The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 3

SK
असुर्या नाम ते लोका अन्धेन तमसावृताः | तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः || Iस्Uप्_३ ||
SK
असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयो ऽप्यसुरास्तेषाञ्च स्वभूता लोका असुर्या नाम / नामशब्दो ऽनर्थको निपातः / ते लोकाः कर्मफलानि / लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि / अन्धेनादर्शनात्मकेनाज्ञानेन तमसावृता आच्छादिताः तांस्थावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् /
SK
आत्मानं घ्नन्तीत्यात्महनाः / के ते जनाः ये ऽविद्वांसः / कथं त आत्मानं नित्यं हिंसन्ति / अविद्यादोषेण विद्यमानस्यात्मनः तिरस्करणात् विद्यमानस्य आत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येव तिरोभूतं भवतीति प्राकृताविद्वांसो जनाः जनाः आत्महन उच्यन्ते / तेन ह्यात्महननदोषेण संसरन्ति ते //Iस्Uप्Bह्_३//
SK
यस्यात्मनो हननादविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो जना मुच्यन्ते ते नात्महनः तत् कीघ्शमात्मतच्वमित्युच्यते--

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source