Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 37: atha śrītantrāloke saptatriṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते / प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः // १
SK
यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः / सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः // २
SK
तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि / मनाक्फलेभ्युपादेयतमं तद्विपरीतकम् // ३
SK
यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् / क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः // ४
SK
यदार्षे पातहेतूक्तं तदस्मिन्वामशासने / आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् // ५
SK
तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् / यदशेषोपदेशेन सूयतेनुत्तरं फलम् // ६
SK
यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः / उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् // ७
SK
यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् / अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेधरशासने // ८
SK
ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते / अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् // ९
SK
श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना / ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् // १०
SK
नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् / तदार्षे पातहेतूक्तं तदस्मिन् वामशासने // ११
SK
आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् / यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् // १२
SK
क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः / अज्ञत्वानुपदेष्टृत्वसंदष्टेधरशासने // १३
SK
एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् / द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ // १४
SK
द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् / प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् // १५
SK
तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् / पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् // १६
SK
दशाष्टादशधा स्रोतःपञ्चकं यत्ततोप्यलम् / उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् // १७
SK
श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल / समूहः पीठमेतच्च द्विधा दक्षिणवामतः // १८
SK
मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् / मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया // १९
SK
उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी / मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् // २०
SK
मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् / एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् // २१
SK
यतस्तस्माद्भवेत्सर्वं पीठे पीठेपि वस्तुतः / प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः // २२
SK
कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये / प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा // २३
SK
मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् / विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् // २४
SK
तस्यापि परमं सारं मालिनीविजयोत्तरम् / उक्तं श्रीरत्नमालायामेतच्च परमेशिना // २५
SK
अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् / एकत्र मिलितं कौलं श्रीषडर्धकशासने // २६
SK
सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् / दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् // २७
SK
स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् / मोक्षविद्याविहीनं च विनयं त्यज दूरतः // २८
SK
यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् / मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् // २९
SK
मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् / आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके // ३०
SK
जिज्ञासुस्तत एवेदमवधारयितुं क्षमः / वयं तूक्तानुवचनमफलं नाद्रियामहे // ३१
SK
इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् / यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् // ३२
SK
षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् / षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् / ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः // ३३
SK
भूरादिसप्तपुरपूर्णतमेपि तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य / क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा // ३४
SK
तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् / यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा // ३५
SK
प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेपि धाम्नि / सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने // ३६
SK
कन्याह्वयेपि भुवनेत्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः / जात्यन्धसद्मनि न जन्म न कोभिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे // ३७
SK
निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा / कोप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः // ३८
SK
तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् / अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम् // ३९
SK
स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः / तन्मन्येहं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै // ४०
SK
यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु / शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति // ४१
SK
नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् / केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् // ४२
SK
त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते / कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् // ४३
SK
यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति / यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ // ४४
SK
उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः / आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति // ४५
SK
सर्वो लोकः कविरथ बुधो यत्र शूरोपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र / यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः // ४६
SK
श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः / यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् // ४७
SK
आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव / सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति // ४८
SK
संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः / प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य // ४९
SK
रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः / आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या // ५०
SK
भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् / न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता // ५१
SK
तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे / वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् // ५२
SK
तस्यान्वये महति कोपि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले / गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण // ५३
SK
तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः / यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः // ५४
SK
तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन / यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः // ५५
SK
तस्यात्मजोभिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः / माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति // ५६
SK
माता परं बन्धुरिति प्रवादः स्नोहोतिगाढीकुरुते हि पाशान् / तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः // ५७
SK
पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः / साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः // ५८
SK
स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः / तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् // ५९
SK
आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः / श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः // ६०
SK
त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः / तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः // ६१
SK
श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः / अन्येपि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः // ६२
SK
एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै / यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसोभूत् // ६३
SK
सोनुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् / यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद // ६४
SK
श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः / देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् // ६५
SK
तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः / लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः // ६६
SK
अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः / ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः // ६७
SK
षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि / स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः // ६८
SK
अन्योपि कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः / अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः // ६९
SK
आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् / जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् // ७०
SK
सोप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोवतीर्णम् / सोनुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण // ७१
SK
विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे / आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे // ७२
SK
तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता / शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या // ७३
SK
मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः / वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी // ७४
SK
भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः / स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् // ७५
SK
तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव / यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् // ७६
SK
यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या / भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सोर्थपरम्पराणाम् // ७७
SK
भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च / शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः // ७८
SK
अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् / भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोवजानाति न बन्धुबुद्ध्या // ७९
SK
भ्राता तदीयोभिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः / पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् // ८०
SK
सोन्यश्च शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः / तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् // ८१
SK
इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि / पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् // ८२
SK
स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् / आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु // ८३
SK
सन्तोनुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् / ततोपि गृह्णातु भवन्मतिं सा सद्योनुगृह्णातु च तत्त्वदृष्ट्या // ८४
SK
इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः / तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व // ८५

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya