The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 2

SK
कुर्वन्न् एवेह कर्माणि जिजीविषेच्छतं समाः | एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे || Iस्Uप्_२ ||
SK
कुर्वन्नेव इह निवर्तयन्नेव कर्माण्यग्निहोत्रादीनि जिजीविषेज्जीवितुमिच्छेच्छतं शतसङ्ख्याकाः समाः संवत्सरान् / तावद्धि पुरुषस्य परमायुर्निरूपितम् / तथा च प्राप्तानुवादेन यज्जिजीविषेच्छतं वर्षाणि तत् कुर्वन्नेव कर्माणीत्येतद्विधीयते /
SK
एवमेवम्प्रकारेण त्वयि जिजीविषति नरे नरमात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात्प्रकारादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः / अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् /
SK
कथं पुनरिदमवगम्यते पूर्वेण संन्यासिनो ज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेति /
SK
उच्यतेः ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् / इहाप्युक्तं ऽयो हि जिजीविषेत् स कर्म कुर्वन्ऽ ऽईशावास्यमिदं सर्वम्ऽ ऽतेन त्यक्तेन भुञ्जीथाःऽ ऽमा गृधः कस्यस्विद्धनम्ऽ इति च / ऽन जीविते मरणे वा गृधिं कुर्वीतारण्यमियादिति च परम् ; ततो न पुनरियात्ऽ इति संन्यासासनात् / उभयोः फलभेदं च वक्ष्यति /
SK
इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्चोत्तरेण / निवृत्तिमार्गेण एषणात्रयस्य त्यागः / तयोः संन्यासपथ एवातिरेचयति / ᳚न्यास एवात्यरेचयत्᳚इति च तैत्तिरीयके /
SK
᳚द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः / प्रवृत्तिलक्षणो धर्मो निवृत्तश्च विभावितः᳚ //
SK
इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता विभागञ्चानयोः दर्शयिष्यामः //Iस्Uप्Bह्_२//
SK
अथेदानीमविद्वन्निन्दार्थो ऽयं मन्त्र आरभ्यते --

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source