SKअथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो त्र विधिः / यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् / गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः // १
SKतदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् / सामुदायिकयागेथ तथान्यत्र यथोदितम् // २
SKषडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया / चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते // ३
SKद्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते / असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः // ४
SKतस्माद्यथातथा यागं यावच्चक्रेण संमितम् / पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् // ५
SKत्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः / मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् // ६
SKवर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते / आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् // ७
SKकृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेत्र देवताः / बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः // ८
SKमण्डलस्य पुरोभागे तदैशानदिशः क्रमात् / आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् // ९
SKगणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः / इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः // १०
SKतत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् / पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् // ११
SKशिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् / मध्यशूले मध्यगः स्यात्सद्भावः परया सह // १२
SKवामे चापरया साकं नवात्मा दक्षगं परम् / त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः // १३
SKस्यात्परापरया साकं दक्षे भैरवसत्परे / वामे त्रिशूले मध्यस्थो नवात्मापरया सह // १४
SKस्यात्परे परया साकं वामारे संश्च भैरवः / इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति // १५
SKयागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः / एकशूलेप्यतो यागे चिन्तयेत्तदधिष्ठितम् // १६
SKअविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् / ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः // १७
SKलोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् / परत्वेन च सर्वासां देवतानां प्रपूजयेत् // १८
SKश्रीमन्तं मातृसद्भावभट्टारकमनामयम् / ततोपि भोगयागेन विद्याङ्गं भैरवाष्टकम् // १९
SKयामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः / लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः // २०
SKपूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः / ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् // २१
SKपञ्चानामनुसन्धानं कुर्यादद्वयभावनात् / ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् // २२
SKमन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि / स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः // २३
SKप्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते / वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः // २४
SKमूलानुसन्धानबलात्प्राणतन्तूम्भने सति / इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते // २५
SKततो विशेषपूजां च कुर्यादद्वयभाविताम् / यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् // २६
SKतेनार्घपुष्पगन्धादेरासवस्य पशोरथ / या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः // २७
SKनिवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् / सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् // २८
SKदृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः / निर्वापितो वीरपशुः सोष्टधोत्तरतोत्तमः // २९
SKयथोत्तरं न दातव्यमयोग्येभ्यः कदाचन / शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति // ३०
SKयस्तु दीक्षाविहीनोपि शिवेच्छाविधिचोदितः / भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः // ३१
SKदृष्टोवलोकितश्चैव किरणेद्धदृगर्पणात् / प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः // ३२
SKसंद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः / प्रालब्ध उक्तत्रितयसंस्कृतः सोपि धूनयेत् // ३३
SKकम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् / उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः // ३४
SKयोजितः कारणत्यागक्रमेण शिवयोजनात् / निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् // ३५
SKदक्षिणेनाग्निना सौम्यकलाजालविलापनात् / तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् // ३६
SKतस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् / पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् // ३७
SKनाभिचक्रेथ विश्राम्येत्प्राणरश्मिगणैः सह / परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् // ३८
SKस्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् / ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि // ३९
SKसमस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् / उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् // ४०
SKतत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् / कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः // ४१
SKवामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः / हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् // ४२
SKशुद्धसोमात्मकं सारमीषल्लोहितपीतलम् / आदाय करिहस्ताग्रसदृशे प्राणविग्रहे // ४३
SKनिःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् / आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे // ४४
SKस्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् / अनेन विधिना सर्वान्रसरक्तादिकांस्तथा // ४५
SKधातून्समाहरेत्संघक्रमादेकैकशोथवा / केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् // ४६
SKज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् / जीवं समरसीकुर्याद्देवीचक्रेण भावनात् // ४७
SKतदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा / अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् // ४८
SKपिण्डो रक्तादिसारौघचालनाकर्षणादिषु / इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति // ४९
SKआवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् / कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः // ५०
SKयथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् / निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् // ५१
SKपरोक्षेपि पशावेवं विधिः स्याद्योजनं प्रति / प्रवेशितो यागभुवि हतस्तत्रैव साधितः // ५२
SKचक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते / यस्त्वन्यत्रापि निहतः सामस्त्येनांशतोपिवा // ५३
SKदेवाय विनिवेद्येत स वै बाह्यपशुर्मतः / राज्यं लाभोथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता // ५४
SKशिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता / तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः // ५५
SKपुष्पादयोपि तल्लाभभागिनः शिवपूजया / एकोपायेन देवेशो विश्वानुग्रहणात्मकः // ५६
SKयागेनैवानुगृह्णाति किं किं यन्न चराचरम् / तेनावीरोपि शङ्कादियुक्तः कारुणिकोपिच // ५७
SKन हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् / पशोर्महोपकारोयं तदात्वेप्यप्रियं भवेत् // ५८
SKव्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् / श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः // ५९
SKमलत्रयवियोगेन शरीरं न प्ररोहति / धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल // ६०
SKतेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी / रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् // ६१
SKइयं तु योजनैव स्यात्पशोर्देवाय तर्पणे / तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति // ६२
SKनिवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः / षट्कृत्व इत्थं यः सोत्र षड्जन्मा पशुरुत्तमः // ६३
SKयथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः / कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते // ६४
SKउक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् / समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् // ६५
SKदीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः / ततो मनुष्यतामेत्य पुनरेवं करोत्यपि // ६६
SKइत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् / चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते // ६७
SKदात्रर्पितोसौ तद्द्वारा याति सायुज्यतः शिवम् / इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् // ६८
SKभोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् / नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् // ६९
SKतं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् / तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना // ७०
SKपशोर्वपामेदसी च गालिते वह्निमध्यतः / अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् // ७१
SKहृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् / कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा // ७२
SKततोग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः / तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् // ७३
SKगुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर / साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा // ७४
SKअनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः / तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् // ७५
SKसमावेशय मां स्वात्मरश्मिभिर्यदहं शिवः / एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् // ७६
SKशिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् / स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया // ७७
SKततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् / अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये // ७८
SKतेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् / गर्भावरणगानङ्गपरिवारासनोज्झितान् // ७९
SKआत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् / कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः // ८०
SKमण्डलस्थोहमेवायं साक्षी चाखिलकर्मणाम् / शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया // ८१
SKहोमाधिकरणत्वेन वह्नावहमवस्थितः / यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् // ८२
SKसामान्यतेजोरूपान्तराहूता भुवनेश्वराः / तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते // ८३
SKआ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये / सामान्यरूपता येन विशेषाप्यायकारिणी // ८४
SKशिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये / स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते // ८५
SKसाक्षात्स्वदेहसंस्थोहं कर्तानुग्रहकर्मणाम् / ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः // ८६
SKभिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् / एको यथाहं वह्न्यादिषड्रूपोस्मि तथा स्फुटम् // ८७
SKएवमालोच्य येनैषोध्वना दीक्षां चिकीर्षति / अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् // ८८
SKअनुसन्धिबलान्ते च समासव्यासभेदतः / कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् // ८९
SKततोपि चिन्तया भूयोनुसन्दध्याच्छिवात्मताम् / अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् // ९०
SKमहाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् / नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् // ९१
SKकर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् / इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः // ९२
SKमत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते / तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् // ९३
SKयथायोगोलको याति गुरुरेवं शिवात्मताम् / ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् // ९४
SKपरोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते / शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् // ९५
SKयेनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः / तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः // ९६
SKशोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् / न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः // ९७
SKक्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः / स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः // ९८
SKअपरं परापरं च परं च विधिमिच्छया / तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः // ९९
SKललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके / वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः // १००
SKक्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते / तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले // १०१
SKधरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् / रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले // १०२
SKपुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् / अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् // १०३
SKसदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले / प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः // १०४
SKशिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् / सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् // १०५
SKजलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः / द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः // १०६
SKजलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये / तच्चतुर्विंशत्याधिक्यात्परोप्यष्टशते विधिः // १०७
SKत्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् / मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया // १०८
SKनवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया / न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् // १०९
SKकलापञ्चकवेदाण्डन्यासोनेनैव लक्षितः / उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् // ११०
SKद्वादशाङ्गुलमुत्थानं देहातीतं समं ततः / द्वासप्ततिर्दश द्वे च देहस्थं शिरसोन्ततः // १११
SKपादादारभ्य सुश्रोणि अनाहतपदावधि / देहातीतेपि विश्रान्त्या संवित्तेः कल्पनावशात् // ११२
SKदेहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् / इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् // ११३
SKपुरन्यासोथ गुल्फान्तं भूः पुराण्यत्र षोडश / तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः // ११४
SKद्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु / देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः // ११५
SKइति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् / षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश // ११६
SKततोप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये / चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले // ११७
SKसरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले / क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् // ११८
SKसंवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् / शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता // ११९
SKश्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना / उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये // १२०
SKअसारत्वात्क्रमस्यादौ नियतिः परतः कला / अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता // १२१
SKएकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये / कालस्य पूर्वं विन्यासो नियतेरभिधीयते // १२२
SKअथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते / एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले // १२३
SKततोप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् / प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये // १२४
SKइत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि / पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् // १२५
SKद्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले / तत ऐशपुराण्यष्टौ चतुष्केर्धाङ्गुलक्रमात् // १२६
SKततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये / सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ // १२७
SKषोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः / वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः // १२८
SKअष्टादशाधिकशतं पुराणि देहेत्र चतुरशीतिमिते / विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् // १२९
SKइति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने / अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् // १३०
SKलकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य / अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः // १३१
SKअपरादिविधित्रैतादथ न्यासः पदाध्वनः / पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा // १३२
SKतयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना / तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली // १३३
SKतत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा / स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् // १३४
SKन्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् / चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ // १३५
SKदशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु / धरापदान्नवपदीं मातृकामालिनीगताम् // १३६
SKयोजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् / धरापदं वर्जयित्वा पञ्च यानि पदानि तु // १३७
SKविधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् / मन्त्राध्वनोप्येष एव विधिर्विन्यासयोजने // १३८
SKव्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा / वर्णाध्वनोथ विन्यासः कथ्यतेत्र विधित्रये // १३९
SKएकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् / त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु // १४०
SKप्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः / मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः // १४१
SKवर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् / तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् // १४२
SKश्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् / अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् // १४३
SKद्विविधोपि हि वर्णानां षड्विधो भेद उच्यते / तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः // १४४
SKउपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु / भूयोतिदिष्टं तत्रैव शास्त्रेस्मद्धृदयेश्वरे // १४५
SKपदमन्त्रकलादीनां पूर्वसूत्रानुसारतः / त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना // १४६
SKउक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते / चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ // १४७
SKनिवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका / द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् // १४८
SKक्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् / चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते // १४९
SKकलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् / एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा // १५०
SKन्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् / अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः // १५१
SKशब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा / एकवीरतया यद्वा षट्कं यामलयोगतः // १५२
SKपञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा / एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका // १५३
SKषडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः / द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका // १५४
SKअघोराद्यष्टके द्वे च तृतीयं यामलोदयात् / मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः // १५५
SKएकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः / एकवीरतया सोयं चतुर्दशतया स्थितः // १५६
SKअनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् / देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् // १५७
SKइत्थं शोधकवर्गोयं मन्त्राणां सप्ततिः स्मृता / षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते // १५८
SKअघोराद्यष्टकेनेह शोधनीयं विपश्चिता / अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् // १५९
SKभैरवीयहृदा वापि खेचरीहृदयेन वा / भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः // १६०
SKयेन येन हि मन्त्रेण तन्त्रेस्मिन्नुद्भवः कृतः / तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी // १६१
SKएवं शोधकभेदेन सप्ततिः कीर्तिता भिदः / शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् // १६२
SKतदा सप्ततिधा ज्ञेया जननादिविवर्जिता / शोध्यभेदोथ वक्तव्यः संक्षेपात्सोपि कथ्यते // १६३
SKएकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः / पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् // १६४
SKएवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् / शोध्यशोधकभेदेन शतानि त्वेकविंशतिः // १६५
SKअत्रापि न्यासयोगेन शोध्येध्वनि तथाकृतेः / शतैकविंशतिभिदा जननाद्युज्झिता भवेत् // १६६
SKजननादिमयी तावत्येवं शतदृशि श्रुतिः / स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः // १६७
SKद्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका / भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता // १६८
SKअशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् / द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि // १६९
SKएकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः / गुरुशिष्यक्रमात्सोपि द्विधेत्येवं विभिद्यते // १७०
SKप्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः / तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः // १७१
SKपरोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् / क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् // १७२
SKअविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते / अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् // १७३
SKश्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् / शिष्याणां च गुरोश्चोक्तमभिन्नेपि क्रियादिके // १७४
SKभोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् / वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः // १७५
SKतथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः / भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः // १७६
SKशुभानां कर्मणां चात्र सद्भावे भोगचित्रता / तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता // १७७
SKभोगश्च सद्य+उत्क्रान्त्या देहेनैवाथ संगतः / तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः // १७८
SKप्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते / मोक्ष एकोपि बीजस्य समयाख्यस्य तादृशम् // १७९
SKबालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् / वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा // १८०
SKसद्य+उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः / कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता // १८१
SKदृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् / उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् // १८२
SKपञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः / उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः // १८३
SKएतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः / हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये // १८४
SKपञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता / तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् // १८५
SKपञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या / अष्टौ शतानि दीक्षाभेदोयं मालिनीतन्त्रे // १८६
SKसप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः / साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा // १८७
SKद्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता / पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् // १८८
SKयस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा / मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः // १८९
SKशोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा / दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा // १९०
SKमन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् / श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् // १९१
SKभेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः / भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा // १९२
SKशोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् / भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् // १९३
SKकारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् / अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा // १९४
SKअल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा / अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ // १९५
SKअपवर्गेपि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः / चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येपि क्रमेण सन्धानात् // १९६
SKतस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति / तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः // १९७
SKइत्थं क्रमसंवित्तौ मूढोपि शिवात्मको भवति / क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् // १९८
SKशिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् / यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते // १९९
SKशास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता / मोक्षेप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः // २००
SKइति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् / संस्कारशेषवर्तनजीवितमध्येस्य समयलोपाद्यम् // २०१
SKनायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् / यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये // २०२
SKभुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् / इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे // २०३
SKसमयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः // २०४
SKतस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् / क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेपि युक्तमतिविततम् // २०५
SKयस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः / अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् // २०६
SKएवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् / शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः // २०७
SKद्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा / कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये // २०८
SKवर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः / मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः // २०९
SKउवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् / बाढमेको हि पाशात्मा शब्दोन्यश्च शिवात्मकः // २१०
SKतस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता / श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति // २११
SKसद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च / षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः // २१२
SKपरापराया वैलोम्याद्धरायां स्यात्पदत्रयम् / ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् // २१३
SKपदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् / एकं त्वशुद्धवित्कालद्वये चैकं नियामके // २१४
SKकलामायाद्वये चैकं पदमुक्तमिह क्रमात् / विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् // २१५
SKएकोनविंशतिः सेयं पदानां स्यात्परापरा / सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् // २१६
SKत्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः / एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः // २१७
SKहल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः / मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् // २१८
SKशक्त्यन्तमेकमपरान्यासे विधिरुदीरितः / मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते // २१९
SKनिष्कले शिवतत्त्वे वै परो न्यासः परोदितः / परापरापदान्येव ह्यघोर्याद्यष्टकद्वये // २२०
SKमन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् / पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः // २२१
SKअव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् / बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् // २२२
SKपिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे / अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः // २२३
SKशोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति / श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना // २२४
SKअधुना न्यासमात्रेण भूतशुद्धिः प्रजायते / देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः // २२५
SKअन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे / ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते // २२६
SKमालिनीमातृकाङ्गस्य न्यासो योर्चाविधौ पुरा / प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु // २२७
SKत्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि / दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने // २२८
SKअङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् / अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे // २२९
SKतुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् / द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् // २३०
SKकेवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः / तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि // २३१
SKनिष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे / इत्यादिना तत्त्वगतक्रमन्यास उदीरितः // २३२
SKपुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः / द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः // २३३
SKएकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् / अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् // २३४
SKद्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् / द्वादशाङ्गुलमन्यच्च द्वेन्ये पञ्चाङ्गुले पृथक् // २३५
SKपदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी / एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते // २३६
SKविद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् / इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् // २३७
SKएवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः / पाशजालं विलीयेत तद्ध्यानबलतो गुरोः // २३८
SKशोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः / जननाद्भोगतः कर्मक्षये स्यादपवृक्तता // २३९
SKदेहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् / मनोनुसन्धिर्नो विश्वसंयोगप्रविभागवत् // २४०
SKनियत्या मनसो देहमात्रे वृत्तिस्ततः परम् / नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता // २४१
SKप्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् / भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति // २४२
SKयदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् / योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा // २४३
SKयथामलं मनो दूरस्थितमप्याशु पश्यति / तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् // २४४
SKजननादिवियुक्तां तु यदा दीक्षां चिकीर्षति / तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् // २४५
SKयदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः / जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् // २४६
SKएकाकिशोद्धृन्यासे च जननादिविवर्जने / तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् // २४७
SKद्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् / तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः // २४८
SKयदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् / तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् // २४९
SKविकल्पः किल संजल्पमयो यत्स विमर्शकः / मन्त्रात्मासौ विमर्शश्च शुद्धोपाशवतात्मकः // २५०
SKनित्यश्चानादिवरदशिवाभेदोपकल्पितः / तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् // २५१
SKश्रीसारशास्त्रे तदिदं परमेशेन भाषितम् / अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी // २५२
SKसा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ / परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता // २५३
SKपरामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः / उक्तं श्रीपौष्करेन्ये च ब्रह्मविष्ण्वादयोण्डगाः // २५४
SKप्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः / तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः // २५५
SKवैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने / ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः // २५६
SKश्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः / ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता // २५७
SKप्राक्कुतः स विमर्शाच्चेत्कुतः सोपि निरूपणे / आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः // २५८
SKयः संक्रान्तोभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः / पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा // २५९
SKसंजल्पो ह्यभिसंक्रान्तः सोद्याप्यस्तीति गृह्यताम् / यस्तथाविधसंजल्पबलात्कोपि स्वतन्त्रकः // २६०
SKविमर्शः कल्प्यते सोपि तदात्मैव सुनिश्चितः / घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते // २६१
SKसोप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः / पणायते करोतीति विकल्पस्योचितौ स्फुटम् // २६२
SKकरपाण्यभिजल्पौ तौ संकीर्येतां कथं किल / शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः // २६३
SKव्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी / तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् // २६४
SKयावद्बालस्य संवित्तिरकृत्रिमविमर्शने / तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् // २६५
SKशब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः / यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् // २६६
SKतत्तस्यैव कुतोन्यस्य तत्कस्मादन्यकल्पना / एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् // २६७
SKलक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः / तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् // २६८
SKऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् / मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् // २६९
SKगुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ / तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् // २७०
SKगुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् / अंशेनाप्यथ वैषम्ये न ततोर्थक्रिया हि सा // २७१
SKगोमयात्कीटतः कीट इत्येवं न्यायतो यदा / संजल्पान्तरतोप्यर्थक्रियां तामेव पश्यति // २७२
SKतदैष सत्यसंजल्पः शिव एवेति कथ्यते / स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः // २७३
SKनैषोभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः / योर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः // २७४
SKमन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् / तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् // २७५
SKकान्तासंभोगसंजल्पसुन्दरः कामुकः सदा / तत्संस्कृतोप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति // २७६
SKतथा तन्मन्त्रसंजल्पभावितोन्यदपि ब्रुवन् / अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् // २७७
SKविकल्पयन्नप्येकार्थं यतोन्यदपि पश्यति / विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने // २७८
SKयदि वा विषनाशेपि हेतुभेदाद्विचित्रता / धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति // २७९
SKतदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः / भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः // २८०
SKवस्त्वेव भावयत्येष न संजल्पमिमं पुनः / गृह्णाति भासनोपायं भाते तत्र तु तेन किम् // २८१
SKएवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् / अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् // २८२
SKनिर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् / तत्तथैव तथात्मत्वाद्वस्तुनोपि बहिःस्थितेः // २८३
SKविशेषतस्त्वमायीयशिवताभेदशालिनः / मोक्षेभ्युपायः संजल्पो बन्धमोक्षौ ततः किल // २८४
SKविकल्पेपि गुरोः सम्यगभिन्नशिवताजुषः / अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते // २८५
SKतद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता / महासंवित्समासन्नेत्युक्तं श्रीगमशासने // २८६
SKनिकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् / सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् // २८७
SKउक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते / मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल // २८८
SKयोगमेकत्वमिच्छन्ति वस्तुनोन्येन वस्तुना / तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये // २८९
SKतत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् / सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् // २९०
SKन चाधिकारिता दीक्षां विना योगेस्ति शाङ्करे / क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते // २९१
SKद्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् / नच योगाधिकारित्वमेकमेवानया भवेत् // २९२
SKअपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया / अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये // २९३
SKमन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः / मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् // २९४
SKतत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् / तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् // २९५
SKतत्स्यादस्यान्यतत्त्वेपि युक्तस्य गुरुणा शिशोः / दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः // २९६
SKस्वबलेनैव भोगं वा मोक्षं वा लभते बुधः / तेन विज्ञानयोगादिबली प्राक् समयी भवन् // २९७
SKपुत्रको वा न तावान्स्यादपितु स्वबलोचितः / यस्तु विज्ञानयोगादिवन्ध्यः सोन्धो यथा पथि // २९८
SKदैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा / दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् // २९९
SKमोचिकैवेति कथितं युक्त्या चागमतः पुरा / यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः // ३००
SKस्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः / सोपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते // ३०१
SKगुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः / दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् // ३०२
SKकर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् / यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः // ३०३
SKत्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि / तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः // ३०४
SKकर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः / ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः // ३०५
SKगुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् / यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् // ३०६
SKस्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् / शुभपाकक्रमोपात्तफलभोगसमाप्तितः // ३०७
SKयत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते / भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् // ३०८
SKअशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः / भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः // ३०९
SKन दुःखफलदं देहाद्यध्वमध्येपि किंचन / ततो मायालये भुक्तसमस्तसुखभोगकः // ३१०
SKनिष्कले सकले वैति लयं योजनिकाबलात् / इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा // ३११