The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 16

SK
पूषन्न् एकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः | यत् ते रूपं कल्याणतमं तत् ते पश्यामि यो ऽसाव् असौ पुरुषः सो ऽहम् अस्मि || Iस्Uप्_१६ ||
SK
हे पूषन्! जगतः पोषणात्पूषा रविस्तथैक एव ऋषति गच्छति इत्येकर्षिः-- हे एकर्षे! तथा सर्वस्य संयमनाद्यमः-- हे यम! तथा रश्मीनां प्राणानां रसानाञ्च स्वीकरणात् सूर्यः-- हे सूर्य! प्रजापतेरपत्यं प्राजापत्यः-- हे प्राजापत्य! व्यूह विगमय रश्मीन्स्वान् / समूह एकीकुरु उपसंहरते तेजस्तापकं ज्योतिः /
SK
यत्ते तव रूपं कल्याणतमम् अत्यन्तशोभनं तत्ते तवात्मनः प्रसादात् पश्यामि / किञ्चाहं न तु त्वां भृत्यवद्याचे यो ऽसावादित्यमण्डलस्थो व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात्पूर्णं वानेन प्राणबुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सो ऽहमस्मि भवामि //Iस्Uप्Bह्_१६//

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source