Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 8: atha śītantrāloke aṣṭamamāhnikaṃ

Light on the Tantras

तन्त्रालोकः

SK
देशाध्वनोप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः // १ब्
SK
विचारितोयं कालाध्वा क्रियाशक्तिमयः प्रभोः / मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते // २
SK
अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः / यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते // ३
SK
संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च / नाडीचक्रानुचक्रेषु बर्हिर्देहेध्वसंस्थितिः // ४
SK
तत्राध्वैवं निरूप्योयं यतस्तत्प्रक्रियाक्रमम् / अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् // ५
SK
दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते / तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने // ६
SK
ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् / तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् // ७
SK
तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका / उपास्यमाना संसारसागरप्रलयानलः // ८
SK
श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् / ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् // ९
SK
रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे / अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः // १०
SK
एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत / न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने // ११
SK
त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः / षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना // १२
SK
अव्याहतविभागोस्मिभावो मूलं तु बोधगम् / समस्ततत्त्वभावोयं स्वात्मन्येवाविभागकः // १३
SK
बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् / तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् // १४
SK
बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् / संविदेकात्मतानीतभूतभावपुरादिकः // १५
SK
अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः / श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् // १६
SK
अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् / यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः // १७
SK
पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी / तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा // १८
SK
स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः / ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः // १९
SK
तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् / तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः // २०
SK
नेता कटाहरुद्राणामनन्तः कामसेविनाम् / पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः // २१
SK
स देवं भैरवं ध्यायन् नागैश्च परिवारितः / कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् // २२
SK
लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते / स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् // २३
SK
नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः / दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः // २४
SK
तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः / श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः // २५
SK
अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् / एकादशैकादश च दशेत्यन्तः शराग्नि तत् // २६
SK
प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् / लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः // २७
SK
कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता / शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते // २८
SK
तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् / ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् // २९
SK
यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि / सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् // ३०
SK
पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः / प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः // ३१
SK
सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने / व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः // ३२
SK
दीक्षिता अपि ये लुप्तसमया नच कुर्वते / प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः // ३३
SK
देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः / अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः // ३४
SK
ते हाटकविभोरग्रे किङ्करा विविधात्मकाः / ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते // ३५
SK
तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे / अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः // ३६
SK
ते कालवह्निसंतापदीनाक्रन्दपरायणाः / गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः // ३७
SK
पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् / अधमाधमदेहेषु निजकर्मानुरूपतः // ३८
SK
मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् / मुच्यन्तेन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः // ३९
SK
इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना / प्रोक्तं भगवता श्रीमदानन्दाधिकशासने // ४०
SK
पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः / सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् // ४१
SK
भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः / ततस्तमस्तप्तभूमिस्ततःशून्यं ततोहयः // ४२
SK
एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् / ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश // ४३
SK
मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः / सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः // ४४
SK
मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः / भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका // ४५
SK
सर्वे देवा निलीना हि तत्र तत्पूजितं सदा / मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् // ४६
SK
ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः / अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश // ४७
SK
चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः / अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् // ४८
SK
अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः / तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु // ४९
SK
विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये / याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः // ५०
SK
मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा / कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः // ५१
SK
रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् / वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् // ५२
SK
उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् / वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः // ५३
SK
वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा / महोदयेन्दोर्गुह्याः स्युः पश्चिमेस्याः पुनः पुनः // ५४
SK
कुबेरः कर्मदेवाश्च तथा तत्साधका अपि / यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः // ५५
SK
दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् / मैरवे चक्रवाटेस्मिन्नेवं मुख्याः पुरोष्टधा // ५६
SK
अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः / इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः // ५७
SK
ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् / मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः // ५८
SK
मन्दरो गन्धमादश्च विपुलोथ सुपार्श्वकः / सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः // ५९
SK
एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः / चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः // ६०
SK
रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् / वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः // ६१
SK
एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् / मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः // ६२
SK
लक्षमात्रः स नवधा जातो मर्यादपर्वतैः / निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः // ६३
SK
लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् / नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः // ६४
SK
मेरोः षडेते मर्यादाचलाः पूर्वापरायताः / पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः // ६५
SK
सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ / अष्टावेते ततोप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् // ६६
SK
जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः / एवं स्थितो विभागोत्र वर्षसिद्ध्यै निरूप्यते // ६७
SK
समन्ताच्चक्रवाटाधोनर्केन्दु चतुरश्रकम् / सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् // ६८
SK
मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे / केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् // ६९
SK
मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः / सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् // ७०
SK
पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे / द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते // ७१
SK
मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् / चापवन्नवसाहस्रमायुस्तत्र त्रयोदश // ७२
SK
कुरुवर्षस्योत्तरेथ वायव्येब्धौ क्रमाच्छराः / दश चेति सहस्राणि द्वीपौ चन्द्रोथ भद्रकः // ७३
SK
यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् / तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश // ७४
SK
तत्र वै वामतः श्वेतनीलयो रम्यकोन्तरे / सहस्रनवविस्तीर्णमायुर्द्वादश तानि च // ७५
SK
मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे / हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् // ७६
SK
तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे / कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् // ७७
SK
तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे / भारतं नवसाहस्रं चापवत्कर्मभोगभूः // ७८
SK
इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् / हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः // ७९
SK
अत्र बाहुल्यतः कर्मभूभावोत्राप्यकर्मणाम् / पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः // ८०
SK
संभवन्त्यप्यसंस्कारा भारतेन्यत्र चापि हि / दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् // ८१
SK
स्थानान्तरेपि कर्मास्ति दृष्टं तच्च पुरातने / तत्र त्रेता सदा कालो भारते तु चतुर्युगम् // ८२
SK
भारते नवखण्डं च सामुद्रेणाम्भसात्र च / स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते // ८३
SK
इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् / सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः // ८४
SK
कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः / उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते // ८५
SK
अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोगस्त्य / तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः // ८६
SK
द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः / मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने // ८७
SK
भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः / शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः // ८८
SK
महाकालादिका रुद्रकोटिरत्रैव भारते / गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् // ८९
SK
अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् / प्राप्यं मनोरथातीतमपि भारतजन्मनाम् // ९०
SK
नानावर्णाश्रमाचारसुखदुःखविचित्रता / कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा // ९१
SK
पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः / परापरौ स्वर्निरयाविति रौरववार्तिके // ९२
SK
एवं मेरोरधो जम्बूरभितो यः स विस्तरात् / स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः // ९३
SK
मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः / प्राव्रजन्नथ जम्ब्वाख्ये राजा योग्नीध्रनामकः // ९४
SK
तस्याभवन्नव सुतास्ततोयं नवखण्डकः / नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः // ९५
SK
तस्याष्टौ तनयाः साकं कन्यया नवम्ॐशकः / भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् // ९६
SK
लक्षैकमात्रो लवणस्तद्बाह्येस्य पुरोद्रयः / ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् // ९७
SK
वराहनन्दनाशोकाः पश्चात् सहबलाहकौ / दक्षिण चक्रमैनाकौ वाडवोन्तस्तयोः स्थितः // ९८
SK
अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः / विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोत्र फलाशिनः // ९९
SK
मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः / नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः // १००
SK
निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये / इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने // १०१
SK
इत्थं य एष लवणसमुद्रः प्रतिपादितः / तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः // १०२
SK
क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः / शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः / क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः // १०३
SK
मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा / संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः // १०४
SK
गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः / पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोत्र पूर्वादौ // १०५
SK
त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् / स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा // १०६
SK
सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् / उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः // १०७
SK
लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् / केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः // १०८
SK
पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ / भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति // १०९
SK
ऽसर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः.ऽ
SK
उदयास्तमयावित्थं सूर्यस्य परिभावयेत् // ११०
SK
अर्धरात्रोमरावत्यां याम्यायामस्तमेव च / मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः // १११
SK
उदयो योमरावत्यां सोर्धरात्रो यमालये / केस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते // ११२
SK
पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः / चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः // ११३
SK
सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् / लोकालोकस्य परतो यद्गर्भे निखिलैव भूः // ११४
SK
सिद्धातन्त्रेत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् / मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः // ११५
SK
क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः / तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः // ११६
SK
चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा / ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः // ११७
SK
ब्रह्मणोण्डकटाहेन मेरोरर्धेन कोटयः / पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् // ११८
SK
पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः / व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् // ११९
SK
विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य / अभिमानतो यथेष्टं भोगस्थानं निवासश्च // १२०
SK
भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे / दश वायुपथास्ते च प्रत्येकमयुतान्तराः // १२१
SK
आद्यो वायुपथस्तत्र विततः परिचर्च्यते / पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः // १२२
SK
आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् / पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु // १२३
SK
सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः / ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः // १२४
SK
तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः / पञ्चाशदूर्ध्वमोघोत्र विषवारिप्रवर्षिणः // १२५
SK
मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते / ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः // १२६
SK
तत्र स्थाने महादेवजन्मानस्ते विनायकाः / ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् // १२७
SK
पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः / विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः // १२८
SK
ये विद्यापौरुषे ये च श्मशानादिप्रसाधने / मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः // १२९
SK
पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोशनिवर्षिणः / अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः // १३०
SK
भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः / गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः // १३१
SK
वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः / ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे // १३२
SK
रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते / क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः // १३३
SK
पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः / विद्याधरविशेषाश्च तथा ये परमेश्वरम् // १३४
SK
गान्धर्वेण सदार्चन्ति विषावर्तेथ ते स्थिताः / विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः // १३५
SK
ब्रह्मणोत्र स्थिता मेघाः प्रलये वातकारिणः / पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे // १३६
SK
जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः / ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः // १३७
SK
महावहे त्वीशकृताः प्रजाहितकराम्बुदाः / महापरिवहे मेघाः कपालोत्था महेशितुः // १३८
SK
महापरिवहान्तोयमृतर्द्धेः प्राङ्मरुत्पथः / अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः // १३९
SK
द्वितीये तत्परे सिद्धचारणा निजकर्मजाः / तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः // १४०
SK
षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः / दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः // १४१
SK
दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे / नवयोजनसाहस्रो विग्रहोर्कस्य मण्डलम् // १४२
SK
त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः / स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते // १४३
SK
सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा / चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु // १४४
SK
प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः / सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा // १४५
SK
ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोचलः / मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः // १४६
SK
अत्र बद्धानि सर्वाण्यप्यूह्यन्तेनिलमण्डले / स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः // १४७
SK
इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः / स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः // १४८
SK
एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च / द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् // १४९
SK
मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः / निवर्तिताधिकाराश्च देवा महति संस्थिताः // १५०
SK
महान्तराले तत्रान्ये त्वधिकारभुजो जनाः / अष्टौ कोट्यो महल्लोकाज्जनोत्र कपिलादयः // १५१
SK
तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः / जनात्तपोर्ककोट्योत्र सनकाद्या महाधियः // १५२
SK
प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् / ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः // १५३
SK
तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः / सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः // १५४
SK
आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् / ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् // १५५
SK
ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् / वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः // १५६
SK
रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि / दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः // १५७
SK
ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन / तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः // १५८
SK
अधिकारक्षये साकं रुद्रकन्यागणेन ते / पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः // १५९
SK
ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च / शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च // १६०
SK
शर्वरुद्रौ भीमभवावुग्रो देवो महानथ / ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः // १६१
SK
स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः / सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् // १६२
SK
ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः / स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः // १६३
SK
परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः / लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः // १६४
SK
कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः / अत ऊर्ध्वं कटाहोण्डे स घनः कोटियोजनम् // १६५
SK
पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा / एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः // १६६
SK
शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् / प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः // १६७
SK
ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः / अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु // १६८
SK
व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः / आवापवाननिर्भक्तो वस्तुपिण्डोण्ड उच्यते // १६९
SK
तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् / रजोनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः // १७०
SK
वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् / अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते // १७१
SK
तथापि शिवमग्नानां शक्तीनामण्डता भवेत् / तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः // १७२
SK
तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् / तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः // १७३
SK
तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः / अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् // १७४
SK
विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् / तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् // १७५
SK
गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते / उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् // १७६
SK
रूपमुक्तं यतस्तेन तत्समूहोण्ड उच्यते / भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः // १७७
SK
तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् / तावन्मात्रास्ववस्थासु मायाधीनेध्वमण्डले // १७८
SK
मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् / इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् // १७९
SK
तेषां स्वे पतयो रुद्रा एकादश महार्चिषः / अनन्तोथ कपाल्याग्निर्यमनैरृतकौ बलः // १८०
SK
शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः / मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते // १८१
SK
तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः / शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् // १८२
SK
श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च / ईश्वरत्वं दिविषदामिति रौरववार्तिके // १८३
SK
सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् / अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् // १८४
SK
तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः / क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् // १८५
SK
धरातोत्र जलादि स्यादुत्तरोत्तरतः क्रमात् / दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः // १८६
SK
सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा / नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा // १८७
SK
कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा / ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा // १८८
SK
सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया / व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता // १८९
SK
अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः / जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् // १९०
SK
ऋते ततः शिवज्ञानं परमं मोक्षकारणम् / तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने // १९१
SK
नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि / शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् // १९२
SK
प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः / शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् // १९३
SK
न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् / तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः // १९४
SK
निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी / विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् // १९५
SK
तावतीं गतिमायान्ति भुवनेत्र निवेशिताः / ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः // १९६
SK
विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् / जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः // १९७
SK
ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् / वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा // १९८
SK
रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् / आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा // १९९
SK
त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् / ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् // २००
SK
मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः / अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् // २०१
SK
ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ / प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् // २०२
SK
सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् / रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योन्यास्तथा स्थिताः // २०३
SK
पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती / लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः // २०४
SK
ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः / ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः // २०५
SK
भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् / प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् // २०६
SK
ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् / तं विशन्ति महात्मानो वायुभूताः खमूर्तयः // २०७
SK
भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् / खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् // २०८
SK
वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् / अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः // २०९
SK
ज्ञानहीना अपि प्रौढधारणास्तेण्डतो बहिः / धराब्धितेजोनिलखपुरगा दीक्षिताश्च वा // २१०
SK
तावत्संस्कारयोगार्थं न परं पदमीहितुम् / तथाविधावतारेषु मृताश्चायतनेषु ये // २११
SK
तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् / पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले // २१२
SK
श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः / सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे // २१३
SK
ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः / रुद्रजातय एवैते इत्याह भगवाञ्छिवः // २१४
SK
आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये / तन्मात्रादिमनोन्तानां पुराणि शिवशासने // २१५
SK
पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् / आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा // २१६
SK
एवं रसादिमात्राणां मण्डलानि स्ववर्णत / शर्वो भवः पशुपतिरीशो भीम इति क्रमात् // २१७
SK
तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः / ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् // २१८
SK
उग्रश्चेत्येषु पतयस्तेभ्योर्केन्दू सयाजकौ / इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः // २१९
SK
अपरा ब्रह्मणोण्डे ता व्याप्य सर्वं व्यवस्थिताः / कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु // २२०
SK
ततो वागादिकर्माक्षयुक्तं करणमण्डलम् / अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः // २२१
SK
प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् / दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः // २२२
SK
प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् / मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः // २२३
SK
बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः / मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः // २२४
SK
ततोपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः / स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् // २२५
SK
बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् / पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् // २२६
SK
एतानि देवयोनीनां स्थानान्येव पुराण्यतः / अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते // २२७
SK
परमेशनियोगाच्च चोद्यमानाश्च मायया / नियामिता नियत्या च ब्रह्मणोव्यक्तजन्मनः // २२८
SK
व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा / स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् // २२९
SK
उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः / अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः // २३०
SK
तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः / चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि // २३१
SK
साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि / एतानि भक्तियोगप्राणत्यागादिगम्यानि // २३२
SK
तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा / तरतमयोगेन ततोपि देवयोन्यष्टकं लक्ष्यं तु // २३३
SK
लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि / गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् // २३४
SK
अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते / ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः // २३५
SK
क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः / तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् // २३६
SK
अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् / स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने // २३७
SK
योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च / ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते // २३८
SK
तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते / तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् // २३९
SK
प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी / उमापतेः पुरं पश्चान्मातृभिः परिवारितम् // २४०
SK
श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते / ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] // २४१
SK
पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् / अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः // २४२
SK
अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः / स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः // २४३
SK
स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः / उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् // २४४
SK
शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः / ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता // २४५
SK
श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् / ये योगं सगुणं शम्भोः संयताः पर्युपासते // २४६
SK
तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः / गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः // २४७
SK
तारतम्याच्च योगस्य भेदात्फलविचित्रता / ततो भोगफलावाप्तिभेदाद्भेदोयमुच्यते // २४८
SK
मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः / वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः // २४९
SK
तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः / यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते // २५०
SK
ततोप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् / बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः // २५१
SK
महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् / तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा // २५२
SK
मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः / उपरिष्टाद्धियोधश्च प्रकृतेर्गुणसंज्ञितम् // २५३
SK
तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् / न वैषम्यमनापन्नं कारणं कार्यसूतये // २५४
SK
गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् / नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् // २५५
SK
कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः / सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः // २५६
SK
अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् / अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् // २५७
SK
अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः / ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा // २५८
SK
तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः / नैतत्कारणतारूपपरामर्शावरोधि यत् // २५९
SK
क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् / क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः // २६०
SK
तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः / स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः // २६१
SK
त्रिनेत्राः पाशनिर्मुक्तास्तेत्रानुग्रहकारिणः / बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते // २६२
SK
रुद्राणां भुवनानां च मुख्यतोन्ये तदन्तरे / योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः // २६३
SK
योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः / अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी // २६४
SK
करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च / अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोमीषाम् // २६५
SK
धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि / यच्छन्ति गुणेभ्योमी पुरुषेभ्यो योगदातारः // २६६
SK
तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य / सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य // २६७
SK
येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु / ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि // २६८
SK
उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य / दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः // २६९
SK
यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी / अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेनुकल्पेन // २७०
SK
पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः / गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः // २७१
SK
गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः / क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ // २७२
SK
पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते / गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् // २७३
SK
गुणकारणमित्येते मायाप्रभवस्य पर्यायाः / यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः // २७४
SK
ते सर्वेत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः / मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः // २७५
SK
अकृताधिष्ठानतया कृत्याशक्तानि मूढानि / प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि // २७६
SK
भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि / इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् // २७७
SK
पुंस्तत्त्वे तुष्टिनवकं सिद्धयोष्टौ च तत्पुरः / तावत्य एवाणिमादिभुवनाष्टकमेव च // २७८
SK
अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा / हेयेप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः // २७९
SK
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः / पञ्च विषयोपरमतोर्जनरक्षासङ्गसंक्षयविघातैः // २८०
SK
ऊहः शब्दोध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः / दानं च सिद्धयोष्टौ सिद्धेः पूर्वोङ्कुशस्त्रिविधः // २८१
SK
अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः / तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् // २८२
SK
नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् / पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता // २८३
SK
न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् / अकर्तर्यपि वा पुंसि सहकारितया स्थिते // २८४
SK
शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः / तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा // २८५
SK
तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति / नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते // २८६
SK
कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि / साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे // २८७
SK
भुवनं देहधर्माणां दशानां विग्रहाष्टकात् / अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः // २८८
SK
शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः / पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः // २८९
SK
आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः / तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा // २९०
SK
पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः / त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः // २९१
SK
यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् / पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते // २९२
SK
तदेवं पुंस्त्वमापन्ने पूर्णेपि परमेश्वरे / तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः // २९३
SK
उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः / ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् // २९४
SK
पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश / हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः // २९५
SK
कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः / रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् // २९६
SK
पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् / मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः // २९७
SK
कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् / ततो माया त्रिपुटिका मुख्यतोनन्तकोटिभिः // २९८
SK
आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः / अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि // २९९
SK
चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते / वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने // ३००
SK
ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः / कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः // ३०१
SK
सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः / क्रमात्तत्तत्त्वमायान्ति यत्रेशोनन्त उच्यते // ३०२
SK
उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य / स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य // ३०३
SK
धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च / मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य // ३०४
SK
तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः / सर्वेनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः // ३०५
SK
सोव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः / शुद्धाशुद्धस्रोतोधिकारहेतुः शिवो यस्मात् // ३०६
SK
शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् / तेनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः // ३०७
SK
मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः / उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु // ३०८
SK
योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा / कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् // ३०९
SK
प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते / तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु // ३१०
SK
अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि / योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले // ३११
SK
मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः / निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः // ३१२
SK
स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः / प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः // ३१३
SK
अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः / न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः // ३१४
SK
तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् / स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि // ३१५
SK
अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः / ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः // ३१६
SK
मध्ये पुटत्रयं तस्या रुद्राः षडधरेन्तरे / एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः // ३१७
SK
गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे / मध्येनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः // ३१८
SK
इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या / परिवर्त्तते स्थितिः किल देवोनन्तस्तु सर्वथा मध्ये // ३१९
SK
ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या / मध्यतोष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः // ३२०
SK
श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा / ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया // ३२१
SK
मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् / तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् // ३२२
SK
मायातत्त्वाधिपतिः सोनन्तः समुदितान्विचार्याणून् / युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः // ३२३
SK
तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् / निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् // ३२४
SK
उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् / असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् // ३२५
SK
पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः / कुलं योनिश्च वागीशी यस्यां जातो न जायते // ३२६
SK
दीक्षाकालेधराध्वस्थशुद्धौ यच्चाधराध्वगम् / अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् // ३२७
SK
साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च / पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् // ३२८
SK
आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् / अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः // ३२९
SK
मायामयशरीरास्ते भोगं स्वं परिभुञ्जते / प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे // ३३०
SK
अन्यानन्तप्रसादेन विबुधा अपि तं परम् / सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः // ३३१
SK
स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः / अतः परं स्थिता माया देवी जन्तुविमोहिनी // ३३२
SK
देवदेवस्य सा शक्तिरतिदुर्घटकारिता / निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः // ३३३
SK
इदं तत्त्वमिदं नेति विवदन्तीह वादिनः / गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः // ३३४
SK
सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् / असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः // ३३५
SK
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया / शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा // ३३६
SK
न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति / महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका // ३३७
SK
वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् / वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा // ३३८
SK
मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः / सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेत्र संस्थिताः // ३३९
SK
एकैकार्बुदलक्षांशाः पद्माकारपुरा इह / विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः // ३४०
SK
विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् / शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् // ३४१
SK
शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ / शिवोत्तमः सूक्ष्मरुद्रोनन्तो विद्येश्वराष्टकम् // ३४२
SK
क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः / अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः // ३४३
SK
मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् / तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः // ३४४
SK
उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् / भगबिलशतकलितगुहामूर्धासनगोष्टशक्तियुग्देवः // ३४५
SK
गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते / उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः // ३४६
SK
ते तेनोदस्तचितः परतत्त्वालोचनेभिनिविशन्ते / स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन // ३४७
SK
अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः / निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु // ३४८
SK
अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने / इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः // ३४९
SK
तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते / तेष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः // ३५०
SK
आलोकयन्ति देवं हृदयस्थं कारणं परमम् / तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् // ३५१
SK
सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः / मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेप्यभवः // ३५२
SK
शिवशुद्धगुणाधीकारान्तः सोप्येष हेयश्च / अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी // ३५३
SK
इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् / पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः // ३५४
SK
कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ / धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् // ३५५
SK
रूपावरणसंज्ञं तत्तत्त्वेस्मिन्नैश्वरे विदुः / वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् // ३५६
SK
सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः / ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् // ३५७
SK
शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् / विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला // ३५८
SK
शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता / शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् // ३५९
SK
तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः / मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता // ३६०
SK
सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् / शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् // ३६१
SK
अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः / मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् // ३६२
SK
ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः / ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते // ३६३
SK
इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् / प्रबुद्धावरणादूर्ध्व समयावरणं महत् // ३६४
SK
भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति / सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् // ३६५
SK
तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः / ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी // ३६६
SK
सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया / पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः // ३६७
SK
दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः / सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् // ३६८
SK
मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः / सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् // ३६९
SK
कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् / ॐ कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ // ३७०
SK
सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेत्र पूर्वादेः / विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः // ३७१
SK
मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च / सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः // ३७२
SK
सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि / मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् // ३७३
SK
तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् / यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य // ३७४
SK
प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोसंख्याः / मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः // ३७५
SK
सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः / अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः // ३७६
SK
ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् / शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः // ३७७
SK
निवृत्त्यादिकलावर्गपरिवारसमावृतः / असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः // ३७८
SK
श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् / पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते // ३७९
SK
चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् / तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् // ३८०
SK
निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता / मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते // ३८१
SK
उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः / यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः // ३८२
SK
बिन्दूर्ध्वेर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती / कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः // ३८३
SK
रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा / एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् // ३८४
SK
अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः / तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका // ३८५
SK
हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः / निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् // ३८६
SK
पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः / इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् // ३८७
SK
नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः / चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् // ३८८
SK
इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा / मध्येत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः // ३८९
SK
नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः / तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः // ३९०
