The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 8

SK
स पर्यगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरं शुद्धम् अपापविद्धम् | कविर् मनीषी परिभूः स्वयम्भूर् याथातथ्यतोर् ऽथान् व्यदधाच् छाश्वतीभ्यः समाभ्यः || Iस्Uप्_८ ||
SK
स यथोक्त आत्मा पर्यगात् परि समन्तादगाद्गतवानाकाशवद्व्यापी इत्यर्थः / शुक्रं शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः / अकायमशरीरो लिङ्गशरीरवर्जित इत्यर्थः / अव्रणम् अक्षतम् / अस्नाविरं स्नावाः शिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् / अव्रणमस्नाविरमित्याभ्यां स्थूलशरीरप्रतिषेधः / शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः / अपापविद्धं धर्माधर्मादिपापवर्जितम् / शुक्रमित्यादीनि वचांसि पुल्लिङ्गत्वेन परिणेयानि / स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुल्लिङ्गत्वेनोपसंहारात् /
SK
कविः क्रान्तदर्शी सर्वादृक् / ᳚नान्यो ऽतो ऽस्ति द्रष्टा᳚(बृ. उ. ३ / ८ / ११) इत्यादिश्रुतेः / मनिषी मनस ईषिता सर्वज्ञ ईश्वर इत्यर्थः / परिभूः सर्वेषां पर्युपरि भवतीति परिभूः / स्वयम्भूः स्वयमेव भवतीति / येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः /
SK
स नित्यमुक्त ईश्वरो याथातथ्यतः सर्वज्ञत्वाद्यथातथाभावो याथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतोर्ऽथान् कर्त्तव्यपदार्थान् व्यदधाद्विहितवान् यथानुरूपं व्यभजदित्यर्थः, शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः //Iस्Uप्Bह्_८//
SK
अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः᳚ईशा वास्यमिदं सर्वं...मा गृधः कस्यस्विद्धनम्᳚इति / अज्ञानां जिजीविषूणां ज्ञाननिष्ठासम्भवे᳚कुर्वन्नेवेह कर्माणि...जिजीविषेत्᳚इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः /
SK
अनयोश्व निष्ठयोर्विभागो मन्त्रप्रदर्शितयोर्बृहदारण्यके ऽपि प्रदर्शितः ᳚सो ऽकामयत जाया मे स्यात्᳚(बृ. उ. १ / ४ / १७) इत्यादिना अज्ञस्य कामिनः कर्माणीति / ᳚मन एवास्यात्मा वाग्जाया᳚(बृ. उ. १ / ४ / १७) इत्यादिवचनाद् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते / तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनात्मस्वरूपावस्थानम् / जायाद्येषणात्रयसंन्यासेन च आत्मविदां कर्मनिष्ठाप्रातिकूल्येनात्मस्वरूपनिष्ठैव दर्शिता᳚किं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकः᳚(बृ. उ. ४ / ४ / २२) इत्यादिना / ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्यो ऽसुर्या नाम त इत्यादिना अविद्वन्निन्दाद्वारेण आत्मनो याथात्म्यं स पर्यगात् इत्येतदन्तैर्मन्त्रैरुपदिष्टम् / ते ह्यत्राधिकृता न कामिन इति / तथा च श्वेताश्वतराणां मन्त्रोपनिषदि᳚अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्᳚(श्वे. उ. ६ / २१) इत्यादि विभज्योक्तम् / ये तु कर्मिणः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवस्तेभ्य इदमुच्यते--

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source