितस्य अविक्रियात्म-दर्शिनः विदुषः मुमुक्षो च सर्व-कर्म-संन्यासे एव अधिकारः | अत एव भगवान् नारायणः सांख्यान् विदुषो ऽविदुष च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति-ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् इति | तथा च पुत्राय आह भगवान् व्यासः - द्वाव् इमाव् अथ पन्थानौ [MअहाŚआ २४१.६] इत्य् आदि | तथा च क्रिया-पथश् चैव पुरस्तात् पश्चात् संन्यासश् च इति | एतम् एव विभागं पुनः पुनर् दर्शयिष्यति भगवान् --- अतत्त्ववित् अहंकार-विमूढात्मा कर्ताहम् इति मन्यते, तत्त्ववित् तु, नाहं करोमि इति | तथा च सर्व-कर्माणि मनसा संन्यस्यास्ते इत्यादि ||
78 SK तत्र केचित् पण्डितं-मन्या वदन्ति --- जन्मादि-षड्-भाव-विक्रिया-रहितो ऽविक्रियो ऽकर्ता एको ऽहम् आत्मा इति न कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्व-कर्म-संन्यासः उपदिश्यते इति | तन् न | न जायते इत्यादि शास्त्रोपदेशानर्थक्य-प्रसङ्गात् | यथा च शास्त्रोपदेश-सामर्थ्यात् धर्माधर्मास्तित्व-विज्ञानं कर्तुश् च देहान्तर-संबन्ध-विज्ञानम् उत्पद्यते, तथा शास्त्रात् तस्यैव आत्मनो ऽविक्रियत्वाकर्तृत्वैकत्वादि-विज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते | करणागोचरत्वात् इति चेत्, न | मनसैवानुद्रष्टव्यम् [BAU ४.४.१९] इति श्रुतेः | शास्त्राचार्योपदेश-शम-दमादि-संस्कृतं मन आत्म-दर्शने करणम् | तथा च तद् अधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहस-मात्रम् एतत् | ज्ञानं च उत्पद्यमानं तद्-विपरीतम् अज्ञानम् अवश्यं बाधते इत्य् अभ्युपगन्तव्यम् | तच् च अज्ञानं दर्शितम् हन्ता अहम्, हतो ऽस्मि इति उभौ तौ न विजानीत इति | अत्र च आत्मनः हनन-क्रियायाः कर्तृत्वं कर्मत्वं हेतु-कर्तृत्वं च अज्ञान-कृतं दर्शितम् | तच् च सर्व-क्रियास्व् अपि समानं कर्तृत्वादेः अविद्या-कृतत्वम् अविक्रियत्वात् आत्मनः | विक्रियावान् हि कर्ता आत्मनः कर्म-भूतम् अन्यं प्रयोजयति कुरु इति |
79 SK तद् एतत् अविशेषेण विदुषः सर्व-क्रियासु कर्तृत्वं हेतु-कर्तृत्वं च प्रतिषेधति भगवान् वासुदेवो विदुषः कर्माधिकाराभाव-प्रदर्शनार्थं वेदाविनाशिनं, कथं स पुरुषः इत्य् आदिना | क्व पुनः विदुषो ऽधिकार इति एतद् उक्तं पूर्वम् एव ज्ञान-योगेन सांख्यानाम् इति | तथा च सर्व-कर्म-संन्यासं वक्ष्यति सर्व-कर्माणि मनसा इत्य् आदिना ||
80 SK ननु मनसा इति वचनात् न वाचिकानां कायिकाना च संन्यासः इति चेत्, न | सर्व-कर्माणि इति विशेषितत्वात् | मानसानाम् एव सर्व-कर्मणाम् इति चेत्, न | मनो-व्यापार-पूर्वकत्वाद् वाक्-काय-व्यापाराणां मनो-व्यापाराभावे तद्-अनुपपत्तेः | शास्त्रीयाणां वाक्-काय-कर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्व-कर्माणि मनसा संन्यस्येद् इति चेत्, न | नैव कुर्वन् न कारयन् इति विशेषणात् | सर्व-कर्म-संन्यासो ऽयं भगवता उक्तः मरिष्यतो न जीवत इति चेत्, न | नव-द्वारे पुरे देही आस्ते इति विशेणानुपपत्तेः | न हि सर्व-कर्म-संन्यासेन मृतस्य तद्-देहे आसनं संभवति |
2.21 SK अकुर्वतो ऽकारयत च देहे संन्यस्य इति संबन्धो न देहे आस्ते इति चेत्, न | सर्वत्र आत्मनो ऽविक्रियत्वावधारणात् | आसन-क्रियायाश् चाधिकरणापेक्षत्वात् | तद्-अनपेक्षत्वाच् च संन्यासस्य | संपूर्वस् तु न्यास-शब्दो ऽत्र त्यागार्थः, न निक्षेपार्थः | तस्मात् गीता-शास्त्रे आत्म-ज्ञानवतः संन्यास एव अधिकारो न कर्मणीति तत्र तत्र उपरिष्टात् आत्म-ज्ञान-प्रकरणे दर्शयिष्यामः ||Bह्GS_२.२१||
82 SK ==============================
83 SK प्रकृतं तु वक्ष्यामः | तत्र आत्मनो ऽविनाशित्वं प्रतिज्ञातम् | तत् किम् इवेति, उच्यते -
2.22 SK वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि | तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ||Bह्G_२.२२||
2.22 SK वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषो ऽपराणि अन्यानि, तथा तद्वद् एव शरीराणि विहाय जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा पुरुषवत् अविक्रिय एवेत्य् अर्थः ||Bह्GS_२.२२||
86 SK ==============================
87 SK कस्मात् अविक्रिय एवेति, आह ---
2.23 SK नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ||Bह्G_२.२३||
2.23 SK एनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि, निरवयवत्वात् नावयव-विभागं कुर्वन्ति | शस्त्राणि अस्य्-आदीनि | तथा नैनं दहति पावकः, अग्निर् अपि न भस्मीकरोति | तथा न चैनं क्लेदयन्ति आपः | अपां हि सावयवस्य वस्तुन आद्रीभाव-करणेन अवयव-विश्लेषापादने सामर्थ्यम् | तन् न निरवयवे आत्मनि संभवति | तथा स्नेहवत् द्रव्यं स्नेह-शोषणेन नाशयति वायुः | एनं त्व् आत्मानं न शोषयति मारुतो ऽपि ||Bह्GS_२.२३||
90 SK ==============================
2.24 SK अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च | नित्यः सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ||Bह्G_२.२४||
93 SK यस्मात् अन्योन्य-नाश-हेतु-भूतानि एनम् आत्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः | नित्यत्वात् सर्वगतः | सर्व-गतत्वात् स्थाणुर् इव, स्थिर इत्य् एतत् | स्थिरत्वात् अचलो ऽयम् आत्मा | अतः सनातनश् चिरन्तनः, न कारणात् कुतश्चिन् निष्पन्नः, अभिनव इत्य् अर्थः |
2.24 SK नैतेषां लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव लोकान् आत्मनः नित्यत्वम् अविक्रियत्वं चोक्तम् न जायते म्रियते वा इत्य् आदिना | तत्र यद् एव आत्म-विषयं किंचिद् उच्यते, तद् एतस्मात् लोकार्थान् नातिरिच्यते | किंचिच् छब्दतः पुनरुक्तम्, किंचिद् अर्थतः इति | दुर्बोधत्वात् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् असंसारित्व-बुद्धि-गोचरताम् आपन्नं सत् अव्यक्तं तत्त्वं संसार-निवृत्तये स्यात् इति ||Bह्GS_२.२४||
95 SK ============================== किं च--
2.25 SK अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते | तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ||Bह्G_२.२५||
2.25 SK अव्यक्तः सर्व-करणाविषयत्वात् न व्यज्यत इति अव्यक्तो ऽयम् आत्मा | अतएव अचिन्त्यो ऽयम् | यद् धि इन्द्रिय-गोचरस् तच् चिन्ता-विषयत्वम् आपद्यते | अयं त्व् आत्मा अनिन्द्रिय-गोचरत्वात् अचिन्त्यः | अतएव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयम् आत्मा | निरवयवत्वाच् चाविक्रियः | न हि निरवयवं किंचित् विक्रियात्मकं दृष्टाम् | अविक्रियत्वात् अविकार्यो ऽयम् आत्मा उच्यते | तस्मात् एवं यथोक्त-प्रकारेण एनम् आत्मानं विदित्वा त्वं न अनुशोचितुम् अर्हसि हन्ताहम् एषाम्, मयैते हन्यन्त इति ||Bह्GS_२.२५||
98 SK ==============================
99 SK आत्मनो ऽनित्यत्वम् अभ्युपगम्य इदम् उच्यते ---
2.26 SK अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ||Bह्G_२.२६||
2.26 SK अथ च इति अभ्युपगमार्थः | एनं प्रकृतम् आत्मानं नित्य-जातं लोक-प्रसिद्धया प्रत्य् अनेक-शरीरोत्पत्ति जातो जात इति मन्यसे | तथा प्रति-तत्-तद्-विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति | तथापि तथाभावे ऽप्य् आत्मनि त्वं महाबाहो, न एवं शोचितुम् अर्हसि, जन्मवतो नाशो नाशवतो जन्म चेत्य् एताव् अवश्यंभाविनाव् इति ||Bह्GS_२.२६||
102 SK ==============================
2.27 SK जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च | तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ||Bह्G_२.२७||
2.27 SK जातस्य हि लब्ध-जन्मनः ध्रुवो ऽव्यभिचारी मृत्युर् मरणं ध्रुव जन्म मृतस्य च | तस्माद् अपरिहार्यो ऽयं जन्म-मरण-लक्षणो ऽर्थः | तस्मिन्न् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ||Bह्GS_२.२७||
106 SK ==============================
107 SK कार्य-करण-संघातात्म-कान्यपि भूतान्य् उद्दिश्य शोको न युक्तः कर्तुम्, यतः-
2.28 SK अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत | अव्यक्त-निधनान्य् एव तत्र का परिदेवना ||Bह्G_२.२८||
109 SK अव्यक्तादीन्य् अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिर् येषां भूतानां पुत्र-मित्रादि-कार्य-करण-संघातात्मकानां तानि अव्यक्तदीनि भूतानि प्राग्-उत्पत्तेः, उत्पन्नानि च प्राङ्-मरणात् व्यक्त-मध्यानि | अव्यक्त-निधनान्य् एव पुनर् अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्त-निधनानि | मरणाद् ऊर्ध्वम् अप्य् अव्यक्तताम् एव प्रतिपद्यन्ते इत्य् अर्थः | तथा चोक्तम् ---
110 SK अदर्शनाद् आपतितः पुनश् चादर्शनं गतः | नासौ तव न तस्य त्वं वृथा का परिदेवना || [Mअहा. Sत्री. २.१३] इति |
2.28 SK तत्र का परिदेवना को वा प्रलापो ऽदृष्ट-दृष्ट-प्रनष्ट-भ्रान्ति-भूतेषु भूतेष्व् इत्य् अर्थः ||Bह्GS_२.२८||
112 SK ==============================
113 SK दुर्विज्ञेयो ऽथं प्रकृत आत्मा | किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते | कथं दुर्विज्ञेयो ऽयमात्मा इत्यत आह ---
2.29 SK आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः | आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ||Bह्G_२.२९||
2.29 SK आश्चर्यवत् आश्चर्यम् अदृष्ट-पूर्वम् अद्भुतम् अकस्माद् दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यम् इव एनम् आत्मानं पश्यति कश्चित् | आश्चर्यवद् एनं वदति तथैव चान्यः | आश्चर्यवच् च एनम् अन्यः सृणोति | श्रुत्वा दृष्ट्वा उक्त्वापि एनम् आत्मानं वेद न चैव कश्चित् | अथवा यो ऽयम् आत्मानं पश्यति स आश्चर्य-तुल्यः, यो वदति य च सृणोति सो ऽनेक-सहस्रेषु कश्चिद् एव भवति | अतो दुर्बोध आत्मा इत्य् अभिप्रायः ||Bह्GS_२.२९||
116 SK ==============================
117 SK अथेदानीं प्रकरणार्थम् उपसंहरन् ब्रूते -
2.30 SK देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत | तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ||Bह्G_२.३०||
2.30 SK देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान् नित्यत्वाच् च | तत्र अवध्यो ऽयं देहे शरीरे सर्वस्य सर्व-गतत्वात् स्थावरादिषु स्थितो ऽपि सर्वस्य प्राणि-जातस्य देहे वध्यमाने ऽप्य् अयं देही न वध्यो यस्मात्, तस्माद् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुम् अर्हसि ||Bह्GS_२.३०||
120 SK ==============================
121 SK इह परमार्थ-तत्त्वापेक्षायां शोको मोहो वा न संभवतीत्य् उक्तम् | न केवलं परमार्थ-तत्त्वापेक्षायाम् एव, किं तु ---
2.31 SK स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि | धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ||Bह्G_२.३१||
2.31 SK स्वधर्मम् अपि स्वो धर्मः क्षत्रियस्य युद्धं तम् अपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद् धर्माद् आत्म-स्वाभाव्याद् इत्य् अभिप्रायः | तच् च युद्धं पृथिवी-जय-द्वारेण धर्मार्थं प्रजा-रक्षणार्थं चेति धर्माद् अनपेतं परं धर्म्यम् | तस्माद् धर्म्याद् युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ||Bह्GS_२.३१||
124 SK ==============================
125 SK कुतश् च तत् युद्धं कर्तव्यम् इति, उच्यते ---
2.32 SK यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ||Bह्G_२.३२||
2.32 SK यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्ग-द्वारम् अपावृतम् उद्घाटितं य एतद् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनस् ते ? ||Bह्GS_२.३२||
128 SK ============================== एतं कर्तव्यता-प्राप्तम् अपि -
2.33 SK अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि | ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ||Bह्G_२.३३||
2.33 SK अथ चेत् त्वम् इमं धर्म्यं धर्माद् अनपेतं विहितं संग्रामं युद्धं न करिष्यसि चेत्, ततः तद्-अकरणात् स्वधर्मं कीर्तिं च महा-देवादि-समागम-निमित्तां हित्वा केवलं पापम् अवाप्स्यसि ||Bह्GS_२.३३||
131 SK ==============================
132 SK न केवलं स्वधर्म-कीर्ति-परित्यागः -
2.34 SK अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् | संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ||Bह्G_२.३४||
2.34 SK अकीर्तिं चापि युद्धा भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घ-कालाम् | धर्मात्मा शूर इत्य् एवम् आदिभिः गुणैः संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च अकीर्तेः वरं मरणम् इत्य् अर्थः ||Bह्GS_२.३४||
135 SK ==============================
2.35 SK भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||Bह्G_२.३५||
2.35 SK भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधन-प्रभृतयः | येषां च त्वं दुर्योधनादीनां बहु-मतो बहुभिर् गुणैर् युक्तः इत्य् एवं मतः बहुमतो भूत्वा पुनर् यास्यसि लाघवं लघु-भावम् ||Bह्GS_२.३५||
139 SK ============================== किं च --
2.36 SK अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः | निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ||Bह्G_२.३६||
2.36 SK अवाच्य-वादान् अवक्तव्य-वादांश् च बहून् अनेक-प्रकारान् वदिष्यन्ति तवाहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवात-कवचादि-युद्ध-निमित्तम् | ततस् तस्मात् निन्दा-प्राप्तेर् दुःखात् दुःखतरं नु किम् ? ततः कष्टतरं दुःखं नास्तीत्य् अर्थः ||Bह्GS_२.३६||
142 SK ==============================
143 SK युरा पुनः क्रियमाणे कर्णादिभिः-
2.37 SK हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ||Bह्G_२.३७||
2.37 SK हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि | जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् | उभयथापि तव लाभ एवेत्य् अभिप्रायः | यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतानि च यः जेष्यामि शत्रून्, मरिष्यामि वा इति निश्चयं कृत्वेत्य् अर्थः ||Bह्GS_२.३७||
146 SK ==============================
147 SK तत्र युद्धं स्वधर्म इत्य् एवं युध्यमानस्योपदेशम् इमं सृणु -
2.38 SK सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ | ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ||Bह्G_२.३८||
2.38 SK सुख-दुःखे समे तुल्ये कृत्वा, राग-द्वेषाव् अप्य् अकृत्वेत्य् एतत् | तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटास्व | न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि | इत्य् एष उपदेशः प्रासङ्गिकः ||Bह्GS_२.३८||
150 SK ==============================
151 SK शोक-मोहापनयनाय लौकिको न्यायः स्वधर्मम् अपि चावेक्ष्य इत्य् आद्यैः लोकैर् उक्तः, न तु तात्पर्येण | परमार्थ-दर्शनम् इह प्रकृतम् | तच् चोक्तम् उपसंह्रियते -- एषा ते ऽभिहिता इति शास्त्र-विषय-विभाग-प्रदर्शनाय | इह हि प्रदर्शिते पुनः शास्त्र-विषय-विभागे उपरिष्टात् ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् इति निष्ठा-द्वय-विषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश् च विषय-विभागेन सुखं ग्रहीष्यन्ति इत्य् अत आह ---
2.39 SK एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||Bह्G_२.३९||
2.39 SK एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थ-वस्तु-विवेक-विषये बुद्धिर् ज्ञानं साक्षात् शोक-मोहादि-संसार-हेतु-दोष-निवृत्ति-कारणम् | योगे तु तत्-प्राप्त्य्-उपाये निःसङ्गतया द्वन्द्व-प्रहाण-पूर्वकम् ईश्वराराधनार्थे कर्म-योगे कर्मानुष्ठाने समाधि-योगे चेमाम् अनन्तरम् एवोच्यमानां बुद्धिं शृणु | तां च बुद्धिं स्तौति प्ररोचनार्थम् -- बुद्ध्या यया योग-विषयया युक्तः | हे पार्थ, कर्म-बन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्म-बन्धस् तं प्रहास्यसि ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्तेर् इत्य् अभिप्रायः ||Bह्GS_२.३९||
154 SK ==============================
2.40 SK नेहाभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते | स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ||Bह्G_२.४०||
2.40 SK नेह मोक्ष-मार्गे कर्म-योगे अभिक्रम-नाशो ऽभिक्रमणम् अभिक्रमः प्रारम्भस् तस्य नाशो नास्ति यथा कृष्यादेः | योग-विषये प्रारम्भस्य न अनैकान्तिक-फलत्वम् इत्य् अर्थः | किं च नापि चिकित्सावत् प्रत्यवायो विद्यते भवति | किं तु स्वल्पम् अपि अस्य धर्मस्य योग-धर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसार-भयात् जन्म-मरणादि-लक्षणात् ||Bह्GS_२.४०||
158 SK ==============================
159 SK येयं सांख्ये बुद्धिर् उक्ता योगे च, वक्ष्यमाण-लक्षणा सा -
2.41 SK व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन | बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ||Bह्G_२.४१||
2.41 SK व्यवसायात्मिका निश्चय-स्वभावा एका एव बुद्धिर् इतर-विपरीत-बुद्धि-शाखा-भेदस्य वाधिका, सम्यक्-प्रमाण-जनितत्वात्, इह श्रेयो-मार्गे | हे कुरुनन्दन ! याः पुनर् इतरा विपरीत-बुद्धयः, यासां शाखा-भेद-प्रचार-वशात् अनन्तो ऽपारो ऽनुपरतः संसारो नित्य-प्रततो विस्तीर्णो भवति, प्रमाण-जनित-विवेक-बुद्धि-निमित्त-वशाच् च उपरतास्व् अनन्त-भेद-बुद्धिषु संसारो ऽप्य् उपरमते ता बुद्धयो बहु-शाखाः बह्व्वयः शाखाः यासां ताः बहु-शाखाः, बहु-भेदा इत्य् एतत् | प्रतिशाखा-भेदेन ह्य् अनन्ता च बुद्धयः | केषाम् ? अव्यवसायिनां प्रमाण-जनित-विवेक-बुद्धि-रहितानाम् इत्य् अर्थः ||Bह्GS_२.४१||
162 SK ==============================
163 SK येषां व्यवसायात्मिका बुद्धिर् नास्ति ते--
2.42 SK याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः | वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ||Bह्G_२.४२||
2.42 SK याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाण-रमणीयां वाचं वाक्य-लक्षणां प्रवदन्ति | के ? अविपश्चितो ऽमेधसो ऽविवेकिन इत्य् अर्थः | वेद-वाद-रताः बह्व्य्-अर्थ-वाद-फल-साधन-प्रकाशकेषु वेद-वाक्येषु रताः हे पार्थ, न अन्यत् स्वर्ग-प्राप्त्य्-आदि-फल-साधनेभ्यः कर्मभ्यो ऽस्ति इत्य् एवं वादिनः वदन-शीलाः ||Bह्GS_२.४२||
166 SK ==============================
2.43 SK कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् | क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ||Bह्G_२.४३||
2.43 SK कामात्मानः कामस्वभावाः, कामपरा इत्य् अर्थः | स्वर्ग-पराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्ग-पराः स्वर्ग-प्रधानाः | जन्म-कर्म-फल-प्रदां कर्मणः फलं कर्म-फलं जन्मैव कर्म-फलं जन्म-कर्म-फलं तत् प्रददातीति जन्म-कर्म-फल-प्रदा, तां वाचम् | प्रवदन्ति इत्य् अनुषज्यते | क्रिया-विशेष-बहुलां क्रियाणां विशेषाः क्रिया-विशेषाः ते बहुला यस्यां वाचि तां स्वर्ग-पशु-पुत्राद्य्-अर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते | भोगैश्वर्य-गतिं प्रति भोगश् च ऐश्वर्यं च भोगैश्वर्ये, तयोर् गतिः प्राप्तिः भोगैश्वर्य-गतिः, तां प्रति साधन-भूताः ये क्रिया-विशेषाः तद्-बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्य् अभिप्रायः ||Bह्GS_२.४३||
170 SK ==============================
2.44 SK भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||Bह्G_२.४४||
2.44 SK भोगैश्वर्य-प्रसक्तानां भोगः कर्तव्यः चैश्वर्यं च इति भोगैश्वर्ययोर् एव प्रणयवतां तद्-आत्म-भूतानाम् | तया क्रिया-विशेष-बहुलया वाचा अपहृत-चेतसाम् आच्छादित-विवेक-प्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वम् इति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ, न विधीयते न भवति इत्य् अर्थः ||Bह्GS_२.४४||
174 SK ==============================
175 SK य एवं विवेक-बुद्धि-रहिताः तेषां कामात्मनां यत् फलं तद् आह -
2.45 SK त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ||Bह्G_२.४५||
2.45 SK त्रैगुण्य-विषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः त्रैगुण्य-विषयाः | त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्य् अर्थः | निर्द्वन्द्वः सुख-दुःख-हेतू स-प्रतिपक्षौ पदार्थौ द्वन्द्व-शब्द-वाच्यौ | ततः निर्गतः निर्द्वन्द्वो भव | नित्य-सत्त्व-स्थः सदा सत्त्व-गुणाश्रितो भव | तथा निर्योग-क्षेमो ऽनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-क्षेम-प्रधानस्य श्रेयसि प्रवृत्तिर् दुष्करा इत्य् अतः निर्योग-क्षेमो भव | आत्मवान् अप्रमत्तश् च भव | एष तव उपदेशः स्व-धर्मम् अनुतिष्ठतः ||Bह्GS_२.४५||
178 SK ==============================
179 SK सर्वेषु वेदोक्तेषु कर्मसु यान्य् उक्तान्य् अनन्तानि फलानि तानि नापेक्ष्यन्ते चेत्, किम् अर्थं तानि ईश्वरायेत्य् अनुष्ठीयन्ते इत्य् उच्यते | सृणु -
2.46 SK यावान् अर्थ उदपाने सर्वतः संप्लुतोदके | तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||Bह्G_२.४६||
2.46 SK यथा लोके कूप-तडागाद्य्-अनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्-परिमाणः स्नान-पानादिर् अर्थः फलं प्रयोजनं स सर्वो ऽर्थः सर्वतः संप्लुतोदके ऽपि यो ऽर्थः तावान् एव संपद्यते, तत्र अन्तर्भवतीत्य् अर्थः | एवं तावान् तावत्-परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यो ऽर्थः यत् कर्म-फलं सो ऽर्थः ब्राह्मणस्य संन्यासिनः परमार्थ-तत्त्वं विजानतः यो ऽर्थः यत् विज्ञान-फलं सर्वतः संप्लुतोदक-स्थानीयं तस्मिन् तावान् एव संपद्यते तत्रैवान्तर्भवतीत्य् अर्थः | यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंचित् प्रजाः साधु कुर्वन्ति यस् तद् वेद यत् स वेद [CहाU ४.१.२] इति श्रुतेः | सर्वं कर्माखिलम् इति च वक्ष्यति | तस्मात् प्राक् ज्ञान-निष्ठाधिकार-प्राप्तेः कर्मण्य् अधिकृतेन कूप-तडागाद्य्-अर्थ-स्थानीयम् अपि कर्म कर्तव्यम् ||Bह्GS_२.४६||
182 SK ==============================
2.47 SK कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन | मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ||Bह्G_२.४७||
2.47 SK कर्मण्य् एवाधिकारो न ज्ञान-निष्ठायां ते तव | तत्र च कर्म कुर्वतः मा फलेषु अधिकारो ऽस्तु, कर्म-फल-तृष्णा मा भूत् कदाचन कस्यांचिद् अप्य् अवस्थायाम् इत्य् अर्थः | यदा कर्म-फले तृष्णा ते स्यात् तदा कर्म-फल-प्राप्तेर् हेतुः स्याः, एवं मा कर्म-फल-हेतुः भूः | यदा हि कर्म-फल-तृष्णा-प्रयुक्तः कर्मणि प्रवर्तते तदा कर्म-फलस्यैव जन्मनो हेतुर् भवेत् | यदि कर्म-फलं नेष्यते, किं कर्मणा दुःख-रूपेण ? इति मा ते तव सङ्गो ऽस्त्व् अकर्मणि अकरणे प्रीतिर् मा भूत् ||Bह्GS_२.४७||
186 SK ==============================
187 SK यदि कर्म-फल-प्रयुक्तेन न कर्तव्यं कर्म, कथं तर्हि कर्तव्यम् इति | उच्यते -
2.48 SK योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय | सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||Bह्G_२.४८||
2.48 SK योग-स्थः सन् कुरु कर्माणि केवलम् ईश्वरार्थम् | तत्रापीश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा धनंजय | फल-तृष्णा-शून्येन क्रियमाणे कर्मणि सत्त्व-शुद्धिजा ज्ञान-प्राप्ति-लक्षणा सिद्धिः, तद्-विपर्ययजा असिद्धिः, तयोः सिद्ध्य्-असिद्ध्योर् अपि समः तुल्यो भूत्वा कुरु कर्माणि | को ऽसौ योगो यत्र-स्थः कुरु इत्य् उक्तम् ? इदम् एव तत् --- सिद्ध्य्-असिद्ध्योः समत्वं योग उच्यते ||Bह्GS_२.४८||
190 SK ==============================
191 SK यत् पुनः समत्व-बुद्धि-युक्तम् ईश्वराराधनार्थं कर्मोक्तम्, एतस्मात् कर्मणः --
2.49 SK दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनंजय | बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ||Bह्G_२.४९||
2.49 SK दूरेण अतिविप्रकर्षेण अत्यन्तम् एव ह्य् अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धि-योगात् समत्व-बुद्धि-युक्तात् कर्मणः, जन्म-मरणादि-हेतुत्वात् | हे धनंजय, यत एवं ततः योग-विषयायां बुद्धौ तत्-परिपाक-जायां वा सांख्य-बुद्धौ शरणम् आश्रयम् अभय-प्राप्ति-कारणम् अन्विच्छ प्रार्थयस्व, परमार्थ-ज्ञान-शरणो भवेत्य् अर्थः | यतो ऽवरं कर्म कुर्वाणाः कृपणाः दीनाः फल-हेतवः फल-तृष्णा-प्रयुक्ताः सन्तः, यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्माल् लोकात् प्रैति स कृपणः [BAU ३.८.१०] इति श्रुतेः ||Bह्GS_२.४९||
194 SK ==============================
195 SK समत्व-बुद्धि-युक्तः सन् स्वधर्मम् अनुतिष्ठन् यत् फलं प्राप्नोति तच् छृणु --
2.50 SK बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते | तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ||Bह्G_२.५०||
2.50 SK बुद्धि-युक्तः कर्म-समत्व-विषयया बुद्ध्या युक्तो बुद्धि-युक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृत-दुष्कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यतः, तस्मात् समत्व-बुद्धि-योगाय युज्यस्व घटास्व | योगो हि कर्मसु कौशलम् स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्तया तत् कौशलं कुशल-भावः | तद् धि कौशलं यद् बन्धन-स्वभावान्य् अपि कर्माणि समत्व-बुद्ध्या स्वभावान् निवर्तन्ते | तस्मात् समत्व-बुद्धि-युक्तो भव त्वम् ||Bह्GS_२.५०||
198 SK ==============================
2.51 SK यस्मात् - कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः | जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ||Bह्G_२.५१||
2.51 SK कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धः | इष्टानिष्ट-देह-प्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धि-युक्ताः समत्व-बुद्धि-युक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्म-बन्ध-विनिर्मुक्ताः जन्मैव बन्धः जन्म-बन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्म-बन्धात् विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रव-रहितम् इत्य् अर्थः | अथवा बुद्धि-योगाद् धनंजय इत्य् आरभ्य परमार्थ-दर्शन-लक्षणैव सर्वतः संप्लुतोदक-स्थानीया कर्म-योगज-सत्त्व-शुद्ध-जनिता बुद्धिर् दर्शिता, साक्षात्-सुकृत-दुष्कृत-प्रहाणादि-हेतुत्व-श्रवणात् ||Bह्GS_२.५१||
201 SK ==============================
202 SK योगानुष्ठान-जनित-सत्त्व-शुद्धजा बुद्धिः कदा प्राप्स्यते इत्य् उच्यते ---
2.52 SK यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति | तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||Bह्G_२.५२||
2.52 SK यदा यस्मिन् काले ते तव मोह-कलिलं मोहात्मकम् अविवेक-रूपं कालुष्यं येन आत्मानात्म-विवेक-बोधं कलुषीकृत्य विषयं प्रत्यन्तः-करणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्ध-भावम् आपात्र्यते इत्य् अर्थः | तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्य् अभिप्रायः ||Bह्GS_२.५२||
205 SK ==============================
206 SK मोह-कलिलात्यय-द्वारेण लब्धात्म-विवेकज-प्रज्ञः कदा कर्म-योगजं फलं परमार्थ-योगम् अवाप्स्यामीति चेत्, तत् सृणु --
2.53 SK श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला | समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ||Bह्G_२.५३||
2.53 SK श्रुति-विप्रतिन्ना अनेक-साध्य-साधन-संबन्ध-प्रकाशन-श्रुतिभिः श्रवणैः प्रवृत्ति-निवृत्ति-लक्षणैः विप्रतिपन्ना नाना-प्रतिन्ना विक्षिप्ता सती ते तव बुद्धिर् यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेप-चलन-वर्जिता सती समाधौ, समाधीयते चित्तम् अस्मिन्न् इति समाधिर् आत्मा, तस्मिन् आत्मनि इत्य् एतत् | अचला तत्रापि विकल्प-वर्जिता इत्य् एतत् | बुद्धिर् अन्तःकरणम् | तदा तस्मिन् काले योगम् अवाप्स्यसि विवेक-प्रज्ञां समाधिं प्राप्स्यसि ||Bह्GS_२.५३||
209 SK ==============================
210 SK प्रश्नबीजं प्रतिलभ्य अर्जुन उवाचलब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया --- अर्जुन उवाच-
2.54 SK अर्जुन उवाच स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव | स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ||Bह्G_२.५४||
2.54 SK स्थिता प्रतिष्ठिता अहम् अस्मि परं ब्रह्म इति प्रज्ञा यस्य सः स्थित-प्रज्ञस् तस्य स्थित-प्रज्ञस्य का भाषा किं भाषणं वचनं कथम् असौ परैर् भाष्यते समाधि-स्थस्य समाधौ स्थितस्य हे केशव | स्थित-धीः स्थित-प्रज्ञः स्वयं वा किं प्रभाषेत | किम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथम् इत्य् अर्थः | स्थित-प्रज्ञस्य लक्षणम् अनेन लोकेन पृच्छयते ||Bह्GS_२.५४||
213 SK ==============================
2.55 SK यो ह्य् आदित एव संन्यस्य कर्माणि ज्ञान-योग-निष्ठायां प्रवृत्तः, यश् च कर्म-योगेन, तयोः प्रजहाति इत्य् आरभ्य आ अध्याय-परिसमाप्तेः स्थित-प्रज्ञ-लक्षणं साधनं चोपदिश्यते | सर्वत्रैव हि अध्यात्म-शास्त्रे कृतार्थ-लक्षणानि यानि तान्य् एव साधनानि उपदिश्यन्ते, यत्न-साध्यत्वात् | यानि यत्न-साध्यानि साधनानि लक्षणानि च भवन्ति तानि श्री-भगवान् उवाच-- प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् | आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ||Bह्G_२.५५||
2.55 SK प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छा-भेदान् हे पार्थ, मनो-गतान् मनसि प्रविष्टाअन् हृदि प्रविष्टान् | सर्व-काम-परित्यागे तुष्टि-कारणाभावात् शरीर-धारण-निमित्त-शेषे च सति उन्मत्त-प्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्य् अत उच्यते --- आत्मन्य् एव प्रत्यग्-आत्म-स्वरूपे एव आत्मना स्वेनैव बाह्य-लाभ-निरपेक्षस् तुष्टाः परमार्थ-दर्शनामृत-रस-लाभेन अन्यस्माद् अलं-प्रत्ययवान् स्थित-प्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्म-विवेकजा प्रज्ञा यस्य सः स्थित-प्रज्ञः विद्वान् तदा उच्यते | त्यक्त-पुत्र-वित्त-लोकैषणः संन्यासी आत्माराम आत्म-क्रीडाः स्थित-प्रज्ञ इत्य् अर्थः ||Bह्GS_२.५५||
216 SK ==============================
2.56 SK दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः | वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ||Bह्G_२.५६||
2.56 SK दुःखेष्व् आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःख-प्राप्तौ मनो यस्य सो ऽयम् अनुद्विग्न-मनाः | तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निर् इव इन्धनाद्य्-आधाने सुखान्य् अनु विवर्धते स विगत-स्पृहः | वीत-राग-भय-क्रोधः राग च भयं च क्रोध च वीता विगता यस्मात् स वीत-राग-भय-क्रोधः | स्थित-धीः स्थित-प्रज्ञो मुनिः संन्यासी तदा उच्यते ||Bह्GS_२.५६||
220 SK ==============================
2.57 SK यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||Bह्G_२.५७||
2.57 SK यः मुनिः सर्वत्र देह-जीवितादिष्व् अपि अनभिस्नेहो ऽभिस्नेह-वर्जितस् तत् तत् प्राप्य शुभाशुभं तत् तत् शुभं अशुभं वा लब्ध्वा नाभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्य् अर्थः | तस्य एवं हर्ष-विषाद-वर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ||Bह्GS_२.५७||
224 SK ==============================
2.58 SK यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||Bह्G_२.५८||
2.58 SK यदा संहरते सम्यग् उपसंहरते चायं ज्ञान-निष्ठायां प्रवृत्तो यतिः कूर्मो ऽङ्गानि इव यथा कूर्मो भयात् स्वान्य् अङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञान-निष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्व-विषयेभ्य उपसंहरते | तस्य प्रज्ञा प्रतिष्ठिता इत्य् उक्तार्थं वाक्यम् ||Bह्GS_२.५८||
228 SK ==============================
229 SK तत्र विषयान् अनाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्-विषयो रागः स कथं संह्रियते इत्य् उच्यते -
2.59 SK विषया विनिवर्तन्ते निराहारस्य देहिनः | रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ||Bह्G_२.५९||
2.59 SK यद्यपि विषयाः विषयोपलक्षितानि विषय-शब्द-वाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाण-विषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रस-वर्जं रसो रागो विषयेषु यस् तं वर्जयित्वा | रस-शब्दो रागे प्रसिद्धः, स्व-रसेन प्रवृत्तः रसिकः रसज्ञः, इत्य् आदि-दर्शनात् | सो ऽपि रसो रञ्जन-रूपः सूक्ष्मो ऽस्य यतेः परं परमार्थ-तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहम् एव तत् इति वर्तमानस्य निवर्तते निर्बीजं विषय-विज्ञानं संपद्यते इत्य् अर्थः | नासति सम्यग्-दर्शने रसस्य उच्छेदः | तस्मात् सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यम् इत्य् अभिप्रायः ||Bह्GS_२.५९||
232 SK ==============================
233 SK सम्यग्-दर्शन-लक्षण-प्रज्ञा-स्थैर्यं चिकीर्षता आदौ इन्द्रियाणि स्व-वशे स्थापयितव्यानि, यस्मात् तद्-अनवस्थापने दोषम् आह ---
2.60 SK यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||Bह्G_२.६०||
2.60 SK यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनो ऽपि इति व्यवहितेन संबन्धः | इन्द्रियाणि प्रमाथीनि प्रमथन-शीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशम् एव पश्यतो विवेक-विज्ञान-युक्तं मनः ||Bह्GS_२.६०||
236 SK ==============================
2.61 SK तानि सर्वाणि संयम्य युक्त आसीत मत्-परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||Bह्G_२.६१||
2.61 SK तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत मत्-परो ऽहं वासुदेवः सर्व-प्रत्यग्-आत्मा परो यस्य स मत्-परः, नान्यो ऽहं तस्मात् इत्य् आसीत इत्य् अर्थः | एवम् आसीनस्य यतेर् वशे हि यस्येन्द्रियाणि वर्तन्ते अभ्यास-बलात् तस्य प्रज्ञा प्रतिष्ठिता ||Bह्GS_२.६१||
240 SK ==============================
241 SK अथेदानीं पराभविष्यतः सर्वानर्थ-मूलम् इदम् उच्यते --
2.62 SK ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते | सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ||Bह्G_२.६२||
2.63 SK क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः | स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ||Bह्G_२.६३||
244 SK ध्यायतश् चिन्तयतो विषयात् शब्दादीन् विषय-विशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिस् तेषु विषयेषु उपजायते उत्पद्यते | सङ्गात् प्रीतेः संजायते समुत्पद्यते कामस् तृष्णा | कामात् कुतश्चित् प्रतिहतात् क्रोधो ऽभिजायते |
2.62 SK क्रोधाद् भवति संमोहो ऽविवेकः कार्याकार्य-विषयः | क्रुद्धो हि संमूढः सन् गुरुम् अप्य् आक्रोशति | संमोहात् स्मृति-विभ्रमः शास्त्राचार्योपदेशाहित-संस्कार-जनितायाः स्मृते स्यात् विभ्रमो भ्रंशः स्मृत्य्-उत्पत्ति-निमित्त-प्राप्तौ अनुत्पत्तिः | ततः स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशः | कार्याकार्य-विषय-विवेकायोग्यता अन्तः-करणस्य बुद्धेर् नाश उच्यते | बुद्धेर् नाशात् प्रणश्यति | तावद् एव हि पुरुषः यावद् अन्तःकरणं तदीयं कार्याकार्य-विषय-विवेक-योग्यम् | तद्-अयोग्यत्वे नष्ट एव पुरुषो भवति | अतः तस्यान्तः-करणस्य बुद्धेर् नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्य् अर्थः ||Bह्GS_२.६२-६३||
246 SK ==============================
247 SK सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् | अथ इदानीं मोक्षकारणमिदमुच्यते --
2.64 SK राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् | आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ||Bह्G_२.६४||
2.64 SK राग-द्वेष-वियुक्तै रागश् च द्वेषश् च राग-द्वेषौ, तत्-पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिर् इन्द्रियैर् विषयान् अवर्जनीयान् चरन् उपलभमानः आत्म-वश्यैर् आत्मनो वश्यानि वशीभूतानि इन्द्रियाणि तैर् आत्म-वश्यैर् विधेयात्मा इच्छातः विधेय आत्मा अन्तः-करणं यस्य सो ऽयं प्रसादम् अधिगच्छति | प्रसादः प्रसन्नता स्वास्थ्यम् ||Bह्GS_२.६४||
250 SK ==============================
251 SK प्रसादे सति किं स्यात् इत्य् उच्यते -
2.65 SK प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते | प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ||Bह्G_२.६५||
2.65 SK प्रसादे सर्व-दुःखानाम् आध्यात्मिकादीनां हानिर् विनाशो ऽस्य यतेर् उपजायते | किं च - प्रसन्न-चेतसः स्वस्थान्तः-करणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशम् इव परि समन्तात् अवतिष्ठते, आत्म-स्वरूपेणैव निश्चलीभवतीत्य् अर्थः | एवं प्रसन्न-चेतसो ऽवस्थित-बुद्धिः कृत-कृत्यता यतः, तस्मात् राग-द्वेष-वियुक्तैर् इन्द्रियैः शास्त्रा-विरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः ||Bह्GS_२.६५||
254 SK ==============================
255 SK सेयं प्रसन्नता स्तूयते --
2.66 SK नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ||Bह्G_२.६६||
2.66 SK नास्ति न विद्यते न भवतीत्य् अर्थः, बुद्धिः आत्म-स्वरूप-विषया अयुक्तस्य असमाहितान्तः-करणस्य | न च अस्ति अयुक्तस्य भावना आत्म-ज्ञानाभिनिवेशः | तथा -- न चास्त्य् अभावयत आत्म-ज्ञानाभिनिवेशम् अकुर्वतः शान्तिर् उपशमः | अशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषय-सेवा-तृष्णातः निवृत्तिर् या तत्-सुखम्, न विषय-विषया तृष्णा | दुःखम् एव हि सा | न तृष्णायां सत्यां सुखस्य गन्ध-मात्रम् अप्य् उपपद्यते इत्य् अर्थः ||Bह्GS_२.६६||
258 SK ==============================
259 SK अयुक्तस्य कस्माद् बुद्धिर् नास्ति इत्य् उच्यते -
2.67 SK इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते | तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ||Bह्G_२.६७||
2.67 SK इन्द्रियाणां हि यस्मात् चरतां स्व-स्व-विषयेषु प्रवर्तमानानां यत् मनो ऽनुविधीयते अनुप्रवर्तते तत् इन्द्रिय-विषय-विकल्पनेन प्रवृत्तं मनो ऽस्य यतेः हरति प्रज्ञाम् आत्मानात्म-विवेकजां नाशयति | कथम् ? वायुः नावम् इव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवम् आत्म-विषयां प्रज्ञां हृत्वा मनो विषय-विषयां करोति ||Bह्GS_२.६७||
262 SK ==============================
263 SK यततो हि इत्य् उपन्यस्तस्यार्थस्य अनेकधा उपपत्तिम् उक्त्वा तं चार्थम् उपपाद्य उपसंहरति ---
2.68 SK तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||Bह्G_२.६८||
2.68 SK इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् तस्मात् यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्व-प्रकारैः मानसादि-भेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ||Bह्GS_२.६८||
266 SK ==============================
267 SK यो ऽयं लौकिको वैदिक च व्यवहारः स उत्पन्न-विवेक-ज्ञानस्य स्थित-प्रज्ञस्य अविद्याकार्यत्वात् अविद्या-निवृत्तौ निवर्तते, अविद्याया च विद्या-विरोधात् निवृत्तिः, इत्य् एतम् अर्थं स्फुटीकुर्वन्न् आह ---
2.69 SK या निशा सर्व-भूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||Bह्G_२.६९||
269 SK या निशा रात्रिः सर्व-पदार्थानाम् अविवेक-करी तमः-स्वभावत्वात् सर्व-भूतानां सर्वेषां भूतानाम् | किं तत् परमार्थ-तत्त्वं स्थित-प्रज्ञस्य विषयः | यथा नक्तं-चराणाम् अहर् एव सद् अन्येषां निशा भवति, तद्वत् नक्तं-चर-स्थानीयानाम् अज्ञानां सर्व-भूतानां निशेव निशा परमार्थ-तत्त्वम्, अगोचरत्वाद् अतद्-बुद्धीनाम् | तस्यां परमार्थ-तत्त्व-लक्षणायाम् अज्ञान-निद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्य् अर्थः | यस्यां ग्राह्य-ग्राहक-भेद-लक्षणायाम् अविद्या-निशायां प्रसुप्तान्य् एव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्न-दृशः, सा निशा अविद्या-रूपत्वात् परमार्थ-तत्त्वं पश्यतो मुनेः |
270 SK अतः कर्माणि अविद्यावस्थायाम् एव चोद्यन्ते, न विद्यावस्थायाम् | विद्यायां हि सत्याम् उदिते सवितरि शार्वरम् इव तमः प्रणाशम् उपगच्छति अविद्या | प्राक् विद्योत्पत्तेः अविद्या प्रमाण-बुद्ध्या गृह्यमाणा क्रिया-कारक-फल-भेद-रूपा सती सर्व-कर्म-हेतुत्वं प्रतिपद्यते | न अप्रमाण-बुद्ध्या गृह्यमाणायाः कर्म-हेतुत्वोपपत्तिः, प्रमाण-भूतेन वेदेन मम चोदितं कर्तव्यं कर्म इति हि कर्मणि कर्ता प्रवर्तते, न अविद्या-मात्रम् इदं सर्वं भेद-जातम् इति ज्ञानं तस्य आत्मज्ञस्य सर्व-कर्म-संन्यासे एव अधिकारो न प्रवृत्तौ | तथा च दर्शयिष्यति --- तद्-बुद्धयस् तद्-आत्मानः इत्य् आदिना ज्ञान-निष्ठायाम् एव तस्य अधिकारम् |
2.69 SK तत्रापि प्रवर्तक-प्रमाणाभावे प्रवृत्त्य्-अनुपपत्तिः इति चेत्, न | स्वात्म-विषयत्वाद् आत्म-विज्ञानस्य | न ह्य् आत्मनः स्वात्मनि प्रवर्तक-प्रमाणापेक्षता, आत्मत्वाद् एव | तद्-अन्तत्वाच् च सर्व-प्रमाणानां प्रमाणत्वस्य | न ह्य् आत्म-स्वरूपाधिगमे सति पुनः प्रमाण-प्रमेय-व्यवहारः संभवति | प्रमातृत्वं ह्य् आत्मनः निवर्तयति अन्त्यं प्रमाणम् | निवर्तयद् एव चाप्रमाणीभवति, स्वप्न-काल-प्रमाणम् इव प्रबोधे | लोके च वस्त्व्-अधिगमे प्रवृत्ति-हेतुत्वादर्शनात् प्रमाणस्य | तस्मान् नात्म-विदः कर्मण्य् अधिकार इति सिद्धम् ||Bह्GS_२.६९||
272 SK ==============================
273 SK विदुषस् त्यक्तैषणस्य स्थित-प्रज्ञस्य यतेर् एव मोक्ष-प्राप्तिः, न तु असंन्यासिनः काम-कामिनः इत्य् एतम् अर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह -
2.70 SK आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् | तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ||Bह्G_२.७०||
2.70 SK आपूर्यमाणम् अद्भिर् अचल-प्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचल-प्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थम् अविक्रियम् एव सन्तं यद्वत्, तद्वत् कामाः विषय-संनिधाव् अपि सर्वतः इच्छा-विशेषाः यं पुरुषम् --- समुद्रम् इव आपः -- अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्य् एव प्रलीयन्ते न स्वात्म-वशं कुर्वन्ति, स शान्तिर् मोक्षम् आप्नोति, नेतरः काम-कामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः काम-कामी, नैव प्राप्नोतीत्य् अर्थः ||Bह्GS_२.७०||
276 SK ==============================
277 SK यस्माद् एवं तस्मात् -
2.71 SK विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः | निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ||Bह्G_२.७१||
2.71 SK विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः कार्त्स्न्येन चरति, जीवन-मात्र-चेष्टाशेषः पर्यटतीत्य् अर्थः | निःस्पृहः शरीर-जीवन-मात्रे ऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन् निर्ममः शरीर-जीवन-मात्राक्षिप्त-परिग्रहे ऽपि ममेदम् इत्य् अभिनिवेश-वर्जितः, निरहंकारः विद्यावत्त्वादि-निमित्तात्म-संभावना-रहितः इत्य् एतत् | स एवंभूतः स्थित-प्रज्ञः ब्रह्मवित् शान्तिं सर्व-संसार-दुःखोपरम-लक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्म-भूतो भवति इत्य् अर्थः ||Bह्GS_२.७१||
280 SK ==============================
281 SK सैषा ज्ञान-निष्ठा स्तूयते -
2.72 SK एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ||Bह्G_२.७२||
2.72 SK एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्म-रूपेणैव अवस्थानम् इत्य् एतत् | हे पार्थ, नैनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति | स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्त-काले ऽपि अन्त्ये वयस्य् अपि ब्रह्म-निर्वाणं ब्रह्म-निर्वृतिं मोक्षम् ऋच्छति गच्छति | किम् उ वक्तव्यं ब्रह्मचर्याद् एव संन्यस्य यावज् जीवं यो ब्रह्मण्य् एव अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छति इति ||Bह्GS_२.७२||
284 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये द्वितीयो ऽध्यायः ||
286 SK तृतीयो ऽध्यायः शङ्कर-भाष्यम्
287 SK शास्त्रस्य प्रवृत्ति-निवृत्ति-विषय-भूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिर् योगे बुद्धिर् इति च | तत्र प्रजहाति यदा कामान् इत्य् आरभ्य आ अध्याय-परिसमाप्तेः साङ्ख्य-बुद्ध्य्-आश्रितानां संन्यासं कर्तव्यम् उक्त्वा तेषां तन्-निष्ठतयैव च कृतार्थता उक्ता एषा ब्राह्मी स्थितिः इति | अर्जुनाय च कर्मण्य् एवाधिकारस् ते, मा सङ्गो ऽस्त्व् अकर्मणि इति कर्म एव कर्तव्यम् उक्तवान् योग-बुद्धिम् आश्रित्य, न तत एव श्रेयः-प्राप्तिम् उक्तवान् | तद् एतद् आलक्ष्य पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच - कथं भक्ताय श्रेयो ऽर्थिने यत् साक्षात् श्रेयः-साधनं साङ्ख्य-बुद्धि-निष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थ-युक्ते पारम्पर्येणापि अनैकान्तिक-श्रेयः-प्राप्ति-फले नियुञ्ज्याद् इति युक्तः पर्याकुलीभावो ऽर्जुनस्य | तद्-अनुरूप-प्रश्नः ज्यायसी चेत् इत्य् आदिः | प्रश्नापाकरण-वाक्यं च भगवता उक्तं यथोक्त-विभाग-विषये शास्त्रे |
