The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 17

SK
वायुर् अनिलम् अमृतम् अथेदं भस्मान्तं शरीरम् | ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर || Iस्Uप्_१७ ||
SK
अथेदानीं मम मरिष्यतो वायुः प्राणो ऽध्यात्मपरिच्छेदं हित्वाधिदैवतात्मानं सर्वात्मकमनिलममृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्यशेषः / लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम्, मार्गयाचनसामर्थ्यात् / अथेदं शरीरमग्नौ हुतं भस्मान्तं भूयात् / ओम् इति यथोपासनम् ॐप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते / हे क्रतो! सङ्कल्पात्मक! स्मर यन्मम स्मर्तव्यं तस्य कालो ऽयं प्रत्युपस्थितो ऽतः स्मर / एतावन्तं कालं भावितं कृतमग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर / क्रतो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम् //Iस्Uप्Bह्_१७//
SK
पुनरन्येन मन्त्रेण मार्गं याचते--

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source