SKउच्यतेथ स्वस्वरूपप्रवेशः क्रमसङ्गतः / ०ब् यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये / तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे // १
SKततोप्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् / ततोपि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् // २
SKइत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी / अन्तेभ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् // ३
SKकथितोयं स्वस्वरूपप्रवेशः परमेष्ठिना /