Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 13: atha śrītantrāloke trayodaśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः // १ब्
SK
तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् / तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते // २
SK
तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् / विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् // ३
SK
सोव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम् / घटादिवत्कार्यमिति हेतुरेकोस्य सा निशा // ४
SK
सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि / कलादिधरणीप्रान्तं जाड्यात्सा सूतयेक्षमा // ५
SK
तेनेशः क्षोभयेदेनां क्षोभोस्याः सूतियोग्यता / पुंसः प्रति च सा भोग्यं सूतेनादीन् पृथग्विधान् // ६
SK
पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् / निमित्तं कर्मसंस्कारः स च तेषु न विद्यते // ७
SK
इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल / न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः // ८
SK
युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि / फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् // ९
SK
ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् / धर्माद्यदि कुतः सोपि कर्मतश्चेत्तदुच्यताम् // १०
SK
नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते / कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् // ११
SK
अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् / ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् // १२
SK
तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः / नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि // १३
SK
अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् / अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि // १४
SK
उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् / निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल // १५
SK
अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् / प्रागभावोथवा ध्वंस आद्ये किं सर्वसंविदाम् // १६
SK
कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी / न किंचिद्यस्य विज्ञानमुदपादि तथाविधः // १७
SK
नाणुरस्ति भवे ह्यस्मिन्ननादौ कोन्वयं क्रमः / भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति // १८
SK
मुक्ताणोरपि सोस्त्येव जन्मतः प्रागसौ नच / ज्ञानं भावि विमुक्तेस्मिन्निति चेच्चर्च्यतामिदम् // १९
SK
कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः / तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोज्ञानहानितः // २०
SK
अज्ञानस्य कथं हानिः प्रागभावे हि संविदः / अज्ञानं प्रागभावोसौ न भाव्युत्पत्त्यसंभवात् // २१
SK
कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः / इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः // २२
SK
अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् / मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् // २३
SK
अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् / तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् // २४
SK
वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् / तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते // २५
SK
अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् / मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् // २६
SK
प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने / देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः // २७
SK
उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा / क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा // २८
SK
अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् / यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन // २९
SK
विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः / अथ प्रलयकाले पि चित्स्वभावत्वयोगतः // ३०
SK
अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः / स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि // ३१
SK
यच्चादर्शनमाख्यातं निमित्तं परिणामिनि / प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः // ३२
SK
दर्शनाय पुमर्थैकयोग्यतासचिवं धियः / आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः // ३३
SK
बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः / प्रकाशनाद्धियोर्थेन सह भोगः स भण्यते // ३४
SK
बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोप्यसौ / मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि // ३५
SK
पुमर्थस्य कृतत्वेन सहकारिवियोगतः / तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि // ३६
SK
अत्र पुंसोथ मूलस्य धर्मोदर्शनता द्वयोः / अथवेति विकल्पोयमास्तामेतत्तु भण्यताम् // ३७
SK
भोगो विवेकपर्यन्त इति यत्तत्र कोवधिः / विवेकलाभे निखिलसूतिदृग्यदि सापि किम् // ३८
SK
सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः / उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः // ३९
SK
कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् / विवेकोनादिसंयोगात्का ह्यन्योन्यं विचित्रता // ४०
SK
तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते / अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया // ४१
SK
युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते / भायाकर्माणुदेवेच्छासद्भावेपि स्थिते ततः // ४२
SK
न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् / तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् // ४३
SK
चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता / आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् // ४४
SK
भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु / तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा // ४५
SK
क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् / प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते // ४६
SK
उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति / तत एवैकतायां चान्यात्मसाधारणत्वतः // ४७
SK
न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः / न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् // ४८
SK
तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः / जडं मलं तदज्ञानं संसाराङ्कुरकारणम् // ४९
SK
तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः / तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे // ५०
SK
समाविशेदयं सूर्यकान्तोर्केणेव चोदितः / रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् // ५१
SK
विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः / स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते // ५२
SK
अत्रोच्यते मलस्तावदित्थमेष न युज्यते / इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् // ५३
SK
मलस्य पाकः को यं स्यान्नाशश्चेदितरात्मनाम् / स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते // ५४
SK
अथ प्रत्यात्मनियतोनादिश्च प्रागभाववत् / मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः // ५५
SK
हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् / ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् // ५६
SK
अहेतुकोस्य नाशश्चेत्प्रागेवैष विनश्यतु / क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा // ५७
SK
न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः / नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः // ५८
SK
अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता / सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् // ५९
SK
पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् / मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे // ६०
SK
रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि / सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः // ६१
SK
संनिधानातिरिक्तं च न किंचित्कुरुते मलः / आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः // ६२
SK
ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः / तच्चेदावारितं हन्त रूपनाशः प्रसज्यते // ६३
SK
आवारणं चादृश्यत्वं न च तद्वस्तुनोन्यताम् / करोति घटवज्ज्ञानं नावरीतुं च शक्यते // ६४
SK
ज्ञानेनावरणीयेन तदेवावरणं कथम् / न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः // ६५
SK
रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः / यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् // ६६
SK
कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते / तस्यापि रूपं वक्तव्यं समता कर्मणां हि का // ६७
SK
भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति / विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् // ६८
SK
तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् / रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः // ६९
SK
नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः / तथैव देये स्वफले केयमन्योन्यरोद्धृता // ७०
SK
रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् / देहो भोगदयोरेव निरोध इति चेन्ननु // ७१
SK
जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः / मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः // ७२
SK
शतशोपि ह्लादतापशून्यां संचिन्वते दशाम् / न च भक्तिरसावेशमिति भूम्ना विलोकितम् // ७३
SK
अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः / तथा करोति वक्तव्यं कालोसौ कीदृशस्त्विति // ७४
SK
किं चानादिरयं भोगः कर्मानादि सपुद्गलम् / ततश्च भोगपर्यायकालः सर्वस्य निःसमः // ७५
SK
आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् / वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् // ७६
SK
इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति / अनेन नयबीजेन मन्ये वैचित्र्यकारणम् // ७७
SK
जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते / अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना // ७८
SK
सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् / भोगलोलिकया चेत्सा विचित्रेति कुतो ननु // ७९
SK
अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः / वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः // ८०
SK
महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ / ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते // ८१
SK
अथानादित्वमात्रेण युक्तिहीनेन साध्यते / व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना // ८२
SK
तथाहि कर्म तावन्नो यावन्माया न पुद्गले / व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः // ८३
SK
इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् / अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् // ८४
SK
ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु / सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते // ८५
SK
आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः / आत्माकारोपि कोप्येष भाविकाले तथा भवेत् // ८६
SK
इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः / अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् // ८७
SK
विरोधे स्वफले चैते कर्मणी समये क्वचित् / उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् // ८८
SK
शिवशक्तिनिपातस्य कोवकाशस्तु तावता / क्वापि काले तयोरेतदौदासीन्यं यदा ततः // ८९
SK
कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः / अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च // ९०
SK
रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् / एवं सदैव वार्तायां देहपाते तथैव च // ९१
SK
जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना / अथोदासीनतत्कर्मद्वययोगक्षणान्तरे // ९२
SK
कर्मान्तरं फलं सूते तत्क्षणेपि तथा न किम् / क्षणान्तरेथ ते एव प्रतिबन्धविवर्जिते // ९३
SK
फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः / कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् // ९४
SK
न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् / तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः // ९५
SK
कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल / हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु // ९६
SK
एतेनान्येपि येपेक्ष्या ईशेच्छायां प्रकल्पिताः / ध्वस्तास्तेपि हि नित्यान्यहेत्वहेत्वादिदूषणात् // ९७
SK
वैराग्यं भोगवैरस्यं धर्मः कोपि विवेकिता / सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता // ९८
SK
आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् / शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् // ९९
SK
इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् / व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः // १००
SK
अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी / तस्मान्न मन्महे कोयं शक्तिपातविधेः क्रमः // १०१
SK
इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् / श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् // १०२
SK
देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः / रूपप्रच्छादनक्रीडायोगादणुरनेककः // १०३
SK
स स्वयं कल्पिताकारविकल्पात्मककर्मभिः / बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् // १०४
SK
स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः / स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः // १०५
SK
न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा / नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते // १०६
SK
देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् / तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता // १०७
SK
आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः / पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे // १०८
SK
प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् / छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् // १०९
SK
तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् / ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् // ११०
SK
साभ्येति कर्ममलयोरतोनादिव्यवस्थितिः / तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् // १११
SK
प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः / विशुद्धस्वप्रकाशात्मशिवरूपतया विना // ११२
SK
न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः / इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते // ११३
SK
कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् / यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते // ११४
SK
तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी / अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् // ११५
SK
व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् / तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् // ११६
SK
स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः / कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः // ११७
SK
अनपेक्ष्य शिवे भक्तिः शक्तिपातोफलार्थिनाम् / या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते // ११८
SK
ततोत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा / भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् // ११९
SK
प्राग्भागेपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः / अनाभासितरूपोपि तदाभासितयेव यत् // १२०
SK
स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोस्य तिरोभवः / श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत // १२१
SK
धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् / असन्देहं स्वमात्मानमवीच्यादिशिवान्तके // १२२
SK
तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् / स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति // १२३
SK
स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् / स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः // १२४
SK
स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः / वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् // १२५
SK
श्रीमन्निशाकुलेप्युक्तं मिथ्याभावितचेतसः / मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः // १२६
SK
स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये / व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् // १२७
SK
श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने / धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः // १२८
SK
तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः / तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः // १२९
SK
ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः / तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् // १३०
SK
मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः / मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते // १३१
SK
स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् / तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. // १३२
SK
प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः / तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् // १३३
SK
स शिष्टः कर्मकर्तृत्वाच्छिष्योन्यः कर्मभावतः / शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु // १३४
SK
उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः / यन्मूलं शासनं तेन न रिक्तः कोपि जन्तुकः // १३५
SK
तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते / युक्तिः शास्त्रं गुरुर्वादोभ्यास इत्याद्यपेक्षते // १३६
SK
कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् / कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः // १३७
SK
यथा यथा परापेक्षातानवं प्रातिभे भवेत् / तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः // १३८
SK
अन्यतः शिक्षितानन्तज्ञानोपि प्रतिभाबलात् / यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा // १३९
SK
न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् / न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः // १४०
SK
आदिविद्वान्महादेवस्तेनैषोधिष्ठितो यतः / संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः // १४१
SK
देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने / दृढताकम्प्रताभेदैः सोपि स्वयमथ व्रतात् // १४२
SK
तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् / यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् // १४३
SK
इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् / अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः // १४४
SK
श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा / निरूपितं महेशेन कियद्वा लिख्यतामिदम् // १४५
SK
इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् / यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः // १४६
SK
अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः / सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः // १४७
SK
नियतेर्महिमा नैव फले साध्ये निवर्तते / अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः // १४८
SK
असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः / श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः // १४९
SK
तथाहि त्रीशिकाशास्त्रविवृतौ तेभ्यधुर्बुधाः / सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते // १५०
SK
तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् / एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी // १५१
SK
दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता / अदृष्टमण्डलोप्येवं यः कश्चिद्वेत्ति तत्त्वतः // १५२
SK
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः / अविधिज्ञो विधानज्ञो जायते यजनं प्रति // १५३
SK
इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् / ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् // १५४
SK
ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् / इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति // १५५
SK
गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा / प्रतिभा परमेवैषा सर्वकामदुघा यतः // १५६
SK
उपाययोगक्रमतो निरुपायमथाक्रमम् / यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् // १५७
SK
यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः / उक्तोनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः // १५८
SK
स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने / प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् // १५९
SK
ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् / योभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः // १६०
SK
परोपजीविताबुद्ध्या सर्व इत्थं न भासते / तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः // १६१
SK
स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते / किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः // १६२
SK
ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे / श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् // १६३
SK
प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते / अनिर्देश्यः शिवस्तत्र कोभ्युपायो निरूप्यताम् // १६४
SK
इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम् / उपायोत्र विवेकैकः स हि हेयं विहापयन् // १६५
SK
ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् / यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् // १६६
SK
परशक्तिनिपातेन ध्वस्तमायामलः पुमान् / ननु प्राग्दीक्षया मोक्षोधुना तु प्रातिभात्कथम् // १६७
SK
इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः / दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये // १६८
SK
गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे / प्रातिभोस्य स्वभावस्तु केवलीभावसिद्धिदः // १६९
SK
केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु / नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया // १७०
SK
ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् / शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः // १७१
SK
पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् / कथं विवेकः किं वास्य देवदेव विविच्यते // १७२
SK
इत्युक्ते परमेशान्या जगादादिगुरुः शिवः / शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः // १७३
SK
अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् / दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि // १७४
SK
विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् / भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् // १७५
SK
बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा / योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् // १७६
SK
विवेकोतीन्द्रियस्त्वेष यदायाति विवेचनम् / पशुपाशपतिज्ञानं स्वयं निर्भासते तदा // १७७
SK
प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् / वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने // १७८
SK
तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा / प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे // १७९
SK
दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता / सर्वभावविवेकात्तु सर्वभावपराङ्मुखः // १८०
SK
क्रीडासु सुविरक्तात्मा शिवभावैकभावितः / माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते // १८१
SK
स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् / हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् // १८२
SK
सिद्धिजालं हि कथितं परप्रत्ययकारणम् / इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् // १८३
SK
परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते / एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् // १८४
SK
शापानुग्रहकार्येषु तथाभ्यासेन शक्तया / तेषूदासीनतायां तु मुच्यते मोचयेत्परान् // १८५
SK
भूतेन्द्रियादियोगेन बद्धोणुः संसरेद्ध्रुवम् / स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते // १८६
SK
तत्पातावेशतो मुक्तः शिव एव भवार्णवात् / नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् // १८७
SK
विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् / इति पृष्टोभ्यधात्स्वान्तधियोर्जाड्यैकवासनात् // १८८
SK
अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः / संस्कारः सर्वभावानां परता परिकीर्तिता // १८९
SK
मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे / विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते // १९०
SK
न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये / परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते // १९१
SK
विवेकः सर्वभावानां शुद्धभावान्महाशयः / बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् // १९२
SK
अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् / ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे // १९३
SK
ऊचेज्ञाना हि दीक्षायां बालवालिशयोषितः / पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे // १९४
SK
तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि / दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् // १९५
SK
इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः / तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति // १९६
SK
श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा / ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् // १९७
SK
मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा / शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति // १९८
SK
एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते / एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् // १९९
SK
शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा / तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते // २००
SK
इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः / अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते // २०१
SK
रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया / भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति // २०२
SK
तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् / तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् // २०३
SK
अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका / स्वं रूपं प्रति या सैव कोपि काल इहोदितः // २०४
SK
योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते / पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् // २०५
SK
तथाभासनमुज्झित्वा न हि कालोस्ति कश्चन / स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् // २०६
SK
नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता / ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता / सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् // २०७
SK
क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः // २०८
SK
तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् / त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः // २०९
SK
तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः / देहपातो भवेदस्य यद्वा काष्ठादितुल्यता // २१०
SK
समस्तव्यवहारेषु पराचीनितचेतनः / तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति // २११
SK
एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् / ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् // २१२
SK
अज्ञानरूपता पुंसि बोधः संकोचिते हृदि / संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते // २१३
SK
रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते / चिह्नवर्गो य उक्तोत्र रुद्रे भक्तिः सुनिश्चला // २१४
SK
मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः / कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् // २१५
SK
स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता / तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः // २१६
SK
स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः / अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति // २१७
SK
मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते / शिवेच्छावशयोगेन सद्गुरुं प्रति सोपि च // २१८
SK
अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना / यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः // २१९
SK
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः / दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा // २२०
SK
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि / ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः // २२१
SK
ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् / किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः // २२२
SK
प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत् / एवं जिगमिषायोगादाचार्यः प्राप्यते स च // २२३
SK
तारतम्यादियोगेन संसिद्धः संस्कृतोपि च / प्राग्भेदभागी झटिति क्रमात्सामस्त्यत्ॐशतः // २२४
SK
इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः / तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् // २२५
SK
ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः / जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते // २२६
SK
देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा / अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् // २२७
SK
शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः / मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः // २२८
SK
क्रियया वान्तराकाररूपप्राणप्रवेशतः / तदा च देहसंस्थोपि स मुक्त इति भण्यते // २२९
SK
उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः / यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् // २३०
SK
तदैव किल मुक्तोसौ यन्त्रं तिष्ठति केवलम् / प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते // २३१
SK
न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् / अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा // २३२
SK
कर्मणा तेन बाध्यन्ते ज्ञानिनोपि कलेवरे / जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः // २३३
SK
उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः / अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः // २३४
SK
हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः / सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् // २३५
SK
तत्र त्वेषोस्ति नियम आसन्ने मरणक्षणे / तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति // २३६
SK
उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः / प्राणैर्वियोजितोप्येष भुङ्क्ते शेषफलं यतः // २३७
SK
तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् / कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते // २३८
SK
तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् / विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा // २३९
SK
एकस्त्रिकोयं निर्णीतः शक्तिपातेप्यथापरः / तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् // २४०
SK
स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् / उक्तं च निशिसंचारयोगसंचारशास्त्रयोः // २४१
SK
विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् / मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोपि सन् // २४२
SK
बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः / मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः // २४३
SK
देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् / तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता // २४४
SK
बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः / तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता // २४५
SK
क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् / अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् // २४६
SK
कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् / यदा प्रतिभयाविष्टोप्येष संवादयोजनाम् // २४७
SK
इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् / न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् // २४८
SK
इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् / रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति // २४९
SK
तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः / दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् // २५०
SK
उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना / अभिलाषः शिवे देवे पशूनां भवते तदा // २५१
SK
यदा शैवाभिमानेन युक्ता वै परमाणवः / तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः // २५२
SK
प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते / तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः // २५३
SK
नवधा शक्तिपातोयं शंभुनाथेन वर्णितः / इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः // २५४
SK
प्रकाशः परमः शक्तिपातोवच्छेदवर्जितः / तथाविधोपि भोगांशावच्छेदेनोपलक्षितः // २५५
SK
अपरः शक्तिपातोसौ पर्यन्ते शिवताप्रदः / उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः // २५६
SK
नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः / तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः // २५७
SK
स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् / ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः // २५८
SK
शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः / ननु पूजाजपध्यानशंकरासेवनादिभिः // २५९
SK
ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः / मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु // २६०
SK
प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् / कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् // २६१
SK
ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता / जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् // २६२
SK
कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् / तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः // २६३
SK
तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् / चित्राकारप्रकाशोयं स्वतन्त्रः परमेश्वरः // २६४
SK
स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेस्य भोक्तृताम् / पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् // २६५
SK
उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी / बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् // २६६
SK
ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका / अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते // २६७
SK
सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया / विष्ण्वादिरूपता देवे या काचित्सा निजात्मना // २६८
SK
भेदयोगवशान्मायापदमध्यव्यवस्थिता / तेन तद्रूपतायोगाच्छक्तिपातः स्थितोपि सन् // २६९
SK
तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु / यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन // २७०
SK
ईशशक्तिसमावेशात्तथा विष्ण्वादयोप्यलम् / मायागर्भाधिकारीयशक्तिपातवशात्ततः // २७१
SK
कोपि प्रधानपुरुषविवेकी प्रकृतेर्गतः / उत्कृष्टात्तत एवाशु कोपि बुद्धा विवेकिताम् // २७२
SK
क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः / कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् // २७३
SK
ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः / स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् // २७४
SK
मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् / विज्ञानाकलतां प्राप्तः केवलादधिकारतः // २७५
SK
मलान्मन्त्रतदीशादिभावमेति सदा शिवात् / पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् // २७६
SK
अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः / नान्येन शिवभावो हि केनचित्संप्रकाशते // २७७
SK
स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् / त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे // २७८
SK
शिवज्ञानं केवलं च शिवतापत्तिदायकम् / शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते // २७९
SK
अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम् / तेनेह वैष्णवादीनां नाधिकारः कथंचन // २८०
SK
ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः / स्वातन्त्र्यात्तु महेशस्य तेपि चेच्छिवतोन्मुखाः // २८१
SK
द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया / दुष्टाधिवासविगमे पुष्पैः कुम्भोधिवास्यते // २८२
SK
द्विगुणोस्य स संस्कारो नेत्थं शुद्धे घटे विधिः / इत्थं श्रीशक्तिपातोयं निरपेक्ष इहोदितः // २८३
SK
अनयैव दिशा नेयं मतङ्गकिरणादिकम् / ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् // २८४
SK
पुराणेपि च तस्यैव प्रसादाद्भक्तिरिष्यते / यया यान्ति परां सिद्धिं तद्भावगतमानसाः // २८५
SK
एवकारेण कर्मादिसापेक्षत्वं निषिध्यते / प्रसादो निर्मलीभावस्तेन संपूर्णरूपता // २८६
SK
आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते / शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् // २८७
SK
वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् / शिवो भवति तत्रैष कारणं न तु केवलः // २८८
SK
निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः / यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् // २८९
SK
श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः / शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् // २९०
SK
अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे / कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् // २९१
SK
दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः / अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् // २९२
SK
व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः / श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः // २९३
SK
व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता / स्थावरान्तेपि देवस्य स्वरूपोन्मीलनात्मिका // २९४
SK
शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् / एवं विचित्रेप्येतस्मिञ्छक्तिपाते स्थिते सति // २९५
SK
तारतम्यादिभिर्भेदैः समय्यादिविचित्रता / कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः // २९६
SK
शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते / कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् // २९७
SK
भोगव्यवधिना कोपि साधकश्चिरशीघ्रतः / कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि // २९८
SK
रूपे स्थितो गुरुः सोपि भोगमोक्षादिभेदभाक् / समय्यादिचतुष्कस्य समासव्यासयोगतः // २९९
SK
क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता / क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः // ३००
SK
दक्षे मते कुले कौले षडर्धे हृदये ततः / उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा // ३०१
SK
उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः / गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः // ३०२
SK
ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः / शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु // ३०३
SK
वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् / तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति // ३०४
SK
शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये / सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले // ३०५
SK
कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः / भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता // ३०६
SK
स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना / अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः // ३०७
SK
समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः / स च शक्तिवशादित्थं वैष्णवादिषु कोन्वयः // ३०८
SK
छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् / प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् // ३०९
SK
फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः / ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् // ३१०
SK
तिरोभावप्रकारोयं यत्तादृशि नियोजितः / गुरौ शिवेन तद्भक्तिः शक्तिपातोस्य नोच्यते // ३११
SK
यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् / विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् // ३१२
SK
तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः / यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः // ३१३
SK
वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः / स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेप्यलम् // ३१४
SK
नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः / शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् // ३१५
SK
कथङ्कारं पतिपदं प्रयातु परतन्त्रितः / स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः // ३१६
SK
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया / वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने // ३१७
SK
ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् / स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ // ३१८
SK
प्रत्यवायं यतोभ्येति चरेत्तन्नेदृशं क्रमम् / उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् // ३१९
SK
नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते / तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते // ३२०
SK
कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु / अवच्छिन्नोनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः // ३२१
SK
सर्वंसहस्ततोधःस्थ ऊर्ध्वस्थोधिकृतो गुरुः / स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः // ३२२
SK
सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः / अधःस्थदृक्स्थोप्येतादृग्गुरुसेवी भवेत्स यः // ३२३
SK
तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् / तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके // ३२४
SK
उत्तरोत्तरविज्ञाने नाधिकार्यधरोधरः / उत्तरोत्तरमाचार्यं विदन्नप्यधरोधरः // ३२५
SK
कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् / शक्तिपातबलादेव ज्ञानयोग्यविचित्रता // ३२६
SK
श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च / ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् // ३२७
SK
तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकलेकले / कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् // ३२८
SK
योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे / सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः // ३२९
SK
अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा / विमोचनायां नोपायः स्थितापि धनदारवत् // ३३०
SK
यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः / साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् // ३३१
SK
तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते / यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः // ३३२
SK
तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् / विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते // ३३३
SK
मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् / अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् // ३३४
SK
आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् / विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् // ३३५
SK
शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् / नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् // ३३६
SK
उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः / अधमे यः पदे तस्मात्कोन्यः स्याद्दैवदग्धकः // ३३७
SK
यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च / स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् // ३३८
SK
तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् / भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः // ३३९
SK
फलदानाक्षमे योगिन्यपायैकोपदेशिनि / वरं ज्ञानी योभ्युपायं दिशेदपिच मोचयेत् // ३४०
SK
ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् / ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् // ३४१
SK
तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः / धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् // ३४२
SK
नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् / कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् // ३४३
SK
आ तपनान्मोटकान्तं यस्य मेस्ति गुरुक्रमः / तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता // ३४४
SK
श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत / अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् // ३४५
SK
तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि / लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः // ३४६
SK
संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् / श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः // ३४७
SK
प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः / क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः // ३४८
SK
तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन / गुर्वन्तररते मूढे आगमान्तरसेवके // ३४९
SK
प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् / यो यत्र शास्त्रेधिकृतः स तत्र गुरुरुच्यते // ३५०
SK
तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते / यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् // ३५१
SK
स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति / तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् // ३५२
SK
अधराधरमाचार्यं विनाशमधिगच्छति / एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः // ३५३
SK
मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते / उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः // ३५४
SK
जुगुप्सते तत्तस्मिंश्च विफलेन्यत्समाश्रयेत् / दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु // ३५५
SK
यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् / जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः // ३५६
SK
अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते / शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः // ३५७
SK
अतश्चाप्युत्तमं शैवं योन्यत्र पतितः सहि / इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् // ३५८
SK
अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे / न शासने समाम्नातं लिङ्गोद्धारादि किंचन // ३५९
SK
इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः / कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः // ३६०
SK
तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् / दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् // ३६१
SK
इत्येष युक्त्यागमतः शक्तिपातो विवेचितः /

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source