The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 4

SK
अनेजद् एकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् | तद्धावतो ऽन्यानत्येति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति || Iस्Uप्_४ ||
SK
अनेजत् न एजत् / एजृ कम्पने, कम्पनं चलनं स्वावस्थाप्रच्युतिस्तद्वर्जितं सर्वदैकरूपमित्यर्थः / तच्चैकं सर्वभूतेषु मनसः सङ्कल्पादिलक्षणाद् जवीयो जववत्तरम् /
SK
कथं विरुद्धमुच्यते ध्रुवं निश्चलमिदं मनसो जवीय इति च / नैष दोषः / निरुपाध्युपाधिमत्त्वेनोपपत्तेः तत्र निरुपाधिकेन स्वेन रूपेणोच्यते अनेजदेकमिति मनसो ऽन्तःकरणस्य सङ्कल्पविकल्पलक्षणस्योपाधेरनुवर्त्तनाद् इह देहस्थस्य मनसो ब्रह्मलोकादिदूरगमनं सङ्कल्पेन क्षणमात्राद्भवतीत्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम् / तस्मिन् मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति प्रथमं प्राप्त इवात्मचैतन्यावभासो गृह्यते ऽतो मनसो जवीय इत्याह / नैनद्देवा द्योतनाद्देवाश्चक्षुरादीनीन्द्रियाण्येतत्प्रकृतमात्मतत्त्वं नाप्नुवन्न प्राप्तवन्तः / तेभ्यो मनो जवीयः मनोव्यापारव्यवहितत्वाद् आभासमात्रमपि आत्मनो नैव देवानां विषयीभवति /
SK
यस्माज्जवनान्मनसो ऽपि पूर्वमर्षत् पूर्वमेव गतं व्योमवद्व्यापित्वात् सर्वव्यापि तदात्मतत्त्व सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सदुपाधिकृताः सर्वाः संसारविक्रिया अनुभवतीत्यविवेकिनां मूढानामनेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह /
SK
तद्धावतो द्रुतं गच्छतो ऽन्यानात्मविलक्षणान्मनोवागिन्द्रियप्रभृतीनत्येति अतीत्य गच्छति इव / इवार्थं स्वयमेव दर्शयति तिष्ठदिति स्वयमविक्रियमेव सदित्यर्थः /
SK
तस्मिन्नात्मतत्त्वे सति नित्यचैतन्यस्वभावे मातरिश्वा वायुः सर्वप्राणभृत् क्रियात्मको यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतो विघारयितृ स मातरिश्वा; अपः कर्माणि प्राणिनां चेष्टालक्षणानि, अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि दधाति विभजति इत्यर्थः /
SK
धारयतीति वा᳚भीषास्माद्वातः पवते᳚ (तै. उ. २ / ८ / १) इत्यादि श्रुतिभ्यः / सर्वा हि कार्यकरणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः //Iस्Uप्Bह्_४//
SK
न मन्त्राणां जामितास्तिति पूर्वमन्त्रोक्तमप्यर्थ पुनराह--

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source