SKĪश-Uपनिषद् (Īशोपनिषद् ओर् Īशावास्योपनिसद्), Kआण्व रेचेन्सिओन् wइथ् थे चोम्मेन्तर्य् अस्च्रिबेद् तो Śअंकर
SKॐ पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते / पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते //
SKॐ शान्तिः शान्तिः शान्तिः /
SKईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्ताः / तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् / याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् / तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः / न ह्येवं लक्षणमात्मनो याथात्म्यमुत्पाद्यं विकार्यमाप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात् / सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैव उपक्षयात् / गीतानां मोक्षधर्माणां चैवं परत्वात् / तस्मादात्मनो ऽनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वापापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धकर्माणि विहितानि / यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिनादृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सो ऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति / तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविकमज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्ति / इत्येवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान्संक्षेपतो व्याख्यास्यामः /