288 SK केचित् तु अर्जुनस्य प्रश्नार्थम् अन्यथा कल्पयित्वा तत्-प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति | यथा च आत्मना सम्बन्ध-ग्रन्थे गीतार्थो निरूपितस् तत्-प्रतिकूलं चेह पुनः प्रश्न-प्रतिवचनयोर् अर्थं निरूपयन्ति | कथं ? तत्र सम्बन्ध-ग्रन्थे तावत् सर्वेषाम् आश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निरूपितो ऽर्थ इत्य् उक्तम् | पुनः विशेषितं च यावज्-जीव-श्रुति-चोदितानि कर्माणि परित्यज्य केवलाद् एव ज्ञानान् मोक्षः प्राप्यत इत्य् एतद् एकान्तेनैव प्रतिषिद्धम् इति |
289 SK इह त्व् आश्रम-विकल्पं दर्शयता यावज्-जीव-श्रुति-चोदितानाम् एव कर्मणां परित्याग उक्तः | तत् कथम् ईदृशं विरुद्धम् अर्थम् अर्जुनाय ब्रूयाद् भगवान्, श्रोता वा कथं विरुद्धम् अर्थम् अवधारयेत् | तत्रैतत् स्याद् गृहस्थानाम् एव श्रौत-कर्म-परित्यागेन केवलाद् एव ज्ञानान् मोक्षः प्रतिषिध्यते न त्व् आश्रमान्तराणाम् इति |
290 SK एतद् अपि पूर्वोत्तर्-विरुद्धम् एव | कथं, सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयो गीता-शास्त्रे निश्चितो ऽर्थ इति प्रतिज्ञाय इह कथं तद्-विरुद्धं केवलाद् एव ज्ञानान् मोक्षं ब्रूयाद् आश्रमान्तराणाम् |
291 SK अथ मतं श्रौत-कर्मापेक्षयैतद्-वचनं केवलाद् एव ज्ञानात् श्रौत-कर्म-रहिताद् गृहस्थानां मोक्षः प्रतिषिध्यते इति | तत्र गृहस्थानां विद्यमानम् अपि स्मार्तं कर्माविद्यमानवद् उपेक्ष्य ज्ञानाद् एव केवलान् न मोक्ष इत्य् उच्यत इति | एतद् अपि विरुद्धम् | कथम् ? गृहस्थस्यैव स्मार्त-कर्मणा समुच्चिताद् ज्ञानान् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणाम् इति कथं विवेकिभिः शक्यम् अवधारयितुम् |
292 SK किं च, यदि मोक्ष-साधनत्वेन स्मार्तानि कर्माणि ऊर्ध्व-रेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैर् एव समुच्चयो न श्रौतैः |
293 SK अथ श्रौतैः स्मार्तैश् च गृहस्थस्यैव समुच्चयो मोक्षाय ऊर्ध्व-रेतसां तु स्मार्त-कर्म-मात्र-समुच्चिताज् ज्ञानान् मोक्ष इति | तत्रैवं सति गृहस्थस्यायास-बाहुल्यं श्रौतं स्मार्तं च बहु-दुःख-रूपं कर्म शिरसि अरोपितं स्यात् |
294 SK अथ गृहस्थस्यैवायास-बाहुल्य-कारणान् मोक्षः स्यान् नाश्रमान्तराणां श्रौत-नित्य-कर्म-रहितत्वाद् इति | तद् अप्य् असत् | सर्वोपनिषत्सु इतिहास-पुराण-योग-शास्त्रे च ज्ञानाङ्गत्वेन मुमुक्षोः सर्व-कर्म-संन्यास-विधानाद् आश्रम-विकल्प-समुच्चय-विधानाच् च श्रुति-स्मृत्योः |
295 SK सिद्धस् तर्हि सर्वाश्रमिणां ज्ञान-कर्मणोः समुच्चयः ? न, मुमुक्षोः सर्व-कर्म-संन्यास-विधानात् | व्युत्थायाथ भिक्षाचर्यं चरन्ति [BAU ३.५.१], तस्मात् संन्यासम् एषां तपसाम् अतिरिक्तम् आहुः [NआU २.७९], न्यास एवात्यरेचयेत् [NआU २.७८], इति | न कर्मणा न प्रजया धनेन त्यागेनैके ऽमृतत्वम् आनशुः [NआU २.१२] इति च | ब्रह्मचर्याद् एव प्रव्रजेत् [JआवाU ४] इत्य् आद्याः श्रुतयः |
296 SK त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज | उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज ||
297 SK संसारम् एव निःसारं दृष्ट्वा सार-दिदृक्षया | प्रव्रजन्त्य् अकृतोद्वाहाः परं वैराग्यम् आश्रिताः || इति बृहस्पतिर् अपि कचं प्रति |
298 SK कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते | तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः || [Mभ् १२.२४१.७] इति शुकानुशासनम् |
299 SK इहापि सर्व-कर्माणि मनसा संन्यस्य इत्य् आदि | मोक्षस्य चाकार्यत्वान् मुमुक्षोः कर्मानर्थक्यम् | नित्यानि प्रत्यवाय-परिहारार्थम् अनुष्ठेयानि इति चेत्, न | असंन्यासि-विषयत्वात् प्रत्यवाय-प्राप्तेः | न हि अग्निकार्याद्य्-अकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यो यथा ब्रह्मचारिणाम् असंन्यासिनाम् अपि कर्मिणाम् | न तवन् नित्यानां कर्मणाम् अभावाद् एव भाव-रूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या कथम् असतः सज्जायते [CहाU ६.२.२] इति असतः सज्जन्मासम्भव-श्रुतेः |
300 SK यदि विहिताकरणाद् असम्भाव्यम् अपि प्रत्यवायं ब्रूयाद् वेदस् तदा अनर्थ-करो वेदः अप्रमाणम् इत्य् उक्तं स्यात् | विहितस्य करणाकरणयोः दुःख-मात्र-फलत्वात् | तथा च कारकं शास्त्रं न ज्ञापकम् इति अनुपपन्नार्थं कल्पितं स्यात् | न चैतद् इष्टम् | तस्मान् न संन्यासिनां कर्माणि अतो ज्ञान-कर्मणोः समुच्चयानुपपत्तिः | ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् इति | अर्जुनस्य प्रश्नानुपपत्तेश् च |
301 SK यदि हि भगवता द्वितीये अध्याये ज्ञानं कर्म च समुच्चयेन त्वयानुष्ठेयम् इत्य् उक्तं स्यात् ततो ऽर्जुनस्य प्रश्नो ऽनुपपन्नो ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन इति | अर्जुनाय चेद् बुद्धि-कर्मणी त्वयानुष्ठेये इति उक्ते या कर्मणो ज्यायसी बुद्धिः सा अप्य् उक्ता एवेति तत् किं कर्मणि घोरे मां नियोजयसि केशव इति प्रश्नो न कथंचन उपपद्यते |
302 SK न चार्जुनस्यैव ज्यायसी बुद्धिर् नानुष्ठेयेति भगवतोक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन ज्यायसी चेद् इति प्रश्नः स्यात् | यदि पुनर् एकस्य पुरुषस्य ज्ञान-कर्मणोर् विरोधाद् युगपद् अनुष्ठानं न सम्भवतीति भिन्न-पुरुषानुष्ठेयत्वं भगवता पूर्वम् उक्तं स्यात् ततो ऽयं प्रश्न उपपन्नः ज्यायसी चेद् इत्य् आदिः |
303 SK अविवेकतः प्रश्न-कल्पनायाम् अपि भिन्न-पुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते | न चाज्ञान-निमित्तं भगवत्-प्रतिवचनं कल्प्यम् | अस्माच् च भिन्न-पुरुषानुष्ठेयत्वेन ज्ञान-कर्म-निष्ठयोर् भगवतः प्रतिवचन-दर्शनात्, ज्ञान-कर्मणोः समुच्चयानुपपत्तिः | तस्मात् केवलाद् एव ज्ञानान् मोक्ष इत्य् एषो ऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च | ज्ञान-कर्मणोर् एकं वद निश्चित्य इति च एक-विषयैव प्रार्थनानुपपन्नोभयोः समुच्चय-सम्भवे |
304 SK कुरु कर्मैव तस्मात् त्वम् इति च ज्ञान-निष्ठा-सम्भवम् अर्जुनस्यावधारणेन दर्शयिष्यति |
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source