Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 36: atha śrītantrāloke ṣaṭtriṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
आयातिरथ शास्त्रस्य कथ्यतेवसरागता /०ब् श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता / भैरवो भैरवी देवी स्वच्छन्दो लाकुलोणुराट् // १
SK
गहनेशोब्जजः शक्रो गुरुः कोट्यपकर्षतः / नवभिः क्रमशोधीतं नवकोटिप्रविस्तरम् // २
SK
एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् / दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च // ३
SK
पादं च वामनादिभ्यः पादार्धं भार्गवाय च / पादपादं तु बलये पादपादस्तु योपरः // ४
SK
सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे / पादं वासुकिनागाय खण्डाः सप्तदश त्वमी // ५
SK
स्वर्गादर्धं रावणोथ जह्रे रामोर्धमप्यतः / विभीषणमुखादाप गुरुशिष्यविधिक्रमात् // ६
SK
खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः / खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः // ७
SK
पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः / सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः // ८
SK
देव्योत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण / नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने // ९
SK
रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्योपि दानवाः / गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः // १०
SK
तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा / तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् // ११
SK
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये / द्वयाद्वये च निपुणाः क्रमेण शिवशासने // १२
SK
आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् / स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः // १३
SK
अतश्चार्धचतस्रोत्र मठिकाः संततिक्रमात् / शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः // १४
SK
अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् / विधाय तन्त्रालोकोयं स्यन्दते सकलान्रसान् // १५
SK
उक्तायातिरुपादेयभावो निर्णीयतेधुना /

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya