The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 18

SK
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् | युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम उक्तिं विधेम || Iस्Uप्_१८ ||
SK
हे अग्ने! नय गमय सुपथा शोभनेन मार्गेण / सुप्रथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् / निर्विण्णो ऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनर्गमनागमनवर्जितेन शोभनेन पथा नय / राये धनाय कर्मफलभोगायेत्यर्थः, अस्मान्यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव! वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन् /
SK
किञ्च युयोधि वियोजय विनाशय अस्मदस्मत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् / ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम इत्यभिप्रायः / किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् / भूयिष्ठां बहुतरां ते तुभ्यं नम उक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः /
SK
ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते /ऽ (ई.उ.११) ऽविनाशेन मृत्युं तीर्त्वासम्भूत्यामृतमश्नुतेऽ (ई.उ.१४) इति श्रुत्वा केचित्संशयं कुर्वन्ति /
SK
अतस्तन्निराकरणार्थं संक्षेपतो विचारणां करिष्यामः /
SK
तत्र तावक्तिन्निमित्तः संशय इत्युच्यते /
SK
विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते ऽमृतत्वञ्च / नानुक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः /
SK
सत्यम् / विरोधस्तु नावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् / यथाविद्यानुष्ठानं विद्योपासनञ्च शास्त्रप्रमाणकं तथा तद्विरोधाविरोधावपि / यथा च न हिंस्यात्सर्वा भूतानीति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ऽध्वरे पशुं हिंस्यादिति / एवं विद्याविद्ययोरपि स्यात् / विद्याकर्मणोश्च समुच्चयः /
SK
न᳚दूरमेते विपरीते विषूची अविद्या या च विद्या᳚(क.उ.१ / २ / ४) इति श्रुतेः /
SK
विद्यां चाविद्यां चेति वचनादविरोध इति चेत्?
SK
न ; हेतुस्वरूपफलविरोधात् /
SK
विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात्समुच्चयविधानादविरोध एवेति चेत्?
SK
न? सहसम्भवानुपपत्तेः /
SK
क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्?
SK
न ; विद्योत्पत्तौ अविद्याया ह्यास्तत्वात्तदाश्रये ऽविद्यानुपपत्तेः / न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं तस्मिन्नेवाश्रये शीतो ऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयो ऽज्ञानं वा᳚यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः / तत्र को मोहः कः शोक एकत्वमनुपश्यतः᳚(ई.उ.७) इति शोकमोहाद्यसम्भवश्रुतेः / अविद्यासम्भवात्तदुपादानस्य कर्मणो ऽप्यनुपपत्तिम् अवोचाम /
SK
अमृतमश्नुत इत्यापेक्षिकम् अमृतम् / विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात् / तस्मादुपासनया समुच्चयो न परमात्मविज्ञानेनेति यथास्माभिर्व्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते //Iस्Uप्Bह्_१८//
SK
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतावीशावास्योपनिषद्भाष्यं सम्पूर्णम् /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source