16.1 SK अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः | दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ||Bह्G_१६.१||
16.1 SK अभयम् अभीरुता | सत्त्व-संशुद्धिः सत्त्वस्यान्तः-करणस्य संशुद्धिः | संव्यवहारेषु पर-वञ्चना-मायानृतादि-परिवर्जनं शुद्ध-सत्त्व-भावेन व्यवहार इत्य् अर्थः | ज्ञान-योग-व्यवस्थितिर् ज्ञानं शास्त्रत आचार्यतश् च आत्मादि-पदार्थानाम् अवगमः | अवगतानाम् इन्द्रियाद्य्-उपसंहारेणैकाग्रतया स्वात्म-संवेद्यतापादनं योगः | तयोर् ज्ञान-योगयोर् व्यावस्थितिः व्यवस्थानं तन्-निष्ठता | एषा प्रधाना दैवी सात्त्विकी सोच्यते | दानं यथा-शक्ति संविभागो ऽन्नादीनाम् | दमश् च बाह्य-करणानाम् उपशमः | अन्तः-करणस्योपशमं शान्तिं वक्ष्यति | यज्ञश् च श्रौतो ऽग्निहोत्रादिः | स्मार्तश् च देव-यज्ञादिः | स्वाध्याय ऋग्-वेदाद्यध्ययनम् अदृष्टार्थम् | तपो वक्ष्यमाणं शारीरादि | आर्जवम् ऋजुत्वं सर्वदा ||Bह्GS_१६.१||
3 SK ==============================
16.2 SK अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् | दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ||Bह्G_१६.२||
16.2 SK अहिंसाहिंसनं प्राणिनां पीडा-वर्जनम् | सत्यम् अप्रियानृत-वर्जितं यथा-भूतार्थ-वचनम् | अक्रोधः परैर् आक्रुष्टस्याभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् | त्यागः संन्यासः, पूर्वं दानस्योक्तत्वात् | शान्तिर् अन्तःकरणस्योपशमः | अपैशुनम् अपिशुनता | परस्मै पर-रन्ध्र-प्रकटी-करणं पैशुनम्, तद्-अभावो ऽपैशुनम् | दया कृपा भूतेषु दुःखितेषु | अलोलुप्त्वम् इन्द्रियाणां विषय-संनिधाव् अविक्रिया | मार्दवं मृदुताक्रौर्यम् | ह्रीर् लज्जा | अचापलम् असति प्रयोजने वाक्-पाणि-पादादीनाम् अव्यापारयितृत्वम् ||Bह्GS_१६.२||
7 SK ==============================
16.3 SK तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता | भवन्ति संपदं दैवीम् अभिजातस्य भारत ||Bह्G_१६.३||
16.3 SK तेजः प्रागल्भ्यं न त्वग्-गता दीप्तिः | क्षमा आक्रुष्टस्य ताडितस्य वान्तर्-विक्रियानुत्पत्तिः | उत्पन्नायां विक्रियायाम् प्रअशमनम् अक्रोध इत्य् अवोचाम | इत्थं क्षमाया अक्रोधस्य च विशेषः | धृतिर् देहेन्द्रियेष्व् अवसादं प्राप्तेषु तस्य प्रतिषेधको ऽन्तः-करण-वृत्ति-विशेषः | येनोत्तम्भितानि करणानि देहश् च नावसीदन्ति | शौचं द्वि-विधं मृज्-जल-कृतं बाह्यम् आभ्यन्तरं च मनो-बुद्धयोर् नैर्मल्यं माया-रागादि-कालुष्याभावः | एवं द्वि-विधं शौचम् | अद्रोहः पर-जिघांसाभावो ऽहिंसनम् | नातिमानिता अत्यर्थं मानो ऽतिमानः, स यस्य विद्यते सो ऽतिमानी | तद्-भावो ऽतिमानिता | तद्-अभावो नातिमानिता आत्मनः पूज्यतातिशय-भावनाभाव इत्य् अर्थः | भवन्त्य् अभयादीनि एतद्-अन्तानि संपदम् अभिजातस्य | किं-विशिष्टं संपदम् ? दैवीं देवानां या संपत् ताम् अभिलक्ष्य जातस्य देव-विभूत्य्-अर्हस्य भावि-कल्याणस्येत्य् अर्थः | हे भारत ! ||Bह्GS_१६.३||
11 SK ==============================
12 SK अथेदानीं आसुरी संपद् उच्यते -
16.4 SK दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च | अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् ||Bह्G_१६.४||
16.4 SK दम्भो धर्म-ध्वजित्वम् | दर्पो विद्या-धन-स्वजनादि-निमित्त उत्सेकः | अतिमानः पूर्वोक्तः | क्रोधश् च | पारुष्यम् एव च परुष-वचनम् | यथा काणम् चक्षुष्मान्, विरूपं रूपवान्, हीनाभिजनम् उत्तमाभिजन इत्य् आदि | अज्ञानं चाविवेक-ज्ञानं कर्तव्याकर्तव्यादि-विषय-मिथ्या-प्रत्ययः | अभिजातस्य पार्थ | किम्-अभिजातस्येत्य् आह - संपदम् आसुरीम् असुराणां संपत् आसुरी ताम् अभिजातस्य इत्य् अर्थः ||Bह्GS_१६.४||