SK
या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा / ग्रथितोध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा // ३९१
SK
नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् / अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः // ३९२
SK
नाड्या ब्रह्मबिले लीनः सोव्यक्तध्वनिरक्षरः / नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः // ३९३
SK
सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् / तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः // ३९४
SK
तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा / रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली // ३९५
SK
शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते / तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते // ३९६
SK
मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः / शक्तितत्त्वमिदं यस्य प्रपञ्चोयं धरान्तकः // ३९७
SK
शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः / व्यापी व्योमात्मकोनन्तोनाथस्तच्छक्तिभागिनः // ३९८
SK
मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः / तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः // ३९९
SK
शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया / सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता // ४००
SK
बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता / तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः // ४०१
SK
समना करणं तस्य हेतुकर्तुर्महोशितुः / अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते // ४०२
SK
तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् / अनाश्रितोनाथमयमनन्तं खवपुः सदा // ४०३
SK
स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु / कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली // ४०४
SK
नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः / यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने // ४०५
SK
तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् / अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः // ४०६
SK
तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् / अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी // ४०७
SK
रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् / जलतेजःसमीरनभोहंकृद्धीमूलसप्तके प्रत्येकम् // ४०८
SK
अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता / अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् // ४०९
SK
अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् / श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् // ४१०
SK
अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् / रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् // ४११
SK
इत्यष्टकं जलेनौ वह्न्यतिगुह्यद्वयं मरुति वायोः / स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् // ४१२
SK
अभिमानेहङ्कारच्छगलाद्यष्टकमथान्तरा नभोहंकृत् / तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् // ४१३
SK
दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते / मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् // ४१४
SK
धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा / तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः // ४१५
SK
तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या / गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः // ४१६
SK
यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि / तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् // ४१७
SK
इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् / अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोणिमादिगणः // ४१८
SK
गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् / गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः // ४१९
SK
कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ / इति पाशेषु पुरत्रयमित्थं पुरुषेत्र भुवनषोडशकम् // ४२०
SK
नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् / रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले // ४२१
SK
भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् / इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् // ४२२
SK
वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः / सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः // ४२३
SK
सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता / बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने // ४२४
SK
परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः / व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः // ४२५
SK
षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा / बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि // ४२६
SK
सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना / इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् // ४२७
SK
श्रीमन्मतङ्गशास्त्रे च क्रमोयं पुरपूगगः / कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् // ४२८
SK
कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः / इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः // ४२९
SK
स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता / पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये // ४३०
SK
तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोष्टकम् / पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे // ४३१
SK
योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते / पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः // ४३२
SK
द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश / वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् // ४३३
SK
शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः / यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् // ४३४
SK
शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् / इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन // ४३५
SK
अन्येपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः / श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् // ४३६
SK
तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् / कालाग्निः कूष्माण्डो नरकेशो हाटकोथ भूतलपः // ४३७
SK
ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः / अधरेनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः // ४३८
SK
लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति / एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः // ४३९
SK
इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् / लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ // ४४०
SK
प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे / भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः // ४४१
SK
श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि / भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः // ४४२
SK
अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च / स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः // ४४३
SK
अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे / स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् // ४४४
SK
माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे / अन्येहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः // ४४५
SK
धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति / इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता // ४४६
SK
नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ / अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् // ४४७
SK
संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ / वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् // ४४८
SK
समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ / भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ // ४४९
SK
अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् / हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः // ४५०
SK
विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च / वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् // ४५१
SK
अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव / इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः // ४५२

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya