SKकिं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ||Bह्G_८.१||
SKअधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन | प्रयाण-काले च कथं ज्ञेयो ऽसि नियतात्मभिः ||Bह्G_८.२||
SK==============================
SKएषां प्रश्नानां यथा-क्रमं निर्णयाय श्री-भगवान् उवाच -
SKअक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते | भूतभावोद्भव-करो विसर्गः कर्म-संज्ञितः ||Bह्G_८.३||
SKअक्षरं न क्षरतीत्य् अक्षरं पर आत्मा, एतस्य वाक्षरस्य प्रशासने गार्गि [BAU ३.८.९] इति श्रुतेः | ॐकारस्य च ओम् इत्य् एकाक्षरं ब्रह्म [Gईता ८.१३] इति परेण विशेषणाद् अग्रहणम् | परमम् इति च निरतिशये ब्रह्मण्य् अक्षरे उपपन्नतरम् विशेषणम् | तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यग्-आत्म-भावः स्वभावः | स्वो भावः स्वभावो ऽध्यात्मम् उच्यते | आत्मानं देहम् अधिकृत्य प्रत्यग्-आत्मतया प्रवृत्तं परमार्थ-ब्रह्मावसानं वस्तु स्वभावो ऽध्यात्मम् उच्यते ऽध्यात्म-शब्देनाभिधीयते | भूत-भावोद्भव-करो भूतानां भावो भूत-भावस् तस्य उद्भवो भूत-भावोद्भवस् तं करोतीति भूत-भावोद्भव-करः, भूत-वस्तूत्पत्ति-कर इत्य् अर्थः | विसर्गो विसर्जनं देवतोद्देशेन चरु-पुरोडाशादेर् द्रव्यस्य परित्यागः | स एष विसर्ग-लक्षणो यज्ञः कर्म-संज्ञितः कर्म-शब्दित इत्य् एतत् | एतस्मात् हि बीज-भूताद् वृष्ट्यडादि-क्रमेण स्थावर-जङ्गमानि भूतान्य् उद्भवन्ति ||Bह्GS_८.३||
SK==============================
SKअधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् | अधियज्ञो ऽहम् एवात्र देहे देह-भृतां वर ||Bह्G_८.४||
SKअधिभूतं प्राणि-जातम् अधिकृत्य भवतीति | को ऽसौ ? क्षरः क्षरतीति क्षरो विनाशी, भावो यत् किंचित् जनिमत् वस्त्व् इत्य् अर्थः | पुरुषः पूर्णम् अनेन सर्वम् इति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्व-प्राणि-करणानाम् अनुग्राहकः, सो ऽधिदैवतम् | अधियज्ञः सर्व-यज्ञाभिमानिनी विष्ण्व्-आख्या देवता, यज्ञो वै विष्णुः [Tऐत्त्S १.७.४] इति श्रुतेः | स हि विष्णुर् अहम् एव | अत्रास्मिन् देहे यो यज्ञस् तस्याहम् अधियज्ञः | यज्ञो हि देह-निर्वर्त्यत्वेन देह-समवायीति देहाधिकरणो भवति, देह-भृतां वर ! ||Bह्GS_८.४||
SK==============================
SKअन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् | यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ||Bह्G_८.५||
SKअन्त-काले मरण-काले च माम् एव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति | स मद्-भावं वैष्णवं तत्त्वं याति | नास्ति न विद्यते ऽत्रास्मिन्न् अर्थे संशयः - याति वा न वेति ||
SK==============================
SKन मद्-विषय एवायं नियमः | किं तर्हि ? -
SKयं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् | तं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः ||Bह्G_८.६||
SKयं यं वापि यं यं भावं देवता-विशेषं स्मरन् चिन्तयन् त्यजति परित्यजत्य् अन्ते ऽन्त-काले प्राण-वियोग-काले कलेवरं शरीरं तं तम् एव स्मृतं भावम् एव एति नान्यं कौन्तेय, सदा सर्वदा तद्-भाव-भावितस् तस्मिन् भावस् तद्-भावः स भावितः स्मर्यमाणतयाभ्यस्तो येन स तद्-भाव-भावितः सन् ||Bह्GS_८.६||
SK==============================
SKयस्माद् एवम् अन्त्या भावना देहान्तर-प्राप्तौ कारणम् -
SKतस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च | मय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असंशयः ||Bह्G_८.७||
SKतस्मात् सर्वेषु कालेषु माम् अनुस्मर यथा-शास्त्रम् | युध्यश् च युद्धं स्व-धर्मं कुरु | मयि वासुदेवे ऽर्पिते मनो-बुद्धी यस्य तव स त्वं मय्य् अर्पित-मनो-बुद्धिः सन् माम् एव यथा-स्मृतम् एष्यस्य् आगमिष्यसि | असंशयो न संशयो ऽत्र विद्यते ||Bह्GS_८.७||
SK==============================
SKअभ्यास-योग-युक्तेन चेतसा नान्य-गामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||Bह्G_८.८||
SKअभ्यास-योग-युक्तेन मयि चित्त-समर्पण-विषय-भूत एकस्मिंस् तुल्य-प्रत्ययावृत्ति-लक्षणो विलक्षण-प्रत्ययानन्तरितो ऽभ्यासः स चाभ्यासो योगस् तेन युक्तं तत्रैव व्यापृतं योगिनश् चेतस् तेन | चेतसा नान्य-गामिना नान्यत्र विषयान्तरे गन्तुं शीलम् अस्येति नान्य-गामि तेन नान्य-गामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्य-मण्डाले भवं याति गच्छति हे पार्थानुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इत्य् एतत् ||Bह्GS_८.८||
SK==============================
SKकिं-विशिष्टं च पुरषं याति ? इत्य् उच्यते -
SKकविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः | सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ||Bह्G_८.९||
SKकविं क्रान्त-दर्शिनं सर्व-ज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्माद् अप्य् अणीयांसं सूक्ष्मतरम् अनुस्मरेद् अनुचिन्तयेद् यः कश्चित्, सर्वस्य कर्म-फल-जातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम्, अचिन्त्य-रूपं नास्य रूपं नियतं विद्यमानम् अपि केनचित् चिन्तयितुं शक्यत इत्य् अचिन्त्य-रूपस् तम्, आदित्य-वर्णम् आदित्यस्येव नित्य-चैतन्य-प्रकाशो वर्णो यस्य तम् आदित्य-वर्णम्, तमसः परस्तात्, अज्ञान-लक्षणान् मोहान्धकारात् परं तम् अनुचिन्तयद् यातीति पूर्वेण संबन्धः ||Bह्GS_८.९||
SK==============================
SKप्रयाण-काले मनसाचलेन भक्त्या युक्तो योग-बलेन चैव | भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ||Bह्G_८.१०||
SKप्रयाण-काले मरण-काले मनसाचलेन चलन-वर्जितेन भक्त्या युक्तो भजनं भक्तिस् तया युक्तो योग-बलेन चैव योगस्य बलं योग-बलं समाधिज-संस्कार-प्रचय-जनित-चित्त-स्थैर्य-लक्षणं योग-बलं तेन च युक्त इत्य् अर्थः | पूर्वं हृदय-पुण्डारीके वशीकृत्य चित्तं तत ऊर्ध्व-गामिन्या नाड्या भूमि-जय-क्रमेण भ्रुवोर् मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यग्-आप्रमत्तः सन्, स एवं बुद्धिमान् योगी कविं पुराणम् इत्य् आदि-लक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ||Bह्GS_८.१०||
SK==============================
SK[योग-मार्गानुगमनेनैव ब्रह्म-विद्याम् अन्तरेणापि ब्रह्म प्राप्यत इत्य् एवं प्राप्तम् इदम् उच्यते ] पुनर् अपि वक्ष्यमाणेनोपायेन प्रतिपित्सितस्य ब्रह्मणो वेद-विद्वद्-अनादि-विशेषण-विशेष्यस्याभिधानं करोति भगवान् -
SKयद् अक्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः | यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ||Bह्G_८.११||
SKयद् अक्षरं न क्षरतीत्य् अक्षरम् अविनाशि वेदविदो वेदार्थज्ञाः वदन्ति | तद् वा एतद् अक्षरं गार्गि ब्राह्मणा अभिवदन्ति [BAU ३.८.८] इति श्रुतेः | सर्व-विशेष-निवर्तकत्वेनाभिवदन्त्य् अस्थूलम् अण्व् इत्य् आदि | किं च - विशन्ति प्रविशन्ति सम्यग्-दर्शन-प्राप्तौ सत्यां यद् यतयो यतन-शीलाः संन्यासिनो वीत-रागाः वीतो विगतः रागो येभ्यस् ते वीत-रागाः | यच् चाक्षरम् इच्छन्तो ज्ञातुम् इति वाक्य-शेषः ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति, तत् ते पदं तद् अक्षराख्यं पदं पदनीयं ते तव संग्रहेण, संग्रहः संक्षेपस् तेन, संक्षेपेण प्रवक्ष्ये कथयिष्यामि ||Bह्GS_८.११||
SK==============================
SKस यो ह वै तद् भगवन् मनुष्येषु प्रायणान्तम् ॐकारम् अभिध्यायीत | कतमं वाव स तेन लोकं जयतीति | तस्मै स होवाच - एतद् वै सत्य-काम परं चापरं च ब्रह्म यद् ॐकारः [Pरश्नU ५.१-२] इत्य् उपक्रम्य, यः पुनर् एतं त्रिमात्रेण ओम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत स सामभिर् उन्नीयते ब्रह्म-लोकम् [Pरश्नU ५.५] इत्य् आदिना वचनेन, अन्यत्र धर्माद् अन्यत्राधर्माद् [Kअठ्U १.२.१४] इति चोपक्रम्य
SKसर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति | यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ब्रवीम्य् ओम् इत्य् एतद् [Kअठ्U १.२.१५]
SKइत्य् आदिभिश् च वचनैः परस्य ब्रह्मणो वाचक-रूपेण, प्रतिमावत् प्रतीक-रूपेण वा, पर-ब्रह्म-प्रतिपत्ति-साधनत्वेन मन्द-मध्यम-बुद्धीनां विवक्षितस्य ॐकारस्योपासनं कालान्तरे मुक्ति-फलम् उक्तं यत्, तद् एवेहापि कविं पुराणम् अनुशासितारम् [Gईता ८.९] यद् अक्षरं वेद-विदो वदन्ति [Gईता ८.११] इति चोपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्त-रूपेण प्रतिपत्त्य्-उपाय-भूतस्य ॐकारस्य कालान्तर-मुक्ति-फलम् उपासनं योगधारणा-सहितं वक्तव्यम् | प्रसक्तानुप्रसक्तं च यत् किंचिद् इत्य् एवम् अर्थ उत्तरे ग्रन्थ आरभ्यते -
SKसर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम् ||Bह्G_८.१२||
SKसर्व-द्वाराणि सर्वाणि च तानि द्वाराणि च सर्व-द्वाराण्य् उपलब्धौ, तानि सर्वाणि संयस्य संयमनं कृत्वा मनो हृदि हृदय-पुण्डारीके निरूध्य निरोधं कृत्वा निष्प्रचारम् आपाद्य, तत्र वशीकृतेन मनसा हृदयाद् ऊर्ध्व-गामिन्या नाड्योर्ध्वम् आरूह्य मूर्ध्न्य् आधाय आत्मनः प्राणम् आस्थितः पृवृत्तो योग-धारणां धारयितुम् ||Bह्GS_८.१२||
SK==============================
SKओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् | यः प्रयाति त्यजन् देहं स याति परमां गतिम् ||Bह्G_८.१३||
SKओम् इति एकाक्षरं ब्रह्म ब्रह्मणो ऽभिधान-भूतम् ॐकारं व्याहरन् उचारयन्, तद्-अर्थ-भूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, स त्यजन् परित्यजन् देहं शरीरम् - त्यजन् देहम् इति प्रयाण-विशेषणार्थम् देह-त्यागेन प्रयाणम् आत्मनः, न स्वरूप-नाशेनेत्य् अर्थः - स एवं याति गच्छति परमां प्रकृष्टां गतिम् ||Bह्GS_८.१३||
SK==============================
SKअनन्य-चेताः सततं यो मां स्मरति नित्यशः | तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ||Bह्G_८.१४||
SKअनन्य-चेता नान्य-विषये चेतो यस्य सो ऽयम् अनन्य-चेताः | योगी सततं सर्वदा यो मां परमेश्वरं स्मरति | नित्यशः सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घ-कालत्वम् उच्यते | न षण्-मासं संवत्सरं वा | किं तर्हि ? यावज्-जीवं नैरन्तर्येण यो मां स्मरतीत्य् अर्थः | तस्य योगिनो ऽहं सुलभः सुखेन लभ्यो हे पार्थ, नित्य-युक्तस्य सदा समाहित-चित्तस्य योगिनः | यत एवम्, अतो ऽनन्य-चेताः सन् मयि सदा समाहितो भवेत् ||Bह्GS_८.१४||
SK==============================
SKतव सौलभ्येन किं स्यात् ? इत्य् उच्यते | सृणु तन् मम सौलभ्येन यद् भवति -
SKमाम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम् | नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||Bह्G_८.१५||
SKमाम् उपेत्य माम् ईश्वरम् उपेत्य मद्-भावम् आपद्य पुनर् जन्म पुनर् उत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति | किं-विशिष्टं पुनर्-जन्म न प्राप्नुवन्ति ? इति, तद्-विशेषणम् आह - दुःखालयं दुःखानाम् आध्यात्मिकादीनाम् आलयं आश्रयम् | आलीयन्ते यस्मिन् दुःखानीति दुःखालयं जन्म | न केवलं दुःखालयम्, अशाश्वतम् अनवस्थित-स्वरूपं च | नाप्नुवन्ति ईदृशं पुनर्-जन्म महात्मानो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः | ये पुनर् मां न प्राप्नुवन्ति ते पुनर् आवर्तन्ते ||Bह्GS_८.१५||
SK==============================
SKकिं पुनस् त्वत्तो ऽन्यत् प्राप्ताः पुनर् आवर्तन्ते ? इत्य् उच्यते -
SKआ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन | माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ||Bह्G_८.१६||
SKआ ब्रह्म-भुवनात् भवन्त्य् अस्मिन् भूतानीति भुवनम् | ब्रह्मणो भुवनं ब्रह्म-भुवनम्, ब्रह्म-लोक इत्य् अर्थः | आ ब्रह्म-भुवनात् सह ब्रह्म-भुवनेन लोकाः सर्वे पुनर्-आवर्तिनः पुनर्-आवर्तन-स्वभावाः | हे ऽर्जुन | माम् एकम् उपेत्य तु कौन्तेय पुनर्-जन्म पुनर्-उत्पत्तिः न विद्यते ||Bह्GS_८.१६||
SK==============================
SKब्रह्म-लोक-सहिता लोकाः कस्मात् पुनर्-आवर्तिनः ? काल-परिच्छिन्नत्वात् | कथम् ? -
SKसहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः | रात्रिं युग-सहस्रान्तां ते ऽहो-रात्र-विदो जनाः ||Bह्G_८.१७||
SKसहस्र-युग-पर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्याह्नस् तत् अहः सहस्र-युग-पर्यन्तम् | ब्रह्मणः प्रजापतेर् विराजो विदुः | रात्रिम् अपि युग-सहस्रान्ताम् अहः-परिमाणाम् एव | के विदुर् इत्य् आह - ते ऽहो-रात्र-विदः काल-संख्या-विदो जना इत्य् अर्थः | यत एवं काल-परिच्छिन्नास् ते, अतः पुनर्-आवर्तिनो लोकाः ||Bह्GS_८.१७||
SK==============================
SKप्रजापतेर् अहनि यद् भवति रात्रौ च, तद् उच्यते -
SKअव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे | रात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-संज्ञके ||Bह्G_८.१८||
SKअव्यक्ताद् अव्यक्तं प्रजापतेः स्वापावस्था | तस्माद् अव्यक्ताद् व्यक्तयो व्यज्यन्त इति व्यक्तयः स्थावर-जङ्गम-लक्षणाः सर्वाः प्रजाः प्रभवन्त्य् अभिव्यज्यन्ते, अह्न आगमो ऽहर्-आगमस् तस्मिन् अहर्-आगमे काले ब्रह्मणः प्रबोध-काले | तथा रात्र्य्-आगमे ब्रह्मणः स्वाप-काले प्रलीयन्ते सर्वा व्यक्तयस् तत्रैव पूर्वोक्ते ऽव्यक्त-संज्ञके ||Bह्GS_८.१८||
SK==============================
SKअकृताभ्यागम-कृत-विप्रणाश-दोष-परिहारार्थं बन्ध-मोक्ष-शास्त्र-प्रवृत्ति-साफल्य-प्रदर्शनार्थम् अविद्यादि-क्लेश-मूल-कर्माशय-वशाच् चावशो भूत-ग्रामो भूत्वा भूत्वा प्रलीयत इत्य् अतः संसारे वैराग्य-प्रदर्शनार्थं चेदम् आह -
SKभूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहर्-आगमे ||Bह्G_८.१९||
SKभूत-ग्रामो भूत-समुदायः स्थावर-जङ्गम-लक्षणो यः पूर्वस्मिन् कल्प आसीत् स एवायं नान्यः | भूत्वा भूत्वाहर्-आगमे | प्रलीयते पुनः पुनः रात्र्य्-आगमे ऽह्नः क्षये ऽवशो ऽस्वतन्त्र एव | हे पार्थ | प्रभवति जायते ऽवश एवाहर्-आगमे ||Bह्GS_८.१९||
SK==============================
SKयद् उपन्यस्तम् अक्षरम्, तस्य प्राप्त्य्-उपायो निर्दिष्ट ओम् इत्य् एकाक्षरं ब्रह्म [Gईता ८.१३] इत्य् आदिना | अथेदानीम् अक्षरस्यैव स्वरूप-निर्दिदिक्षयेदम् उच्यते, अनेन योग-मार्गेणेदं गन्तव्यम् इति -
SKपरस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः | यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||Bह्G_८.२०||
SKपरो व्यतिरिक्तो भिन्नः | कुतः ? तस्मात् पूर्वोक्तात् | तु-शब्दो ऽक्षरस्य विवक्षितस्याव्यक्ताद् वैलक्षण्य-विशेषणार्थः | भावो ऽक्षराख्यं परं ब्रह्म | व्यतिरिक्तत्वे सत्य् अपि सालक्षण्य-प्रसङ्गो ऽस्तीति तद्-विनिवृत्त्य्-अर्थम् आह - अन्य इति | अन्यो विलक्षणः | स चाव्यक्तो ऽनिन्द्रिय-गोचरः | परस् तस्माद् इत्य् उक्तम् | कस्मात् पुनः परः ? पूर्वोक्ताद् भूत-ग्राम-बीज-भूताद् अविद्या-लक्षणाद् अव्यक्तात् | अन्यो विलक्षणो भाव इत्य् अभिप्रायः | सनातनश् चिरन्तनो यः स भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ||Bह्GS_८.२०||
SK==============================
SKअव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ||Bह्G_८.२१||
SKयो ऽसाव् अव्यक्तो ऽक्षर इत्य् उक्तस् तम् एवाक्षर-संज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् | यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तद् धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदम् इत्य् अर्थः ||Bह्GS_८.२१||
SK==============================
SKतल्-लब्धेर् उपाय उच्यते -
SKपुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया | यस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम् ||Bह्G_८.२२||
SKपुरुषः पुरि शयनात् पूर्णत्वाद् वा | स परः पार्थ, परो निरतिशयः, यस्मात् पुरुषान् न परं किंचित् | स भक्त्या लभ्यस् तु ज्ञान-लक्षणयानन्यया आत्म-विषयया | यस्य पुरुषस्यान्तः-स्थानि मध्य-स्थानि भूतानि कार्य-भूतानि | कार्यं हि कारणस्यान्तर्वर्ति भवति | येन पुरुषेण सर्वं इदं जगत् ततं व्याप्तम् आकाशेनेव घटादि ||Bह्GS_८.२२||
SK==============================
SKप्रकृतानां योगिनां प्रणवावेशित-ब्रह्म-बुद्धीनां कालान्तर-मुक्ति-भाजां ब्रह्म-प्रतिपत्तय उत्तरो मार्गो वक्तव्य इति यत्र काले इत्य् आदि विवक्षितार्थ-समर्पणार्थम् उच्यते, आवृत्ति-मार्गोपन्यासः इतर-मार्ग-स्तुत्य्-अर्थम् उच्यते -
SKयत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः | प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||Bह्G_८.२३||
SKयत्र काले प्रयाता इति व्यवहितेन संबन्धः | यत्र यस्मिन् काले त्व् अनावृत्तिम् अपुनर्-जन्म आवृत्तिं तद्-विपरीतां चैव | योगिन इति योगिनः कर्मिणश् चोच्यन्ते | कर्मिणस् तु गुणतः कर्म-योगेन योगिनाम् इति विशेषणाद् योगिनः | यत्र काले प्रयाता मृता योगिनो ऽनावृत्तिं यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ ||
SK==============================
SKअग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ||Bह्G_८.२४||
SKअग्निः कालाभिमानिनी देवता | तथा ज्योतिर् अपि देवतैव कालाभिमानिनी | अथवा, अग्नि-ज्योतिषी यथा श्रुते एव देवते | भूयसा तु निर्देशो यत्र काले तं कालम् इति आम्र-वनवत् | तथाहर् देवताहर्-अभिमानिनी | शुक्लः शुक्ल-पक्ष-देवता | षण्-मासा उत्तरायणम्, तत्रापि देवतैव मार्ग-भूता [BAU ४.३.४] इति स्थितो ऽन्यत्रायं न्यायः | तत्र तस्मिन् मार्गे प्रयाता मृता गच्छन्ति ब्रह्म ब्रह्म-विदो ब्रह्मोपासका ब्रह्मोपासन-परा जनाः | क्रमेणेति वाक्य-शेषः | न हि सद्यो-मुक्ति-भाजां सम्यग् दर्शन-निष्ठानां गतिर् आगतिर् वा क्वचिद् अस्ति | न तस्य प्राणा उत्क्रामन्ति [BAU ४.४.६] इति श्रुतेः | ब्रह्मसंलीनप्राणैव ते ब्रह्ममया ब्रह्म-भूतैव ते |
SK==============================
SKधूमो रात्रिस् तथा कृष्णः षण्-मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ||Bह्G_८.२५||
SKधूमो रात्रिर् धूमाभिमानिनी रात्र्य्-अभिमानिनी च देवता | तथा कृष्णः कृष्ण-पक्ष-देवता | षण्-मासा दक्षिणायनम् इति च पूर्ववत् देवतैव | तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादि-कारी योगी कर्मी प्राप्य भुक्त्वा तत्-क्षयाद् इह पुनर् निवर्तते ||Bह्GS_८.२५||
SK==============================
SKशुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते | एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ||Bह्G_८.२६||
SKशुक्ल-कृष्णे शुक्ला च कृष्णा च शुक्ल-कृष्णे, ज्ञान-प्रकाशकत्वात् शुक्ला, तदभावात् कृष्णा | एते शुक्ल-कृष्णे हि गती जगतः इत्य् अधिकृतानां ज्ञान-कर्मणोः, न जगतः सर्वस्यैव एते गती संभवतः | शाश्वते नित्ये, संसारस्य नित्यत्वात्, मते ऽभिप्रेते | तत्रैकया शुक्लया यात्य् अनावृत्तिम्, अन्यया इतरया आवर्तते पुनर् भूयः ||Bह्GS_८.२६||
SK==============================
SKनैते सृती पार्थ जानन् योगी मुह्यति कश्चन | तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ||Bह्G_८.२७||
SKन एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका, अन्या मोक्षायेति | योगी न मुह्यति कश्चन कश्चिद् अपि | तस्मात् सर्वेषु कालेषु योग-युक्तः समाहितो भवार्जुन ||Bह्GS_८.२७||
SK==============================
SKशृणु तस्य योगस्य माहात्म्यम् -
SKवेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्य-फलं प्रदिष्टम् | अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ||Bह्G_८.२८||
SKवेदेषु सम्यग्-अधीतेषु यज्ञेषु च साद्गुण्येनानुतिष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्-दत्तेषु यद् एतेषु पुण्य-फलं पुण्यस्य फलं पुण्य-फलं प्रदिष्टं शास्त्रेण, अत्येत्य् अतीत्य गच्छति सत् सर्वं फल-जातम् | इदं विदित्वा सप्त-प्रश्न-निर्णय-द्वारेणोक्तम् अर्थं सम्यग् अवधार्यानुष्ठाय योगी परं प्रकृष्टम् ऐश्वरं स्थानम् उपैति च प्रतिपद्यते | आद्यम् आदौ भवं कारणं ब्रह्मेत्य् अर्थः ||Bह्GS_८.२८||
SKइति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये ब्रह्माक्षर-निर्देशो नाम अष्टमो ऽध्यायः
SKअथ राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः
SKअष्टमे नाड्य्-आदि-द्वारेण धारणा-योगः सगुण उक्तः | तस्य च फलम् अग्न्य्-अर्चिर्-आदि-क्रमेण कालान्तरे ब्रह्म-प्राप्ति-लक्षणम् एवानावृत्ति-रूपं निर्दिष्टम् | तत्रानेनैव प्रकारेण मोक्ष-प्राप्ति-फलम् अधिगम्यते, नान्यथा इति तद् आशङ्का-व्याविवर्तयिषया श्री-भगवान् उवाच -