Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 9: śrītantrālokasya navamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः // १ब्
SK
यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः / तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने // २
SK
तथाहि कालसदनाद्वीरभद्रपुरान्तगम् / धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता // ३
SK
एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे / स्वस्मिन्कार्येथ धर्मौघे यद्वापि स्वसदृग्गुणे // ४
SK
आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः / तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः // ५
SK
देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् / श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना // ६
SK
तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते / कार्यकारणभावो यः शिवेच्छापरिकल्पितः // ७
SK
वस्तुतः सर्वभावानां कर्तेशानः परः शिवः / अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते // ८
SK
स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः / स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते // ९
SK
जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति / न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते // १०
SK
तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् / निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् // ११
SK
स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ / स्वभावेनतिरिक्तौ चेत्सम इत्यवशिष्यते // १२
SK
बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः / घटः पटश्चेति भवेत् कार्यकारणता न किम् // १३
SK
बीजमङ्कुरपत्रादितया परिणमेत चेत् / अतत्स्वभाववपुषः स स्वभावो न युज्यते // १४
SK
स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे / तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् // १५
SK
ततश्च चित्राकारोसौ तावान्कश्चित्प्रसज्यते / अस्तु चेत् न जडेन्योन्यविरुद्धाकारसंभवः // १६
SK
क्रमेण चित्राकारोस्तु जडः किं नु विरुद्ध्यते / क्रमोक्रमो वा भावस्य न स्वरूपाधिको भवेत् // १७
SK
तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा / उपलब्धापि विज्ञानस्वभावो योस्य सोपि हि // १८
SK
क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् / तस्य तर्हि क्रमः कोसौ तदन्यानुपलम्भतः // १९
SK
स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् / स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः // २०
SK
स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम् / इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते // २१
SK
कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् / तथावभासनं चास्ति कार्यकारणभावगम् // २२
SK
यथा हि घटसाहित्यं पटस्याप्यवभासते / तथा घटानन्तरता किं तु सा नियमोज्झिता // २३
SK
अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् / तत्तस्य कारणं ब्रूमः सति रूपान्वयेधिके // २४
SK
नियमश्च तथारूपभासनामात्रसारकः / बीजादङ्कुर इत्येवं भासनं नहि सर्वदा // २५
SK
योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः / इष्टे तथाविधाकारे नियमो भासते यतः // २६
SK
स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता / भासते नियमेनैव बाधाशून्येन तावति // २७
SK
ततो यावति याद्रूप्यान्नियमो बाधवर्जितः / भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता // २८
SK
तथाभूते च नियमे हेतुतद्वत्त्वकारिणि / वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् // २९
SK
अत एव घटोद्भूतौ सामग्री हेतुरुच्यते / सामग्री च समग्राणां यद्येकं नेष्यते वपुः // ३०
SK
हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् / यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् // ३१
SK
तत्तस्य हेतु चेत्सोयं कुण्ठतर्को न नः प्रियः / समग्राश्च यथा दण्डसूत्रचक्रकरादयः // ३२
SK
दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे / यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन // ३३
SK
न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः / यथा च चक्रं नियते देशे काले च हेतुताम् // ३४
SK
याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः / तथा च तेषां हेतुनां संयोजनवियोजने // ३५
SK
नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् / कुम्भकारस्य या संवित् चक्रदण्डादियोजने // ३६
SK
शिव एव हि सा यस्मात् संविदः का विशिष्टता / कौम्भकारी तु संवित्तिरवच्छेदावभासनात् // ३७
SK
भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः / तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः // ३८
SK
कर्तेति पुंसः कर्तृत्वाभिमानोपि विभोः कृतिः / अत एव तथाभानपरमार्थतया स्थितेः // ३९
SK
कार्यकारणभावस्य लोके शास्त्रे च चित्रता / मायातोव्यक्तकलयोरिति रौरवसंग्रहे // ४०
SK
श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते / तत एव निशाख्यानात्कलीभूतादलिङ्गकम् // ४१
SK
इति व्याख्यास्मदुक्तेस्मिन्सति न्यायेतिनिष्फला / लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः // ४२
SK
योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः / अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः // ४३
SK
स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु / तत एव स्वरूपेपि क्रमेप्यन्यादृशी स्थितिः // ४४
SK
शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः / पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् // ४५
SK
नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता / पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् // ४६
SK
कालो मायेति कथितः क्रमः किरणशास्त्रगः / पुमान्नियत्या कालश्च रागविद्याकलान्वितः // ४७
SK
इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे / कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते // ४८
SK
श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् / शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः // ४९
SK
स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते / चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः // ५०
SK
शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् / एकैकत्रापि तत्त्वेस्मिन् सर्वशक्तिसुनिर्भरे // ५१
SK
तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते / तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः // ५२
SK
निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् / शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह् // ५३
SK
मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् / स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि // ५४
SK
तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् / तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः // ५५
SK
गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः / ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते // ५६
SK
सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः / ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि // ५७
SK
षट्के कारणसंज्ञेर्धजरतीयमियं कुतः / इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् // ५८
SK
यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि / तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् // ५९
SK
तदेवं पञ्चकमिदं शुद्धोध्वा परिभाष्यते / तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका // ६०
SK
ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् / संविभक्तुमघोरेशः सृजतीह सितेतरम् // ६१
SK
अणूनां लोलिका नाम निष्कर्मा याभिलाषिता / अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता // ६२
SK
योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे / मलस्तेनास्य न पृथक्तत्त्वभावोस्ति रागवत् // ६३
SK
निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा / रागः पुंसि धियो धर्मः कर्मभेदविचित्रता // ६४
SK
अपूर्णमन्यता चेयं तथारूपावभासनम् / स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः // ६५
SK
स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः / यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता // ६६
SK
तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः / व्यतिरिक्तः स्वतन्त्रस्तु न कोपि शकटादिवत् // ६७
SK
तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् / मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा // ६८
SK
इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः / रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते // ६९
SK
स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा / मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् // ७०
SK
कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः / मलश्चावरणं तच्च नावार्यस्य विशेषकम् // ७१
SK
उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः / मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् // ७२
SK
शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् / विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च // ७३
SK
तदभावो मलो रूपध्वंसायैव प्रकल्पते / धर्माद्धर्मिणि यो भेदः समवायेन चैकता // ७४
SK
न तद्भवद्भिरुदितं कणभोजनशिष्यवत् / नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते // ७५
SK
ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि / स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते // ७६
SK
सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् / यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः // ७७
SK
मूर्तानां प्रतिघस्तेजोणूनां नामूर्त ईदृशम् / न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः // ७८
SK
आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् / उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् // ७९
SK
स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल / अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् // ८०
SK
मद्यं सूते मदं दुःखसुखमोहफलात्मकम् / न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः // ८१
SK
निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् / तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् // ८२
SK
तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता / तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् // ८३
SK
निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः / मलोभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा // ८४
SK
भवदोषोनुप्लवश्च ग्लानिः शोषो विमूढता / अहंममात्मतातङ्को मायाशक्तिरथावृतिः // ८५
SK
दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् / इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते // ८६
SK
अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः / मञ्चवदस्मिन् दुःखस्रोतोणून् वहति यत्प्लवस्तेन // ८७
SK
शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् / संसारकारणं कर्म संसाराङ्कुर उच्यते // ८८
SK
चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः / अत एव सांख्ययोगपाञ्चरात्रादिशासने // ८९
SK
अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते / निष्कर्मा हि स्थिते मूलमलेप्यज्ञाननामनि // ९०
SK
वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः / केवलं पारिमित्येन शिवाभेदमसंस्पृशन् // ९१
SK
विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः / स पुनः शांभवेच्छातः शिवाभेदं परामृशन् // ९२
SK
क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् / ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् // ९३
SK
स विज्ञानाकलस्यापि न सूते कर्मसंततिम् / मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् // ९४
SK
हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् / दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ // ९५
SK
दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः / विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना // ९६
SK
ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता / अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः // ९७
SK
कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् / किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् // ९८
SK
क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् / या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता // ९९
SK
प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः / विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते // १००
SK
भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः / इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् // १०१
SK
सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः / नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् // १०२
SK
विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः / मैवमध्वस्तसंकोचोप्यसौ भावनया दृढम् // १०३
SK
नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति / फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि // १०४
SK
स संस्कारः फलायेह न तु स्मरणकारणम् / अप्रध्वस्तेपि संकोचे नाहं कर्तेति भावनात् // १०५
SK
न फलं क्षीवमूढादेः प्रायश्चित्तेथ वा कृते / यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् // १०६
SK
अभिसंधिमतः कर्म न फलेदभिसन्धितः / तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् // १०७
SK
फलोपरक्तां विदधत्कल्पते फलसम्पदे / यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति // १०८
SK
स तत्फलत्यागकृतं विशिष्टं फलमश्नुते / अनया परिपाट्या यः समस्तां कर्मसंततिम् // १०९
SK
अनहंयुतया प्रोज्झेत् ससंकोचोपि सोकलः / नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः // ११०
SK
परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः / तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि // १११
SK
तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् / पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् // ११२
SK
अभिसंधानविरहे त्वस्य नो फलयोगिता / न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा // ११३
SK
पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ / द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः // ११४
SK
सुखहेतौ सुखे चास्य सामान्यादभिसंधितः / निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता // ११५
SK
दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु / सामान्योप्यभिसंधिः स्यात्तदधर्मस्य नागमः // ११६
SK
प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् / अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः // ११७
SK
तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् / मलः करोतु तेनायं ध्वंसमानत्वमश्नुते // ११८
SK
अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः / अहंभावपरोप्येति न कर्माधीनवृत्तिताम् // ११९
SK
उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना / मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् // १२०
SK
धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् / लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः // १२१
SK
नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् / हेतुता योग्यतैवासौ फलानन्तर्यभाविता // १२२
SK
पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् / लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे // १२३
SK
चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् / स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा // १२४
SK
दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते / इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः // १२५
SK
कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः / अनुसंधातुरेकस्य संभवस्तु यतस्ततः // १२६
SK
तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् / क्षीवोपि राजा सूदं चेदादिशेत्प्रातरीदृशम् // १२७
SK
भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् / इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना // १२८
SK
विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता / अत एव कृतं कर्म कर्मणा तपसापि वा // १२९
SK
ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् / आरब्धकार्यं देहेस्मिन् यत्पुनः कर्म तत्कथम् // १३०
SK
उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते / तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् // १३१
SK
कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते / तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः // १३२
SK
यदा यदा विनश्येत कर्मध्वस्तं तदा तदा / अतो मोहपराधीनो यद्यप्यकृत किंचन // १३३
SK
तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते / उक्तं च श्रीपरेहानादानः सर्वदृगुल्वणः // १३४
SK
मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् / देहस्थमिति देहेन सह तादात्म्यमाश्रिता // १३५
SK
स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते / देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः // १३६
SK
अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया / संकोच एव सानेन सोपि देहैकतामयः // १३७
SK
एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः / स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः // १३८
SK
ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः / ब्रह्मादिस्थावरान्तेस्मिन् संस्रन्ति पुनः पुनः // १३९
SK
ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः / भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः // १४०
SK
महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् / मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः // १४१
SK
अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः / प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः // १४२
SK
क्षोभोस्य लोलिकाख्यस्य सहकारितया स्फुटम् / तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् // १४३
SK
न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः / अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः // १४४
SK
चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः / चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः // १४५
SK
योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते / अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ // १४६
SK
तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् / प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि // १४७
SK
ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते / भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः // १४८
SK
मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् / माया च नाम देवस्य शक्तिरव्यतिरेकिणी // १४९
SK
भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः / आद्यो भेदावभासो यो विभागमनुपेयिवान् // १५०
SK
गर्भीकृतानन्तभाविविभासा सा परा निशा / सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः // १५१
SK
व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् / शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् // १५२
SK
अचेतनमनेकात्म सर्व कार्य यथा घटः / प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः // १५३
SK
अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता / यथा च माया देवस्य शक्तिरभ्येति भेदिनम् // १५४
SK
तत्त्वभावं तथान्योपि कलादिस्तत्त्वविस्तरः / निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका // १५५
SK
नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते / एवं विद्यादयोप्येते धरान्ताः परमार्थतः // १५६
SK
शिवशक्तिमया एव प्रोक्तन्यायानुसारतः / तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया // १५७
SK
ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् / उपादानं स्मृता माया क्वचित्तत्कार्यमेव च // १५८
SK
तथावभासचित्रं च रूपमन्योन्यवर्जितम् / यद्भाति किल संकल्पे तदस्ति घटवद्वहिः // १५९
SK
खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता / खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः // १६०
SK
धरादिवत् तथात्यन्ताभावोप्येवं विविच्यताम् / यत्संकल्प्यं तथा तस्य बहिर्देहोस्ति चेतनः // १६१
SK
चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् / यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः // १६२
SK
अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः / आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् // १६३
SK
आत्मनामध्वभोक्तृत्वं ततोयत्नेन सिद्ध्यति / सा माया क्षोभमापन्ना विश्वं सूते समन्ततः // १६४
SK
दण्डाहतेवामलकी फलानि किल यद्यपि / तथापि तु तथा चित्रपौर्वापर्यावभासनात् // १६५
SK
मायाकार्येपि तत्त्वौघे कार्यकारणता मिथः / सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् // १६६
SK
तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे / कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते // १६७
SK
प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः / एकस्यामेव जगति भोगसाधनसंहतौ // १६८
SK
सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् / न चासौ कर्मभेदेन तस्यैवानुपपत्तितः // १६९
SK
तस्मात् कलादिको वर्गो भिन्न एव कदाचन / ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने // १७०
SK
एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् / शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः // १७१
SK
कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते / मितमप्याशु येनास्मात् संसारादेष मुच्यते // १७२
SK
रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः / इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः // १७३
SK
एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते / मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा // १७४
SK
माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः / सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः // १७५
SK
कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः / तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते // १७६
SK
सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती / श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् // १७७
SK
उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च / बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् // १७८
SK
कला मायाणुसंयोगजाप्येषा निर्विकारकम् / नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् // १७९
SK
मलश्चावारको माया भावोपादानकारणम् / कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति // १८०
SK
अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् / कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा // १८१
SK
न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति / तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् // १८२
SK
सेयं कला न करणं मुख्यं विद्यादिकं यथा / पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः // १८३
SK
अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् / मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् // १८४
SK
तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् / विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् // १८५
SK
धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे / अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् // १८६
SK
अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् / कलापुंसोर्विवेके तु मायाधो नैव गच्छति // १८७
SK
मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् / सर्वत्र चैश्वरः शक्तिपातोत्र सहकारणम् // १८८
SK
मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः / सेयं कला कार्यभेदादन्यैव ह्यनुमीयते // १८९
SK
अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः / इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् // १९०
SK
किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः / किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् // १९१
SK
अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् / बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः // १९२
SK
सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे / कर्मजालं च तत्रस्थं विविनक्ति निजात्मना // १९३
SK
बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् / दुःखं मोहात्मकं वापि विषयं दर्शयेदपि // १९४
SK
स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् / तया विनैति साप्यन्यत्करणं पुंसि कर्तरि // १९५
SK
ननु चोभयतः शुभ्रादर्शदशीयधीगतात् / पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् // १९६
SK
जडमेव हि मुख्योथ पुंस्प्रकाशोस्य भासनम् / बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता // १९७
SK
अभेदभूमिरेषा च भेदश्चेह विचार्यते / तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः // १९८
SK
भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः / किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् // १९९
SK
रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् / न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः // २००
SK
विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः / कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः // २०१
SK
कार्यावच्छेदि कर्तृत्वं कालोवश्यं कलिष्यति / नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले // २०२
SK
विद्या रागोथ नियतिः कालश्चैतच्चतुष्टयम् / कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् // २०३
SK
माया कला रागविद्ये कालो नियतिरेव च / कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः // २०४
SK
देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् / एतत्षट्कससंकोचं यदवेद्यमसावणुः // २०५
SK
उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः / आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव // २०६
SK
शिवदहनकिरणजालैर्दाह्यत्वात् सा यतोन्यरूपैव / अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततोनन्या // २०७
SK
सहजाशुद्धिमतोणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः / तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा // २०८
SK
अनया विद्वस्य पशोरुपभोगसमर्थता भवति / विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् // २०९
SK
सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन / रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः // २१०
SK
त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् / एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन // २११
SK
गहनोपभोगगर्भे पशुरवशमधोमुखः पतति / एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् // २१२
SK
एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे / विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् // २१३
SK
विशेषणतया योत्र किञ्चिद्भागस्तदोत्थितम् / वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला // २१४
SK
सममेव हि भोग्यं च भोक्तारं च प्रसूयते / कला भेदाभिसंधानादवियुक्तं परस्परम् // २१५
SK
भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् / विलीनायां च तस्यां स्यान्मायास्यापि न किंचन // २१६
SK
ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् / सूते कला हि युगपत्ततोव्यक्तमिति स्थितिः // २१७
SK
उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् / रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते // २१८
SK
तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता / तस्यां च न क्रमः कोपि स्याद्वा सोपि विपर्ययात् // २१९
SK
तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ / एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः // २२०
SK
भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः / सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते // २२१
SK
दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः / मोहस्तमो वरणकः प्रकाशाभावयोगतः // २२२
SK
त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते / अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा // २२३
SK
उक्तमेवेति शास्त्रेस्मिन् गुणांस्तत्त्वान्तरं विदुः / भुवनं पृथगेवात्र दर्शितं गुणभेदतः // २२४
SK
ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति / भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् // २२५
SK
तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा / सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् // २२६
SK
गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः / पुंस्प्रकाशः स वेद्योत्र प्रतिबिम्बत्वमार्छति // २२७
SK
विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः / अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी // २२८
SK
वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् / आत्मसंवित्प्रकाशस्य बोधोसौ तज्जडोप्यलम् // २२९
SK
बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः / प्रकाशे वेद्यकलुषे यदहंमननात्मता // २३०
SK
तया पञ्चविधश्चैष वायुः संरम्भरूपया / प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः // २३१
SK
अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः / अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः // २३२
SK
इत्ययं करणस्कन्धोहंकारस्य निरूपितः / त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः // २३३
SK
सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् / मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते // २३४
SK
मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् / सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः // २३५
SK
बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे / करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् // २३६
SK
प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः / प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् // २३७
SK
अवसायोभिमानश्च कल्पना चेति न क्रिया / एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् // २३८
SK
न च बुद्धिरसंवेद्या करणत्वान्मनो यथा / प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः // २३९
SK
शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः / सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता // २४०
SK
भौतिकत्वमतोप्यस्तु नियमाद्विषयेष्वलम् / अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि // २४१
SK
अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् / करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः // २४२
SK
कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः / करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः // २४३
SK
तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः / कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् // २४४
SK
करणीकृततत्स्वांशतन्मयीभावनावशात् / करणीकुरुतेत्यन्तव्यतिरिक्तं कुठारवत् // २४५
SK
तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा / ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते // २४६
SK
ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता / तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः // २४७
SK
उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका / तया विना तु नान्येषां करणानां स्थितिर्यतः // २४८
SK
अतोसामान्यकरणवर्गात् तत्र पृथक् कृता / विद्यां विना हि नान्येषां करणानां निजा स्थितिः // २४९
SK
कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः / कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः // २५०
SK
अत एव विहीनेपि बुद्धिकर्मेन्द्रियैः क्वचित् / अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते // २५१
SK
किंतु सामान्यकरणबलाद्वेद्येपि तादृशि / रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते // २५२
SK
तत एव त्वहंकारात् तन्मात्रस्पर्शिनोधिकम् / कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे // २५३
SK
वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च / इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् // २५४
SK
तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः / तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः // २५५
SK
मुखेनापि यदादानं तत्र यत् करणं स्थितम् / स पाणिरेव करणं विना किं संभवेत् क्रिया // २५६
SK
तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् / दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते // २५७
SK
परैर्गमौ तु करणं नेष्यते चेति विस्मयः / गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् // २५८
SK
पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने / क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् // २५९
SK
ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् / तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः // २६०
SK
तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम / नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते // २६१
SK
करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः / नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् // २६२
SK
यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः / एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये // २६३
SK
नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः / उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् // २६४
SK
स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् / इह कर्मानुसंधानभेदादेकं विभिद्यते // २६५
SK
तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः / त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना // २६६
SK
स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः / पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् // २६७
SK
अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् / उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः // २६८
SK
तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते / तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः // २६९
SK
एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते / अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः // २७०
SK
उक्त इन्द्रियवर्गोयमहंकारात् तु राजसात् / तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः // २७१
SK
भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् / मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः // २७२
SK
इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये / अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः // २७३
SK
समस्तेन्द्रियसंचारचतुरं लघु वेगवत् / अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु // २७४
SK
राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते / खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् // २७५
SK
राजसाहंकृतेर्जातो रजसः कर्मता यतः / श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः // २७६
SK
इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः / तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने // २७७
SK
आलोचने शक्तिरन्तर्योजने मनसः पुनः / उक्तं च गुरुणा कुर्यान्मनोनुव्यवसायि सत् // २७८
SK
तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति / तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः // २७९
SK
अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि / पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले // २८०
SK
यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् / व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् // २८१
SK
स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् / एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना // २८२
SK
विशेषाणां यतोवश्यं दशा प्रागविशेषिणी / क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् // २८३
SK
नभः शब्दोवकाशात्मा वाच्याध्याससहो यतः / तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् // २८४
SK
वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता / अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते // २८५
SK
यतो वायुर्निजं रूपं लभते न विनाम्बरात् / उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः // २८६
SK
तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः / शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ // २८७
SK
तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् / तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः // २८८
SK
तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः / नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः // २८९
SK
यथा गुणगुणिद्वैतवादिनामेकमप्यदः / चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि // २९०
SK
यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता / तथैव योगिनां धर्मसामस्त्येनावभाति भूः // २९१
SK
गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः / उपायभेदाद्भात्येषा क्रमाक्रमविभागतः // २९२
SK
तत एव क्रमव्यक्तिकृतो धीभेद उच्यते / षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा // २९३
SK
तेन धर्मातिरिक्तोत्र धर्मी नाम न कश्चन / तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ // २९४
SK
संस्पर्शः पाकजोनुष्णाशीतः शब्दो विचित्रकः / शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि // २९५
SK
शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके / अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते // २९६
SK
वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे / यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते // २९७
SK
काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् / पटहे ध्वनिरित्येव भात्यबाधितमेव यत् // २९८
SK
न च हेतुत्वमात्रेण तदादानत्ववेदनात् / श्रोत्रं चास्मन्मतेहंकृत्कारणं तत्र तत्र तत् // २९९
SK
वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा / यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् // ३००
SK
शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते / तस्य मन्देपि मुरजध्वनावाकर्णके सति // ३०१
SK
अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् / नहि शब्दजशब्दस्य दूरादूररवोदितेः // ३०२
SK
श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता / न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते // ३०३
SK
तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु / कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः // ३०४
SK
एतच्चान्यैरपाकारि बहुधेति वृथा पुनः / नायस्तं पतिताघातदाने को हि न पण्डितः // ३०५
SK
अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा / गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते // ३०६
SK
व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल / सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् // ३०७
SK
अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् / तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः // ३०८
SK
न लाघवं च नामास्ति किंचिदत्र स्वदर्शने / गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा // ३०९
SK
यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते / ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा // ३१०
SK
अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् / समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् // ३११
SK
एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् / किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः // ३१२
SK
अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् / एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः // ३१३
SK
इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् // ३१४

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya