SKलिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् // १
SKउक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् / उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते // २
SKयोग्यतावशसंजाता यस्य यत्रैव शासना / स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ // ३
SKफलं सर्वं समासाद्य शिवे युक्तोपवृज्यते / अयुक्तोप्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः // ४
SKशुद्धः शिवत्वमायाति दग्धसंसारबन्धनः / उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया // ५
SKकपिलाय पुरा प्रोक्तं प्रथमे पटले तथा / अनेन क्रमयोगेन संप्राप्तः परमं पदम् // ६
SKन भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति / अतो हि ध्वन्यतेर्थोयं शिवतत्त्वाधरेष्वपि // ७
SKतत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता / समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः // ८
SKशिवागमस्य सर्वेभ्योप्यागमेभ्यो विशिष्टता / शिवज्ञानेन च विना भूयोपि पशुतोद्भवः // ९
SKक्रमश्च शक्तिसंपातो मलहानिर्यियासुता / दीक्षा बोधो हेयहानिरुपादेयलयात्मता // १०
SKभोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः / स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः // ११
SKप्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि / अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् // १२
SKयदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् / लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् // १३
SKप्राग्लिङ्गान्तरसंस्थोपि दीक्षातः शिवतां व्रजेत् / तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः // १४
SKस्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् / एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया // १५
SKप्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् / स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् // १६
SKअचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् / एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् // १७
SKअपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः / स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् // १८
SKपञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् / ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् // १९
SKप्रणवो मातृका माया व्योमव्यापी षडक्षरः / बहुरूपोथ नेत्राख्यः सप्त साधारणा अमी // २०
SKतेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् / सोप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् // २१
SKमन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते / वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् // २२
SKपूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् / प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः // २३
SKशतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा / प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् // २४
SKतारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् / श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया // २५
SKततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः / क्षमयित्वा विसृज्यः स्यात्ततोग्नेश्च विसर्जनम् // २६
SKतच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् / ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः // २७
SKअधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः / प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता // २८
SKसाधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः / पुनर्भुवोपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् // २९
SKमोक्षायैव न भोगाय भोगायाप्यभ्युपायतः / इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः // ३०
SKश्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः / गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् // ३१
SKकृत्वा रहस्यं कथयेन्नान्यथा कामिके किल / अन्यतन्त्राभिषिक्तेपि रहस्यं न प्रकाशयेत् // ३२
SKस्वतन्त्रस्थोपि गुर्वन्तो गुरुमज्ञमुपाश्रितः / तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् // ३३
SKअज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् / जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् // ३४
SKततोस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् / अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा // ३५
SKतीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् / तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः // ३६
SKदीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः / प्राप्तोपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् // ३७
SKविज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् / सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् // ३८
SKअज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् / न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना // ३९
SKअधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् / सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि // ४०
SKभैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके / सिद्धवीरावलीसारे भैरवीये कुलेपि च // ४१
SKपञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता / तेन सर्वोधरस्थोपि लिङ्गोद्धृत्यानुगृह्यते // ४२
SKयोपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् / शास्त्रज्ञानं समन्विच्छेत्सोपि यायाद्बहून्गुरून् // ४३
SKतद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः / ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः // ४४
SKउक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा / आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् // ४५
SKविज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति / गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् // ४६
SKप्राप्तं सोस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि / सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः // ४७
SKतमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः / इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः // ४८