15 SK ==============================
16 SK अनयोः संपदोः कार्यम् उच्यते -
16.5 SK दैवी संपद् विमोक्षाय निबन्धायासुरी मता | मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव ||Bह्G_१६.५||
16.5 SK दैवी संपत् या सा विमोक्षाय संसार-बन्धनात् | निबन्धाय नियतो बन्धो निबन्धस् तद्-अर्थम् आसुरी संपत् मता अभिप्रेता | तथा राक्षसी च | तत्रैवम् उक्ते सत्य् अर् जुनस्यान्तर्-गतं भावम् किम् अहम् आसुर-संपद्-युक्तः ? किं वा दैव-संपद्-युक्तः ? इत्य् एवम् आलोचना-रूपम् आलक्ष्य आह भगवान् - मा शुचः शोकं मा कार्षीः | संपदं दैवीम् अभिजातो ऽस्य् अभिलक्ष्य जातो ऽसि | भावि-कल्याणस् त्वम् असीत्य् अर्थः | हे पाण्डाव ||Bह्GS_१६.५||
19 SK ==============================
16.6 SK द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च | दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||Bह्G_१६.६||
16.6 SK द्वौ द्वि-संख्याकौ भूत-सर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूत-सर्गौ सृज्येतेति सर्गौ भूतान्य् एव सृज्यमानानि दैवासुर-संपद्-द्वय-युक्तानीति द्वौ भूत-सर्गाव् इत्य् उच्यते | द्वया ह वै प्राजापत्या देवाश् चासुरा च [BAU १.३.१] इति श्रुतेः | लोके ऽस्मिन्, संसार इत्य् अर्थः | सर्वेषां द्वैविध्योपपत्तेः | कौ तौ भूत-सर्गौ ? इत्य् उच्यते - प्रकृताव् एव दैव आसुर एव च | उक्तयोर् एव पुनर् अनुवादे प्रयोजनम् आह - दैवो भूत-सर्गो ऽभयं सत्त्व-संशुद्धिर् इत्य् आदिना विस्तरशो विस्तर-प्रकारैः प्रोक्तः कथितः, न तु आसुरो विस्तरशः | अतस् तत्-परिवर्जनार्थम् आसुरं पार्थ मे मम वचनाद् उच्यमानं विस्तरशः सृणु अवधारय ||Bह्GS_१६.६||
22 SK ==============================
23 SK आ अध्याय-परिसमाप्तेर् आसुरी संपत् प्राणि-विशेषणत्वेन प्रदर्श्यते, प्रत्यक्षी-करणेन च शक्यते तस्याः परिवर्जनं कर्तुम् इति -
16.7 SK प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः | न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||Bह्G_१६.७||
16.7 SK प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थ-साधने कर्तव्ये प्रवृत्तिस् ताम्, निवृत्तिं च एतद्-विपरीतां यस्मात् अनर्थ-हेतोः निवर्तितव्यं सा निवृत्तिस् तां च, जना आसुरा न विदुर् न जानन्ति | न केवलं प्रवृत्ति-निवृत्ती एव ते न विदुः, न शौचं नापि चाचारो न सत्यं तेषु विद्यते | अशौचा अनाचारा मायाविनो ऽनृत-वादिनो ह्य् आसुराः ||Bह्GS_१६.७||
26 SK ==============================
16.8 SK किं च - असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् | अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ||Bह्G_१६.८||
16.8 SK असत्यं यथा वयम् अनृत-प्रायास् तथेदं जगत् सर्वम् असत्यम् | अप्रतिष्ठं च नास्य धर्माधर्मौ प्रतिष्ठातो ऽप्रतिष्ठं चेति | ते आसुराः जनाः जगद् आहुर् अनीश्वरम् न च धर्माधर्म-स-व्यपेक्षको ऽस्य शासितेश्वरो विद्यत इत्य् अतो ऽनीश्वरं जगद् आहुः | किं च, अपरस्पर-संभूतं काम-प्रयुक्तयोः स्त्री-पुरुषयोर् अन्योन्य-संयोगाज् जगत् सर्वं संभूतम् | किम् अन्यत् काम-हैतुकम् | काम-हेतुकम् एव काम-हैतुकम् | किम् अन्यज् जगतः कारणम् ? न किंचित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते | जगतः काम एव प्राणिनां कारणम् इति लोकायतिक-दृष्टिर् इयम् ||Bह्GS_१६.८||
29 SK ==============================
16.9 SK एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्प-बुद्धयः | प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽहिताः ||Bह्G_१६.९||
16.9 SK एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टत्मानो नष्ट-स्वभावा विभ्रष्ट-पर-लोक-साधना अल्प-बुद्धयो विषय-विषयाल्पैव बुद्धिर् येषां ते ऽल्प-बुद्धयः प्रभवन्ति उद्भवन्ति उग्र-कर्माणः क्रूर-कर्माणो हिंसात्मकाः | क्षयाय जगतः प्रभवन्तीति संबन्धः || जगतो ऽहिताः शत्रवः इत्य् अर्थः ||Bह्GS_१६.९||
32 SK ==============================
16.10 SK कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः | मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः ||Bह्G_१६.१०||
16.10 SK कामम् इच्छा-विशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक्य-पूरणं दम्भ-मान-मदान्विता दम्भश् च मानश् च मदश् च दम्भ-मान-मदास् तैर् अन्विताः दम्भ-मान-मदान्विता मोहाद् अविवेकतो गृहीत्वा उपादाय असद्-ग्राहान् अशुभ-निश्चयान् प्रवर्तन्ते लोके अशुचि-व्रताः अशुचीनि व्रतानि येषां ते ऽशुचि-व्रताः ||Bह्GS_१६.१०||
36 SK ==============================
16.11 SK किं च - चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः | कामोपभोग-परमा एतावद् इति निश्चिताः ||Bह्G_१६.११||
16.11 SK चिन्ताम् अपरिमेयां च, न परिमातुं शक्यते यस्याश् चिन्ताया इयत्ता सापरिमेया, ताम् अपरिमेयाम्, प्रलयान्तां मरणान्ताम् उपाश्रिताः, सदा चिन्ता-परा इत्य् अर्थः | कामोपभोग-परमाः, काम्यन्ते इति कामा विषयाः शब्दादयस् तद्-उपभोग-परमा अयम् एव परमः पुरुषार्थो यः कामोपभोग इत्य् एवं निश्चितात्मानः | एतावत् इति निश्चिताः ||Bह्GS_१६.११||
39 SK ==============================
16.12 SK आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः | ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् ||Bह्G_१६.१२||
16.12 SK आशा-पाश-शतैर् आशैव पाशास् तच्-छतैर् बद्धाः नियन्त्रिताः सन्तः सर्वत आकृष्यमाणाः, काम-क्रोध-परायणाः काम-क्रोधौ परम् अयनम् आश्रयो येषां ते काम-क्रोध-परायणाः | ईहन्ते चेष्टन्ते काम-भोगार्थं काम-भोग-प्रयोजनाय न धर्मार्थम् | अन्यायेन पर-स्वापहरणादिनेत्य् अर्थः | किम् ? अर्थ-संचयान् अर्थ-प्रचयान् ||Bह्GS_१६.१२||
42 SK ==============================
43 SK ईदृशश् च तेषाम् अभिप्रायः -
16.13 SK इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् | इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ||Bह्G_१६.१३||
16.13 SK इदं द्रव्यम् अद्य इदानीं मया लब्धम् | इदं चान्यत् प्राप्स्ये मनोरथं मनस्-तुष्टि-करम् | इदं चास्तीदम् अपि मे भविष्यति आगामिनि संवत्सरे पुनर् धनं तेनाहं धनी विख्यातो भविष्यामीति ||Bह्GS_१६.१३||
46 SK ==============================
16.14 SK असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि | ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ||Bह्G_१६.१४||
16.14 SK असौ देवदत्तनामा मया हतो दुर्जयः शत्रुः | हनिष्ये चापरान् अन्यान् वराकान् अपि | किम् एते करिष्यन्ति तपस्विनः | सर्वथापि नास्ति मत्तुल्यः | कथम् ? ईश्वरो ऽहम्, अहं भोगी | सर्व-प्रकारेणश् च सिद्धो ऽहं संपन्नः पुत्रैः नप्तृभिः, न केवलं मानुषः, बलवान् सुखी चाहम् एव | अन्ये तु भूमिभारायावितीर्णाः ||Bह्GS_१६.१४||
49 SK ==============================
16.15 SK आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया | यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ||Bह्G_१६.१५||
16.15 SK आढड्ः धनेन, अभिजनवान् सप्तपुरुषं श्रोत्रियत्वादिसंपन्नः - तेनापि न मम तुल्यो ऽस्ति कश्चित् | को ऽन्यो ऽस्ति सदृशस् तुल्यः मया ? किं च, यक्ष्ये यागेनाप्य् अन्यान् अभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये हर्षं चातिशयं प्राप्स्यामि, इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः ||Bह्GS_१६.१५||
52 SK ==============================
16.16 SK अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः | प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ||Bह्G_१६.१६||
16.16 SK अनेक-चित्त-विभ्रान्ता उक्त-प्रकारैर् अनेकैश् चित्तैः विविधं भ्रान्ताः अनेक-चित्त-विभ्रान्ताः, मोहजालसमावृताः मोहो ऽविवेको ऽज्ञानं तद् एव जालमिव आवरणात्मकत्वात्, तेन समावृताः | प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तस् तेन उपचित-कल्मषाः पतन्ति नरके ऽशुचौ वैतरण्यादौ ||Bह्GS_१६.१६||
55 SK ==============================
16.17 SK आत्म-संभाविताः स्तब्धा धन-मान-मदान्विताः | यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ||Bह्G_१६.१७||
16.17 SK आत्मसंभावित्ताः सर्वगुणविशिष्टतया आत्मनैव संभाविताः आत्मसंभाविताः, न साधुभिः | स्तब्धाः अप्रणतात्मानः | धनमानमदान्विताः धननिमित्तः मानः मदश् च, ताभ्यां धनमानमदाभ्याम् अन्विताः | यजन्ते नामयज्ञैः नाममात्रैर् यज्ञैस् ते दम्भेन धर्मध्वजितयाविधिपूर्वकं विधिविहिताङ्गेतिकर्तव्यतारहितम् ||Bह्GS_१६.१७||
16.18 SK ============================== अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः | माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ||Bह्G_१६.१८||
16.18 SK अहंकारम् अहंकरणम् अहंकारः | विद्यमानैर् अविद्यमानैश् च गुणैर् आत्मन्य् अध्यारोपितैर् विशिष्टम् आत्मानम् अहम् इति मन्यते, सो ऽहंकारो ऽविद्याख्यः कष्टतमः सर्व-दोषाणां मूलं सर्वानर्थ-प्रवृत्तीनां च, तम् | तथा बलं पराभिभव-निमित्तं काम-रागान्वितम् | दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सो ऽयम् अन्तःकरणाश्रयो दोष-विशेषः | कामं स्त्र्य्-आदि-विषयम् | क्रोधम् अनिष्ट-विषयम् | एतान् अन्यांश् च महतो दोषान् संश्रिताः | किं च ते माम् ईश्वरम् आत्म-पर-देहेषु स्व-देहे पर-देहेषु च तद्-बुद्धि-कर्म-साक्षि-भूतं मां प्रद्विषन्तः, मच्-छासनातिवर्तित्वं प्रद्वेषः, तं कुर्वन्तो ऽभ्यसूयकाः सन्-मार्ग-स्थानां गुणेषु असहमानाः ||Bह्GS_१६.१८||
60 SK ==============================
16.19 SK तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् | क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ||Bह्G_१६.१९||
16.19 SK तान् अहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणो द्विषतश् च मां क्रूरान् संसारेषु एवानेकनरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपाम्य् अजस्रं संततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूर-कर्म-प्रायासु व्याघ्रṆसहादियोनिषु क्षिपामीत्यनेन संबन्धः ||Bह्GS_१६.१९||
63 SK ==============================
16.20 SK आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि | माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ||Bह्G_१६.२०||
16.20 SK आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनो जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्यानासाद्य एव हे कौन्तेय, ततस् तस्मादपि यान्त्य् अधमां गतिं निकृष्टतमां गतिम् | माम् अप्राप्यैवेति न मत्-प्राप्तौ काचिद् अपि आशङ्कास्ति, अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्य् अर्थः ||Bह्GS_१६.२०||
66 SK ==============================
67 SK सर्वस्या आसुर्याः संपदः संक्षेपो ऽयम् उच्यते, यस्मिन् त्रिविधे सर्वः आसुरीसंपद्भेदो ऽनन्तो ऽप्य् अन्तर्भवति | यत्परिहारेण परिहृतश् च भवति, यत् मूलं सर्वस्यानर्थस्य, तत् एतद् उच्यते -
16.21 SK त्रि-विधं नरकस्येदं द्वारं नाशनम् आत्मनः | कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ||Bह्G_१६.२१||
16.21 SK त्रिविधं त्रिप्रकारं नरकस्य प्राप्ताव् इदं द्वारं नाशनम् आत्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा | कस्मैचित् पुरुषार्थाय योग्यो न भवतीत्येतत्, अतर् उच्यते द्वारं नाशनम् आत्मनः इति | किं तत् ? कामः क्रोधस् तथा लोभः | तस्मात् एतत् त्रयं त्यजेत् | यतः एतत् द्वारं नाशनम् आत्मनस् तस्मात् कामादित्रयमेतत् त्यजेत् ||Bह्GS_१६.२१||
70 SK ==============================
71 SK त्याग-स्तुतिर् इयम् -
16.22 SK एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः | आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ||Bह्G_१६.२२||
16.22 SK एतैः विमुक्तः कौन्तेय तमो-द्वारैस् तमसो नरकस्य दुःख-मोहात्मकस्य द्वाराणि कामादयस् तैः, एतैस् त्रिभिः विमुक्तो नर आचरत्य् अनुतिष्ठति | किम् ? आत्मनः श्रेयः | यत्-प्रतिबद्धः पूर्वं नाचचार, तद्-अपगमाद् आचरति | ततस् तद्-आचरणात् याति परां गतिं मोक्षम् अपीति ||Bह्GS_१६.२२||
74 SK ==============================
75 SK सर्वस्य एतस्य आसुरी-संपत्-परिवर्जनस्य श्रेय-आचरणस्य च शास्त्रं कारणम् | शास्त्र-प्रमाणाद् उभयं शक्यं कर्तुम्, नान्यथा | अतः -
16.23 SK यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः | न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ||Bह्G_१६.२३||
16.23 SK यः शास्त्र-विधिं शास्त्रं वेदस् तस्य विधिं कर्तव्याकर्तव्य-ज्ञान-कारणं विधि-प्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते काम-कारतः काम-प्रयुक्तः सन्, न स सिद्धिं पुरुषार्थ-योग्यताम् अवाप्नोति, नाप्य् अस्मिन् लोके सुखं नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा ||Bह्GS_१६.२३||
78 SK ==============================
16.24 SK तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ | ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ||Bह्G_१६.२४||
16.24 SK तस्मात् शास्त्रं प्रमाणं ज्ञान-साधनं ते तव कार्याकार्य-व्यवस्थितौ कर्तव्याकर्तव्य-व्यवस्थायाम् | अतो ज्ञात्वा बुद्ध्वा शास्त्र-विधानोक्तं -- विधिर् विधानं शास्त्रम् एव विधानं शास्त्र-विधानं कुर्यान् न कुर्याद् इत्य् एवं-लक्षणम्, तेन उक्तं स्व-कर्म यत् तत् कर्तुम् इहार्हसि | इहेति कर्माधिकार-भूमि-प्रदर्शनार्थम् इति ||Bह्GS_१६.२४||
81 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये षोडाशो ऽध्यायः ||
83 SK अथ श्रद्धा-त्रय-विभाग-योगः सप्तदशो ऽध्यायः
84 SK तस्माच् छास्त्रं प्रमाणं त [Gईता १६.२४] इति भगवद्-वाक्याल् लब्ध-प्रश्न-बीजो ऽर्जुन उवाच -
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source