The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara · ईशोपनिषद् शाङ्करभाष्यम्

The Upanishad of the Lord

Īśopaniṣad (or Īśāvāsyopaniṣad), Kāṇva recension with the commentary ascribed to Śaṃkara

ईशोपनिषद् शाङ्करभाष्यम्

Valli 6

SK
यस् तु सर्वाणि भूतान्य् आत्मन्य् एवानुपश्यति | सर्वभूतेषु चात्मानं ततो न विजुगुप्सते || Iस्Uप्_६ ||
SK
यः परिव्राड् मुमुक्षुः सर्वाणि भूतान्यव्यक्तादीनि स्थावरान्तानि आत्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः, सर्वभूतेषु च तेष्वेव चात्मानं तेषाम् अपि भूतानां स्वमात्मानमात्मत्वेन यथास्य देहस्य कार्यकरणसङ्धातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणो ऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति स ततस्तस्मादेव दर्शनान्न विजुगुप्सते विजुगुप्सां घृणां न करोति / प्राप्तस्यैवानुवादो ऽयम् / सर्वा हि घृणात्मनो ऽन्यद्दुष्टं पश्यतो भवति, आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तम् अर्थान्तरमस्तीति प्राप्तमेव / ततो न विजुगुप्सत इति //Iस्Uप्Bह्_६//
SK
इममेवार्थमन्यो ऽपि मन्त्र आह--

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśā Upaniṣad with Śāṅkara-bhāṣya: corpustei HTML transform (Īśā + Śāṅkara-bhāṣya).

Source