Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 15: atha śrītantrāloke pañcadaśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथैतदुपयोगाय यागस्तावन्निरूप्यते / तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् // १
SK
स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते / यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः // २
SK
सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः / योग्यतावशतो यत्र वासना यस्य तत्र सः // ३
SK
योज्यो न च्यवते तस्मादिति श्रीमालिनीमते / वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः // ४
SK
न चाधिकारिता दीक्षां विना योगेस्ति शाङ्करे / न च योगाधिकारित्वमेकमेवानया भवेत् // ५
SK
अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया / इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता // ६
SK
दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते / पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता // ७
SK
येषामध्यवसायोस्ति न विद्यां प्रत्यशक्तितः / सुखोपायमिदं तेषां विधानमुदितं गुरोः // ८
SK
इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता / सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका // ९
SK
उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः / हेयादेयत्वकथने विद्यापाद इति स्फुटम् // १०
SK
तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः / ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः // ११
SK
ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः / अतोस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः // १२
SK
यत्र तत्रास्तु गुरुणा योजितोसौ फलं पुनः / स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल // १३
SK
यस्य त्वीशप्रसादेन दिव्या काचन योग्यता / गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता // १४
SK
ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् / सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते // १५
SK
इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः / स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः // १६
SK
आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् / इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् // १७
SK
ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे / दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ // १८
SK
तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः / उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः // १९
SK
स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् / परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् // २०
SK
उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् / फलं प्रार्थयसे यादृक्तादृक्साधनमारभे // २१
SK
वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता / मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः // २२
SK
वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् / साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः // २३
SK
लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः / द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः // २४
SK
बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः / अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने // २५
SK
विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका / दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः // २६
SK
अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् / मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् // २७
SK
साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् / शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी // २८
SK
अधर्मरूपिणामेव न शुभानां तु शोधनम् / लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता // २९
SK
प्रारब्धदेहभेदे तु भुङ्क्तेसावणिमादिकम् / भुक्त्वोर्ध्वं याति यत्रैष युक्तोथ सकलेकले // ३०
SK
समयाचारपाशं तु निर्बीजायां विशोधयेत् / दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा // ३१
SK
सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते / अतीतानागतारब्धपाशत्रयवियोजिका // ३२
SK
दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् / देहत्यागे सबीजायां कर्माभावाद्विपद्यते // ३३
SK
समयाचारपाशं तु दीक्षितः पालयेत्सदा / एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् // ३४
SK
उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् / आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः // ३५
SK
अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता / स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् // ३६
SK
अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः / भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः // ३७
SK
दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते / तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः // ३८
SK
स एव हि गुरुः कार्यस्ततोसौ दीक्षणे क्षमः / शिवतावेशिता चास्य बहूपाया प्रदर्शिता // ३९
SK
क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः / बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि // ४०
SK
संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः / शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते // ४१
SK
शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः / शिवोयं शिव एवास्मीत्येवमाचार्यशिष्ययोः // ४२
SK
हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः / नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् // ४३
SK
सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते / श्रीब्रह्मयामले देव इति तेन न्यरूपयत् // ४४
SK
श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः / किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् // ४५
SK
तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् / अयत्नतोन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः // ४६
SK
स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते / तत्रैवं मन्त्रदीप्तेन्तर्मलदाहे निमज्जनम् // ४७
SK
तत्रेष्टमन्त्रहृदयो गोरजोन्तः पदत्रयम् / गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् // ४८
SK
अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः / जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः // ४९
SK
निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः / उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे // ५०
SK
सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् / देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् // ५१
SK
सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः / ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः // ५२
SK
आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् / अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् // ५३
SK
कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् / भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः // ५४
SK
हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् / तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् // ५५
SK
गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् / गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् // ५६
SK
अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः / स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः // ५७
SK
यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् / स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् // ५८
SK
एवं सोमार्कतेजःसु शिवभावेन भावनात् / निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते // ५९
SK
आत्मैव परमेशानो निराचारमहाह्रदः / विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः // ६०
SK
इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् / सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् // ६१
SK
घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः / अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः // ६२
SK
एता ह्यनुग्रहात्मानो मूर्तयोष्टौ शिवात्मिकाः / स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः // ६३
SK
अनेन विधिनार्चायां कन्दाधारादियोजनाम् / कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् // ६४
SK
तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः / आप्ये आप्या यावदमी शिवे शिवमया इति // ६५
SK
श्रीनिर्मर्यादशास्त्रेपि तदित्थं सुनिरूपितम् / धरादेश्च विशेषोस्ति वीरसाधकसंमतः // ६६
SK
रणरेणुर्वीरजलं वीरभस्म महामरुत् / श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ // ६७
SK
आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः / स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् // ६८
SK
श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना / सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना // ६९
SK
कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् / कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् // ७०
SK
मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् / तेनात्मसेकः कलशमुद्रया चाभिषेचनम् // ७१
SK
देवतातर्पणं देहप्राणोभयपथाश्रितम् / सर्वतीर्थतपोयज्ञदानादि फलमश्नुते // ७२
SK
मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् / यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः // ७३
SK
शिवशक्त्योर्न भेदोस्ति शक्त्युत्थास्तु मरीचयः / तासामानन्दजनकं मद्यं शिवमयं ततः // ७४
SK
प्रबुद्धे संविदः पूर्णे रूपेधिकृतिभाजनम् / मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् // ७५
SK
युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् / अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता // ७६
SK
आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः / यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः // ७७
SK
मूर्तयोष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः / एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशोपिवा // ७८
SK
इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ / स्नानानन्तरकर्तव्यमथेदमुपदिश्यते // ७९
SK
भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः / पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते // ८०
SK
तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये / आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् // ८१
SK
साधकानामुपायः स्यात्सिद्धये नतु मुक्तये / पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते // ८२
SK
तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् / यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् // ८३
SK
तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् / अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः // ८४
SK
नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः / पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् // ८५
SK
ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् / शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् // ८६
SK
देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः / लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् // ८७
SK
पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः / नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् // ८८
SK
क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् / प्रयागो वरणा पश्चादट्टहासो जयन्तिका // ८९
SK
वाराणसी च कालिङ्गं कुलूता लाहुला तथा / उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् // ९०
SK
विरजैरुडिका हाला एला पूः क्षीरिका पुरी / मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः // ९१
SK
हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता / जालन्धरं च नैपालं कश्मीरा गर्गिका हरः // ९२
SK
म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् / द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् // ९३
SK
चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते / नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् // ९४
SK
भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् / नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् // ९५
SK
पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च / किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः // ९६
SK
ततो देहस्थितं तस्माद्देहायतनगो भवेत् / बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः // ९७
SK
देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते / यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः // ९८
SK
तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् / यथाचातन्मयोप्येति पापितां तैः समागमात् // ९९
SK
तथा पीठस्थितोप्येति ज्ञानयोगादिपात्रताम् / मुख्यत्वेन शरीरेन्तः प्राणे संविदि पश्यतः // १००
SK
विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः / इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् // १०१
SK
स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः / श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् // १०२
SK
सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च / इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः // १०३
SK
तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः / मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते // १०४
SK
देशोपाया न सा यस्मात्सा हि भावप्रसादतः / उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् // १०५
SK
स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् / मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् // १०६
SK
गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् / यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते // १०७
SK
तत्रैव धाम्नि बाह्येन्तर्यागश्रीः प्रतितिष्ठति / नान्यत्रगत्या मोक्षोस्ति सोज्ञानग्रन्थिकर्तनात् // १०८
SK
तच्च संविद्विकासेन श्रीमद्वीरावलीपदे / गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः // १०९
SK
हेतुरित्युभयत्रापि यागौको यन्मनोरमम् / नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि // ११०
SK
सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् / विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् // १११
SK
साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते / उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति // ११२
SK
क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेपि कृते सति / तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः // ११३
SK
इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् / तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु // ११४
SK
तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् / यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः // ११५
SK
न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये / मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् // ११६
SK
सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः / ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे // ११७
SK
द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश / दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ // ११८
SK
वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् / पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव // ११९
SK
त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् / इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते // १२०
SK
न शिखा ऋ ॠ ऌ ऌऌ च शिरोमाला थ मस्तकम् / नेत्राणि चोर्ध्वे धोन्ये ई घ्राणं मुद्रे णु णू श्रुती // १२१
SK
बकवर्ग+इ+आ वक्त्रदन्तजिह्वागिरि क्रमात् / वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ // १२२
SK
ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके / प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् // १२३
SK
प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ / मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा // १२४
SK
एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ / इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः // १२५
SK
कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः / अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् // १२६
SK
कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् / योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् // १२७
SK
तथापि नादिफान्तोयं क्रमो मुख्यः प्रकीर्तितः / फकारादिसमुच्चारान्नकारान्तेध्वमण्डलम् // १२८
SK
संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् / अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः // १२९
SK
भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी / शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी // १३०
SK
सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता / मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः // १३१
SK
फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी / संहारदानादानादिशक्तियुक्ता यतो रलौ // १३२
SK
एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् / शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् // १३३
SK
एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता / तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् // १३४
SK
मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः / उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते // १३५
SK
न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् / विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः // १३६
SK
यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत / साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् // १३७
SK
मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये / तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् // १३८
SK
न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये / इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् // १३९
SK
सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः / अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः // १४०
SK
वाचकौ न्यास एताभ्यां कृते न्यासेथवैककः / एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः // १४१
SK
सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् / अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् // १४२
SK
क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् / अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा // १४३
SK
यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् / संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् // १४४
SK
मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् / शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् // १४५
SK
एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् / उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः // १४६
SK
यतः समस्तभावानां शिवात्सिद्धिमयादथो / पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया // १४७
SK
समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् / पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि // १४८
SK
यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः / अश्वः संग्रामरूढोपि तां शिक्षां नातिवर्तते // १४९
SK
तथार्चनक्रियाभ्यासशिवीभावितकारकः / गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति // १५०
SK
तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् / संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् // १५१
SK
उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः / अहो स्वादुरसः कोपि शिवपूजामयोत्सवः // १५२
SK
षट्त्रिंशतोपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् / तदेतादृक्पूर्णशिवविश्वावेशाय येर्चनम् // १५३
SK
कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् / विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका // १५४
SK
इत्थमैक्यसमापत्तिदानात्परफलप्रदा / साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् // १५५
SK
विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् / उक्तं च परमेशेन न विधिर्नार्चनक्रमः // १५६
SK
केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु / तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः // १५७
SK
समस्तकारकैकात्म्यं तेनास्याः परमं वपुः / यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् // १५८
SK
यष्टृयाज्यतदाधारकरणादानसंप्रदाः / न्यासक्रमेण शिवतातादात्म्यमधिशेरते // १५९
SK
अर्घपात्रमपादानं तस्मादादीयते यतः / यच्च तत्स्थं जलाद्येतत्करणं शोधनेर्चने // १६०
SK
अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति / शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति // १६१
SK
ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः / न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् // १६२
SK
तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि / अशुद्धता च विज्ञेया पशुतच्छासनाशयात् // १६३
SK
स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् / तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् // १६४
SK
कियतोपि तदत्यन्तं योग्यं यागेत्र जीववत् / अनेन नययोगेन यदासत्तिविदूरते // १६५
SK
संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् / वीराणामत एवेह मिथः स्वप्रतिमामृतम् // १६६
SK
तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः / उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् // १६७
SK
अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः / तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् // १६८
SK
आनन्दजननं पूजायोग्यं हृदयहारि यत् / अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु // १६९
SK
मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् / लोकस्थितिं रचयितुं मद्यादेः पशुशासने // १७०
SK
प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता / पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः // १७१
SK
विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता / न पत्न्या च विना यागः सर्वदैवततुल्यता // १७२
SK
सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः / पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना // १७३
SK
घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् / भक्ष्यो हंसो न भक्ष्योसाविति रिप्रतिपत्तिषु // १७४
SK
स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः / अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी // १७५
SK
मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः / वेदेपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते // १७६
SK
न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् / अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः // १७७
SK
एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः / क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि // १७८
SK
तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् / प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः // १७९
SK
सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् / यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् // १८०
SK
प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि / त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् // १८१
SK
योगिनीश्च पृथङ्मन्त्रैर्ॐनमोनामयोजितैः / एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः // १८२
SK
तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः / एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् // १८३
SK
त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते / गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः // १८४
SK
मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा / क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च // १८५
SK
एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् / कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः // १८६
SK
अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् / द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी // १८७
SK
पद्माधारगताः सर्वेप्युदिता विघ्ननाशकाः / पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः // १८८
SK
अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः / पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः // १८९
SK
एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् / रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् // १९०
SK
द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् / क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् // १९१
SK
प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् / दिशोस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः // १९२
SK
तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा / विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् // १९३
SK
यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका / प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः // १९४
SK
उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा / उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् // १९५
SK
तस्मात्संवित्प्रकाशोयं मूर्त्याभासनभागतः / पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः // १९६
SK
तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् / तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः // १९७
SK
किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः / किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः // १९८
SK
पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् / प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः // १९९
SK
यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः / दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते // २००
SK
तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि / एवमाशाचतुष्केस्मिन्मध्यविश्रान्तियोगतः // २०१
SK
चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः / एवं प्रकाशमात्रेस्मिन्वरदे परमे शिवे // २०२
SK
दिग्विभागः स्थितो लोके शास्त्रेपिच तथोच्यते / क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः // २०३
SK
ईशन्रघोरवामाख्यसद्योधोभेदतो दिशः / ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् // २०४
SK
पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः / पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते // २०५
SK
पातालवक्त्रमधरमप्रकाशतया स्थितेः / खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि // २०६
SK
मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते / तदेव मुख्यतोधस्तादप्रकाशं यतः स्फुटम् // २०७
SK
मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् / प्रकाशत्वाद्दिश्यमानमतोस्मिन्दिक्चतुष्टयम् // २०८
SK
पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः / ततोपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः // २०९
SK
ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् / न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः // २१०
SK
दिग्विभागस्तु तज्जोस्ति वदनानां चतुष्टयात् / पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ // २११
SK
ततो ब्रह्माण्डमध्येपि ज्ञानशक्तिर्विभो रविः / दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् // २१२
SK
तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते / तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् // २१३
SK
तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् / तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् // २१४
SK
तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् / तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् // २१५
SK
यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः / तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् // २१६
SK
तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् / सा सा दिक्च तथा तस्य फलदापि विपर्यये // २१७
SK
विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः / इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी // २१८
SK
अधिष्ठिता महेशेन चित्रतद्रूपधारिणा / किं वातिबहुना योसौ यष्टा तत्संमुखादितः // २१९
SK
दिशोपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः / स्वानुसारकृतं तं च दिग्विभागं सदा शिवः // २२०
SK
अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः / स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते // २२१
SK
ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः / प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः // २२२
SK
सोग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा / प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते // २२३
SK
भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः / अदृष्टविग्रहोनन्तो ब्रह्मोर्ध्वे वृंहको विभुः // २२४
SK
प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः / इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते // २२५
SK
तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते / सर्वगोप्यनिलो यद्वद्व्यजनेनोपवीजितः // २२६
SK
प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् / तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् // २२७
SK
साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः / एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः // २२८
SK
अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा / साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् // २२९
SK
स्थितस्तदनुसारेण मध्यीभवति शंकरः / स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः // २३०
SK
सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः / तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः // २३१
SK
उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः / उपविश्य निजस्थाने देहशुद्धिं समाचरेत् // २३२
SK
अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् / अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् // २३३
SK
दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् / तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् // २३४
SK
तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा / देहपुर्यष्टकाहन्ताविध्वंसादेव जायते // २३५
SK
नहि सद्भावमात्रेण देहोसावन्यदेहवत् / अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् // २३६
SK
तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः / तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि // २३७
SK
तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः / संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् // २३८
SK
सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका / ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः // २३९
SK
अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् / अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः // २४०
SK
त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते / ततोघोराष्टकन्यासः शिरस्तच्चरणात्मकम् // २४१
SK
ततोपि शिवसद्भावन्यासः स्वांगस्य संयुतः / इत्थ कृते पञ्चकेस्मिन्यत्तन्मुख्यतया भवेत् // २४२
SK
उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् / तेनात्र न्यासयोग्योसौ भगवान्रतिशेखरः // २४३
SK
ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेन्योन्यधामता / एवं भैरवसद्भावनाथे मुख्यतया यदि // २४४
SK
उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः / इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् // २४५
SK
शंभुनाथो न्यासविधौ देवो हि कथमन्यथा / न्यास विवर्ज्यतेमुष्मिन्नङ्गान्यप्यस्य सन्ति हि // २४६
SK
मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः / शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः // २४७
SK
अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् / परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् // २४८
SK
पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् / ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य+ऊरुतः // २४९
SK
जानुपादेप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् / ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् // २५०
SK
योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् / अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् // २५१
SK
साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः / परैव देवीत्रितयमध्ये याभेदिनी स्थिता // २५२
SK
सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता / सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः // २५३
SK
मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् / पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोपि षड्विधः // २५४
SK
यामलोयं महान्यासः सिद्धिमुक्तिफलप्रदः / मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् // २५५
SK
गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् / मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् // २५६
SK
यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः / तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः // २५७
SK
किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः / षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः // २५८
SK
मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा / पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका // २५९
SK
षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् / एवं षोढामहान्यासे कृते विश्वमिदं हठात् // २६०
SK
देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् / मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा // २६१
SK
अभेदमानीय कृता शुद्धा न्यासबलक्रमात् / तेन येचोदयन्मूढाः पाशदाहविधूनने // २६२
SK
कृते शान्ते शिवे रूढः पुनः किमवरोहति / इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् // २६३
SK
न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः / न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् // २६४
SK
सर्वेतराध्वव्यावृत्तो घटतुल्योस्ति कुत्रचित् / महाप्रकाशरूपा हि येयं संविद्विजृम्भते // २६५
SK
स शिवः शिवतैवास्य वैश्वरूप्यावभासिता / तथाभासनयोगोतः स्वरसेनास्य जृम्भते // २६६
SK
भास्यमानोत्र चाभेदः स्वात्मनो भेद एव च / भेदे विजृम्भिते माया मायामातुर्विजृम्भते // २६७
SK
अभेदे जृम्भतेस्यैव मायामातुः शिवात्मता / मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् // २६८
SK
शिव एव तदभ्यासफलं न्यासादि कीर्तितम् / यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा // २६९
SK
तथा शिवोहं नान्योस्मीत्येवं भावयतस्तथा / एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् // २७०
SK
शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता / अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः // २७१
SK
कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः / तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् // २७२
SK
भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् / प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् // २७३
SK
विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति / ततः संसारभागीयतथानिश्चयशातिनीम् // २७४
SK
नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् / ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः // २७५
SK
न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् / एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् // २७६
SK
न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् / पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः // २७७
SK
धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः / संसारवामाचारत्वात्सर्वं वामकरेण तु // २७८
SK
कुर्यात्तर्पणयोगं च दैशिकस्तदनामया / वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् // २७९
SK
वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् / श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने // २८०
SK
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् / तत्फलं कोटिगुणितमनामातर्पणात्प्रिये // २८१
SK
श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने / तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् // २८२
SK
शेषं वामकरेणैव पूजाहोमजपादिकम् / एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् // २८३
SK
यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् / गलिते विषयौन्मुख्ये पारिमित्ये विलापिते // २८४
SK
देहे किमवशिष्येत शिवानन्दरसादृते / शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् // २८५
SK
देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः / विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः // २८६
SK
बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति / तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः // २८७
SK
उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता / ततोर्घपात्रं कर्तव्यं शिवाभेदमयं परम् // २८८
SK
आनन्दरससंपूर्णं विश्वदैवततर्पणम् / यथैव देहे दाहादिपूजान्तं तद्वदेव हि // २८९
SK
अर्घपात्रेपि कर्तव्यं समासव्यासयोगतः / कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् // २९०
SK
सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् / मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो // २९१
SK
यदेव हृद्यं तद्योग्यं शिवसंविदभेदने / कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् // २९२
SK
कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् / अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् // २९३
SK
नार्घपात्रेत्र कुसुमं कुर्याद्देवार्चनाकृते / अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् // २९४
SK
मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् / एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् // २९५
SK
अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे / तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति // २९६
SK
शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते / न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् // २९७
SK
धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः / पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् // २९८
SK
प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् / ईषत्समन्तादमलमिदमामलसारकम् // २९९
SK
ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि / तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः // ३००
SK
तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् / वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः // ३०१
SK
मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् / शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् // ३०२
SK
तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः / प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः // ३०३
SK
दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् / विद्यापद्मेत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः // ३०४
SK
वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी / भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् // ३०५
SK
विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा / ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः // ३०६
SK
दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् / निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् // ३०७
SK
मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् / आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् // ३०८
SK
रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् / न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते // ३०९
SK
समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः / प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् // ३१०
SK
विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः / सदाशिवीभूय ततः परं शिवमुपाश्रिताः // ३११
SK
अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः / कृशो मेयत्वदौर्बल्यात्प्रेतोट्टहसनादितः // ३१२
SK
तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् / नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् // ३१३
SK
अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् / पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् // ३१४
SK
अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः / आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः // ३१५
SK
एतान्येव तु तत्त्वानि लीनानि परभैरवे / तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने // ३१६
SK
श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु / एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् // ३१७
SK
पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् / सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् // ३१८
SK
विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः / सदाशिवान्तं समनापर्यन्तं मतयामले // ३१९
SK
उन्मनान्तमिहाख्यातमित्येतत्परमासनम् / अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् // ३२०
SK
तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् / न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते // ३२१
SK
सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् / परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति // ३२२
SK
विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् / मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् // ३२३
SK
नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् / मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः // ३२४
SK
परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् / अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् // ३२५
SK
प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः / ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् // ३२६
SK
कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् / कपालशूलखट्वाङ्गवराभयघटादिकम् // ३२७
SK
वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् / वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः // ३२८
SK
अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये / सर्वं ततोङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् // ३२९
SK
मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् / ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् // ३३०
SK
अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् / मध्यगा किल या देवी सैव सद्भावरूपिणी // ३३१
SK
कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः / सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता // ३३२
SK
परा तु मातृका देवी मालिनी मध्यगोदिता / मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् // ३३३
SK
तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति / ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे // ३३४
SK
स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् / श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते // ३३५
SK
नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा / मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति // ३३६
SK
पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु / कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् // ३३७
SK
इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी / याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् // ३३८
SK
इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके / स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः // ३३९
SK
शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु / प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते // ३४०
SK
भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु / भिन्नाभिन्ने तदियान् सुशिवान्तोध्वोदितः प्रेते // ३४१
SK
ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः / अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः // ३४२
SK
पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन / ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया // ३४३
SK
किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः / भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् // ३४४
SK
बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत / संभाव्यवेद्यकालुष्ययोगतोन्योन्यलब्धसंकरतः // ३४५
SK
प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न / अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया / स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता // ३४६
SK
सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते / संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः // ३४७
SK
तत्त्वं सत्ता प्राप्तिर्मातृषु मेयोनया संश्च / विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् // ३४८
SK
एषणविदिक्रियात्मकमेतत्पूज्यं यतोनवच्छिन्नम् / यस्मिन्सर्वावच्छेददिशोपि स्युः समाक्षिप्ताः // ३४९
SK
अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र / बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् // ३५०
SK
आक्षिपति तत्र रूढः सर्वोत्कृष्टोधरस्थितास्त्वन्ये / इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे // ३५१
SK
स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् / बाह्ययागे तु पद्मानां त्रितयेपि प्रपूजयेत् // ३५२
SK
अस्त्रान्तं परिवारौघमिति नो दैशिकागमः / अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् // ३५३
SK
शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये / अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् // ३५४
SK
पत्राष्टकेष्टकयुगमघोरादेः स्वयामलम् / तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः // ३५५
SK
सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् / लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् // ३५६
SK
इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः / तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् // ३५७
SK
ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा / एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः // ३५८
SK
नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् / मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् // ३५९
SK
दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः / चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतोर्पयेत् // ३६०
SK
द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् / देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् // ३६१
SK
मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका / खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् // ३६२
SK
अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् / शाक्ते ततोप्याणवे तत्त्रिशूलत्रितयं स्थितम् // ३६३
SK
तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः / किं किं न जायते किं वा न वेत्ति न करोति वा // ३६४
SK
एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् / यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः // ३६५
SK
इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् / शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् // ३६६
SK
बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते / अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः // ३६७
SK
यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् / अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः // ३६८
SK
कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् / दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् // ३६९
SK
निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा / विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते // ३७०
SK
गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः / ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् // ३७१
SK
भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् / पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते // ३७२
SK
पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् / लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् // ३७३
SK
अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् / फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् // ३७४
SK
पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च / तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् // ३७५
SK
समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते / अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके // ३७६
SK
षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् / अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् // ३७७
SK
................................................. / ................................................. / / ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् // ३७८
SK
पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् / असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः // ३७९
SK
तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् / ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् // ३८०
SK
गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् / ततः शिष्योसिकलशीहस्तो धारां प्रपातयन् // ३८१
SK
गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् / भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये // ३८२
SK
सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया / त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् // ३८३
SK
अपासयेद्यतो मन्त्रश्छन्दोबद्धोयमीरितः / तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि // ३८४
SK
दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् / कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् // ३८५
SK
तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् / अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः // ३८६
SK
पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् / मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः // ३८७
SK
त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् / अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् // ३८८
SK
शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् / शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् // ३८९
SK
परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः / एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेनले // ३९०
SK
पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे / उक्तं श्रीयोगसंचारे तथाहि परमेशिना // ३९१
SK
चतुर्दशविधे भूते पुष्पे धूपे निवेदने / दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका // ३९२
SK
जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् / आहारे मैथुने सैव देहस्था कर्मकारिणी // ३९३
SK
तादृशीं ये तु नो रूढां संवित्तिमधिशेरते / अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते // ३९४
SK
अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः / तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् // ३९५
SK
अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् / क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा // ३९६
SK
यथाहि कश्चित्प्रतिभादरिद्रोभ्यासपाटवात् / वाक्यं गृह्णाति कोप्यादौ तथात्राप्यवबुध्यताम् // ३९७
SK
उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् / स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः // ३९८
SK
मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् / प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः // ३९९
SK
शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च / सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य // ४००
SK
भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः / ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् // ४०१
SK
मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् / संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् // ४०२
SK
ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् / इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे // ४०३
SK
रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् / तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् // ४०४
SK
जन्माद्यखिलसंस्कारशुद्धोग्निस्तावता भवेत् / पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः // ४०५
SK
शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः / ततोखिलाध्वसद्देवीचक्रगर्भां परापराम् // ४०६
SK
स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः / तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् // ४०७
SK
वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः / इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् // ४०८
SK
मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् / तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया // ४०९
SK
बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः / ते निरुत्थानविहता नयेस्मिन्गुरुदर्शने // ४१०
SK
जातेग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम् / पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् // ४११
SK
शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् / अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा // ४१२
SK
चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् / शिव इत्यभिमानेन दृढेन हि विलोकनम् // ४१३
SK
सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतोमलम् / नवाहुतीरथो दद्यान्नवात्मसहितेन तु // ४१४
SK
शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् / शिवचैतन्यसामान्यव्योपरूपेनले ततः // ४१५
SK
प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् / स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः // ४१६
SK
शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः / तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् // ४१७
SK
इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् / ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः // ४१८
SK
कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा / अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः // ४१९
SK
सहस्रादिकहोमोपि तृप्त्यै वित्तानुसारतः / सति वित्तेपि लोभादिग्रस्तो बाह्यप्रधानताम् // ४२०
SK
प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति / उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितोपि न मोक्षभाक् // ४२१
SK
ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् / तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा // ४२२
SK
मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे / या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता // ४२३
SK
शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् / तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् // ४२४
SK
स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् / समचित्तप्राणतनुरैकात्म्यविधियोगतः // ४२५
SK
वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् / कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् // ४२६
SK
अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् / यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः // ४२७
SK
स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् / तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् // ४२८
SK
य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः / वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः // ४२९
SK
इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् / द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् // ४३०
SK
यथा यथा हि गगनमुत्पतेत्कलहंसकः / जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः // ४३१
SK
स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः / माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा // ४३२
SK
इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् / तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् // ४३३
SK
अविद्यारागनियतिकालमायाकलास्तथा / अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली // ४३४
SK
व्यापिनी समनौन्मन्यं ततोनामनि योजयेत् / रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः // ४३५
SK
प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने / ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना // ४३६
SK
चरुः साध्योथवा शिष्यैर्होमेन समकालकः / चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया // ४३७
SK
चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः / ततश्चरुं समादाय गुरुराज्येन पूरिताम् // ४३८
SK
स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः / देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् // ४३९
SK
सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् / स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् // ४४०
SK
चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः / भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः // ४४१
SK
स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् / एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः // ४४२
SK
भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः / सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः // ४४३
SK
अन्योन्यत्र च संपातात्संगमाच्चेत्थमुच्यते / स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् // ४४४
SK
भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ / इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः // ४४५
SK
शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः / तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् // ४४६
SK
तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः / अशुभोन्यत्र तत्रास्त्रहोमोप्यष्टशतं भवेत् // ४४७
SK
नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् / अनन्यहृदयीभूतान्बलादित्थं निरोधतः // ४४८
SK
मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः / प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः // ४४९
SK
प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः / अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् // ४५०
SK
दृशोर्निवारयेत्सोपि शिष्यो झटिति पश्यति / झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले // ४५१
SK
तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते / यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् // ४५२
SK
पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् / चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे // ४५३
SK
सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता / कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् // ४५४
SK
प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी / न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः // ४५५
SK
त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः / ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् // ४५६
SK
मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् / तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः // ४५७
SK
न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् / उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना // ४५८
SK
दत्तेन शिवहस्तेन समयी स विधीयते / सायुज्यमीश्वरे तत्त्वे जीवतोधीतियोग्यता // ४५९
SK
श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके / चक्रे भैरवसन्नाभावघोराद्यष्टकारके // ४६०
SK
बाह्यापरे परानेमौ मध्यशूलपरापरे / ज्वालाकुलेरुणे भ्राम्यन्मातृप्रणवभीषणे // ४६१
SK
चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् / पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् // ४६२
SK
प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः / अनेन शिवहस्तेन समयी भवति स्फुटम् // ४६३
SK
तस्यैव भाविविधिवत्तत्त्वपाशवियोजने / पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः // ४६४
SK
स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् / निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना // ४६५
SK
अभिषिक्तः साधकः स्याद्भोगान्तेस्य परे लयः / एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने // ४६६
SK
चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः / दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते // ४६७
SK
पृथिवीमादितः कृत्वा निर्वाणान्तेस्य योजनाम् / अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः // ४६८
SK
एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् / सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये // ४६९
SK
पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् / अधिकारी स न पुनः साधने भिन्नयोजने // ४७०
SK
एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः / आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन // ४७१
SK
एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते / शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् // ४७२
SK
शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः / ततः कुम्भेस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् // ४७३
SK
प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् / ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् // ४७४
SK
कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च / शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः // ४७५
SK
भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् / ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः // ४७६
SK
संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः / स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् // ४७७
SK
पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः / आयातनिद्रः शिष्योसौ निर्मलौ शशिभास्करौ // ४७८
SK
हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ / हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते // ४७९
SK
स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् / उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे // ४८०
SK
प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् / आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् // ४८१
SK
चरुं भुञ्जीत ससखा ततोद्याद्दन्तधावनम् / स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः // ४८२
SK
प्रातर्गुरुः कृताशेषनित्योभ्यर्चितशंकरः / शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् // ४८३
SK
स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः / बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः // ४८४
SK
देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् / हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् // ४८५
SK
रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् / पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् // ४८६
SK
यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् / तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् // ४८७
SK
अतोन्यदशुभं तत्र होमोष्टशतकोस्त्रतः / अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः // ४८८
SK
रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् / येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् // ४८९
SK
शुभाशुभं न किंचित्स्यात् स्युश्चेत्थं चित्रतावशात् / स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः // ४९०
SK
न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् / नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् // ४९१
SK
मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः / सर्वसात्त्विकचेष्टोपि भोजने यदि तामसः // ४९२
SK
किं ततः सोधमः किवाप्युत्कृष्टस्तद्विपर्ययः / आयातशक्तिपातोपि दीक्षितोपि गुणस्थितेः // ४९३
SK
विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः / ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् // ४९४
SK
देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः / हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः // ४९५
SK
स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः / हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः // ४९६
SK
आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः / वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः // ४९७
SK
गर्भाधानं पुंसवनं सीमन्तो जातकर्म च / नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी // ४९८
SK
व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् / गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः // ४९९
SK
प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः / अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् // ५००
SK
चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः / आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः // ५०१
SK
चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी / अग्निष्टोमोतिपूर्वोथ सोक्य्यः षोडशिवाजपौ // ५०२
SK
आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः / हिरण्यपादादिमखः सहस्रेण समावृतः // ५०३
SK
अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् / वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः // ५०४
SK
दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले / अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् // ५०५
SK
मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् / संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च // ५०६
SK
भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् / उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश // ५०७
SK
एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः / पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः // ५०८
SK
द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः / एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः // ५०९
SK
अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः / प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा // ५१०
SK
एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः / यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता // ५११
SK
तेन रुद्रतया संवित्तत्क्रमेणैव जायते / यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् // ५१२
SK
रजतादि तथा संवित्संस्कारे द्विजतान्तरे / योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते // ५१३
SK
मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् / मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् // ५१४
SK
संविदो देहसंभेदात्सदृशात्सदृशोदयात् / भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः // ५१५
SK
अन्त्यजातीयधीवादिजननीजन्मलाभतः / उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् // ५१६
SK
अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते / रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे // ५१७
SK
पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् / सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये // ५१८
SK
आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः / स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः // ५१९
SK
रुद्रांशापादनं येन समयी संस्कृतो भवेत् / अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने // ५२०
SK
समय्यधिकृतोन्यत्र गुरुणा विभुमर्चयेत् / तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः // ५२१
SK
अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् / अवादोकरणं गूढिः पूजा तर्पणभावने // ५२२
SK
हननं मोहनं चेति समयाष्टकमष्टधा / स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् // ५२३
SK
असत्प्रलापं परुषमनृतं नाष्टधा वदेत् / अफलं चेष्टितं हिंसां परदाराभिमर्शनम् // ५२४
SK
गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् / स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् // ५२५
SK
समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् / गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् // ५२६
SK
गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् / दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् // ५२७
SK
श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् / शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् // ५२८
SK
संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् / रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः // ५२९
SK
समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् / पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् // ५३०
SK
राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् / शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः // ५३१
SK
साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः / लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् // ५३२
SK
कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः / पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले // ५३३
SK
देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् / अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् // ५३४
SK
एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् / स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् // ५३५
SK
न योनिसंबन्धकृतो लौकिकः स पशुर्यतः / तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये // ५३६
SK
अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः / गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् // ५३७
SK
नच तां शृणुयान्नैनं कोपयेन्नाग्रतोस्य च / विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते // ५३८
SK
लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् / गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् // ५३९
SK
नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् / श्रीमत्त्रैशिरसेप्युक्तं कृच्छ्रचान्द्रायणादिभिः // ५४०
SK
अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोपि सन् / नियमस्थो यमस्थोपि तत्पदं नाश्नुते परम् // ५४१
SK
गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा / प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् // ५४२
SK
हिमपातैर्यथा भूमिश्छादिता सा समन्ततः / मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा // ५४३
SK
यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते / गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते // ५४४
SK
सर्वतोवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा / सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् // ५४५
SK
श्रीसारेप्यस्य संभाषात्पातकं नश्यति क्षणात् / तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः // ५४६
SK
शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु / स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः // ५४७
SK
तेन तुष्टेन तृप्यन्ति देवाः पितर एवच / उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् // ५४८
SK
भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः / इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् // ५४९
SK
भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः / यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् // ५५०
SK
तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते / सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् // ५५१
SK
शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् / स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः // ५५२
SK
अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः / तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः // ५५३
SK
निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः / स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव // ५५४
SK
वेश्याः पूज्यास्तद्गृहं च प्रयागोत्र यजेत्क्रमम् / स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते // ५५५
SK
अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः / वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् // ५५६
SK
वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् / देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु // ५५७
SK
सर्वपर्वसु सामान्यविशेषेषु विशेषतः / पूजा गुरोरनध्यायो मेलके लोभवर्जनम् // ५५८
SK
न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन / न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा // ५५९
SK
उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् / विजातीयविकल्पांशोत्पुंसनाय यतेत च // ५६०
SK
गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः / अर्चातोन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः // ५६१
SK
आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि / हरत्यर्धशरीरं तदित्यूचे भगवान्यतः // ५६२
SK
श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै / प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः // ५६३
SK
श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च / गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह // ५६४
SK
जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् / नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ // ५६५
SK
ततोपि मध्ये वर्षस्य ततोपि हि पवित्रके / अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो // ५६६
SK
अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् / गृहोपस्करणास्त्राणि दवतायागयोगतः // ५६७
SK
अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् / गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् // ५६८
SK
दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् / उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः // ५६९
SK
न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् / सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् // ५७०
SK
उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् / वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा // ५७१
SK
अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् / एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् // ५७२
SK
प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् / श्रीमदूर्मौ च कथितमागमान्तरसेवके // ५७३
SK
गुर्वन्तररते मूढे देवद्रव्योपजीवके / शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् // ५७४
SK
न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् / उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् // ५७५
SK
शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् / नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् // ५७६
SK
सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च / नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् // ५७७
SK
मेलकार्धनिशाचर्या जनवर्जं च तन्नहि / मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ // ५७८
SK
गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् / शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः // ५७९
SK
अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् / मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् // ५८०
SK
समयानां विलोपे च गुरुं पृच्छेदसन्निधौ / तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ // ५८१
SK
तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः / यतः शास्त्रादिसंबोधतन्मयीकृतमानसः // ५८२
SK
शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् / शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः // ५८३
SK
ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः / गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् // ५८४
SK
तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् / अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् // ५८५
SK
नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः / ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् // ५८६
SK
भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् / तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् // ५८७
SK
मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् / तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् // ५८८
SK
गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते / कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् // ५८९
SK
येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः / श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् // ५९०
SK
यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः / तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् // ५९१
SK
न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् / केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः // ५९२
SK
श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः / अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा // ५९३
SK
न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल / तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् // ५९४
SK
अतत्त्वेभिनिवेशं च न कुर्यात्पक्षपाततः / जातिविद्याकुलाचारदेहदेशगुणार्थजान् // ५९५
SK
ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान् / तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् // ५९६
SK
ब्राह्मणोहं मया वेदशास्त्रोक्तादपरं कथम् / अनुष्ठेयमयं जातिग्रहः परनिरोधकः // ५९७
SK
एवमन्येप्युदाहार्याः कुलगह्वरवर्त्मना / अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशेपि यः // ५९८
SK
स्वरूपाच्छादकः सोत्र ग्रहो ग्रह इवोदितः / संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना // ५९९
SK
रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् / या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः // ६००
SK
संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् / श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना // ६०१
SK
निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् / देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् // ६०२
SK
द्विजान्त्यजैः समं कार्या चर्चान्तेपि मरीचयः / अविकारकृतस्तेन विकल्पान्निरयो भवेत् // ६०३
SK
सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् / श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् // ६०४
SK
शरीरमेवायतनं नान्यदायतनं व्रजेत् / तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् // ६०५
SK
विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् / समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते // ६०६
SK
इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् / मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् // ६०७
SK
इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् / नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् // ६०८
SK
तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः / अवयश्पालनीयत्वात्परत्त्वेन संगमात् // ६०९
SK
ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः / एवं संश्राव्य समयान्देवं संपूज्य दैशिकः // ६१०
SK
विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् / यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् // ६११
SK
तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् / आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः // ६१२
SK
मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् / इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source