SKअथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् / ०ब् मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले / उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् // १
SKबिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता / विम्बस्य यस्या उदय इत्युक्ता तदुपायता // २
SKमुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् / रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता // ३
SKतत्र प्रधानभूता श्रीखेचरी देवतात्मिका / निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी // ४
SKकरङ्किणी क्रोधना च भैरवी लेलिहानिका / महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा // ५
SKइत्येवंबहुभेदेयं श्रीखेचर्येव गीयते / अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते // ६
SKतासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् / श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् // ७
SKदेवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा / काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् // ८
SKमुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः // ९
SKतत्र पूर्णेन रूपेण खेचरीमेव वर्णये / बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् // १०
SKदण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् / निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु // ११
SKएतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने / ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि // १२
SKअनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् / जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे // १३
SKविदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् / अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् // १४
SKजिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् / त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः // १५
SKपदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् / शून्याशून्यलये कृत्वा एकदण्डेनिलानलौ // १६
SKशक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते / त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः // १७
SKआकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः / शूलं समरसं कृत्वा रसे रस इव स्थितः // १८
SKएकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये / बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् // १९
SKखेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् / त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः // २०
SKअवधूतो निराचारो नाहमस्मीति भावयम् / मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः // २१
SKह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे / रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः // २२
SKनाहमस्मीति मन्वान एकीभूतं विचिन्तयन् / कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् // २३
SKग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् / विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति // २४
SKशिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः / तत्रस्था देवताः सर्वा द्योतयन्त्योखिलं जगत् // २५
SKकनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा / अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् // २६
SKएषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् / हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ // २७
SKचालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः / विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् // २८
SKएषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् / जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् // २९
SKपरदेहेषु चात्मानं परं चात्मशरीरतः / पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् // ३०
SKनवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् / अनया हि खचारी श्रीयोगसञ्चार उच्यते // ३१
SKकुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् / वामो योयं जगत्यस्मिंस्तस्य संहरणोद्यताम् // ३२
SKस्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् / व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् // ३३
SKयावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् / तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् // ३४
SKचक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् / मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् // ३५
SKवज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः / कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् // ३६
SKतत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते / वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः // ३७
SKऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् / गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी // ३८
SKतत्र तत्पदसंयोगादुन्मीलनविधायिनी / यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः // ३९
SKससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् / एष क्रमस्ततोन्योपि व्युत्क्रमः खेचरी परा // ४०
SKयोन्याधारेति विख्याता शूलमूलेति शब्द्यते / वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि // ४१
SKनादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् / आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् // ४२
SKनादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् / बीजपञ्चकचारेण शूलभेदक्रमेण तु // ४३
SKहृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् / वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् // ४४
SKआगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् / चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे // ४५
SKभूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् / पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः // ४६
SKश्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः / चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् // ४७
SKग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे / तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते // ४८
SKभवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः / मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी // ४९
SKत्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते / नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च // ५०
SKवृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् / भवस्थानाभवस्थानमुच्चारेणावधारयेत् // ५१
SKमानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः / मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः // ५२
SKशरीरं तु समस्तं यत्कूटाक्षरसमाकृति / एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे // ५३
SKसूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः / पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः // ५४
SKअन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी / तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ // ५५
SKसम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता / मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया // ५६
SKशान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् / समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् // ५७
SKएषैव शक्तिमुद्रा चेदधोधावितपाणिका / दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् // ५८
SKद्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता / संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल // ५९
SKउत्क्रामणी झगित्येव पशूनां पाशकर्तरी / श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव // ६०
SKसाहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् / अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् // ६१
SKवीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी / अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले // ६२
SKएवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता / श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते // ६३
SKएकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् / एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया // ६४
SKतदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् / तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया // ६५
SKयागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे / विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः // ६६
SKबोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः / शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् // ६७
SKइति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः /