The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 10

SK
अन्यद् एवाहुर् विद्ययान् यद् आहुर् अविद्यया | इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे || Iस्Uप्_१० ||
SK
अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुर्वदत्ति᳚विद्यया देवलोकः᳚(बृ.उ.१ / ६ / १६) ᳚कर्मणा क्रियते कर्मणा पितृलोकः᳚(बृ.उ.१ / ५ / १६) इति श्रुतेः / इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् / ये आचार्या नो ऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः //Iस्Uप्Bह्_१०//

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source