Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 29: atha śrītantrāloke ekonatriṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यतेत्र विधिः / अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते // १
SK
तथा धाराधिरूढेषु गुरुशिष्येषु योचिता / उक्तं च परमेशेन सारत्वं क्रमपूजने // २
SK
सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् / न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति // ३
SK
कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता / स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् // ४
SK
तथात्वेन समस्तानि भावजातानि पश्यतः / ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः // ५
SK
तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना / यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः // ६
SK
बहिः शक्तौ यामले च देहे प्राणपथे मतौ / इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी // ७
SK
स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् / किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो // ८
SK
षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् / ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते // ९
SK
अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ / तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् // १०
SK
श्रीब्रह्मयामलेप्युक्तं सुरा शिवरसो बहिः / तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा // ११
SK
स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा / द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् // १२
SK
एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः / देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा // १३
SK
श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना / अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् // १४
SK
रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् / भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् // १५
SK
दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः / इति ज्ञात्वा त्रयेमुष्मिन्यत्नवान्कौलिको भवेत् // १६
SK
तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना / यान्युक्तान्यविशङ्कोत्र भवेच्छङ्का हि दूषिका // १७
SK
यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः / परया वाथ मालिन्या विलोमाच्चानुलोमतः // १८
SK
दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः / क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः // १९
SK
दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् / ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् // २०
SK
परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो / केवला मालिनी यद्वा ताः समस्तेषु कर्मसु // २१
SK
नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् / तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् // २२
SK
तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् / विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् // २३
SK
तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् / बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् // २४
SK
अर्काङ्गुलेथ तद्द्वित्रिगुणे रक्तपटे शुभे / व्योम्नि सिन्दूरसुभगे राजवर्त्तभृतेथवा // २५
SK
नारिकेलात्मके काद्ये मद्यपूर्णेथ भाजने / यद्वा समुदिते रूपे मण्डलस्थे च तदृशि // २६
SK
यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते / दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् // २७
SK
वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् / प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः // २८
SK
सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् / खगेन्द्रः सहविज्जाम्ब इल्ला+ई+अम्बया सह // २९
SK
वक्तष्टिर्विमलोनन्तमेखलाम्बायुतः पुरा / शक्त्या मङ्गलया कूर्म इल्ला+ई+अम्बया सह // ३०
SK
जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः / काममङ्गलया मेषः कुल्ला+ई+अम्बया सह // ३१
SK
विन्ध्योजितोप्यजरया सह मेखलया परे / मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् // ३२
SK
सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी / अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी // ३३
SK
सिल्ला+ई एरुणया तथा कुमारी च बोधा+ई / समहालच्छी चापरमेखलया शक्तयः षडिमाः // ३४
SK
एते हि साधिकाराः पूज्या येषामियं बहुविभेदा / सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी // ३५
SK
आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता / एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् // ३६
SK
दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् / द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः // ३७
SK
शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः / अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच // ३८
SK
देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च / दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः // ३९
SK
इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः / अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् // ४०
SK
भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः / ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः // ४१
SK
अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि / तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः // ४२
SK
अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः / अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः // ४३
SK
प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते / तथारूपतया तत्र गुरुत्वं परिभाषितम् // ४४
SK
ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् / ततोभ्यन्तरतो वायुवह्न्योर्मातृकया सह // ४५
SK
मालिनी क्रमशः पूज्या ततोन्तर्मन्त्रचक्रकम् / मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले // ४६
SK
चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी / सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी // ४७
SK
पूज्याथ तत्समारोपादपराथ परापरा / एकवीरा च सा पूज्या यदिवा सकुलेश्वरा // ४८
SK
प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः / सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् // ४९
SK
महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् / यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् // ५०
SK
अन्तर्द्वादशकं पूज्यं ततोष्टाष्टाकमेव च / चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु // ५१
SK
माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् / ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु // ५२
SK
पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः / सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् // ५३
SK
अष्टाष्टकेपि हि विधौ नानानामप्रपञ्चिते बहुधा / विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् // ५४
SK
श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः / वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः // ५५
SK
पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् / यथा श्रीमाधवकुले परमेशेन भाषितम् // ५६
SK
सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् / पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः // ५७
SK
आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् / न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् // ५८
SK
अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके / श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् // ५९
SK
भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः / वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले // ६०
SK
एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् / उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् // ६१
SK
एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः / कुड्याकेशीं च सोपानं मायापूक्षीरके तथा // ६२
SK
जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी / पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् // ६३
SK
नाहमस्मि नचान्योस्ति केवलाः शक्तयस्त्वहम् / इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः // ६४
SK
न तिथिर्न च नक्षत्रं नोपवासो विधीयते / ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि // ६५
SK
मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः / मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे // ६६
SK
सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् / हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या // ६७
SK
बीजं सा पीडयते रसशल्कविभागतोत्र कुण्डलिनी / अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति // ६८
SK
इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी / सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी // ६९
SK
एकवीरा चक्रयुक्ता चक्रयामलगापि वा / ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः // ७०
SK
त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् / हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् // ७१
SK
श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् / वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् // ७२
SK
रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा / यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् // ७३
SK
अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः / सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः // ७४
SK
तावत्तेजोसहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये / कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् // ७५
SK
हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् / अहोरात्रमिमं यागं कुर्वतश्चापरेहनि // ७६
SK
वीरभोज्ये कृतेवश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः / पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये // ७७
SK
मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः / अवधूता निराचाराः पूजयेत्क्रमशो बुधः // ७८
SK
एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः / शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् // ७९
SK
क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि / चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् // ८०
SK
अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा / पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति // ८१
SK
ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः / उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः // ८२
SK
उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते / आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके // ८३
SK
पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् / नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके // ८४
SK
शिवशक्तिसमायोगे षड्लक्षो जप उच्यते / नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि // ८५
SK
हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः / नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् // ८६
SK
शतारेषु च मध्यस्थं सहस्रारेषु भामिनि / जप एष रुद्रलक्षो होमोप्यत्र दशांशतः // ८७
SK
नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् / स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् // ८८
SK
यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः / हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः // ८९
SK
स आत्मा मातृका देवी शिवो देहव्यवस्थितः / अन्यः सोन्योहमित्येवं विकल्पं नाचरेद्यतः // ९०
SK
यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः / अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् // ९१
SK
शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते / तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि // ९२
SK
जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी / तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः // ९३
SK
आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः / द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया // ९४
SK
दशान्यास्तदुपायायेत्येवं होमे दशांशताम् / श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः // ९५
SK
साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् / तदायं परमेशोक्तो रहस्यो भण्यते विधिः // ९६
SK
उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् / आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् // ९७
SK
उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् / ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते // ९८
SK
तद्वर्जिता ये पशव आनन्दपरिवर्जिताः / आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः // ९९
SK
द्वयेपि निरये यान्ति रौरवे भीषणे त्विति / शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता // १००
SK
तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् / लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतोधिकात् // १०१
SK
कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः / साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः // १०२
SK
श्रीसर्वाचारहृदये तदेतदुपसंहृतम् / षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः // १०३
SK
द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् / तामाहृत्य मिथोभ्यर्च्य तर्पयित्वा परस्परम् // १०४
SK
अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् / यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् // १०५
SK
तत्प्रधानं भवेच्चक्रमनुचक्रमतोपरम् / विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः // १०६
SK
चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् / यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते // १०७
SK
चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् / प्राणगादप्यथानन्दस्यन्दिनोभ्यवहारतः // १०८
SK
गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः / इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् // १०९
SK
कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते / उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः // ११०
SK
अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् / निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे // १११
SK
क्रमशोनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति / स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः // ११२
SK
आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति / अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् // ११३
SK
तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति / तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् // ११४
SK
क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु / इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् // ११५
SK
क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः / तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् // ११६
SK
नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् / अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् // ११७
SK
अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः / ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया // ११८
SK
अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः / शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः // ११९
SK
रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव / उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् // १२०
SK
शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् / शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगेपि // १२१
SK
प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता / तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन // १२२
SK
तद्द्वारेण च कथितक्रमेण संचारयेत नृषु / स्वशरीराधिकसद्भावभावितामिति ततः प्राह // १२३
SK
श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् / तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् // १२४
SK
तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् / तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च // १२५
SK
वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् / अथ सृष्टे द्वितयेस्मिन् शान्तोदितधाम्नि येनुसंदधते // १२६
SK
प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः / ये सिद्धिमाप्तुकामास्तेभ्युदितं रूपमाहरेयुरथो // १२७
SK
तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा / तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् // १२८
SK
अजरामरपददानप्रवणं कुलसंज्ञितं परमम् / येप्यप्राप्तविबोधास्तेभ्युदितोत्फुल्लयागसंरूढाः // १२९
SK
तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् / ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः // १३०
SK
दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् / संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः // १३१
SK
बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् / अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः // १३२
SK
निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् / यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या // १३३
SK
शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् / तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः // १३४
SK
तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः / योप्यनुचक्रदृगादिस्वरूपभाक् सोपि यत्तदायत्तः // १३५
SK
तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः / परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः // १३६
SK
आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः / रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन // १३७
SK
विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते / तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः // १३८
SK
अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः / चक्रेश्वरोपि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् // १३९
SK
त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः / विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति // १४०
SK
श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् / कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् // १४१
SK
द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे / स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् // १४२
SK
विश्रामं च समावेशं सुषीणां मरुतां तथा / गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि // १४३
SK
द्वासप्ततिपदे देहे सहस्रारे च नित्यशः / गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः // १४४
SK
तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे / उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् // १४५
SK
मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् / अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् // १४६
SK
सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः / एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति // १४७
SK
संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् / तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् // १४८
SK
अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति / अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने // १४९
SK
युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव / श्रीयोगसञ्चरेपिच मुद्रेयं योगिनीप्रिया परमा // १५०
SK
कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले / सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् // १५१
SK
मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ / मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् // १५२
SK
त्रिदलारुणवीर्यकलासङ्गान्मध्येङ्कुरः सृष्टिः / इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति // १५३
SK
सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते / एतत्खेचरमुद्रावेशेन्योन्यस्य शक्तिशक्तिमतोः // १५४
SK
पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः / अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः // १५५
SK
अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् / इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि // १५६
SK
यद्भैरवाष्टकपदं तल्लभतेष्टककलाभिन्नम् / गमनागमनेवसितौ कर्णे नयने द्विलिङ्गसंपर्के // १५७
SK
तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे / कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् // १५८
SK
तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् / निर्वान्ति तत्र चैवं योष्टविधो नादभैरवः परमः // १५९
SK
ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा / सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च // १६०
SK
अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् / एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् // १६१
SK
सततमलेपो जीवन्मुक्तः परभैरवीभवति / तादृङ्मेलककलिकाकलिततनुः कोपि यो भवेद्गर्भे // १६२
SK
उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः / श्रीवीरावलिशास्त्रे बालोपि च गर्भगो हि शिवरूपः // १६३
SK
आदीयते यतः सारं तस्य मुख्यस्य चैष यत् / मुख्यश्च यागस्तेनायमादियाग इति स्मृतः // १६४
SK
तत्र तत्र च शास्त्रेस्य स्वरूपं स्तुतवान् विभुः / श्रीवीरावलिहार्देशखमतार्णववर्तिषु // १६५
SK
श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु / युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः // १६६
SK
सर्वदा स्मरणं कृत्वा आदियागैकतत्परः / शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् // १६७
SK
ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् / विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् // १६८
SK
न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः / कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् // १६९
SK
यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता / तच्चक्रं परमं देवीयागादौ संनिधापकम् // १७०
SK
देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् / देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् // १७१
SK
तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् / तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् // १७२
SK
स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः / आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् // १७३
SK
तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः / लभते परमं धाम तर्पिताशेषदैवतः // १७४
SK
अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः / तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् // १७५
SK
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः / आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेहर्निशम् // १७६
SK
श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये / स एष परमो यागः स्तुतः शीतांशुमौलिना // १७७
SK
अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् / पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः // १७८
SK
प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः / करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् // १७९
SK
एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् / अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते // १८०
SK
संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् / विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता // १८१
SK
यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः / तां चितिं पश्य कायस्थां कालानलसमप्रभाम् // १८२
SK
शून्यरूपे श्मशानेस्मिन् योगिनीसिद्धसेविते / क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे // १८३
SK
स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ / सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले // १८४
SK
असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे / समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति // १८५
SK
श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी / इत्थं यागं विधायादौ तादृशौचित्यभागिनम् // १८६
SK
लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे / रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् // १८७
SK
भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् / तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः // १८८
SK
निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् / रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया // १८९
SK
ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् / स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् // १९०
SK
ततोस्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् / हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् // १९१
SK
आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः / उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् // १९२
SK
वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् / शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् // १९३
SK
यावत्स स्तोभमायातः स्वयं पतति मूर्धनि / शिवहस्तः स्वयं सोयं सद्यःप्रत्ययकारकः // १९४
SK
अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः / शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु // १९५
SK
करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल / दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् // १९६
SK
तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् / इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः // १९७
SK
समयी तु करस्तोभादिति श्रीभोगहस्तके / चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् // १९८
SK
निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् / सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु // १९९
SK
कालान्तरेध्वसंशुद्ध्या पालनात्समयस्थितेः / सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते // २००
SK
यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् / उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् // २०१
SK
न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् / प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः // २०२
SK
ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् / पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः // २०३
SK
उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् / अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् // २०४
SK
एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् / दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकलेथवा // २०५
SK
योगिना योजिता मार्गे सजातीयस्य पोषणम् / कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् // २०६
SK
अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः / शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः // २०७
SK
आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् / आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् // २०८
SK
एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे / शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् // २०९
SK
अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् / बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले // २१०
SK
यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् / अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता // २११
SK
शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने / सुधाग्निमरुतो मन्दपरकालाग्निवायवः // २१२
SK
वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः / एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते // २१३
SK
शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् / हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः // २१४
SK
जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः / वायुना प्रेरितं चक्रं वह्निना परिदीपितम् // २१५
SK
तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः / निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः // २१६
SK
आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः / यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति // २१७
SK
अनेन क्रमयोगेन सर्वाध्वानं स पश्यति / अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् // २१८
SK
पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः / तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् // २१९
SK
इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने / कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता // २२०
SK
जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी / कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः // २२१
SK
सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् / निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः // २२२
SK
तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता / स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते // २२३
SK
पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् / अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् // २२४
SK
साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् / तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् // २२५
SK
दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् / कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ // २२६
SK
आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना / तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् // २२७
SK
आचार्यस्याभिषेकोयमधिकारान्वितः स तु / कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् // २२८
SK
अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ / शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् // २२९
SK
अभिषिक्ताविमावेवं सर्वयोगिगणेन तु / विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् // २३०
SK
तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति / गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् // २३१
SK
अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् / स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति // २३२
SK
षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः / साकं भैरवनाथेन तदष्टकमुदाहृतम् // २३३
SK
प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् / चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः // २३४
SK
स एव पूर्णैः कलशैरभिषेकः परः स्मृतः / विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे // २३५
SK
सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः / कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् // २३६
SK
वेधदीक्षा च बहुधा तत्र तत्र निरूपिता / सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः // २३७
SK
शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः / येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता // २३८
SK
ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा / मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका // २३९
SK
षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना / ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् // २४०
SK
ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् / आकारं नवधा देहे न्यस्य संक्रमयेत्ततः // २४१
SK
न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् / पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् // २४२
SK
इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः / नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः // २४३
SK
नादेन वेधयेच्चित्तं नादवेध उदीरितः / बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् // २४४
SK
हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् / तेन संबोधयेत्साध्यं बिन्द्वाख्योयं प्रकीर्तितः // २४५
SK
शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि / शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् // २४६
SK
अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् / एवं भ्रमरवेधेन शाक्तवेध उदाहृतः // २४७
SK
सा चैव परमा शक्तिरानन्दप्रविकासिनी / जन्मस्थानात्परं याति फणपञ्चकभूषिता // २४८
SK
कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च / ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका // २४९
SK
एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता / ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते // २५०
SK
प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् / एवं भुजङ्गवेधस्तु कथितो भैरवागमे // २५१
SK
तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् / क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः // २५२
SK
नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः / न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया // २५३
SK
सर्वभावपरिक्षीणः परवेध उदाहृतः / मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् // २५४
SK
नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः / मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले // २५५
SK
ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् / पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः // २५६
SK
नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि / पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् // २५७
SK
शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् / शक्त्येति शाक्तो वेधोयं सद्यःप्रत्ययकारकः // २५८
SK
आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् / अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि // २५९
SK
देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् / निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः // २६०
SK
भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् / तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् // २६१
SK
इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् / अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः // २६२
SK
विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः / तत् स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये // २६३
SK
अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः / हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते // २६४
SK
पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः / छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः // २६५
SK
इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् / तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन // २६६
SK
यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः / उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः // २६७
SK
नाड्यः प्रधानभूतास्तिस्रोन्यास्तद्गतास्त्वसंख्येयाः / एकीकारस्ताभिर्नाडीवेधोत्र तत्फलकृत् // २६८
SK
अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः / अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा // २६९
SK
लाङ्गूलाकृतिबलवत् स्वनाडिसंवोष्टितामपरनाडीम् / आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी // २७०
SK
परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् / परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः // २७१
SK
श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् / अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते // २७२
SK
तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् / गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् // २७३
SK
रूपं रूपे तु विषयैर्यावत्समरसीभवेत् / चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः // २७४
SK
उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् / शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् // २७५
SK
अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः / निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि // २७६
SK
ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता / स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु // २७७
SK
अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् / बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः // २७८
SK
निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः / मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः // २७९
SK
संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् / संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् // २८०
SK
नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् / दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका // २८१
SK
दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह / चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः // २८२
SK
इति श्रीरत्नमालायामूनाधिकविधिस्तु यः / स एव पातकं तस्य प्रशमोयं प्रकीर्तितः // २८३
SK
परेहनि गुरोः कार्यो यागस्तेन विना यतः / न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः // २८४
SK
येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् / चक्रचर्यान्तरालेस्या विधिः संचार उच्याते // २८५
SK
अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् / अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः // २८६
SK
तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् / कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः // २८७
SK
स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् / क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः // २८८
SK
वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् / परब्रह्मण्यवेत्तारोगमागमविवर्जिताः // २८९
SK
लोभमोहमदक्रोधरागमायाजुषश्च ये / तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि // २९०
SK
यागादौ यागमध्ये च यागान्ते गुरुपूजने / नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् // २९१
SK
इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः /

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source