The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 9

SK
अन्धं तमः प्रविशन्ति ये ऽविद्याम् उपासते | ततो भूय इव ते तमो य उविद्यायां रताः || Iस्Uप्_९ ||
SK
कथं पुनरेवमवगभ्यते न तु सर्वेषाम् इति / उच्यते--अकामिनः साध्यसाधनभेदोपमर्देन ऽयस्मिन् सर्वाणि भूतान्यात्मैवाभूद्धिजानतः / तत्र को मोहः कः शोक एकत्वमनुपश्यतः ऽ इति यदात्मैकत्वविज्ञानम्[उक्तम् टतन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति / इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते / तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिहोच्यते यद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं न परमात्मज्ञानम् / ᳚विद्यया देवलोकः᳚(बृ.उ.१ / ५ / १६) इति पृथक्फलश्रवणात् / तयोर्ज्ञानकर्मणोरिह एकैकानुष्ठाननिन्दा समुच्चिचीषया न निन्दापरैव एकैकस्य पृथक्फलश्रवणात्᳚विद्यया तदारोहन्ति᳚ ᳚विद्यया देवलोकः᳚(बृ.उ.१ / ५ / १६) ᳚न तत्र दक्षिणा यन्ति᳚ ᳚कर्मणा पितृलोकः᳚(बृ.उ.१ / ८ / १६) इति / न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् /
SK
तत्र अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति / के? ये ऽविद्यां विद्याया अन्या अविद्या तां कर्म इत्यर्थः,
SK
कर्मणो विद्याविरोधित्वात् ; तामविद्यामग्निहोत्रादिलक्षणामेव केवलामुपासते तत्पराः सन्तो ऽनुतिष्ठन्तीत्यभिप्रायः / ततस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति, के? कर्म इत्वा ये उ ये तु विद्यायामेव देवताज्ञान एव रताः अभिरताः / तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह ; अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गितैव स्यात् इत्यर्थः //Iस्Uप्Bह्_९//

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source