13.1 SK इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते | एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्-विदः ||Bह्G_१३.१||
13.1 SK इदम् इति सर्व-नाम्नोक्तं विशिनष्टि शरिरम् इति | हे कौन्तेय ! क्षत-त्राणात् क्षयात् क्षरणात्, क्षेत्रवद् वास्मिन् कर्म-फल-निष्पत्तेः क्षेत्रम् इति | इति-शब्द एवं-शब्देदार्थकः | क्षेत्रम् इत्य् एवम् अभिधीयते कथ्यते | एतच् छरीरं क्षेत्रं यो वेत्ति विजानाति, आपाद-तल-मस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति | इति-शब्दः एवं-शब्द-पदार्थक एव पूर्ववत् | क्षेत्रज्ञः इत्य् एवम् आहुः | के ? तद्-विदस् तौ क्षेत्र-क्षेत्रज्ञौ ये विदन्ति ते तद्-विदः ||Bह्GS_१३.१||
3 SK ==============================
4 SK एवं क्षेत्र-क्षेत्रज्ञौ उक्तौ | किम् एतावन्-मात्रेण ज्ञानेन ज्ञातव्यौ? इति नेत्य् उच्यते -
13.2 SK क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत | क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ||Bह्G_१३.२||
6 SK क्षेत्रज्ञं यथोक्त-लक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि | सर्व-क्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादि-स्तम्ब-पर्यन्तानेक-क्षेत्रोपाधि-प्रविभक्तः | तं निरस्त-सर्वोपाधि-भेदं सद्-असद्-आदि-शब्द-प्रत्ययागोचरं विद्धीत्य् अभिप्रायः | हे भारत ! यस्मात् क्षेत्र-क्षेत्रज्ञेश्वर-याथात्म्य-व्यतिरेकेण न ज्ञान-गोचरम् अन्यद् अवशिष्टम् अस्ति, तस्मात् क्षेत्र-क्षेत्रज्ञयोर् ज्ञेय-भूतयोर् यज् ज्ञानं क्षेत्र-क्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तज् ज्ञानं सम्यग्-ज्ञानम् इति मतम् अभिप्रायः ममेश्वरस्य विष्णोः ||
7 SK ननु सर्व-क्षेत्रेष्व् एक एवेश्वरः | नान्यस् तद्-व्यतिरिक्तो भोक्ता विद्यते चेत्, तत ईश्वरस्य संसारित्वं प्राप्तम् | ईश्वर-व्यतिरेकेण वा संसारिणो ऽन्यस्याभावात् संसाराभाव-प्रसङ्गः | तच् चोभयम् अनिष्टम्, बन्ध-मोक्ष-तद्-धेतु-शास्त्रानर्थक्य-प्रसङ्गात्, प्रत्यक्षादि-प्रमाण-विरोधाच् च | प्रत्यक्षेण तावत् सुख-दुःख-तद्-धेतु-लक्षणः संसार उपलभ्यते | जगद्-वैचित्र्योपलब्धे च धर्माधर्म-निमित्तः संसारो ऽनुमीयते | सर्वम् एतद् अनुपपन्नम् आत्मेश्वरैकत्वे | न | ज्ञानाज्ञानयोर् अन्यत्वेनोपपत्तेः | दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता [Kअठ्U १.२.४] तथा तयोर् विद्याविद्या-विषययोः फल-भेदो ऽपि विरुद्धो निर्दिष्टः - श्रेयश् च प्रेयश् च [Kअठ्U १.२.२] इति | विद्या-विषयः श्रेयः, प्रेयस् त्व् अविद्या-कार्यम् इति | तथा च व्यासः - द्वाव् इमाव् अथ पन्थानौ [Mभ् १२.२४१.६] इत्य् आदि, इमौ द्वाव् एव पन्थानाव् इत्य् आदि च | इह च द्वे निष्ठे उक्ते | अविद्या च सह कार्येण विद्यया हातव्येति श्रुति-स्मृति-न्यायेभ्यो ऽवगम्यते |
8 SK श्रुतयस् तावत् - इह चेद् अवेदीद् अथ सत्यम् अस्ति न चेद् इहावेदीन् महती विनष्टिः [KएनU २.५], तम् एवं विद्वान् अमृत इह भवति [Tऐत्त्Ā ३.१२], नान्यः पन्था विद्यते ऽयनाय [Śवेत्U ३.८] विद्वान् न बिभेति कुतश्चन [Tऐत्त्U २.९] |
9 SK अविदुषस् तु - अथ तस्य भयं भवति [Tऐत्त्U २.७], अविद्यायाम् अन्तरे वर्तमानाः [Kअठ्U १.२.५], ब्रह्म वेद ब्रह्मैव भवति [Mउण्ड्U ३.२.९], अन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद यथा पशुर् एवं स देवानाम् [BAU १.४.१०] | आत्मविद् यः स इदं सर्वं भवति [BAU १.४.१०], यदा चर्मवत् [Śवेत्U ६.२०] इत्य् आद्याः सहस्रशः |
10 SK स्मृतयश् च - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [Gईता ५.२५], इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः [Gईता ५.१९], समं पश्यन् हि सर्वत्र [Gईता १३.२९] इत्य् आद्याः |
11 SK न्यायतश् च - सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति | अज्ञानतस् तत्र पतन्ति केचिज् ज्ञाने फलं पश्य यथा-विशिष्टम् || [Mभ् १२.२०१.१७] इति |
12 SK तथा च - देहादिषु आत्म-बुद्धिर् अविद्वान् राग-द्वेषादि-प्रयुक्तो धर्माधर्मानुष्ठान-कृज् जायते म्रियते चेत्य् अवगम्यते | देहादि-व्यतिरिक्तात्म-दर्शिनो राग-द्वेषादि-प्रहाणापेक्ष-धर्माधर्म-प्रवृत्त्य्-उपशमान् मुच्यन्त इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः | तत्रैवं सति, क्षेत्रज्ञस्येश्वरस्यैव सतो ऽविद्या-कृतोपाधि-भेदतः संसारित्वम् इव भवति, यथा देहाद्य्-आत्मत्वम् आत्मनः | सर्व-जन्तूनां हि प्रसिद्धो देहादिष्व् अनात्मसु आत्म-भावो निश्चितो ऽविद्या-कृतः, यथा स्थाणौ पुरुष-निश्चयः | न चैतावता पुरुष-धर्मः स्थाणोर् भवति, स्थाणु-धर्मो वा पुरुषस्य | तथा न चैतन्य-धर्मो देहस्य, देह-धर्मो वा चेतनस्य सुख-दुःख-मोहात्मकत्वादिर् आत्मनो न युक्तः | अविद्या-कृतत्वाविशेषात्, जरा-मृत्युवत् |
13 SK न, अतुल्यत्वात् | इति चेत् - स्थाणु-पुरुषौ ज्ञेयाव् एव सन्तौ ज्ञात्रान्योन्यस्मिन्न् अध्यस्ताव् अविद्यया | देहात्मनोस् तु ज्ञेय-ज्ञात्रोर् एव इतरेतराध्यासः, इति न समो दृष्टान्तः |
14 SK अतो देह-धर्मो ज्ञेयो ऽपि ज्ञातुर् आत्मनो भवतीति चेत्, न | अचैतन्यादि-प्रसङ्गात् | यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुख-दुःख-मोहेच्छादयो ज्ञातुर् भवन्ति, तर्हि, ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनो भवन्त्य् अविद्याध्यारोपिताः, जरा-मरणादयस् तु न भवन्तीति विशेष-हेतुर् वक्तव्यः | न भवन्तीत्य् अस्त्य् अनुमानम् - अविद्याध्यारोपितत्वाज् जरा-मरणादिवद् इति, हेयत्वात्, उपादेयत्वाच् चेत्य् आदि |
15 SK तत्रैवं सति, कर्तृत्व-भोक्तृत्व-लक्षणः संसारो ज्ञेय-स्थो ज्ञातर्य् अविद्ययाध्यारोपित इति, न तेन ज्ञातुः किंचिद् दुष्यति | यथा बालैर् अध्यारोपितेनाकाशस्य तल-मलिनत्वादिना |
16 SK एवं च सति, सर्व-क्षेत्रेष्व् अपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्व-गन्ध-मात्रम् अपि नाशङ्कयम् | न हि क्वचिद् अपि लोके ऽविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारो ऽपकारो वा दृष्टः |
17 SK यत् तूक्तम् - न समो दृष्टान्त इति, तद् असत् | कथम् ? अविद्याध्यास-मात्रं हि दृष्टान्त-दार्ष्टान्तिकयोः साधर्म्यं विवक्षितम् | तन् न व्यभिचरति | यत् तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्य् अनैकान्तिकत्वं दर्शितं जरादिभिः ||
18 SK अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न | अविद्यायास् तामसत्वात् | तामसो हि प्रत्ययः, आवरणात्मकत्वाद् अविद्या विपरीत-ग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा | विवेक-प्रकाश-भावे तद्-अभावात् तामसे चावरणात्मके तिमिरादि-दोषे सत्य् अग्रहणादेर् अविद्या-त्रयस्य उपलब्धेः ||
19 SK अत्राह - एवं तर्हि ज्ञातृ-धर्मो ऽविद्या | न | करणे चक्षुषि तैमिरिकत्वादि-दोषोपलब्धेः | यत् तु मन्यसे - ज्ञातृ-धर्मो ऽविद्या, तद् एव चाविद्या-धर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् | तत्र यद् उक्तम् ईश्वर एव क्षेत्रज्ञः, न संसारीत्य् एतद् अयुक्तम् इति, तन् न | यथा करणे चक्षुषि विपरीत-ग्राहकादि-दोषस्य दर्शनात् | न विपरीतादि-ग्रहणं तन्-निमित्तं वा तैमिरिकत्वादि-दोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे ऽपनीते ग्रहीतुर् अदर्शनान् न ग्रहीतुर् धर्मो यथा | तथा सर्वत्रैवाग्रहण-विपरीत-संशय-प्रत्ययास् तन्-निमित्ताः करणस्यैव कस्यचित् भवितुम् अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य | संवेद्यत्वाच् च तेषां प्रदीप-प्रकाशवन् न ज्ञातृ-धर्मत्वम् | संवेद्यत्वाद् एव स्वात्म-व्यतिरिक्त-संवेद्यत्वम् | सर्व-करण-वियोगे च कैवल्ये सर्व-वादिभिर् अविद्यादि-दोषवत्-त्वानभ्युपगमात् | आत्मनो यदि क्षेत्रज्ञस्याग्न्य्-उष्णवत् स्वो धर्मः, ततो न कदाचिद् अपि तेन वियोगः स्यात् | अविक्रियस्य च व्योमवत् सर्व-गतस्यामूर्तस्य आत्मनः केनचित् संयोग-वियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यम् एवेश्वरत्वम् | अनादित्वान् निर्गुणत्वाद् [Gईता १३.३२] इत्य् आदीश्वर-वचनाच् च ||
20 SK नन्व् एवं सति संसार-संसारित्वाभावे शास्त्रानर्थक्यादि-दोषः स्याद् इति चेत्, न | सर्वैर् अभ्युपगतत्वात् | सर्वैर् ह्य् आत्म-वादिभिर् अभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति | कथम् अभ्युपगत इति ? मुक्तात्मनां हि संसार-संसारित्व-व्यवहाराभावः सर्वैर् एव आत्म-वादिभिर् इष्यते | न च तेषां शास्त्रानर्थक्यादि-दोष-प्राप्तिर् अभ्युपगता | तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु | अविद्या-विषये चार्थवत्त्वम् - यथा द्वैतिनां सर्वेषां बन्धावस्थायाम् एव शास्त्राद्य्-अर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम् ||
21 SK नन्व् आत्मनो बन्ध-मुक्तावस्थे परमार्थत एव वस्तु-भूते द्वैतिनां सर्वेषाम् | अतो हेयोपादेय-तत्-साधन-सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात् | अद्वैतिनां पुनः, द्वैतस्यापरमार्थत्वात्, अविद्या-कृतत्वाद् बन्धावस्थायाश् चात्मनो ऽपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न | आत्मनो ऽवस्था-भेदानुपपत्तेः | यदि तावत् आत्मनो बन्ध-मुक्तावस्थे, युगपत् स्याताम्, क्रमेण वा | युगपत् तावत् विरोधान् न संभवतः स्थिति-गती इवैकस्मिन् | क्रम-भावित्वे च, निर्निमित्तत्वं स-निमित्तत्वं वा ? निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गः | स-निमित्तत्वे च स्वतो ऽभावात् अपरमार्थत्व-प्रसङ्गः | तथा च सत्य् अभ्युपगम-हानिः |
22 SK किं च, बन्ध-मुक्तावस्थयोः पौर्वापर्य-निरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमत्य् अन्तवती च | तच् च प्रमाण-विरुद्धम् | तथा मोक्षावस्थादिमत्य् अनन्ता च प्रमाण-विरुद्धैवाभ्युपगम्यते | न चावस्थावतो ऽवस्थान्तरं गच्छतो नित्यत्वम् उपपादयितुं शक्यम् | अथानित्यत्व-दोष-परिहाराय बन्ध-मुक्तावस्था-भेदो न कल्प्यते | अतो द्वैतिनाम् अपि शास्त्रानर्थक्यादि-दोषो ऽपरिहार्य एव | इति समानत्वान् नाद्वैत-वादिना परिहर्तव्यो दोषः ||
23 SK न च शास्त्रानर्थक्यम्, यथा-प्रसिद्धाविद्वत्-पुरुष-विषयत्वाच् छास्त्रस्य | अविदुषां हि फल-हेत्वोर् अनात्मनोर् आत्म-दर्शनम्, न विदुषाम् | विदुषां हि फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शने सति, तयोर् अहम् इत्य् आत्म-दर्शनानुपपत्तेः | न ह्य् अत्यन्त-मूढ उन्मत्तादिर् अपि जलाग्न्योश् छाया-प्रकाशयोर् वैकात्म्यं पश्यति | किम् उत विवेकी | तस्मान् न विधि-प्रतिषेध-शास्त्रं तावत् फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शिनो भवति | न हि ᳚देवदत्त, त्वम् इदं कुरु᳚ इति कस्मिंश्चित् कर्मणि नियुक्ते, ᳚विष्णुमित्रो ऽहं नियुक्तः᳚ इति तत्र-स्थो नियोगं सृण्वन्न् अपि प्रतिपद्यते | वियोग-विषय-विवेकाग्रहणात् तूपपद्यते प्रतिपत्तिः | तथा फल-हेत्वोर् अपि ||
24 SK ननु प्राकृत-संबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थ-विषया - फल-हेतुभ्याम् अन्यात्म-विषय-दर्शने ऽपि सति - इष्ट-फल-हेतौ प्रवर्तितो ऽस्मि, अनिष्ट-फल-हेतोश् च निवर्तितो ऽस्मीति | यथा पितृ-पुत्रादीनाम् इतरेतरात्मान्यत्व-दर्शने सत्य् अप्य् अन्योन्य-नियोग-प्रतिषेधार्थ-प्रतिपत्तिः | न | व्यतिरिक्तात्म-दर्शन-प्रतिपत्तेः प्राग् एव फल-हेत्वोर् आत्माभिमानस्य सिद्धत्वात् | प्रतिपन्न-नियोग-प्रतिषेधार्थो हि फल-हेतुभ्याम् आत्मनो ऽन्यत्वं प्रतिपद्यते, न पूर्वम् | तस्माद् विधि-प्रतिषेध-शास्त्रम् अविद्वद्-विषयम् इति सिद्धम् ||
25 SK ननु स्वर्ग-कामो यजेत [Aप्.Śर्.S. १०.२.१] न कलञ्जं भक्षयेद् इत्य् आदाव् आत्म-व्यतिरेक-दर्शिनाम् अप्रवृत्तौ, केवल-देहाद्य्-आत्म-दृष्टीनां च | अतः कर्तुर् अभावाच् छास्त्रानर्थक्यम् इति चेत्, न | यथा-प्रसिद्धित एव प्रवृत्ति-निवृत्त्य्-उपपत्तेः | ईश्वर-क्षेत्रज्ञैकत्व-दर्शी ब्रह्म-वित् तावन् न प्रवर्तते | तथा नैरात्म्यवाद्य् अपि नास्ति पर-लोक इति न प्रवर्तते | यथा-प्रसिद्धितस् तु विधि-प्रतिषेध-शास्त्र-श्रवणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्म-विशेषानभिज्ञः कर्म-फल-संजात-तृष्णः श्रद्दधानतया च प्रवर्तते | इति सर्वेषां न प्रत्यक्षम् | अतो न शास्त्रानर्थक्यम् ||
26 SK विवेकिनाम् अप्रवृत्ति-दर्शनात् तद्-अनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्, न | कस्यचिद् एव विवेकोपपत्तेः | अनेकेषु हि प्राणिषु कश्चिद् एव विवेकी स्यात्, यथेदानीम् | न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादि-दोष-तन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृत्ति-दर्शनात्, स्वाभाव्याच् च प्रवृत्तेः | स्वभावस् तु प्रवर्तते [Gईता ५.१४] इति हि उक्तम् ||
27 SK तस्मात् अविद्या-मात्रं संसारो यथा-दृष्ट-विषय एव | न क्षेत्रज्ञस्य केवलस्याविद्या तत्-कार्यं च | न च मिथ्या-ज्ञानं परमार्थ-वस्तु दूषयितुं समर्थम् | न ह्य् ऊषर-देशं स्नेहेन पङ्की-कर्तुं शक्नोति मरीच्य्-उदकम् | तथाविद्या क्षेत्रज्ञस्य न किंचित् कर्तुं शक्नोति | अतश् चेदम् उक्तम् - क्षेत्रज्ञं चापि मां विद्धि | अज्ञानेनावृतं ज्ञानम् [Gईता ५.१५] इति च ||
28 SK अथ किम् इदं संसारिणाम् इवाहम् एवम् ममैवेदम् इति पण्डितानाम् अपि ? सृणु | इदं तत् पाण्डित्यम्, यत् क्षेत्र एवात्म-दर्शनम् | यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुस् ततो न भोगं कर्म वाकाङ्क्षेयुर् मम स्याद् इति | विक्रियैव भोग-कर्मणी | अथैवं सति, फलार्थित्वाद् अविद्वान् प्रवर्तते | विदुषः पुनर् अविक्रियात्म-दर्शिनः फलार्थित्वाभावात् प्रवृत्त्य्-अनुपपत्तौ कार्य-करण-संघात-व्यापारोपरमे निवृत्तिर् उपचर्यते ||
29 SK इदं चान्यत् पाण्डित्यं कस्यचिद् अस्तु - क्षेत्रज्ञ ईश्वर एव | क्षेत्रं चान्यत् क्षेत्रज्ञस्यैव विषयः | अहं तु संसारी सुखी दुःखी च | संसारोपरमश् च मम कर्तव्यः क्षेत्र-क्षेत्रज्ञ-विज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात् कृत्वा तत्-स्वरूपावस्थानेनेति | यश् चैवं बुध्यते, यश् च बोधयति, नासौ क्षेत्रज्ञ इति | एवं मन्वानो यः स पण्डितापशब्दः | संसार-मोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति | आत्महा स्वयं मूढो ऽन्यां च व्यामोहयति शास्त्रार्थ-संप्रदाय-रहितत्वात्, श्रुत-हानिम् अश्रुत-कल्पनां च कुर्वन् | तस्मात् असंप्रदाय-वित् सर्व-शास्त्र-विद् अपि मूर्खवद् एव उपेक्षणीयः ||
30 SK यत् तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति | क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग इति | एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोर् वैलक्षण्याभ्युपगमाद् इति | कथम् ? अविद्या-परिकल्पित-दोषेण तद्-विषयं वस्तु पारमार्थिकं न दुष्यतीति | तथा च दृष्टन्तो दर्शितः - मरीच्य्-अम्भसा ऊषर-देशो न पङ्कीक्रियत इति | संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग-दोषो ऽपि संसार-संसारिणोर् अविद्या-कल्पितत्वोपपत्त्या प्रत्युक्तः ||
31 SK ननु अविद्यावत्त्वम् एव क्षेत्रज्ञस्य संसारित्व-दोषः | तत्-कृतं च सुखित्व-दुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न | ज्ञेयस्य क्षेत्र-धर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्-कृत-दोषानुपपत्तेः | यावत् किंचित् क्षेत्रज्ञस्य दोष-जातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्र-धर्मत्वम् एव, न क्षेत्रज्ञ-धर्मत्वम् | न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः | यदि हि संसर्गः स्यात्, ज्ञेयत्वम् एव नोपपद्येत | यद्य् आत्मनो धर्मो ऽविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते | कथं वा क्षेत्रज्ञ-धर्मः | ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्य् अवधारिते, अविद्या-दुःखित्वादेः क्षेत्रज्ञ-विशेषणत्वं क्षेत्रज्ञ-धर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते ऽविद्या-मात्रावष्टम्भात् केवलम् ||
32 SK अत्राह - साविद्या कस्य ? इति | यस्य दृश्यते तस्यैव | कस्य दृश्यते ? इति | अत्रोच्यते - अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः | कथम् ? दृश्यते चेद् अविद्या, तद्वन्तम् अपि पश्यसि | न च तद्वत्य् उपलभ्यमाने सा कस्य ? इति प्रश्नो युक्तः | न हि गोमति उपलभ्यमाने गावः कस्य ? इति प्रश्नो ऽर्थवान् भवति |
33 SK ननु विषमो दृष्टान्तः | गवां तद्वतश् च प्रत्यक्षत्वात् तत्-संबन्धो ऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः | न तथाविद्या तद्वांश् च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात् | अप्रत्यक्षेणाविद्यावताविद्या-संबन्धे ज्ञाते, किं तव स्यात् ? अविद्याया अनर्थ-हेतुत्वात् परिहर्तव्या स्यात् | यस्याविद्या, स तां परिहरिष्यति |
34 SK ननु ममैवाविद्या | जानासि तर्ह्य् अविद्यां तद्वन्तं च आत्मानम् | जानामि, न तु प्रत्यक्षेण | अनुमानेनश् चेज् जानासि, कथं संबन्धग्रहणम् ? न हि तव ज्ञातुः ज्ञेय-भूतयाविद्यया तत्-काले संबन्धो ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुर् उपयुक्तत्वात् | न च ज्ञातुर् अविद्याया च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत् तद्-विषयं संभवति | अनवस्था-प्राप्तेः | यदि ज्ञात्रापि ज्ञेय-संबन्धो ज्ञायते, अन्यो ज्ञाता कल्प्यः स्यात्, तस्याप्य् अन्यः, तस्याप्य् अन्यः इत्य् अनवस्थापरिहार्या | यदि पुनर् अविद्या ज्ञेया, अन्यद् वा ज्ञेयं ज्ञेयम् एव | तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति | यदा चैवम्, अविद्या-दुःखित्वाद्यैर् न ज्ञातुः क्षेत्रज्ञस्य किंचित् दुष्यति ||
35 SK ननु अयम् एव दोषः, यत् दोषवत्-क्षेत्र-विज्ञातृत्वम् | न च विज्ञान-स्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् | यथोष्णता-मात्रेणाग्नेस् तप्ति-क्रियोपचारः, तद्वत् | यथात्र भगवता क्रियाकारक-फलात्मत्वाभाव आत्मनि स्वत एव दर्शितः - अविद्याध्यारोपित एव क्रिया-कारकादिर् आत्मन्य् उपचर्यते | तथा तत्र तत्र य एनं वेत्ति हन्तारम् [Gईता २.१९], प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [Gईता ३.२७], नादत्ते कस्यचित् पापम् [Gईता ५.१५] इत्य् आदि-प्रकरणेषु दर्शितः | तथैव च व्याख्यातम् अस्माभिः | उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ||
13.2 SK हन्त ! तर्ह्य् आत्मनि क्रिया-कारक-फलात्मतायाः स्वतो ऽभावे, अविद्यया चाध्यारोपितत्वे, कर्माण्य् अविद्वत्-कर्तव्यान्य् एव, न विदुषाम् इति प्राप्तम् | सत्यम् एवं प्राप्तम्, एतद् एव च न हि देह-भृता शक्यम् इत्य् अत्र दर्शयिष्यामः | सर्व-शास्त्रार्थोपसंहार-प्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा इत्य् अत्र विशेषतो दर्शयिष्यामः | अलम् इह बहु-प्रपञ्चनेन, इति उपसंह्रियते ||Bह्GS_१३.२||
37 SK ==============================
38 SK इदं शरीरम् [Gईता १३.२] इत्य्-आदि-श्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रह-श्लोको ऽयम् उपन्यस्यते तत् क्षेत्रं यच् चेत्य् आदि, व्याचिख्यासितस्य ह्य् अर्थस्य संग्रहोपन्यासो न्याय्य इति -
13.3 SK तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् | स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ||Bह्G_१३.३||
13.3 SK यन् निर्दिष्टम् इदं शरीरम् इति तत् तच्-छब्देन परामृशति | यच् च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैर् धर्मैः | च-शब्दः समुच्चयार्थः | यद्-विकारि यो विकारो यस्य तत् यद्-विकारि, यतो यस्माच् च यत्, कार्यम् उत्पद्यते इति वाक्य-शेषः | स च यः क्षेत्रज्ञो निर्दिष्टः स यत्-प्रभावो ये प्रभावा उपाधि-कृताः शक्तयो यस्य स यत्-प्रभावश् च | तत् क्षेत्र-क्षेत्रज्ञयोर् याथात्म्यं यथा-विशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु | श्रुत्वावधारय इत्य् अर्थः ||Bह्GS_१३.३||
41 SK ==============================
42 SK तत् क्षेत्र-क्षेत्रज्ञ-याथात्म्यं विवक्षितं स्तौति श्रोतृ-बुद्धि-प्ररोचनार्थम् -
13.4 SK ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् | ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ||Bह्G_१३.४||
13.4 SK ऋषिभिर् वसिष्ठादिभिर् बहुधा बहु-प्रकारं गीतं कथितम् | छन्दोभिश् छन्दांसि ऋग्-आदीनि तैश् छन्दोभिर् विविधैर् नाना-भावैर् नाना-प्रकारैः पृथग् विवेकतो गीतम् | किं च, ब्रह्म-सूत्र-पदैश् चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्म-सूत्राणि तैः पद्यते गम्यते ज्ञायत इति तानि पदान्य् उच्यन्ते तैर् एव च क्षेत्र-क्षेत्रज्ञ-याथात्म्यम् गीतम् इत्य् अनुवर्तते | आत्मेत्य् एवोपासीत इत्य् एवम् आदिभिर् ब्रह्म-सूत्र-पदैर् आत्मा ज्ञायते | हेतुमद्भिर् युक्ति-युक्तैर् विनिश्चितैर् निःसंशय-रूपैर् निश्चित-प्रत्ययोत्पादकैर् इत्य् अर्थः ||Bह्GS_१३.४||
45 SK ==============================
46 SK स्तुत्याभिमुखीभूतायार्जुनायाह भगवान् -
13.5 SK महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ||Bह्G_१३.५||
13.5 SK महा-भूतानि महान्ति च तानि सर्व-विकार-व्यापकत्वाद् भूतानि च सूक्ष्माणि | स्थूलानि त्व् इन्द्रिय-गोचर-शब्देनाभिधायिष्यन्ते | अहंकारो महा-भूत-कारणम् अहं-प्रत्यय-लक्षणः | अहंकार-कारणं बुद्धिर् अध्यवसाय-लक्षणा | तत्-कारणम् अव्यक्तम् एव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वर-शक्तिर् मम माया दुरत्यया इत्य् उक्तम् | एव-शब्दः प्रकृत्य्-अवधारणार्थ एतावत्य् एवाष्टधा भिन्ना प्रकृतिः | च-शब्दो भेद-समुच्चयार्थः | इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्य्-उत्पादकत्वाद् बुद्धीन्द्रियाणि | वाक्-पाण्य्-आदीनि पञ्च कर्म-निर्वर्तकत्वात् कर्मेन्द्रियाणि | तानि दश | एकं च | किं तत् ? मन एकादशं संकल्पाद्यात्मकम् | पञ्च चेन्द्रिय-गोचराः शब्दादयो विषयाः | तान्य् एतानि सांख्याश् चतुर्-विंशति-तत्त्वान्य् आचक्षते ||Bह्GS_१३.५||
49 SK ==============================
50 SK अथेदानीं आत्म-गुणाः इति यान् आचक्षते वैशेषिकास् ते ऽपि क्षेत्र-धर्मा एव, न तु क्षेत्रज्ञस्येत्य् आह भगवान् -
13.6 SK इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः | एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ||Bह्G_१३.६||
13.6 SK इच्छा यज्-जातीयं सुख-हेतुम् अर्थम् उपलब्धवान् पूर्वम्, पुनस् तज्-जातीयम् उपलभमानस् तम् आदातुम् इच्छति सुख-हेतुर् इति | सेयं इच्छान्तः-करण-धर्मो ज्ञेयत्वात् क्षेत्रम् | तथा द्वेषः, यज्-जातीयम् अर्थं दुःख-हेतुत्वेनानुभूतवान्, पुनस् तज्-जातीयम् अर्थम् उपलभमानस् तं द्वेष्टि | सो ऽयं द्वेषो ज्ञेयत्वात् क्षेत्रम् एव | तथा सुखम् अनुकूलं प्रसन्न-सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रम् एव | दुःखं प्रतिकूलात्मकम् | ज्ञेयत्वात् तद् अपि क्षेत्रम् | संघातो देहेन्द्रियाणां संहतिः | तस्याम् अभिव्यक्तान्तःकरण-वृत्तिः, तप्त इव लोह-पिण्डे ऽग्निः | आत्म-चैतन्याभास-रस-विद्धा चेतना | सा च क्षेत्रं ज्ञेयत्वात् | धृतिर् ययावसाद-प्राप्तानि देहेन्द्रियाणि ध्रियन्ते | सा च ज्ञेयत्वात् क्षेत्रम् | सर्वान्तः-करण-धर्मोपलक्षणार्थम् इच्छादि-ग्रहणम् | यत उक्तम् उपसंहरति - एतद् इति | एतत् क्षेत्रं समासेन स-विकारं सह विकारेण महद्-आदिना उदाहृतम् उक्तम् ||Bह्GS_१३.६||
53 SK ==============================
54 SK यस्य क्षेत्र-भेद-जातस्य संहतिः इदं शरीरं क्षेत्रम् [Gईता १३.२] इत्य् उक्तम् | तत् क्षेत्रं व्याख्यातं महा-भूतादि-भेद-भिन्नं धृत्य्-अन्तम् | क्षेत्रज्ञो वक्ष्यमाण-विशेषणः - यस्य स-प्रभावस्य क्षेत्रज्ञस्य परिज्ञानाद् अमृतत्वं भवति, तम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदिना स-विशेषणं स्वयम् एव वक्ष्यति भगवान् | अधुना तु तज्-ज्ञान-साधन-गणम् अमानित्वादि-लक्षणम्, यस्मिन् सति तज्-ज्ञेय-विज्ञाने योग्यो ऽधिकृतो भवति, यत्-परः संन्यासी ज्ञान-निष्ठ उच्यते, तम् अमानित्वादि-गणं ज्ञान-साधनत्वाज् ज्ञान-शब्द-वाच्यं विदधाति भगवान् -
13.7 SK अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् | आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ||Bह्G_१३.७||
13.7 SK अमानित्वं मानिनो भावः मानित्वम् आत्मनो श्लाघनम्, तद्-अभावो ऽमानित्वम् | अदम्भित्वं स्व-धर्म-प्रकटीकरणं दम्भित्वम्, तद्-अभावो ऽदम्भित्वम् | अहिंसा हिंसनं प्राणिनाम् अपीडानम् | क्षान्तिः परापराध-प्राप्ताव् अविक्रिया | आर्जवम् ऋजु-भावो ऽवक्रत्वम् | आचार्योपासनं मोक्ष-साधनोपदेष्टुर् आचार्यस्य शुश्रूषादि-प्रयोगेण सेवनम् | शौचं काय-मलानां मृज्-जलाभ्यां प्रक्षालनम् | अन्तश् च मनसः प्रतिपक्ष-भावनया रागादि-मलानाम् अपनयनं शौचम् | स्थैर्यं स्थिर-भावः, मोक्ष-मार्ग एव कृताध्यवसायत्वम् | आत्म-विनिग्रह आत्मनो ऽपकारकस्य आत्म-शब्द-वाच्यस्य कार्य-करण-संघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्-मार्ग एव निरोध आत्म-विनिग्रहः ||Bह्GS_१३.७||
57 SK ==============================
13.8 SK किं च - इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च | जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ||Bह्G_१३.८||
13.8 SK इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विराग-भावो वैराग्यम् | अनहंकारो ऽहंकाराभाव एव च | जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनं जन्म च मृत्युश् च जरा च व्याधयश् च दुःखानि च तेषु जन्मादि-दुःखान्तेषु प्रत्येकं दोषानुदर्शनम् | जन्मनि गर्भ-वास-योनि-द्वार-निःसरणं दोषः, तस्यानुदर्शनम् आलोचनम् | तथा मृत्यौ दोषानुदर्शनम् | तथा जरायां प्रज्ञा-शक्ति-तेजो-निरोध-दोषानुदर्शनं परिभूतता चेति | तथा व्याधिषु शिरो-रोगादिषु दोषानुदर्शनम् | तथा दुःखेषु अध्यात्माधिभूताधिदैव-निमित्तेषु | अथवा दुःखान्य् एव दोषो दुःख-दोषस् तस्य जन्मादिषु पूर्ववद् अनुदर्शनम् | दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः | दुःख-निमित्तत्वाज् जन्मादयो दुःखम्, न पुनः स्वरूपेणैव दुःखम् इति | एवं जन्मादिषु दुःख-दोषानुदर्शनाद् देहेन्द्रियादि-विषय-भोगेषु वैराग्यम् उपजायते | ततः प्रत्यग्-आत्मनि प्रवृत्तिः करणानाम् आत्म-दर्शनाय | एवं ज्ञान-हेतुत्वाज् ज्ञानम् उच्यते जन्मादि-दुःख-दोषानुदर्शनम् ||Bह्GS_१३.८||
60 SK ==============================
13.9 SK किं च - असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु | नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ||Bह्G_१३.९||
13.9 SK असक्तिः सक्तिः सङ्ग-निमित्तेषु विषयेषु प्रीति-मात्रम्, तद्-अभावो ऽसक्तिः | अनभिष्वङ्गो ऽभिष्वङ्गाभावः | अभिष्वङ्गो नाम आसक्ति-विशेष एवानन्यात्म-भावना-लक्षणः | यथान्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी, दुःखी च, जीवति मृते वाहम् एव जीवामि मरिष्यामि चेति | क्व ? इत्य् आह - पुत्र-दार-गृहादिषु | पुत्रेषु दारेषु गृहेष्व् आदि-ग्रहणाद् अन्येष्व् अप्य् अत्यन्तेष्टेषु दास-वर्गादिषु | तच् चोभयं ज्ञानार्थत्वाज् ज्ञानम् उच्यते | नित्यं च सम-चित्तत्वं तुल्य-चित्तता | क्व ? इष्टानिष्टोपपत्तिष्व् इष्टानाम् अनिष्टानां चोपपत्तयः संप्राप्तयस् तास्व् इष्टानिष्टोपपत्तिषु नित्यम् एव तुल्य-चित्तता | इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु | तच् चैतन् नित्यं सम-चित्तत्वं ज्ञानम् ||Bह्GS_१३.९||
63 SK ==============================
13.10 SK किं च - मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी | विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ||Bह्G_१३.१०||
13.10 SK मयि चेश्वरे ऽनन्य-योगेन अपृथक्-समाधिना नान्यो भगवतो वासुदेवात् परो ऽस्ति, अतः स एव नो गतिर् इत्य् एवं निश्चिताव्यभिचारिणी बुद्धिर् अनन्य-योगः, तेन भजनं भक्तिर् न व्यभिचरण-शीला अव्यभिचारिणी | सा च ज्ञानम् | विविक्त-देश-सेवित्वम् | विविक्तः स्वभावतः संस्कारेण वाशुच्य्-आदिभिः सर्प-व्याघ्रादिभिश् च रहितो ऽरण्य-नदी-पुलिन-देव-गृहादिभिर् विविक्तो देशः, तं सेवितुं शीलम् अस्येति विविक्त-देश-सेवी, तद्-भावो विविक्त-देश-सेवित्वम् | विविक्तेषु हि देशेषु चित्तं प्रसीदति यतस् ततः आत्मादि-भावना विविक्त उपजायते | अतो विवक्त-देश-सेवित्वं ज्ञानम् उच्यते | अरतिर् अरमणं जन-संसदि | जनानां प्राकृतानां संस्कार-शून्यानाम् अविनीतानां संसत् समवायो जन-संसत् | न संस्कारवतां विनीतानां संसत् | तस्या ज्ञानोपकारकत्वात् | अतः प्राकृत-जन-संसद्य् अरतिर् ज्ञानार्थत्वाज् ज्ञानम् ||Bह्GS_१३.१०||
66 SK ==============================
13.11 SK किं च - अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् | एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ||Bह्G_१३.११||
13.11 SK अध्यात्म-ज्ञान-नित्यत्वम् आत्मादि-विषयं ज्ञानम् अध्यात्म-ज्ञानम्, तस्मिन् नित्य-भावो नित्यत्वम् | अमानित्वादीनां ज्ञान-साधनानां भावना-परिपाक-निमित्तं तत्त्व-ज्ञानम्, तस्यार्थो मोक्षः संसारोपरमः | तस्यालोचनं तत्त्व-ज्ञानार्थ-दर्शनम् | तत्त्व-ज्ञान-फलालोचने हि तत्-साधनानुष्ठाने प्रवृत्तिः स्याद् इति | एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् उक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् | अज्ञानं यद् अतो ऽस्माद् यथोक्ताद् अन्यथा विपर्ययेण | मानित्वं दम्भित्वं हिंसा क्षान्तिर् अनार्जवम् इत्य् आद्य् अज्ञानं विज्ञेयं परिहरणाय, संसार-प्रवृत्ति-कारणत्वाद् इति ||Bह्GS_१३.११||
69 SK ==============================
70 SK यथोक्तेन ज्ञानेन ज्ञातव्यं किम् ? इत्य् आकाङ्क्षायाम् आह -
13.12 SK ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते | अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ||Bह्G_१३.१२||
72 SK ननु यमाः नियमाश् चामानित्वादयः | न तैर् ज्ञेयं ज्ञायते | न ह्य् अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् | सर्वत्रैव च यद्-विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते | न ह्य् अन्य-विषयेण ज्ञानेनान्यद् उपलभ्यते, यथा घट-विषयेण ज्ञानेनाग्निः | नैष दोषः | ज्ञान-निमित्तत्वाज् ज्ञानम् उच्यत इति ह्य् अवोचाम | ज्ञान-सहकारि-कारणत्वाच् च | ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि | किं-फलं तत् ? इति प्ररोचनेन श्रोतुर् अभिमुखीकरणायाह - यज् ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते, न पुनर् म्रियत इत्य् अर्थः | अनादिमत् आदिर् अस्यास्तीति आदिमत्, नादिमद् अनादिमत् | किं तत् ? परं निरतिशयं ब्रह्म, ज्ञेयम् इति प्रकृतम् |
73 SK अत्र केचित् अनादि मत्-परम् इति पदं छिन्दन्ति, बहु-व्रीहिणोक्ते ऽर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति | अर्थ-विशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा शक्तिर् यस्य तन् मत्-परम् इति | सत्यम् एवम् अपुनर्-उक्तं स्यात् | अर्थश् चेत् संभवति | न त्व् अर्थः संभवति, ब्रह्मणः सर्व-विशेष-प्रतिषेधेनैव विजिज्ञापयिषित्वान् न सत् तन् नासद् उच्यते इति | विशिष्ट-शक्तिमत्त्व-प्रदर्शनं विशेष-प्रतिषेधश् चेति विप्रतिषिद्धम् | तस्मात् मतुपो बहु-व्रीहिणा समानार्थत्वे ऽपि प्रयोगो श्लोक-पूरणार्थः | अमृतत्व-फलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह - न सत् तज् ज्ञेयम् उच्यते इति नाप्य् असत् तद् उच्यते ||
74 SK ननु महता परिकर-बन्धेन कण्ठ-रवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपम् उक्तं न सत् तन् नासद् उच्यत इति | न, अनुरूपम् एवोक्तम् | कथम् ? सर्वासु ह्य् उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [BAU २.३.६] अस्थूलम् अनणु [BAU ३.८.८] इत्य् आदि-विशेष-प्रतिषेधेनैव निर्दिश्यते, नेदं तद् इति वाचो ऽगोचत्वात् ||
75 SK ननु न तद् अस्ति, यद् वस्त्व् अस्ति-शब्देन नोच्यते | अथास्ति-शब्देन नोच्यते, नास्ति तज् ज्ञेयम् | विप्रतिषिद्धं च - ज्ञेयं तद् अस्ति-शब्देन नोच्यते इति च | न तावन् नास्ति, नास्ति-बुद्ध्य्-अविषयत्वात् ||
76 SK ननु सर्वा बुद्धयो ऽस्ति-नास्ति-बुद्ध्य्-अनुगता एव | तत्रैवं सति ज्ञेयम् अप्य् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् | न, अतीन्द्रियत्वेनोभय-बुद्ध्य्-अनुगत-प्रत्ययाविषयत्वात् | यद् धीन्द्रिय-गम्यं वस्तु घटादिकम्, तद् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् | इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैक-प्रमाण-गम्यत्वान् न घटादिवद् उभय-बुद्ध्य्-अनुगत-प्रत्यय-विषयम् इत्य् अतो न सत् तन् नासद् इत्य् उच्यते ||
77 SK यत् तूक्तम् - विरुद्धम् उच्यते, ज्ञेयं तन् न सत् तन् नासद् उच्यत इति | न विरुद्धम्, अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [KएनU १.३] इति श्रुतेः | श्रुतिर् अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम् आरभ्य यज्ञम् को हि तद् वेद यद्य् अमुष्मिन् लोके ऽस्ति वा न वेति [Tऐत्त्S ६.१.१] इत्य् एवम् इति चेत्, न | विदिताविदिताभ्याम् अन्यत्व-श्रुतेर् अवश्य-विज्ञेयार्थ-प्रतिपादन-परत्वात् यद्य् अमुष्मिन् इत्य् आदि तु विधि-शेषो ऽर्थ-वादः | उपपत्तेश् च सद्-असद्-आदि-शब्दैर् ब्रह्म नोच्यत इति |
13.12 SK सर्वो हि शब्दो ऽर्थ-प्रकाशनाय प्रयुक्तः श्रूयमाणश् च श्रोतृभिर् जाति-क्रिया-गुण-संबन्ध-द्वारेण संकेत-ग्रहण-स-व्यपेक्षार्थं प्रत्याययति | नान्यथा, अदृष्टत्वात् | तद् यथा - गौर् अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतः | न तु ब्रह्म जातिमत्, अतो न सद्-आदि-शब्द-वाच्यम् | नापि गुणवत्, येन गुण-शब्देनोच्येत, निर्गुणत्वात् | नापि क्रिया-शब्द-वाच्यं निष्क्रियत्वान् निष्कलं निष्क्रियं शान्तम् [Śवेत्U ६.१९] इति श्रुतेः | न च संबन्धी, एकत्वात् | अद्वयत्वाद् अविषयत्वाद् आत्मत्वाच् च न केनचित्, शब्देनोच्यत इति युक्तम् | यतो वाचो निवर्तन्ते [Tऐत्त्U २.९] इत्य् आदि-श्रुतिभिश् च ||Bह्GS_१३.१२||
79 SK ==============================
80 SK सच्-छब्द-प्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां ज्ञेयस्य सर्व-प्राणि-करणोपाधि-द्वारेण तद्-अस्तित्वं प्रतिपादयन् तद्-आशङ्का-निवृत्त्य्-अर्थम् आह -
13.13 SK सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् | सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ||Bह्G_१३.१३||
13.13 SK सर्वतः पाणि-पादं सर्वतः पाणयः पादाश् चास्येति सर्वतः पाणि-पादं तज् ज्ञेयम् | सर्व-प्राणि-करणोपाधिभिः क्षेत्रज्ञस्यास्तित्वं विभाव्यते | क्षेत्रज्ञश् च क्षेत्रोपाधित उच्यते | क्षेत्रं च पाणि-पादादिभिर् अनेकधा भिन्नम् | क्षेत्रोपाधि-भेद-कृतं विशेष-जातं मिथ्यैव क्षेत्रज्ञस्य, इति तद्-अपनयनेन ज्ञेयत्वम् उक्तम् न सत् तन् नासद् उच्यते इति | उपाधि-कृतं मिथ्या-रूपम् अप्य् अस्तित्वाधिगमाय ज्ञेय-धर्मवत् परिकल्प्य उच्यते सर्वतः पाणि-पादम् इत्य् आदि | तथा हि संप्रदाय-विदां वचनम् - अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति | सर्वत्र सर्व-देहावयवत्वेन गम्यमानाः पाणि-पादादयो ज्ञेय-शक्ति-सद्-भाव-निमित्त-स्वकार्या इति ज्ञेय-सद्-भावे लिङ्गानि ज्ञेयस्येति उपचारत उच्यन्ते | तथा व्याख्येयम् अन्यत् | सर्वतः पाणि-पादं तज् ज्ञेयम् | सर्वतो ऽक्षि-शिरो-मुखं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतो ऽक्षि-शिरो-मुखम् | सर्वतः श्रुतिमत् | श्रुतिः श्रवणेन्द्रियम्, तत् यस्य तत् श्रुतिमत् | लोके प्राणि-निकाये | सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते ||Bह्GS_१३.१३||
83 SK ==============================
84 SK उपाधिभूत-पाणि-पादादीन्द्रियाध्यारोपणाज् ज्ञेयस्य तद्वत्ताशङ्का मा भूद् इत्य् एवम् अर्थः श्लोकारम्भः -
13.14 SK सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् | असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ||Bह्G_१३.१४||
86 SK सर्वेन्द्रिय-गुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रिय-कर्मेन्द्रियाख्यानि, अन्तः-करणे च बुद्धि-मनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रिय-ग्रहणेन गृह्यन्ते | अपि च, अन्तः-करणोपाधि-द्वारेणैव श्रोत्रादीनाम् अपि उपाधित्वम् इत्य् अतो ऽन्तः-करण-बहिष्करणोपाधि-भूतैः सर्वेन्द्रिय-गुणैर् अध्यवसाय-संकल्प-श्रवण-वचनादिभिर् अवभासते इति सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयम् इत्य् अर्थः | ध्यायतीव लेलायतीव [BAU ४.३.७] इति श्रुतेः |
13.14 SK कस्मात् पुनः कारणान् न व्यापृतम् एवेति गृह्यत इत्य् अतः आह - सर्वेन्द्रिय-विवर्जितम्, सर्व-करण-रहितम् इत्य् अर्थः | अतो न करण-व्यापारैः व्यापृतं तज् ज्ञेयम् | यस् त्व् अयं मन्त्रः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स सृणोत्य् अकर्णः [Śवेत्U ३.१९] इत्य् आदिः | स सर्वेन्द्रियोपाधि-गुणानुगुण्य-भजन-शक्तिमत् तज् ज्ञेयम् इत्य् एवं प्रदर्शनार्थः, न तु साक्षाद् एव जवनादि-क्रियावत्त्व-प्रदर्शनार्थः | अन्धो मणिम् अविन्दद् [Tऐत्त्Ā १.११] इत्य् आदि-मन्त्रार्थवत् तस्य मन्त्रस्यार्थः | यस्मात् सर्व-करण-वर्जितं ज्ञेयम्, तस्माद् असक्तं सर्व-संश्लेषवर्जितम् | यद्यप्य् एवम्, तथापि सर्व-भृच् चैव | सद्-आस्पदं हि सर्वं सर्वत्र सद्-बुद्ध्य्-अनुगमात् | न हि मृगतृष्णिकादयो ऽपि निरास्पदा भवन्ति | अतः सर्व-भृत् सर्वं बिभर्तीति | स्याद् इदं चान्यज् ज्ञेयस्य सत्त्वाधिगम-द्वारम् - निर्गुणं सत्त्व-रजस्-तमांसि गुणास् तैर् वर्जितं तज् ज्ञेयम्, तथापि गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारेण सुख-दुःख-मोहाकार-परिणतानां भोक्तृ चोपलब्धृ च तज् ज्ञेयम् इत्य् अर्थः ||Bह्GS_१३.१४||
88 SK ==============================
13.15 SK किं च - बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च | सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ||Bह्G_१३.१५||
90 SK बहिस् त्वक्-पर्यन्तं देहम् आत्मत्वेनाविद्या-कल्पितम् अपेक्ष्य तम् एवाववधिं कृत्वा बहिर् उच्यते | तथा प्रत्यग्-आत्मानम् अपेक्ष्य देहम् एवावधिं कृत्वा अन्तर् उच्यते | बहिर् अन्तश् चेत्य् उक्ते मध्ये ऽभावे प्राप्ते, इदम् उच्यते - अचरं चरम् एव च, यच् चराचरं देहाभासम् अपि तद् एव ज्ञेयं, यथा रज्जु-सर्पाभासः |
13.15 SK यद्य् अचरं चरम् एव च स्यात् व्यवहार-विषयं सर्वं ज्ञेयम्, किम्-अर्थम् इदम् इति सर्वैर् न विज्ञेयम् ? इत्य् उच्यते - सत्यं सर्वाभासं तत् | तथापि व्योमवत् सूक्ष्मम् | अतः सूक्ष्मत्वात् स्वेन रूपेण तज् ज्ञेयम् अप्य् अविज्ञेयम् अविदुषाम् | विदुषां तु, आत्मैवेदं सर्वम् [BAU ७.२५.२] ब्रह्मैवेदं सर्वम् [BAU २.५.१] इत्य् आदि-प्रमाणतो नित्यं विज्ञातम् | अविज्ञाततया दूर-स्थं वर्ष-सहस्र-कोट्याप्य् अविदुषाम् अप्राप्यत्वात् | अन्तिके च तत्, आत्मत्वाद् विदुषाम् ||Bह्GS_१३.१५||
92 SK ==============================
13.16 SK किं च - अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् | भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||Bह्G_१३.१६||
13.16 SK अविभक्तं च प्रतिदेहं व्योमवत् तद् एकम् | भूतेषु सर्व-प्राणिषु विभक्तम् इव च स्थितं देहेष्व् एव विभाव्यमानत्वात् | भूत-भर्तृ च भूतानि बिभर्ति तज् ज्ञेयं भूत-भर्तृ च स्थिति-काले | प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् | उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं यथा रज्ज्वादिः सर्पादेर् मिथ्या-कल्पितस्य ||Bह्GS_१३.१६||
95 SK ==============================
96 SK किं च, सर्वत्र विद्यमानम् अपि सन् नोपलभ्यते चेत्, ज्ञेयं तमस् तर्हि ? न | किं तर्हि ? -
13.17 SK ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते | ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ||Bह्G_१३.१७||
13.17 SK ज्योतिषाम् आदित्य्-आदीनाम् अपि तज् ज्ञेयं ज्योतिः | आत्म-चैतन्य-ज्योतिषेद्धानि ह्य् आदित्य्-आदीनि ज्योतींषि दीप्यन्ते, येन सूर्यस् तपति तेजसेद्धः [Tऐत्त्Bर् ३.१२.९], तस्य भासा सर्वम् इदं विभाति [Śवेत्U ६.१४] ईत्य् आदि-श्रुतिभ्यः | स्मृते च इहैव - यद् आदित्य-गतं तेजः [Gईता १५.१२] इत्य् आदेः | तमसो ऽज्ञानात् परम् अस्पृष्टम् उच्यते | ज्ञानादेर् दुःसंपादन-बुद्ध्या प्राप्तावसादस्योत्तम्भनार्थम् आह - ज्ञानम् अमानित्वादि | ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् [Gईता १३.१३] आदिनोक्तम् | ज्ञान-गम्यम् ज्ञेयम् एव ज्ञातं सज् ज्ञान-फलम् इति ज्ञान-गम्यम् उच्यते | ज्ञायमानं तु ज्ञेयम् | तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य प्राणि-जातस्य विष्ठितं विशेषेण स्थितम् | तत्रैव हि त्रयं विभाव्यते ||Bह्GS_१३.१७||
99 SK ==============================
100 SK यथोक्तार्थोपसंहारार्थो ऽयं श्लोक आरभ्यते -
13.18 SK इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ||Bह्G_१३.१८||
13.18 SK इत्य् एवं क्षेत्रं महा-भूतादि-धृत्य्-अन्तं, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तं, ज्ञेयं च ज्ञेयं यत् तत् इत्य् आदि तमसः परम् उच्यते इत्य् एवम् अन्तम् उक्तं समासतः संक्षेपतः | एतावान् सर्वो हि वेदार्थो गीतार्थश् चोपसंहृत्योक्तः | अस्मिन् सम्यग्-दर्शने को ऽधिक्रियते ? इत्य् उच्यते - मद्-भक्तो मयीश्वरे सर्वज्ञे परम-गुरौ वासुदेवे समर्पित-सर्वात्म-भावो यत् पश्यति शृणोति स्पृशति वा सर्वम् एव भगवान् वासुदेवः इत्य् एवं-ग्रहाविष्ट-बुद्धिर् मद्-भक्तः स एतद् यथोक्तं सम्यग् दर्शनं विज्ञाय, मद्-भावाय मम भावो मद्-भावः परमात्म-भावस् तस्मै मद्-भावाय उपपद्यते, मोक्षं गच्छति ||Bह्GS_१३.१८||
103 SK ==============================
104 SK तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे | एतद्-योनीनि भूतानि [Gईता ७.७] इति चोक्तम् | क्षेत्र-क्षेत्रज्ञ-प्रकृति-द्वय-योनित्वं कथं भूतानाम् इत्य् अयम् अर्थो ऽधुनोच्यते -
13.19 SK प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि | विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान् ||Bह्G_१३.१९||
106 SK प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती | तौ प्रकृति-पुरुषौ उभाव् अप्य् अनादि विद्धि, न विद्यते आदिर् ययोस् तौ अनादी | नित्येश्वरत्वाद् ईश्वरस्य तत्-प्रकृत्योर् अपि युक्तं नित्यत्वेन भवितुम् | प्रकृति-द्वयवत्त्वम् एव हीश्वरस्येश्वरत्वम् | याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-प्रलय-हेतुस् ते द्वे ऽनादी सत्यौ संसारस्य कारणम् ||
13.19 SK नादी अनादी इति तत्-पुरुष-समासं केचित् वर्णयन्ति | तेन हि किलेश्वरस्य कारणत्वं सिध्यति | यदि पुनः प्रकृति-पुरुषाव् एव नित्यौ स्यातां तत्-कृतम् एव जगत्, नेश्वरस्य जगतः कर्तृत्वम् | तद् असत् | प्राक् प्रकृति-पुरुषयोर् उत्पत्तेर् ईशितव्याभावाद् ईश्वरस्यानीश्वरत्व-प्रसङ्गात्, संसारस्य निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गात् शास्त्रानर्थक्य-प्रसङ्गाद् बन्ध-मोक्षाभाव-प्रसङ्गाच् च | नित्यत्वे पुनर् ईश्वरस्य प्रकृत्योः सर्वम् एतद् उपपन्नं भवेत् | कथम् ? विकारांश् च गुणांश् चैव | वक्ष्यमाणान् विकारान् बुद्ध्य्-आदि-देहेन्द्रियान्तान् गुणांश् च सुख-दुःख-मोह-प्रत्ययाकार-परिणतान् विद्धि जानीहि प्रकृति-संभवान् | प्रकृतिर् ईश्वरस्य विकार-कारण-शक्तिस् त्रिगुणात्मिका माया | सा संभवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश् च विद्धि प्रकृति-संभवान् प्रकृति-परिणामान् ||Bह्GS_१३.१९||
108 SK ==============================
109 SK के पुनस् ते विकाराः गुणाश् च प्रकृति-संभवाः ? इत्य् आह --
13.20 SK कार्य-करण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते | पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ||Bह्G_१३.२०||
111 SK कार्य-करण-कर्तृत्वे - कार्यं शरीरं करणानि तत्-स्थानि त्रयोदश | देहस्यारम्भकाणि भूतानि पञ्च विषयाश् च प्रकृति-संभवाः विकाराः पूर्वोक्ता इह कार्य-ग्रहणेन गृह्यन्ते | गुणाश् च प्रकृति-संभवाः सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते | तेषां कार्य-करणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्य-करण-कर्तृत्वं तस्मिन् कार्य-करण-कर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिर् उच्यते | एवं कार्य-करण-कर्तृत्वेन संसारस्य कारणं प्रकृतिः |
112 SK कार्य-कारण-कर्तृत्वे इत्य् अस्मिन्न् अपि पाठे, कार्यं यत् यस्य परिणामस् तत् तस्य कार्यं विकारो विकारि कारणं तयोर् विकार-विकारिणोः कार्य-कारणयोः कर्तृत्वे इति | अथवा, षोडाश विकाराः कार्यं सप्त प्रकृति-विकृतयः कारणम् तान्य् एव कार्य-कारणान्य् उच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिर् उच्यते, आरम्भकत्वेनैव |
13.20 SK पुरुषश् च संसारस्य कारणं यथा स्यात् तद् उच्यते - पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः, सुख-दुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुर् उच्यते | कथं पुनर् अनेन कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च प्रकृति-पुरुषयोः संसार-कारणत्वम् उच्यते ? इत्य् अत्रोच्यते - कार्य-करण-सुख-दुःख-रूपेण हेतु-फलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्यासति तद्-उपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्य-करण-सुख-दुःख-स्वरूपेण हेतु-फलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्-विपरीतस्य भोक्तृत्वेनाविद्या-रूपः संयोगः स्यात्, तदा संसारः स्याद् इति | अतो यत् प्रकृति-पुरुषयोः कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च संसार-कारणत्वम् उक्तम्, तद् युक्तम् | कः पुनर् अयं संसारो नाम ? सुख-दुःख-संभोगः संसारः | पुरुषस्य च सुख-दुःखानां संभोक्तृत्वं संसारित्वम् इति ||Bह्GS_१३.२०||
114 SK ==============================
115 SK यत् पुरुषस्य सुख-दुःखानां भोक्तृत्वं संसारित्वम् इत्य् उक्तं तस्य तत् किं-निमित्तम् इत्य् उच्यते -
13.21 SK पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् | कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ||Bह्G_१३.२१||
117 SK पुरुषो भोक्ता प्रकृति-स्थः | प्रकृताव् अविद्या-लक्षणायां कार्य-करण-रूपेण परिणतायां स्थितः प्रकृति-स्थः | प्रकृतिम् आत्मत्वेन गतः इत्य् एतत् | हि यस्मात् | तस्माद् भुङ्क्ते उपलभत इत्य् अर्थः | प्रकृतिजान् प्रकृतितो जातान् सुख-दुःख-मोहाकाराभिव्यक्तान् गुणान् सुखी, दुःखी, मूढः, पण्डितो ऽहम् इत्य् एवम् | सत्याम् अप्य् अविद्यायां सुख-दुःख-मोहेषु गुणेषु भुज्यमानेषु यः सङ्ग आत्म-भावः संसारस्य स प्रधानं कारणं यस्य पुरुषस्य जन्मनः | स यथा-कामो भवति तत् क्रतुर् भवति [BAU ४.४.५] इत्य् आदि श्रुतेः | तद् एतद् आह - कारणं हेतुर् गुण-सङ्गो गुणेषु सङ्गो ऽस्य पुरुषस्य भोक्तुः सद्-असद्-योनि-जन्मसु | सत्यश् चासत्यश् च योनयः सद्-असद्-योनयस् तासु सद्-असद्-योनुषु जन्मानि सद्-असद्-योनि-जन्मानि, तेषु सद्-असद्-योनि-जन्मषु विषय-भूतेषु कारणं गुण-सङ्गः | अथवा, सद्-असद्-योनि-जन्मसु अस्य संसारस्य कारणं गुण-सङ्ग इति संसार-पद-मध्याहार्यम् | सद्-योनयो देवादि-योनयः | असद्-योनयः पश्वादि-योनयः | सामर्थ्यात् सद्-असद्-योनयः मनुष्य-योनयो ऽप्य् अविरुद्धाः द्रष्टाव्याः ||
13.21 SK एतद् उक्तं भवति - प्रकृति-स्थत्वाख्याविद्या गुणेषु च सङ्गः कामः संसारस्य कारणम् इति | तच् च परिवर्जनाय उच्यते | अस्य च निवृत्ति-कारणं ज्ञान-वैराग्ये स-संन्यासे गीता-शास्त्रे प्रसिद्धम् | तच् च ज्ञानं पुरस्ताद् उपन्यस्तं क्षेत्र-क्षेत्रज्ञ-विषयम् यज् ज्ञात्वामृतम् अश्नुते [Gईता १२.१३] इति | उक्तं चान्यापोहेनातद्-धर्माध्यारोपेण च ||Bह्GS_१३.२१||
119 SK ==============================
120 SK तस्यैव पुनः साक्षान् निर्देशः क्रियते -
13.22 SK उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ||Bह्G_१३.२२||
122 SK उपद्रष्टा समीप-स्थः सन् द्रष्टा स्वयम् अव्यापृतः | यथा ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तटस्थो ऽन्यो ऽव्यापृतो यज्ञ-विद्या-कुशलः ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वच् च कार्य-करण-व्यापारेषु स-व्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा | अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टारः | तेषां बाह्यो द्रष्टा देहः | तत आरभ्यान्तरतमश् च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परो ऽन्तरतमो नास्ति द्रष्टा | सो ऽतिशय-सामीप्येन द्रष्टृत्वाद् उपद्रष्टा स्यात् | यज्ञोपद्रष्टृअवद् वा सर्व-विषयी-करणाद् उपद्रष्टा | अनुमन्ता च | अनुमोदनम् अनुमननं कुर्वत्सु तत्-क्रियासु परितोषस् तत्-कर्तानुमन्ता च | अथवा, अनुमन्ता कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त इव तद्-अनुकूलो विभाव्यते, तेनानुमन्ता | अथवा, प्रवृत्तान् स्व-व्यापारेषु तत्-साक्षि-भूतः कदाचिद् अपि न निवारयतीत्य् अनुमन्ता |
13.22 SK भर्ता| भरणं नाम देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्यात्म-पारार्थ्येन निमित्त-भूतेन चैतन्याभासानां यत् स्वरूप-धारणम्, तच् चैतन्यात्म-कृतम् एवेति भर्ता आत्मेत्य् उच्यते | भोक्ता | अग्न्य्-उष्णवन् नित्य-चैतन्य-स्वरूपेण बुद्धेः सुख-दुःख-मोहात्मकाः प्रत्ययाः सर्व-विषय-विषयाश् चैतन्यात्म-ग्रस्ता इव जायमाना विभक्ता विभाव्यन्ते इति भोक्ता आत्मोच्यते | महेश्वरः | सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः | परमात्मा | देहादीनां बुद्ध्य्-अन्तानां प्रत्यग्-आत्मत्वेन कल्पितानाम् अविद्यया परम उपद्रष्टृत्वादि-लक्षण आत्मेति परमात्मा | सो ऽन्तः परमात्मा इत्य् अनेन शब्देन चाप्य् उक्तः कथितः श्रुतौ | क्वासौ ? अस्मिन् देहे पुरुषः परो ऽव्यक्तात् | उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः [Gईता १३.३] इति यो वक्ष्यमाणः क्षेत्रज्ञं चापि मां विद्धि [Gईता १३.२] इति उपन्यस्तो व्याख्यायोपसंहृतश् च ||Bह्GS_१३.२२||
124 SK ==============================
125 SK तम् एतं यथोक्त-लक्षणम् आत्मानम् -
13.23 SK य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह | सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ||Bह्G_१३.२३||
127 SK य एवं यथोक्त-प्रकारेण वेत्ति पुरुषं साक्षाद् आत्म-भावेन ᳚अयम् अहम् अस्मि᳚ इति प्रकृतिं च यथोक्ताम् अविद्या-लक्षणां गुणैः स्व-विकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्व-प्रकारेण वर्तमानो ऽपि स भूयः पुनः पतिते ऽस्मिन् विद्वच्-छरीरे देहान्तराय नाभिजायते नोत्पद्यते, देहान्तरं न गृह्णातीत्य् अर्थः | अपि-शब्दात् किम् उ वक्तव्यं ? स्व-वृत्त-स्थो न जायते इत्य् अभिप्रायः ||
128 SK ननु, यद्य् अपि ज्ञानोत्पत्त्य्-अनन्तरं पुनर्-जन्माभाव उक्तः, तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तर-काल-भाविनां च यानि चातिक्रान्तानेक-जन्म-कृतानि तेषां च फलम् अदत्त्वा नाशो न युक्त इति | स्युस् त्रीणि जन्मानि कृत-विप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्ध-जन्मनां कर्मणाम् | न च कर्मणां विशेषो ऽवगम्यते | तस्मात् त्रि-प्रकाराण्य् अपि कर्माणि त्रीणि जन्मान्य् आरभेरन् | संहतानि वा सर्वाण्य् एकं जन्मारभेरन् | अन्यथा कृत-विनाशे सति सर्वत्रानाश्वास-प्रसङ्गः, शास्त्रानर्थक्यं च स्यात् | इत्य् अतः इदम् अयुक्तम् उक्तम् न स भूयो ऽभिजायते इति | न | क्षीयन्ते चास्य कर्माणि [Mउण्ड्U २.२.८], ब्रह्म वेद ब्रह्मैव भवति [Mउण्ड्U ३.२.९], तस्य तावद् एव चिरम् [CहाU ६.१४.२], इषीका-तूलवत् सर्वाणि कर्माणि प्रदूयन्ते [CहाU ५.२४.३] इत्य् आदि-श्रुति-शतेभ्य उक्तो विदुषः सर्व-कर्म-दाहः |
129 SK इहापि चोक्तो यथैधांसि [Gईता ४.३७] इत्य् आदिना सर्व-कर्म-दाहः | वक्ष्यति चोपपत्तेश् च | अविद्या-काम-क्लेश-बीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते | इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम् |
13.23 SK बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः | ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा संपद्यते पुनः [Mभ् ३.२००.१०] इति च | अस्तु तावज् ज्ञानोत्पत्त्य्-उत्तर-काल-कृतानां कर्मणां ज्ञानेन दाहः, ज्ञान-सह-भावित्वात् | न त्व् इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणाम् अतीत-जन्म-कृतानां च दाहो युक्तः | न | सर्व-कर्माणीति विशेषणात् | ज्ञानोत्तर-काल-भाविनाम् एव सर्व-कर्मणाम् इति चेत्, न | संकोचे कारणानुपपत्तेः | यत् तूक्तम् यथा वर्तमान-जन्मारम्भकाणि कर्माणि न क्षीयन्ते फल-दानाय प्रवृत्तान्य् एव सत्य् अपि ज्ञाने, तथानारब्ध-फलानाम् अपि कर्मणां क्षयो न युक्त इति, तद् असत् | कथम् ? तेषां मुक्तेषुवत् प्रवृत्त-फलत्वात् | यथा पूर्वं लक्ष्य-वेधाय मुक्त इषुः धनुषो लक्ष्य-वेधोत्तर-कालम् अपि आरब्ध-वेग-क्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीर-स्थिति-प्रयोजने निवृत्ते ऽपि, आ संस्कार-वेग-क्षयात् पूर्ववत् वर्तत एव | यथा स एव इषुः प्रवृत्ति-निमित्तानारब्ध-वेगस् त्व् अमुक्तो धनुषि प्रयुक्तो ऽपि उपसंह्रियते, तथानारब्ध-फलानि कर्माणि स्वाश्रय-स्थान्य् एव ज्ञानेन निर्बीजी-क्रियन्त इति | पतिते ऽस्मिन् विद्वच्-छरीरे न स भूयो ऽभिजायते इति युक्तम् एवोक्तम् इति सिद्धम् ||Bह्GS_१३.२३||
131 SK ==============================
132 SK अत्रात्म-दर्शने उपाय-विकल्पा इमे ध्यानादय उच्यन्ते -
13.24 SK ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना | अन्ये सांख्येन योगेन कर्म-योगेन चापरे ||Bह्G_१३.२४||
13.24 SK ध्यानेन | ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्य् उपसंहृत्य, मनश् च प्रत्यक्-चेतनयितरि, एकाग्रतया यच् चिन्तनं तद् ध्यानम् | तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः [CहाU ७.६.१] इति उपमोपादानात् | तैल-धारावत् संततो ऽविच्छिन्न-प्रत्ययो ध्यानम् | तेन ध्यानेन आत्मनि बुद्धौ पश्यन्त्य् आत्मानं प्रत्यक्-चेतनम् आत्मना स्वेनैव प्रत्यक्-चेतनेन ध्यान-संस्कृतेनान्तः-करणेन केचिद् योगिनः | अन्ये सांख्येन योगेन | सांख्यं नाम इमे सत्त्व-रजस्-तमांसि गुणा मया दृश्या अहं तेभ्यो ऽन्यस् तद्-व्यापार-साक्षि-भूतो नित्यो गुण-विलक्षण आत्मेति चिन्तनम् एष सांख्यो योगः | तेन पश्यन्ति आत्मानम् आत्मनेत्य् अनुवर्तते | कर्म-योगेन | कर्मैव योगः | ईश्वरार्पण-बुद्ध्यानुष्ठीयमानं घटन-रूपं योगार्थत्वाद् योग उच्यते गुणतः | तेन सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण चापरे ||Bह्GS_१३.२४||
135 SK ==============================
13.25 SK अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते | ते ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ||Bह्G_१३.२५||
13.25 SK अन्ये त्व् एषु विकल्पेषु अन्यतमेनाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः आचार्येभ्यः श्रुत्वा ᳚इदम् एव चिन्तयत᳚ इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति | ते ऽपि चातितरन्त्य् एव अतिक्रामन्त्य् एव मृत्युम् मृत्यु-युक्तं संसारम् इत्य् एतत् | श्रुति-परायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्ष-मार्ग-प्रवृत्तौ परं साधनं येषां ते श्रुति-परायणाः | केवल-परोपदेश-प्रमाणाः स्वयं विवेक-रहिता इत्य् अभिप्रायः | किम् उ वक्तव्यम् प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युम् अतितरन्तीत्य् अभिप्रायः ||Bह्GS_१३.२५||
138 SK ==============================
139 SK क्षेत्रज्ञं चापि मां विद्धि [Gईता १३.३] इति क्षेत्रज्ञेश्वरकत्व-विषयं ज्ञानं मोक्ष-साधनं, यज् ज्ञात्वामृतम् अश्नुते [Gईता १३.१३] इत्य् उक्तम् | तत् कस्मात् हेतोः ? इति तद्-धेतु-प्रदर्शनार्थं श्लोक आरभ्यते -
13.26 SK यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् | क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ||Bह्G_१३.२६||
141 SK यावत् यत् किंचित् संजायते समुत्पद्यते सत्त्वं वस्तु | किम् अविशेषेण ? नेत्य् आह - स्थावर-जङ्गमं स्थावरं जङ्गमं च क्षेत्र-क्षेत्रज्ञ-संयोगात् तज् जायते इत्य् एवं विद्धि जानीहि भरतर्षभ |
13.26 SK कः पुनर् अयं क्षेत्र-क्षेत्रज्ञयोः संयोगो ऽभिप्रेतः ? न तावत् रज्ज्वेव घटस्यावयव-संश्लेष-द्वारकः संबन्ध-विशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत् निरवयवत्वात् | नापि समवाय-लक्षणस् तन्तु-पटयोर् इव क्षेत्र-क्षेत्रज्ञयोर् इतरेतर-कार्य-कारण-भावानभ्युपगमात् | इत्य् उच्यते - क्षेत्र-क्षेत्रज्ञयोर् विषय-विषयिणोर् भिन्न-स्वभावयोर् इतरेतर-तद्-धर्माध्यास-लक्षणः संयोगः क्षेत्र-क्षेत्रज्ञ-स्वरूप-विवेका-भाव-निबन्धनः, रज्जु-शुक्तिकादीनां तद्-विवेक-ज्ञानाभावाद् अध्यारोपित-सर्प-रजतादि-संयोगवत् | सो ऽयम् अध्यास-स्वरूपः क्षेत्र-क्षेत्रज्ञ-संयोगो मिथ्या-ज्ञान-लक्षणः | यथा-शास्त्रं क्षेत्र-क्षेत्रज्ञ-लक्षण-भेद-परिज्ञान-पूर्वकं प्राक् दर्शित-रूपात् क्षेत्रान् मुञ्जाद् इवेषीकां यथोक्त-लक्षणं क्षेत्रज्ञं प्रविभज्य न सत् तन् नासद् उच्यते [Gईता १३.१३] इत्य् अनेन निरस्त-सर्वोपाधि-विशेषं ज्ञेयं ब्रह्म-स्वरूपेण यः पश्यति, क्षेत्रं च माया-निर्मित-हस्ति-स्वप्न-दृष्ट-वस्तुवद् गन्धर्व-नगरादिवद् असद् एव सद् इवावभासते | इत्य् एवं निश्चित-विज्ञानो यः, तस्य यथोक्त-सम्यग्-दर्शन-विरोधाद् अपगच्छति मिथ्या-ज्ञानम् | तस्य जन्म-हेतोर् अपगमाद् य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह [Gईता १३.२५] इत्य् अनेन विद्वान् भूयो नाभिजायते इति यद् उक्तम्, तद् उपपन्नम् उक्तम् ||Bह्GS_१३.२६||
143 SK ==============================
144 SK न स भूयो ऽभिजायते [Gईता १३.२४] इति सम्यग् दर्शन-फलम् अविद्यादि-संसार-बीज-निवृत्ति-द्वारेण जन्माभाव उक्तः | जन्म-कारणं चाविद्या-निमित्तकः क्षेत्र-क्षेत्रज्ञ-संयोग उक्तः | अतस् तस्याः अविद्याया निवर्तकं सम्यग्-दर्शनम् उक्तम् अपि पुनः शब्दान्तरेणोच्यते -
13.27 SK समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ||Bह्G_१३.२७||
146 SK समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् | क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादि-स्थावरान्तेषु प्राणिषु | कम् ? परमेश्वरं देहेन्द्रिय-मनो-बुद्ध्य्-अव्यक्तात्मनो ऽपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम् | तानि विशिनष्टि विनश्यत्स्व् इति | तं च परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य चात्यन्त-वैलक्षण्य-प्रदर्शनार्थम् | कथम् ? सर्वेषां हि भाव-विकाराणां जनि-लक्षणो भाव-विकारो मूलम् | जन्मोत्तर-काल-भाविनो ऽन्ये सर्वे भाव-विकारा विनाशान्ताः | विनाशात् परो न कश्चिद् अस्ति भाव-विकारः, भावाभावात् | सति हि धर्मिणि धर्मा भवन्ति | अतो ऽन्त्य-भाव-विकाराभावानुवादेन पूर्व-भाविनः सर्वे भाव-विकाराः प्रतिषिद्धा भवन्ति सह कार्यैः | तस्मात् सर्व-भूतैः वैलक्षण्यम् अत्यन्तम् एव परमेश्वरस्य सिद्धम्, निर्विशेषत्वम् एकत्वं च | य एवं यथोक्तं परमेश्वरं पश्यति, स पश्यति |
13.27 SK ननु सर्वो ऽपि लोकः पश्यति, किं विशेषणेनेति | सत्यं पश्यति | किं तु विपरीतं पश्यति | अतो विशिनष्टि - स एव पश्यतीति | यथा तिमिर-दृष्टिर् अनेकं चन्द्रं पश्यति, तम् अपेक्ष्य एक-चन्द्र-दर्शी विशिष्यते - स एव पश्यतीति | तथैवेहाप्य् एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, स विभक्तान् एकात्म-विपरीत-दर्शिभ्यो विशिष्यते - स एव पश्यतीति | इतरे पश्यन्तो ऽपि न पश्यन्ति | विपरीत-दर्शित्वात् अनेक-चन्द्र-दर्शिवद् इत्य् अर्थः ||Bह्GS_१३.२७||
148 SK ==============================
149 SK यथोक्तस्य सम्यग्-दर्शनस्य फल-वचनेन स्तुतिः कर्तव्या इति श्लोक आरभ्यते -
13.28 SK समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् | न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ||Bह्G_१३.२८||
151 SK समं पश्यन्न् उपलभमानो हि यस्मात् सर्वत्र सर्व-भूतेषु समवस्थितं तुल्यतयावस्थितम् ईश्वरम् अतीतानन्तर-श्लोकोक्त-लक्षणम् इत्य् अर्थः | समं पश्यन् किम् ? न हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वम् आत्मानम् | तत्-तद्-अहिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ||
13.28 SK ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति | कथम् उच्यते ऽप्राप्तम् न हिनस्तीति ? यथा न पृथिव्याम् नान्तरिक्षे न दिव्य् अग्निश् चेतव्यः [Tऐत्त्S ५.२.७.१] इत्य् आदि | नैष दोषः, अज्ञानाम् आत्म-तिरस्करणोपपत्तेः | सर्वो ह्य् अज्ञो ऽत्यन्त-प्रसिद्धं साक्षाद् अपरोक्षाद् आत्मानं तिरस्कृत्यानात्मानम् आत्मत्वेन परिगृह्य, तम् अपि धर्माधर्मौ कृत्वोपात्तम् आत्मानं हत्वान्यम् आत्मानम् उपादत्ते नवं, तं चैवं हत्वान्यम् | एवं तम् अपि हत्वान्यम् इत्य् एवम् उपात्तम् उपात्तम् आत्मानं हन्तीत्य् आत्महा सर्वो ऽज्ञः | यस् तु परमार्थात्मासाव् अपि सर्वदाविद्यया हत इव विद्यमान-फलाभावाद् इति सर्वे आत्म-हन एवाविद्वांसः | यस् त्व् इतरो यथोक्तात्म-दर्शी, स उभयथापि आत्मनात्मानं न हिनस्ति न हन्ति | ततो याति परां गतिम् यथोक्तं फलं तस्य भवतीत्य् अर्थः ||Bह्GS_१३.२८||
153 SK ==============================
154 SK सर्व-भूत-स्थम् ईश्वरं समं पश्यन् न हिनस्त्य् आत्मनात्मानम् [Gईता १३.२८] इत्य् उक्तम् | तद् अनुपपन्नं स्व-गुण-कर्म-वैलक्षण्य-भेद-भिन्नेष्व् आत्मसु, इत्य् एतद् आशङ्क्याह -
13.29 SK प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानम् अकर्तारं स पश्यति ||Bह्G_१३.२९||
13.29 SK प्रकृत्या प्रकृतिर् भगवतो माया त्रिगुणात्मिका | मायां तु प्रकृतिं विद्याद् [Śवेत्U ४.१०] इति मन्त्र-वर्णात् | तया प्रकृत्यैव च नान्येन महद्-आदि-कार्य-कारणाकार-परिणतया कर्माणि वाङ्-मनः-कायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्व-प्रकारैर् यः पश्यत्य् उपलभते, तथात्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितं स पश्यति, स परमार्थ-दर्शीत्य् अभिप्रायः | निर्गुणस्याकर्तुर् निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तिर् इत्य् अर्थः ||Bह्GS_१३.२९||
157 SK ==============================
158 SK पुनर् अपि तद् एव सम्यग् दर्शनं शब्दान्तरेण प्रपञ्चयति -
13.30 SK यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति | तत एव च विस्तारं ब्रह्म संपद्यते तदा ||Bह्G_१३.३०||
13.30 SK यदा यस्मिन् काले भूत-पृथग्-भावं भूतानां पृथग्-भावं पृथक्त्वम् एकस्मिन्न् आत्मनि स्थितं एक-स्थम् अनुपश्यति शास्त्राचार्योपदेशम् अनु आत्मानं प्रत्यक्षत्वेन पश्यत्य् आत्मैवेदं सर्वम् [CहाU ७.२५.२] इति | तत एव च तस्माद् एव च विस्तारं उत्पत्तिं विकासम् आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भाव-तिरोभावाव् आत्मतो ऽन्नम् [CहाU ७.२६.१] इत्य् एवम् आदि-प्रकारैर् विस्तारं यदा पश्यति ब्रह्म संपद्यते भवति तदा तस्मिन् काल इत्य् अर्थः ||Bह्GS_१३.३०||
161 SK ==============================
162 SK एकस्यात्मानः सर्व-देहात्मत्वे तद्-दोष-संबन्धे प्राप्ते, इदम् उच्यते -
13.31 SK अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः | शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ||Bह्G_१३.३१||
164 SK अनादित्वात् | अनादेर् भावो ऽनादित्वम्, आदिः कारणम्, तद् यस्य नास्ति तद् अनादि | यद् ध्य् आदिमत् तत् स्वेनात्मना व्येति | अयं त्व् अनादित्वान् निरवयव इति कृत्वा न व्येति | तथा निर्गुणत्वात् | सगुणो हि गुण-व्ययात् व्येति | अयं तु निर्गुणत्वाच् च न व्येति | इति परमात्मायम् अव्ययः | नास्य व्ययो विद्यत इत्य् अव्ययः | यत एवम् अतः शरीर-स्थो ऽपि, शरीरेषु आत्मन उपलब्धिर् भवतीति शरीर-स्थ उच्यते | तथापि न करोति | तद्-अकरणाद् एव तत्-फलेन न लिप्यते | यो हि कर्ता, स कर्म-फलेन लिप्यते | अयं त्व् अकर्ता, अतो न फलेन लिप्यते इत्य् अर्थः |
13.31 SK कः पुनर् देहेषु करोति लिप्यते च ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि [Gईता १३.२] इत्य् आदि | अथ नास्ति ईश्वराद् अन्यो देही | कः करोति लिप्यते च ? इति वाच्यम् | परो वा नास्तीति सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्-प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्यार्हत-बौद्धैश् च | तत्रायं परिहारो भगवता स्वेनैव उक्तः स्वभावस् तु प्रवर्तते [Gईता ५.१४] इति | अविद्या-मात्र-स्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तद् अस्ति | अत एवैतस्मिन् परमार्थ-सांख्य-दर्शने स्थितानां ज्ञान-निष्ठानां परमहंस-परिव्राजकानां तिरस्कृताविद्या-व्यवहाराणां कर्माधिकारो नास्तीति तत्र तत्र दर्शितं भगवता ||Bह्GS_१३.३१||
166 SK ==============================
167 SK किम् इव न करोति न लिप्यते इत्य् अत्र दृष्टान्तम् आह -
13.32 SK यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||Bह्G_१३.३२||
13.32 SK यथा सर्व-गतं व्याप्य् अपि सत् सौक्ष्म्यात् सूक्ष्म-भावाद् आकाशं खं नोपलिप्यते न संबध्यते, सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||Bह्GS_१३.३२||
170 SK ==============================
13.34 SK यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||Bह्G_१३.३४||
13.34 SK यथा प्रकाशयत्य् अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महा-भूतादि-धृत्य्-अन्तं क्षेत्रम् एकः सन् प्रकाशयति | कः ? क्षेत्री परमात्मा इत्य् अर्थः | रवि-दृष्टन्तो ऽत्र आत्मन उभयार्थो ऽपि भवति | रविवत् सर्व-क्षेत्रेष्व् एक एवात्मा, अलेपकश् चेति ||Bह्GS_१३.३४||
174 SK ==============================
175 SK समस्ताध्यायार्थोपसंहारार्थो ऽयं श्लोकः -
13.35 SK क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा | भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ||Bह्G_१३.३५||
13.35 SK क्षेत्र-क्षेत्रज्ञयोर् यथा-व्याख्यातयोर् एवं यथा-प्रदर्शित-प्रकारेणान्तरम् इतरेतर-वैलक्षण्य-विशेषं ज्ञान-चक्षुषा शास्त्राचार्य-प्रसादोपदेश-जनितम् आत्म-प्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञान-चक्षुषा, भूत-प्रकृति-मोक्षं च, भूतानां प्रकृतिर् अविद्या-लक्षणाव्यक्ताख्या, तस्या भूत-प्रकृतेर् मोक्षणम् अभाव-गमनं च ये विदुर् विजानन्ति, यान्ति गच्छन्ति ते परं परमात्म-तत्त्वं ब्रह्म, न पुनर् देहं आददते इत्य् अर्थः ||Bह्GS_१३.३५||
178 SK ==============================
179 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये क्षेत्र-क्षेत्रज्ञ-योगो नाम त्रयोदशो ऽध्यायः ||
181 SK अथ गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः (श्रीमच्-छंकर-भगवत्-पाद-विरचितम् श्रीमद्-भगवद्-गीता-भाष्यम्) सर्वम् उत्पद्यमानं क्षेत्र-क्षेत्रज्ञ-संयोगाद् उत्पद्यत इत्य् उक्तम् | तत् कथमिति, तत्-प्रदर्शनार्थम् परं भूय इत्य् आदिर् अध्याय आरभ्यते | अथवा, ईश्वर-परतन्त्रयोः क्षेत्र-क्षेत्रज्ञयोः जगत्-कारणत्वं न तु सांख्यानाम् इव स्वतन्त्रयोर् इत्य् एवम् अर्थम् | प्रकृति-स्थत्वं गुणेषु च सङ्गः संसार-कारणम् इत्य् उक्तम् | कस्मिन् गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्तीति ? गुणेभ्यश् च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यम्, इत्य् एवम् अर्थं च भगवान् उवाच -
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source