SKअथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते / न रजो नाधिवासोत्र न भूक्षेत्रपरिग्रहः / यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् // १
SKअध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः / जननादिविहीनां तु येन येनाध्वना गुरुः // २
SKकुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः / परामन्त्रस्ततोस्येति तत्त्वं संशोधयाम्यथ // ३
SKस्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् / एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् // ४
SKपरासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् / शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् // ५
SKततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् / दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना // ६
SKप्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् / यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः // ७
SKयथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः / गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा // ८
SKश्रीब्रह्मयामले चोक्तं संक्षिप्तेपि हि भावयेत् / व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः // ९
SKअतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् / क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् // १०
SKसंक्षिप्तो विधिरुक्तोयं कृपया यः शिवोदितः / दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने // ११