The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 14

SK
संभूतिं च विनाशं च यस् तद् वेदोभयं सह | विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते || Iस्Uप्_१४ ||
SK
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेन उच्यते विनाश इति, तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा-- हिरण्यगर्भोपासनेनाप्ति ह्याणिमादिप्राप्तिः फलम्, तेनानैश्वर्यादिमृत्युमतीत्य असम्भूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणमश्नुते / सम्भूतिं च विनाशं चेत्यत्रावर्णलोपेन निर्देशो द्रष्टव्यः प्रकृतिलयफलश्रुत्यनुरोधात् //Iस्Uप्Bह्_१४//
SK
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् / एतावती संसारगतिः / अतः परं पूर्वोक्तमात्मैवाभूद्विजानत इति सर्वात्मभाव एव सर्वेषणासंन्यासज्ञाननिष्ठाफलम् / एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थो ऽत्र प्रकाशितः / तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् / निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशने ऽत ऊर्ध्वं बृहदारण्यकमुपयुक्तम् /
SK
तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया तदुक्तं ऽविद्यां चाविद्यां च यस्तद्वेदोभयं सह / अविद्यया मृत्युं तीर्त्वा विद्ययामृतमस्नुतेऽ इति /
SK
तत्र केन मार्गेणामृतत्वमश्नुत इत्युच्यते / तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुष एतदुभयं सत्यम् / ब्रह्मोपासीनो यथोक्तकर्मकृच्च यः सो ऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते ऽहिरण्मयेन पात्रेणऽ इति /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source