The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 5

SK
तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके | तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः || Iस्Uप्_५ ||
SK
तदात्मतत्त्वं यत्प्रकृतं तदेजति चलति तदेव च नैजति स्वतो नैव चलति स्वतो ऽचलमेव सत् चलतीवेत्यर्थः / किञ्च तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद् दूर इव / तद् उ अन्तिके इति च्छेदः / तद्वन्तिके समीपे ऽत्यन्तमेव विदुषामात्मत्वान्न केवलं दूरे ऽन्तिके च / तदन्तरभ्यन्तरे ऽस्य सर्वस्य᳚य आत्मा सर्वान्तरः᳚(बृ. उ. ३ / ४ / १) इति श्रुतेः अस्य सर्वस्य जगतो नाम रूपक्रियात्मकस्य तदु अपि सर्वस्य अस्य बाह्यतो व्यापकत्वादाकाशवन्निरतिशयसूक्ष्मत्वाद् अन्तः / ᳚प्रज्ञानघन एव᳚(बृ. उ. ४ / ५ / १३) इति च शासनान्निरन्तरं च //Iस्Uप्Bह्_५//

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source
Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara — Reader · Sutraya