SKअथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे / एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु // १
SKगृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् / कर्ममायाणुमलिनत्रयं बाहौ गले तथा // २
SKशिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः / तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते // ३
SKइतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् / बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः // ४
SKअधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता / नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् // ५
SKवक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् / तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः // ६
SKश्रुत्यन्ते केप्यतः शुक्लकृष्णरक्तं प्रपेदिरे / ततोग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके // ७
SKसामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् / तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा // ८
SKइष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् / तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् // ९
SKमायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् / आवाहने मातृकार्णं मालिन्यर्णं च पूजने // १०
SKकुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् / तारो वर्णोथ संबुद्धिपदं त्वामित्यतः परम् // ११
SKउत्तमैकयुतं कर्मपदं दीपकमप्यतः / तभ्यं नाम चतुर्थ्यन्तं ततोप्युचितदीपकम् // १२
SKइत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् / आवाहनानन्तरं हि कर्म सर्वं निगद्यते // १३
SKआवाहनं च संबोधः स्वस्वभावव्यवस्थितेः / भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता // १४
SKशाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता / अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः // १५
SKजडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः / आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः // १६
SKनमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् / ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः // १७
SKध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः / आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् // १८
SKअनेनैव पथानेयमित्यस्मद्गुरवो जगुः / परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् // १९
SKअनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् / तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् // २०
SKतस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता / संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् // २१
SKप्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता / संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् // २२
SKस्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् / देवमावाहयामीति ततो देवाय दीपकम् // २३
SKप्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् / नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् // २४
SKआप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् / तत्र बाह्येपि तादात्म्यप्रसिद्धं कर्म चोद्यते // २५
SKयदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् / अनाभासिततद्वस्तुभासनाय नियुज्यते // २६
SKमन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् / तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् // २७
SKतत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् / बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् // २८
SKतृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु / यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः // २९
SKअंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव / ततः शिष्यस्य तत्तत्त्वस्थानेस्त्रेण प्रताडनम् // ३०
SKकृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् / ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः // ३१
SKशिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा / पुटितं हंसरूपाख्यं तत्र संहारमुद्रया // ३२
SKकुर्यादात्मीयहृदयस्थितमप्यवभासकम् / शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः // ३३
SKस्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः / स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति // ३४
SKतेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः / मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् // ३५
SKतत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः / गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् // ३६
SKजननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया / ततोस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् // ३७
SKततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् / संस्काराणां चतुष्केस्मिन्नपरां च परापराम् // ३८
SKमन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् / पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा // ३९
SKइति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ / अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ // ४०
SKगर्भाधानं करोमीति पुनर्मन्त्रं तमेव च / स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः // ४१
SKपरं परापरामन्त्रममुकात्मन इत्यथ / जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् // ४२
SKअन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः / उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ // ४३
SKभोगे लयं करोमीति पुनर्मन्त्रं तमेव च / स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः // ४४
SKएष एव वमन्यादौ विधिः पञ्चदशान्तके / पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ // ४५
SKपाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः / हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोप्यथाहुतीः // ४६
SKसंस्काराणां चतुष्केस्मिन्ये मन्त्राः कथिता मया / तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् // ४७
SKततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च / शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् // ४८
SKतत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया / प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् // ४९
SKततो यदि समीहेत धरातत्त्वान्तरालगम् / पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् // ५०
SKअपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः / दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः // ५१
SKएवं कलामन्त्रपदवर्णेष्वपि विचक्षणः / तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतोपिवा // ५२
SKततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया / अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् // ५३
SKयदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् / न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् // ५४
SKतदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् / तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः // ५५
SKसकर्मपदया दद्यादिति केचित्तु मन्वते / अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् // ५६
SKनात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः / दद्याद्वा यदि नो दोषः स्यादुपायः स भावने // ५७
SKएवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः / ततः शिष्यहृदं नेयः स आत्मा तावतोध्वनः // ५८
SKशुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः / महापाशुपतं पूर्वं विलोमस्य विशुद्धये // ५९
SKजुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् / पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् // ६०
SKधरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा / भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् // ६१
SKतथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् / सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् // ६२
SKपृथक्त्वं च मलो मायाभिधानस्तस्य संभवे / कर्मक्षयेपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् // ६३
SKततोपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके / आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् // ६४
SKएवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् / छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका // ६५
SKकर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् / पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् // ६६
SKमन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा / व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः // ६७
SKप्लुष्टो लीनस्वभावोसौ पाशस्तं प्रति शम्भुवत् / परमेशमहातेजःशेषमात्रत्वमश्नुते // ६८
SKकर्मपाशेत्र होतव्ये पूर्णयास्य शुभाशुभम् / अशुभं वा भवद्भूतं भावि वाथ समस्तकम् // ६९
SKदहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् / एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् // ७०
SKपूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् / दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः // ७१
SKनिर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् / पूर्णां समयपाशाख्यबीजदाहपदान्विताम् // ७२
SKगुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ / समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् // ७३
SKमायान्ते शुद्धिमायाते वागीशी या पुराभवत् / माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते // ७४
SKतच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् / एवं क्रमेण संशुद्धे सदाशिवपदेप्यलम् // ७५
SKशिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् / यतोधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे // ७६
SKइत्युक्त्याणवपाशोत्र मायीयस्तु निशावधिः / शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् // ७७
SKआणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले / ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् // ७८
SKशिष्यदेहादिमात्मीयदेहप्राणादियोजितम् / कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् // ७९
SKउक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः / प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् // ८०
SKतां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् / शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् // ८१
SKध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् / द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु // ८२
SKउक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् / मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् // ८३
SKजन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् / शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् // ८४
SKतेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु / शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः // ८५
SKआधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः / जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः // ८६
SKमूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् / खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते // ८७
SKउक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा / कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् // ८८
SKशिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् / एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः // ८९
SKतत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् / तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् // ९०
SKएवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना / न भूयः पशुतामेति दग्धमायानिबन्धनः // ९१
SKदेहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् / भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् // ९२
SKतदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः / पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु // ९३
SKमुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता / दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा // ९४
SKबाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः / कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये // ९५
SKनिर्बीजायां सामयांस्तु पाशानपि विशोधयेत् / कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् // ९६
SKइयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा / श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले // ९७
SKतत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् / तुटिमात्रं निष्कलं तददेहं तदहंपरम् // ९८
SKशक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् / सबीजायां तु दीक्षायां समयान्न विशोधयेत् // ९९
SKविशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः / शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया // १००
SKअभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् / पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् // १०१
SKविशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् / तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः // १०२
SKपृथिवी स्थिररूपास्य शिवरूपेण भाविता / स्थिरीकरोति तामेव भावनामिति शुद्ध्यति // १०३
SKजलमाप्याययत्येनां तेजो भास्वरतां नयेत् / मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् // १०४
SKएवं तन्मात्रवर्गोपि शिवतामय इष्यते / परानन्दमहाव्याप्तिरशेषमलविच्युतिः // १०५
SKशिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः / शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् // १०६
SKतदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता / संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती // १०७
SKशिवात्मत्वेन यत्सेयं शुद्धता मानसादिके / नियमो रञ्जनं कर्तृभावः कलनया सह // १०८
SKवेदनं हेयवस्त्वंशविषये सुप्तकल्पता / इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोप्ययम् // १०९
SKशुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति / विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता // ११०
SKइत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योपि तन्मयः / भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे // १११
SKबन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः / निगृहीतानि बन्धाय विमुक्तानि विमुक्तये // ११२
SKएतानि व्यापके भावे यदा स्युर्मनसा सह / मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु // ११३
SKइत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः / इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते // ११४
SKश्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने / समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते // ११५
SKमायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा / द्व्यात्मया सकलान्ते तु निष्कले परयैव तु // ११६
SKईशान्ते च पिवन्यादि सकलान्तेङ्गपञ्चकम् / इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः // ११७
SKपुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः / तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् // ११८
SKक्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् / यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः // ११९
SKप्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके / एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् // १२०
SKविलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः / तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन // १२१
SKइत्येषा कथिता दीक्षा जननादिसमन्विता // १२२