Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 4: atha śrītantrāloke caturthamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे // १ब्
SK
अनन्तराह्निकोक्तेस्मिन्स्वभावे पारमेश्वरे / प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा // २
SK
विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् / स्वतुल्यं सोपि सोप्यन्यं सोप्यन्यं सदृशात्मकम् // ३
SK
चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ / अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः // ४
SK
ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् / अस्फुटादौ विकल्पे च भेदोप्यस्त्यान्तरालिकः // ५
SK
ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता / संविदभ्येति विमलामविकल्पस्वरूपताम् // ६
SK
अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् / भूयो भूयो विमृशतां जायते तत्स्फुटात्मता // ७
SK
ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः / परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा // ८
SK
उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा / नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा // ९
SK
किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ / स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः // १०
SK
अनावृत्ते स्वरूपेपि यदात्माच्छादनं विभोः / सैव माया यतो भेद एतावान्विश्ववृत्तिकः // ११
SK
तथाभासनमेवास्य द्वैतमुक्तं महेशितुः / तद्द्वयापासनेनायं परामर्शोभिधीयते // १२
SK
दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः / धारारूढेन सत्तर्ककुठारेणेति निश्चयः // १३
SK
तामेनां भावनामाहुः सर्वकामदुघां बुधाः / स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि // १४
SK
श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् / हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते // १५
SK
मार्गे चेतः स्थिरीभूतं हेयेपि विषयेच्छया / प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् // १६
SK
मार्गोत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः / विषिणोति निबध्नाति येच्छा नियतिसंगतम् // १७
SK
रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते / यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे // १८
SK
भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षेपि रागतः / स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् // १९
SK
सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः / शिवशासनमाहात्म्यं विदन्नप्यत एव हि // २०
SK
वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः / यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी // २१
SK
पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते / दृष्टाः साम्राज्यसंभोगं निन्दन्तः केपि वालिशाः // २२
SK
न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् / एवंचिद्भैरवावेशनिन्दातत्परमानसाः // २३
SK
भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः / तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे // २४
SK
आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् / श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् // २५
SK
वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः / ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः // २६
SK
बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः / मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते // २७
SK
रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् / मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति // २८
SK
मोक्षोपि वैष्णवादेर्यः स्वसंकल्पेन भावितः / परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता // २९
SK
विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः / स सवेद्यापवेद्यात्मप्रलयाकलतामयः // ३०
SK
तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः / तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः // ३१
SK
मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् / एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् // ३२
SK
तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः / असद्गुरौ रूढचित्स मायापाशेन रञ्जितः // ३३
SK
सोपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति / सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः // ३४
SK
श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया / भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति // ३५
SK
शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते / स्थित्वा योसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः // ३६
SK
गुरुशास्त्रगते सत्त्वेसत्त्वे चात्र विभेदकम् / शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते // ३७
SK
उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः / सर्वान्भ्रमयते माया सामोक्षे मोKषलिप्सया // ३८
SK
यस्तु रूढोपि तत्रोद्यत्परामर्शविशारदः / स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः // ३९
SK
आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः / स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते // ४०
SK
स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः / किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः // ४१
SK
तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः / यस्य स्वतोयं सत्तर्कः सर्वत्रैवाधिकारवान् // ४२
SK
अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः / स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः // ४३
SK
तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता / स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते // ४४
SK
शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् / सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते // ४५
SK
इति श्रीपूववाक्ये तद्+अकस्मादिति-शब्दतः / लोकाप्रसिद्धो यो हेतुः सोकस्मादिति कथ्यते // ४६
SK
स चैष परमेशानशुद्धविद्याविजृम्भतम् / अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः // ४७
SK
सर्वग्ॐशगतः सोपि मुख्यामुख्यांशनिष्ठितः / भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः // ४८
SK
अदृष्टमण्डलोप्येवं यः कश्चिद्वेत्ति तत्त्वतः / स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः // ४९
SK
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी / दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने // ५०
SK
अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः / यस्तु तद्रूपभागात्मभावनातः परं विना // ५१
SK
शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोकल्पितकल्पकः / तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः // ५२
SK
भावनातोथ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः / प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः // ५३
SK
श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले / श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् // ५४
SK
तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते / कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा // ५५
SK
ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा / एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः // ५६
SK
संसारिणोनुगृह्णाति विश्वस्य जगतः पतिः / मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये // ५७
SK
ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् / संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् // ५८
SK
तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते / स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् // ५९
SK
तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले / तत्रैव चोक्तं सेवायां कृतायामविकल्पतः // ६०
SK
साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते / आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् // ६१
SK
सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति / अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् // ६२
SK
उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः / तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि // ६३
SK
विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते / पक्षेण साधकोर्धार्धात्पुत्रकः समयी तथा // ६४
SK
दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः / गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् // ६५
SK
मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः / उक्तो यस्तेन तद्दोषाभावेसौ न निषिद्धता // ६६
SK
मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते / पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः // ६७
SK
तामसाः परहिंसादि वश्यादि च चरन्त्यलम् / न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् // ६८
SK
पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् / यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् // ६९
SK
गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् / येन केनाप्युपायेन गुरुमाराध्य भक्तितः // ७०
SK
तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः / अभिषेकं समासाद्य यो भवेत्स तु कल्पितः // ७१
SK
सन्नप्यशेषपाशौघविनिवर्तनकोविदः / यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि // ७२
SK
आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः / तस्य योकल्पितो भागः स तु श्रेष्ठमः स्मृतः // ७३
SK
उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः / यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः // ७४
SK
तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोधमाः / तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् // ७५
SK
किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् / यस्त्वकल्पितरूपोपि संवाददृढताकृते // ७६
SK
अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः / यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् // ७७
SK
आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते / तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः // ७८
SK
त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने / तत्संघातविपर्यासविग्रहैर्भासते तथा // ७९
SK
करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् / कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते // ८०
SK
तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः / इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः // ८१
SK
न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् / प्रमात्राश्वासपर्यन्तो यतोधिगम उच्यते // ८२
SK
आश्वासश्च विचित्रोसौ शक्तिपातवशात्तथा / प्रमितेपि प्रमाणानामवकाशोस्त्यतः स्फुटः // ८३
SK
दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा / प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति // ८४
SK
इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः / न व्यर्थता नानवस्था नान्योन्याश्रयतापि च // ८५
SK
एवं योगाङ्गमियति तर्क एव न चापरम् / अन्तरन्तः परामर्शपाटवातिशयाय सः // ८६
SK
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः / इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः // ८७
SK
तपःप्रभृतयो ये च नियमा यत्तथासनम् / प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् // ८८
SK
श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके / चित्तप्रलयबन्धेन प्रलीने शशिभास्करे // ८९
SK
प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके / मोक्षः स एव कथितः प्राणायामो निरर्थकः // ९०
SK
प्राणायामो न कर्तव्यः शरीरं येन पीड्यते / रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः // ९१
SK
प्रत्याहारश्च नामायमर्थेभ्योक्षधियां हि यः / अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् // ९२
SK
चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् / तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् // ९३
SK
यदा तु ज्ञेयतादात्म्यमेव संविदि जायते / ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः // ९४
SK
तदेषा धारणाध्यानसमाधित्रितयी पराम् / संविदं प्रति नो कंचिदुपयोगं समश्नुते // ९५
SK
योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते / स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः // ९६
SK
अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः / बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि // ९७
SK
अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् / सर्वात्मकत्वात्तत्रस्थोप्यभ्यासोन्यव्यपोहनम् // ९८
SK
देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् / उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् // ९९
SK
गुरुवाक्यपरामर्शसदृशे स्वविमर्शने / प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने // १००
SK
नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा / धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् // १०१
SK
अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि / तादात्म्यभावनायोगो न फलाय न भण्यते // १०२
SK
संकेतानादरे शब्दनिष्ठमामर्शनं पठिः / तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् // १०३
SK
तदद्वयायां संवित्तावभ्यासोनुपयोगवान् / केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः // १०४
SK
द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् / तत्तर्कसाधनायास्तु यमादेरप्युपायता // १०५
SK
उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् / लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना // १०६
SK
विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा / प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः // १०७
SK
तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् / किं त्वेतदत्र देवेशि नियमेन विधीयते // १०८
SK
तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति / एवं द्वैतपरामर्शनाशाय परमेश्वरः // १०९
SK
क्वचित्स्वभावममलमामृशन्ननिशं स्थितः / यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः // ११०
SK
विनैव तन्मुखोन्यो वा स्वातन्त्र्यात्तद्विकल्पनम् / तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् // १११
SK
भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते / तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् // ११२
SK
शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् / इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् // ११३
SK
प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् / शुद्धविद्यापरामर्शो यः स एव त्वनेकधा // ११४
SK
स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः / विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् // ११५
SK
आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् / उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते // ११६
SK
सितभस्मनि देहस्य मज्जनं स्नानमुच्यते / इत्थं च विहितस्नानस्तर्पितानन्तदेवतः // ११७
SK
ततोपि देहारम्भीणि तत्त्वानि परिशोधयेत् / शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी // ११८
SK
सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् / एवं स्वदेहं बोधैकपात्रं गलितभेदकम् // ११९
SK
पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः / यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ // १२०
SK
योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् / पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः // १२१
SK
स्वतन्त्रविमलानन्तभैरवीयचिदात्मना / तथाहि संविदेवेयमन्तर्बाह्योभयात्मना // १२२
SK
स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी / स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः // १२३
SK
सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः / कलाद्वादशकात्मैव तत्संवित्परमार्थतः // १२४
SK
सा च मातरि विज्ञाने माने करणगोचरे / मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा // १२५
SK
शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी / करणे ग्रहणाकारा यतः श्रीयोगसंचरे // १२६
SK
ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि / षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् // १२७
SK
प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते / द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले // १२८
SK
तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे / चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये // १२९
SK
मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि / संमीलनोन्मीलनं ते अन्योन्यं विदधातके // १३०
SK
यथा योनिश्च लिङ्गं च संयोगात्स्रवतोमृतम् / तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः // १३१
SK
तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् / तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते // १३२
SK
सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् / ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् // १३३
SK
तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः / सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् // १३४
SK
षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः / एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् // १३५
SK
सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः / तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् // १३६
SK
सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते / पञ्चारे सविकारोथ भूत्वा सोमस्रुतामृतात् // १३७
SK
धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः / यतो जातं जगल्लीनं यत्र च स्वकलीलया // १३८
SK
तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः / तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् // १३९
SK
अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् / अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि // १४०
SK
तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः / अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् // १४१
SK
गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता / सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् // १४२
SK
एवं श्रोत्रेपि विज्ञेयं यावत्पादान्तगोचरम् / पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् // १४३
SK
इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् / ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः // १४४
SK
अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् / एकैकत्र यतस्तेन द्वादशात्मकतोदिता // १४५
SK
न व्याख्यातं तु निर्भज्य यतोतिसरहस्यकम् / मेयेपि देवी तिष्ठन्ती मासराश्यादिरूपिणी // १४६
SK
अत एषा स्थिता संविदन्तर्बाह्योभयात्मना / स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते // १४७
SK
ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका / सृष्टिं कलयते देवी तन्नाम्नागम उच्यते // १४८
SK
तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी / स्ववृत्तिचक्रेण समं ततोपि कलयन्त्यलम् // १४९
SK
स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् / संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते // १५०
SK
ततोपि संहाररसे पूर्णे विघ्नकरीं स्वयम् / शङ्कां यमात्मिकां भागे सूते संहरतेपि च // १५१
SK
संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले / संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् // १५२
SK
विलापनात्मिकां तां च भावसंहृतिमात्मनि / आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् // १५३
SK
संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः / निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते // १५४
SK
विलापितेपि भावौघे कंचिद्भावं तदैव सा / आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः // १५५
SK
शुभाशुभतया सोयं सोष्यते फलसंपदम् / पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते // १५६
SK
अन्यदाश्यानितमपि तदैव द्रावयेदियम् / प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् // १५७
SK
रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः / तदपि द्रावयेदेव तदप्याश्यानयेदथ // १५८
SK
इत्थं भोग्येपि संभुक्ते सति तत्करणान्यपि / संहरन्ती कलयते द्वादशैवाहमात्मनि // १५९
SK
कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः / प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते // १६०
SK
अहंकारस्तु करणमभिमानैकसाधनम् / अविच्छिन्नपरामर्शी लीयते तेन तत्र सः // १६१
SK
यथाहि खङ्गपाशादेः करणस्य विभेदिनः / अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः // १६२
SK
तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् / संविद्देवी स्वतन्त्रत्वात्कल्पितेहंकृतात्मनि // १६३
SK
स एव परमादित्यः पूर्णकल्पस्त्रयोदशः / करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् // १६४
SK
कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः / कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः // १६५
SK
कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता / कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः // १६६
SK
संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः / अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते // १६७
SK
सोपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि / विकासिनि महाकाले लीयतेहमिदंमये // १६८
SK
एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः / इति प्रविकसद्रूपा संवित्तिरवभासते // १६९
SK
ततोन्तःस्थितसर्वात्मभावभोगोपरागिणी / परिपूर्णापि संवित्तिरकुले धाम्नि लीयते // १७०
SK
प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः / मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् // १७१
SK
इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः / स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी // १७२
SK
इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः / क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् // १७३
SK
स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् / ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् // १७४
SK
गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् / नादः स्वात्मपरामर्शशेषता तद्विलोपनात् // १७५
SK
इति पञ्चविधामेनां कलनां कुर्वती परा / देवी काली तथा कालकर्षिणी चेति कथ्यते // १७६
SK
मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु / एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् // १७७
SK
वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे / इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु // १७८
SK
एकैवेति न कोप्यस्याः क्रमस्य नियमः क्वचित् / क्रमाभावान्न युगपत्तदभावात्क्रमोपि न // १७९
SK
क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् / तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् // १८०
SK
तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते / परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः // १८१
SK
सदोदितः स एवोक्तः परमं हृदयं महत् / हृदये स्वविमर्शोसौ द्राविताशेषविश्वकः // १८२
SK
भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः / स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः // १८३
SK
किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् / ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना // १८४
SK
निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता / सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् // १८५
SK
तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् / तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् // १८६
SK
इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते / तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि // १८७
SK
विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते / एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् // १८८
SK
विसर्गं परबोधेन समाक्षिप्यैव वर्तते / तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् // १८९
SK
अन्तर्नदत्परामर्शशेषीभूतं ततोप्यलम् / खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् // १९०
SK
वेदनात्मकतामेत्य संहारात्मनि लीयते / इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् // १९१
SK
एतद्रूपपरामर्शमकृत्रिममनाबिलम् / अहमित्याहुरेषैव प्रकाशस्य प्रकाशता // १९२
SK
एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् / विनानेन जडास्ते स्युर्जीवा इव विना हृदा // १९३
SK
अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् / प्राण्याद्वा मृशते वापि स सर्वोस्य जपो मतः // १९४
SK
यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा / निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् // १९५
SK
निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति / फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता // १९६
SK
यथा ह्यभेदात्पूर्णेपि भावे जलमुपाहरन् / अन्याकृत्यपहानेन घटमर्थयते रसात् // १९७
SK
तथैव परमेशाननियतिप्रविजृम्भणात् / काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् // १९८
SK
यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति / तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् // १९९
SK
कुले योगिन उद्रिक्तभैरवीयपरासवात् / घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा // २००
SK
अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः / जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी // २०१
SK
बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः / उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् // २०२
SK
यं कंचित्परमेशानशक्तिपातपवित्रितम् / पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः // २०३
SK
जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि / उदेति रूढिः परमा तथापीत्थं निरूपितम् // २०४
SK
यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु / चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् // २०५
SK
तथा संविद्विचित्राभिः शान्तघोरतरादिभिः / भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते // २०६
SK
यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् / भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः // २०७
SK
तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि / आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् // २०८
SK
तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि / पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् // २०९
SK
फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् / अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् // २१०
SK
एष यागविधिः कोपि कस्यापि हृदि वर्तते / यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः // २११
SK
अत्र यागे गतो रूढिं कैवल्यमधिगच्छति / लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः // २१२
SK
अत्र नाथः समाचारं पटलेष्टादशेभ्यधात् / नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् // २१३
SK
न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च / न चापि तत्परित्यागो निष्परिग्रहतापि वा // २१४
SK
सपरिग्रहता वापि जटाभस्मादिसंग्रहः / तत्त्यागो न व्रतादीनां चरणाचरणं च यत् // २१५
SK
क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् / परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् // २१६
SK
नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते / विहितं सर्वमेवात्र प्रतिषिद्धमथापि च // २१७
SK
किं त्वेतदत्र देवेशि नियमेन विधीयते / तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना // २१८
SK
तच्च यस्य यथैव स्यात्स तथैव समाचरेत् / तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि // २१९
SK
न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा / विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि // २२०
SK
विषं न मुह्यते तेन तद्वद्योगी महामतिः / अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् // २२१
SK
प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः / अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् // २२२
SK
अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि / पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा // २२३
SK
अन्योन्याश्रयता सेयमशुद्धत्वेप्ययं क्रमः / अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् // २२४
SK
वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः / बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता // २२५
SK
मन्त्राः स्वभावतः शुद्धा यदि तेपि न किं तथा / शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् // २२६
SK
शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् / ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता // २२७
SK
योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता / ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः // २२८
SK
इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता / का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् // २२९
SK
वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् / सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः // २३०
SK
अपवादेन कर्तव्यः सामान्यविहिते विधौ / शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि // २३१
SK
पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् / नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् // २३२
SK
अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् / व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति // २३३
SK
अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः / शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति // २३४
SK
इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः / तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः // २३५
SK
अर्थवादोपि यत्रान्यविध्यादिमुखमीक्षते / तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः // २३६
SK
विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा / न निरर्थकं एवायं संनिधेर्गजडादिवत् // २३७
SK
स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते / तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः // २३८
SK
युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता / या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी // २३९
SK
मृतदेहेथ देहोत्थे या चाशुद्धिः प्रकीर्तिता / अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् // २४०
SK
संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् / श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे // २४१
SK
सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् / यत्किंचिज्जीवरहितमशुद्धं तद्विजानत // २४२
SK
तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् / अविकल्पेन भावेन मुनयोपि तथाभवन् // २४३
SK
लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् / बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् // २४४
SK
प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् / यदि वा वस्तुधर्मोपि मात्रपेक्षानिबन्धनः // २४५
SK
सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः / अनेन चोदनानां च स्ववाक्यैरपि बाधनम् // २४६
SK
क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् / भक्ष्यादिविधयोप्येनं न्यायमाश्रित्य चर्चिताः // २४७
SK
सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः / नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् // २४८
SK
उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् / न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन // २४९
SK
वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् / बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् // २५०
SK
तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् / नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् // २५१
SK
यतो यद्यपि देवेन वेदाद्यपि निरूपितम् / तथापि किल संकोचभावाभावविकल्पतः // २५२
SK
संकोचतारतम्येन पाशवं ज्ञानमीरितम् / विकासतारतम्येन पतिज्ञानं तु बाधकम् // २५३
SK
इदं द्वैतमिदं नेति परस्परनिषेधतः / मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् // २५४
SK
उक्तं भर्गशिखायां च मृत्युकालकलादिकम् / द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति // २५५
SK
सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे / कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे // २५६
SK
इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने / नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये // २५७
SK
जटादि कौले त्यागोस्य सुखोपायोपदेशतः / व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये // २५८
SK
तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये / क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये // २५९
SK
मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते / क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा // २६०
SK
वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् / समयाचारसद्भावः पाल्यत्वेनोपदिश्यते // २६१
SK
भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये / समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते // २६२
SK
निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति / परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् // २६३
SK
ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् / आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते // २६४
SK
नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा / गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः // २६५
SK
श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता / इत्थमर्धचतस्रोत्र मठिकाः शांकरे क्रमे // २६६
SK
युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः / आदिशब्देन च घरं पल्ली पीठोपपीठकम् // २६७
SK
मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् / तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् // २६८
SK
भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि / एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः // २६९
SK
अखण्डेपि परे तत्त्वे भेदेनानेन जायते / एवं क्षेत्रप्रवेशादि संताननियमान्ततः // २७०
SK
नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे / न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् // २७१
SK
विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ / विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने // २७२
SK
परतत्त्वप्रवेशे तु यमेव निकटं यदा / उपायं वेत्ति स ग्राह्यस्तदा त्याज्योथ वा क्वचित् // २७३
SK
न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने / समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः // २७४
SK
आगमनां गतीनां च सर्वं शिवमयं यतः / स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति // २७५
SK
यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते / केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका / भैरवीयपरमाद्वयार्चने कोपि रज्यति महेशचोदितः // २७६
SK
अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः / हिमानीव महाग्रीष्मे स्वयमेव विलीयते // २७७
SK
अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते / योग्योभिनवगुप्तोस्मिन्कोपि यागविधौ बुधः // २७८
SK
इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् // २७९अ

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source