14.1 SK परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् | यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ||Bह्G_१४.१||
14.1 SK परं ज्ञानम् इति व्यवहितेन संबन्धः | भूयः पुनः पूर्वेषु सर्वेष्व् अध्यायेषु असकृद् उक्तम् अपि प्रवक्ष्यामि | तच् च परं पर-वस्तु-विषयत्वात् | किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम्, उत्तम-फलत्वात् | ज्ञानानाम् इति नामानित्वादीनाम् | किं तर्हि ? यज्ञादि-ज्ञेय-वस्तु-विषयाणाम् इति | तानि न मोक्षाय, इदं तु मोक्षायेति परोत्तम-शब्दाभ्यां स्तौति श्रोतृ-बुद्धि-रुच्य्-उत्पादनार्थम् | यज् ज्ञात्वा यज् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनो मनन-शीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतो ऽस्मात् देह-बन्धनात् ऊर्ध्वं गताः प्राप्ताः ||Bह्GS_१४.१||
3 SK ==============================
4 SK अस्याश् च सिद्धैर् ऐकान्तिकत्वं दर्शयति -
14.2 SK इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः | सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||Bह्G_१४.२||
14.2 SK इदं ज्ञानं यथोक्तम् उपाश्रित्य, ज्ञान-साधनम् अनुष्ठाय इत्य् एतत्, मम परमेश्वरस्य साधर्म्यं मत्-स्वरूपताम् आगताः प्राप्ता इत्य् अर्थः | न तु समान-धर्मता साधर्म्यम्, क्षेत्रज्ञेश्वरयोर् भेदानभ्युपगमाद् गीता-शास्त्रे | फल-वादश् चायं स्तुत्य्-अर्थम् उच्यते | सर्गे ऽपि सृष्टि-काले ऽपि नोपजायन्ते | नोत्पद्यन्ते | प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथां नापद्यन्ते, न च्यवन्तीत्य् अर्थः ||Bह्GS_१४.२||
7 SK ==============================
8 SK क्षेत्र-क्षेत्रज्ञ-संयोग ईदृशो भूत-कारणम् इत्य् आह -
14.3 SK मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् | संभवः सर्व-भूतानां ततो भवति भारत ||Bह्G_१४.३||
14.3 SK मम स्व-भूता मदीया माया त्रिगुणात्मिका प्रकृतिर् योनिः सर्व-भूतानां कारणम् | सर्व-कार्येभ्यो महत्त्वात् कारणत्वाद् बृंहणाच् च [भरणाच् च] स्व-विकाराणां महद् ब्रह्म इति योनिर् एव विशिष्यते | तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनो बीजं सर्व-भूत-जन्म-कारणं बीजं दधामि निक्षिपामि क्षेत्र-क्षेत्रज्ञ-प्रकृति-द्वय-शक्तिमान् ईश्वरो ऽहम्, अविद्या-काम-कर्मोपाधि-स्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामीत्य् अर्थः | संभव उत्पत्तिः सर्व-भूतानां हिरण्यगर्भोत्पत्ति-द्वारेण ततस् तस्माद् गब्र्हाधानाद् भवति | हे भारत ||Bह्GS_१४.३||
11 SK ==============================
14.4 SK सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः | तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ||Bह्G_१४.४||
14.4 SK देव-पितृ-मनुष्य-पशु-मृगादि-सर्व-योनिषु कौन्तेय, मूर्तयो देह-संस्थान-लक्षणा मूर्च्छिताङ्गावयवा मूर्तयः संभवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरो बीज-प्रदो गर्भाधानस्य कर्ता पिता ||Bह्GS_१४.४||
14 SK ==============================
15 SK के गुणाः ? कथं बध्नन्ति ? इत्य् उच्यते -
14.5 SK सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः | निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ||Bह्G_१४.५||
14.5 SK सत्त्वं रजस् तम इत्य् एवं-नामानो गुणा इति पारिभाषिकः शब्दः | न रूपादिवद् द्रव्याश्रिता गुणाः | न च गुण-गुणिनोर् अन्यत्वम् अत्र विवक्षितम् | तस्माद् गुणा इव नित्य-पर-तन्त्राः क्षेत्रज्ञं प्रत्य् अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीव तम् आस्पदीकृत्यात्मानं प्रतिलभन्त इति निबध्नन्तीत्य् उच्यते | ते च प्रकृति-संभवा भगवन्-माया-संभवा निबध्नन्तीव | हे महाबाहो | महान्तौ समर्थतराव् आजानु-प्रलम्बौ बाहू यस्य सः महाबाहुः हे महाबाहो | देहे शरीरे देहिनं देहवन्तम् अव्ययम्, अव्ययत्वं चोक्तम् अनादित्वाद् [Gईता १३.३२] इत्य् आदि श्लोकेन | ननु देही न लिप्यते [Gईता १३.३२] इत्य् उक्तम् | तत् कथम् इह निबध्नन्तीत्य् अन्यथोच्यते ? परिहृतम् अस्माभिर् इव-शब्देन निबध्नन्तीवेति ||Bह्GS_१४.५||
18 SK ==============================
19 SK तत्र सत्त्वादीनां सत्त्वस्यैव तावल् लक्षणम् उच्यते -
14.6 SK तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् | सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ||Bह्G_१४.६||
14.6 SK निर्मलत्वात् स्फटिक-मणिर् इव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन् निबध्नाति | कथम् ? सुख-सङ्गेन सुख्य् अहम् इति विषय-भूतस्य सुखस्य विषयिण्य् आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इति | सैषाविद्या | न हि विषय-धर्मो विषयिणो भवति | इच्छादि च धृत्य्-अन्तं क्षेत्रस्यैव विषयस्य धर्मः इत्य् उक्तं भगवता | अतो ऽविद्ययैव स्वकीय-धर्म-भूतया विषय-विषय्य्-अविवेक-लक्षणयास्वात्म-भूते सुखे संजयतीव, आसक्तम् इव करोति, असङ्गं सक्तम् इव करोति, असुखिनं सुखिनम् इव | तथा ज्ञान-सङ्गेन च, ज्ञानम् इति सुख-साहचर्यात् क्षेत्रस्यैव विषयस्यान्तः-करणस्य धर्मः, नात्मनः | आत्म-धर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश् च | सुख इव ज्ञानादौ सङ्गो मन्तव्यः | हे अनघ अव्यसन ||Bह्GS_१४.६||
22 SK ==============================
14.7 SK रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् | तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ||Bह्G_१४.७||
14.7 SK रजः रागात्मकं रजनाद् रागो गैरिकाद् इव द्राग् आत्मकं विद्धि जानीहि | तृष्णासङ्ग-समुद्भवं तृष्णा अप्राप्ताभिलाषः | आसङ्गः प्राप्ते विषये मनसः प्रीति-लक्षणः संश्लेषः | तृष्णासङ्गयोः समुद्भवं तृष्णासङ्ग-समुद्भवम् | तन् निबध्नाति तद् रजो निबध्नाति कौन्तेय कर्म-सङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्-परता कर्म-सङ्गस् तेन निबध्नाति रजो देहिनम् ||Bह्GS_१४.७||
25 SK ==============================
14.8 SK तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् | प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ||Bह्G_१४.८||
14.8 SK तमस् तृतीयो गुणो ऽज्ञान-जम् अज्ञानाज् जातम् अज्ञान-जं विद्धि | मोहनं मोह-करम् अविवेक-करं सर्व-देहिनां सर्वेषां देहवताम् | प्रमादालस्य-निद्राभिः प्रमादश् चालस्यं च निद्रा च प्रमादालस्य-निद्रास् ताभिः प्रमादालस्य-निद्राभिस् तत् तमो निबध्नाति भारत ||Bह्GS_१४.८||
28 SK ==============================
29 SK पुनर् गुणानां व्यापारः संक्षेपत उच्यते -
14.9 SK सत्त्वं सुखे संजयति रजः कर्मणि भारत | ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ||Bह्G_१४.९||
14.9 SK सत्त्वं सुखे संजयति संश्लेषयति, रजः कर्मणि हे भारत संजयतीत्य् अनुवर्तते | ज्ञानं सत्त्व-कृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे संजयत्य् उत | प्रमादो नाम प्राप्त-कर्तव्याकरणम् ||Bह्GS_१४.९||
32 SK ==============================
33 SK उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्य् उच्यते -
14.10 SK रजस् तमश् चाभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ||Bह्G_१४.१०||
14.10 SK रजस् तमश् च उभाव् अप्य् अभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्व-कार्यं ज्ञान-सुखाद्य् आरभते | हे भारत ! तथा रजो-गुणः सत्त्वं तमश् चैव उभाव् अप्य् अभिभूय वर्धते यदा, तदा कर्म तृष्णादि स्व-कार्यम् आरभते | तम-आख्यो गुणः सत्त्वं रजश् च उभाव् अप्य् अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्व-कार्यम् आरभते ||Bह्GS_१४.१०||
36 SK ==============================
37 SK यदा यो गुण उद्भूतो भवति, तदा तस्य किं लिङ्गम् ? इत्य् उच्यते -
14.11 SK सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते | ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ||Bह्G_१४.११||
14.11 SK सर्व-द्वारेषु, आत्मन उपलब्धि-द्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्व-द्वारेषु अन्तः-करणस्य बुद्धेर् वृत्तिः प्रकाशो देहे ऽस्मिन् उपजायते | तद् एव ज्ञानम् | यदैवं प्रकाशो ज्ञानाख्य उपजायते, तदा ज्ञान-प्रकाशेन लिङ्गेन विद्याद् विवृद्धम् उद्भूतं सत्त्वम् इत्य् उतापि ||Bह्GS_१४.११||
40 SK ==============================
41 SK रजस उद्भूतस्येदं चिह्नम् -
14.12 SK लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा | रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ||Bह्G_१४.१२||
14.12 SK लोभः पर-द्रव्यादित्सा | प्रवृत्तिः प्रवर्तनम् | सामान्य-चेष्टा आरम्भः | कस्य ? कर्मणाम् | अशमो ऽनुपशमः हर्ष-रागादि-प्रवृत्तिः | स्पृहा सर्व-सामान्य-वस्तु-विषया तृष्णा | रजसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते | हे भरतर्षभ ||Bह्GS_१४.१२||
44 SK ==============================
14.13 SK अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च | तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ||Bह्G_१४.१३||
14.13 SK अप्रकाशो ऽविवेकः | अत्यन्तम् अप्रवृत्तिश् च प्रवृत्त्य्-अभावस् तत्-कार्यं प्रमादो मोह एव च | अविवेको मूढता इत्य् अर्थः | तमसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरु-नन्दन ! ||Bह्GS_१४.१३||
47 SK ==============================
48 SK मरण-द्वारेणापि यत् फलं प्राप्यते, तद् अपि सङ्ग-राग-हेतुकं सर्वं गौणम् एवेति दर्शयन् आह -
14.14 SK यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् | तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ||Bह्G_१४.१४||
14.14 SK यदा सत्त्वे प्रवृद्ध उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देह-भृद् आत्मा, तदोत्तम-विदां महद्-आदि-तत्त्व-विदाम् इत्य् एतत् | लोकान् अमलान् मल-रहितान् प्रतिपद्यते प्राप्नोतीत्य् एतत् ||Bह्GS_१४.१४||
51 SK ==============================
14.15 SK रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते | तथा प्रलीनस् तमसि मूढ-योनिषु जायते ||Bह्G_१४.१५||
14.15 SK रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्म-सङ्गिषु कर्मासक्ति-युक्तेषु मनुष्येषु जायते | तथा तद्वद् एव प्रलीनो मृतस् तमसि विवृद्धे मूढ-योनिषु पश्व्-आदि-योनिषु जायते ||Bह्GS_१४.१५||
54 SK ==============================
55 SK अतीत-श्लोकार्थस्यैव संक्षेप उच्यते -
14.16 SK कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् | रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ||Bह्G_१४.१६||
14.16 SK कर्मणः सुकृतस्य सात्त्विकस्य इत्य् अर्थः, आहुः शिष्टः सात्त्विकम् एव निर्मलं फलम् इति | रजसस् तु फलं दुःखं राजसस्य कर्मण इत्य् अर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात्, राजसम् एव | तथा अज्ञानं तमसस् तामसस्य कर्मणो ऽधर्मस्य पूर्ववत् ||Bह्GS_१४.१६||
58 SK ==============================
59 SK किं च, गुणेभ्यो भवति -
14.17 SK सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च | प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ||Bह्G_१४.१७||
14.17 SK सत्त्वाल् लब्धात्मकात् संजायते समुत्पद्यते ज्ञानम्, रजसो लोभ एव च, प्रमाद-मोहौ च उभौ तमसो भवतः, अज्ञानम् एव च भवति ||Bह्GS_१४.१७||
62 SK ==============================
14.18 SK ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः | जघन्य-गुण-वृत्त-स्था अधो गच्छन्ति तामसाः ||Bह्G_१४.१८||
14.18 SK ऊर्ध्वं गच्छन्ति देवलोकादिषूत्पद्यन्ते सत्त्व-स्थाः सत्त्व-गुण-वृत्त-स्थाः | मध्ये तिष्ठन्ति मनुष्येषूत्पद्यन्ते राजसाः | जघन्य-गुण-वृत्त-स्था जघन्यश् चासौ गुणश् च जघन्य-गुणस् तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिताः जघन्य-गुण-वृत्त-स्थाः मूढाः अधो गच्छन्ति पश्व्-आदिषूत्पद्यन्ते तामसाः ||Bह्GS_१४.१८||
66 SK ==============================
67 SK पुरुषस्य प्रकृति-स्थत्व-रूपेण मिथ्या-ज्ञानेन युक्तस्य भोग्येषु गुणेषु सुख-दुःख-मोहात्मकेषु सुखी दुःखी मूढो ऽहम् अस्मीत्य् एवं-रूपो यः सङ्गस् तत्-कारणं पुरुषस्य सद्-असद्-योनि-जन्म-प्राप्ति-लक्षणस्य संसारस्येति समासेन पूर्वाध्याये यद् उक्तम्, तद् इह सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवा इत्य् आरभ्य गुण-स्वरूपम्, गुण-वृत्तम्, स्व-वृत्तेन च गुणानां बन्धकत्वम्, गुण-वृत्त-निबद्धस्य च पुरूषस्य या गतिः, इत्य् एतत् सर्वं मिथ्या-ज्ञान-मूलं बन्ध-कारणं विस्तरेणोक्त्वा, अधुना सम्यग्-दर्शनान् मोक्षो वक्तव्य इत्य् अत आह भगवान् -
14.19 SK नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति | गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ||Bह्G_१४.१९||
14.19 SK नान्यं कार्य-करण-विषयाकार-परिणतेभ्यो गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् नानुपश्यति, गुणा एव सर्वावस्थाः सर्व-कर्मणां कर्तार इत्य् एवं पश्यति, गुणेभ्यश् च परं गुण-व्यापार-साक्षि-भूतं वेत्ति, मद्-भावं मम भावं स द्रष्टाधिगच्छति ||Bह्GS_१४.१९||
70 SK ==============================
71 SK कथम् अधिगच्छति ? इत्य् उच्यते -
14.20 SK गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् | जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ||Bह्G_१४.२०||
14.20 SK गुणान् एतान् यथोक्तान् अतीत्य जीवन्न् एवातिक्रम्य मायोपाधि-भूतान् त्रीन् देही देह-समुद्भवान् देहोत्पत्ति-बीज-भूतान् जन्म-मृत्यु-जरा-दुःखैर् जन्म च मृत्युश् च जरा च दुःखानि च जन्म-मृत्यु-जरा-दुःखानि तैर् जीवन्न् एव विमुक्तः सन् विद्वान् अमृतम् अश्नुते | एवं मद्-भावम् अधिगच्छतीत्य् अर्थः ||Bह्GS_१४.२०||
74 SK ==============================
75 SK जीवन्न् एव गुणान् अतीत्यामृतम् अश्नुते इति प्रश्न-बीजं प्रतिलभ्यार्जुन उवाच -
14.21 SK कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो | किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ||Bह्G_१४.२१||
14.21 SK कैर् लिङ्गैश् चिह्नैस् त्रीन् एतान् व्याख्यातान् गुणान् अतीतो ऽतिक्रान्तो भवति प्रभो, किम्-आचारः ? को ऽस्य आचार इति किम्-आचारः | कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते ऽतीत्य वर्तते ||Bह्GS_१४.२१||
78 SK ==============================
79 SK गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टो ऽस्मिन् श्लोके प्रश्न-द्वयार्थं प्रतिवचनं भगवान् उवाच | यत् तावत् कैर् लिङ्गैर् युक्तो गुणातीतो भवतीति तत् शृणु -
14.22 SK प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव | न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ||Bह्G_१४.२२||
14.22 SK प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहम् एव च तमःकार्यम् इत्य् एतानि न द्वेष्टि संप्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि - मम तामसः प्रत्ययो जातः, तेनाहं मूढः | तथा राजसी प्रवृत्तिर् मम उत्पन्ना दुःखात्मिका, तेनाहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् | कष्टं मम वर्तते यो ऽयं मत्स्वरूपावस्थानात् भ्रंशः | तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सजयन् बध्नातीति तानि द्वेष्ट्य् असम्यग्-दर्शित्वेन | तत् एवं गुणातीतो न द्वेष्टि संप्रवृत्तानि | यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षतीत्य् अर्थः | एतत् न परप्रत्यक्षं लिङ्गम् | किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थम् एव एतत् लक्षणम् | न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति ||Bह्GS_१४.२२||
82 SK ==============================
83 SK अथ इदानीम् गुणातीतः किम्-आचारः ? इति प्रश्नस्य प्रतिवचनम् आह -
14.23 SK उदासीनवद् आसीनो गुणैर् यो न विचाल्यते | गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ||Bह्G_१४.२३||
14.23 SK उदासीनवद् यथा उदासीनो न कस्यचित् पक्षं भजते, तथायं गुणातीतत्वोपाय-मार्गे ऽवस्थित आसीन आत्मविद् गुणैर् यः संन्यासी न विचाल्यते विवेक-दर्शनावस्थातः | तद् एतत् स्फुटीकरोति - गुणाः कार्य-करण-विषयाकार-परिणता अन्योन्यस्मिन् वर्तन्ते इति यो ऽवतिष्ठति | छन्दो-भङ्ग-भयात् परस्मैपद-प्रयोगः | यो ऽनुतिष्ठतीति वा पाठान्तरम् | नेङ्गते न चलति, स्वरूपावस्थ एव भवतीत्य् अर्थः ||Bह्GS_१४.२३||
86 SK ==============================
14.24 SK सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः | तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ||Bह्G_१४.२४||
14.24 SK सम-दुःख-सुखः समे दुःख-सुखे यस्य सः सम-दुःख-सुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः सम-लोष्टाश्म-काञ्चनः लोष्टं चाश्मा च काञ्चनं च लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं चाप्रियं च प्रियाप्रिये तुल्ये समे यस्य सो ऽयं तुल्यप्रियाप्रियः, धीरो धीमान्, तुल्यनिन्दात्मसंस्तुतिः निन्दा च आत्मसंस्तुति च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः स तुल्यनिन्दात्मसंस्तुतिः ||Bह्GS_१४.२४||
90 SK ==============================
14.25 SK मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः | सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ||Bह्G_१४.२५||
14.25 SK मानापमानयोस् तुल्यः समो निर्विकारः | तुल्यो मित्रारि-पक्षयोः | यद्यप्य् उदासीना भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारि-पक्षयोर् इव भवन्तीति तुल्यो मित्रारि-पक्षयोर् इत्य् आह | सर्वारम्भ-परित्यागी | दृष्टादृष्टार्थानि कर्माण्य् आरभ्यन्त इत्य् आरम्भाः | सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्येति सर्वारम्भ-परित्यागी | देह-धारण-मात्र-निमित्त-व्यतिरेकेण सर्व-कर्म-परित्यागीत्य् अर्थः | गुणातीतः स उच्यते ||Bह्GS_१४.२५||
94 SK ==============================
95 SK उदासीनवद् इत्य् आदि गुणातीतः स उच्यते इत्य् एतद्-अन्तम् उक्तं यावत् यत्न-साध्यं तावत् संन्यासिनो ऽनुष्ठेयं गुणातीतत्व-साधनं मुमुक्षोः | स्थिरी-भूतं तु स्व-संवेद्यं सद् गुणातीतस्य यतेर् लक्षणं भवतीति | अधुना कथं च त्रीन्गुणान् अतिवर्तते ? इत्य् अस्य प्रश्नस्य प्रतिवचनम् आह -
14.26 SK मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते | स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ||Bह्G_१४.२६||
14.26 SK मां च ईश्वरं नारायणं सर्व-भूत-हृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचिद् यो व्यभिचरति भक्ति-योगेन भजनं भक्तिः सैव योगस् तेन भक्ति-योगेन सेवते, स गुणान् समतीत्य एतान् यथोक्तान् | ब्रह्म-भूयाय | भवनं भूयः, ब्रह्म-भूयाय ब्रह्म-भवनाय मोक्षाय कल्पते समर्थो भवतीत्य् अर्थः ||Bह्GS_१४.२६||
98 SK ==============================
99 SK कुत एतद् ? इत्य् उच्यते -
14.27 SK ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||Bह्G_१४.२७||
101 SK ब्रह्मणः परमात्मनो हि यस्मात् प्रतिष्ठाहं प्रतितिष्ठत्य् अस्मिन् इति प्रतिष्ठाहं प्रत्यग्-आत्मा | कीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः | अव्ययस्य अविकारिणः | शाश्वतस्य च नित्यस्य धर्मस्य धर्म-ज्ञानस्य ज्ञान-योग-धर्म-प्राप्यस्य सुखस्य आनन्द-रूपस्य ऐकान्तिकस्य अव्यभिचारिणो ऽमृतादि-स्वभावस्य परमानन्द-रूपस्य परमात्मनः प्रत्यग्-आत्मा प्रतिष्ठा |
14.27 SK सम्यग्-ज्ञानेन परमात्मतया निश्चीयते | तद् एतद् ब्रह्म-भूयाय कल्पत इत्य् उक्तम् | यया चेश्वर-शक्त्या भक्तानुग्रहादि-प्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिर् ब्रह्मैवाहम् | शक्ति-शक्तिमतोर् अनन्यत्वाद् इत्य् अभिप्रायः | अथवा, ब्रह्म-शब्द-वाच्यत्वात् स-विकल्पकं ब्रह्म | तस्य ब्रह्मणो निर्विकल्पको ऽहम् एव नान्यः प्रतिष्ठाश्रयः | किं-विशिष्टस्य ? अमृतस्यामरण-धर्मकस्याव्ययस्य व्यय-रहितस्य | किं च, शाश्वतस्य च नित्यस्य धर्मस्य ज्ञान-निष्ठा-लक्षणस्य सुखस्य तज्-जनितस्य ऐकान्तिकस्य एकान्त-नियतस्य च, प्रतिष्ठाहम् इति वर्तते ||Bह्GS_१४.२७||
103 SK ==============================
14 SK इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद- शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये चतुर्दशो ऽध्यायः
106 SK अथ पुरुषोत्तम-योगो नाम पञ्चदशो ऽध्यायः
107 SK (श्रीमच्-छंकर-भगवत्-पाद-विरचितम् श्रीमद्-भगवद्-गीता-भाष्यम्)
108 SK यस्मान् मद्-अधीनं कर्मिणां कर्म-फलं ज्ञानिनां च ज्ञान-फलम्, अतो भक्ति-योगेन मां ये सेवन्ते ते मम प्रसादाज् ज्ञान-प्राप्ति-क्रमेण गुणातीता मोक्षं गच्छन्ति | किम् उ वक्तव्यम् आत्मनस् तत्त्वम् एव सम्यक् विजानन्त इत्य् अतो भगवान् अर्जुनेनापृष्टो ऽप्य् आत्मनस् तत्त्वं विवक्षुर् उवाच ऊर्ध्व-मूलम् इत्य् आदिना | तत्र तावद् वृक्ष-रूपक-कल्पनया वैराग्य-हेतोः संसार-स्वरूपं वर्णयति - विरक्तस्य हि संसारात् भगवत्-तत्त्व-ज्ञाने ऽधिकारः, नान्यस्येति | श्री-भगवान् उवाच -
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhagavadgītā with Śāṅkara-bhāṣya: corpustei HTML transform of the Bhagavadgītā with Śāṅkara-bhāṣya.
Source