Essence of the Tantras

Tantrasāra · तन्त्रसारः

Essence of the Tantras

Tantrasāra

तन्त्रसारः

Āhnika 7

SK
तत्र समस्त एव अयं मूर्तिवैचित्र्याभासनशक्तिजो देशाध्वा संविदि विश्रान्तः तद्द्वारेण शून्ये बुद्धौ प्राणे नाडीचक्रानुचक्रेषु बहिः शरीरे यावल् लिङ्गस्थण्डिलप्रतिमादौ समस्तो ऽध्वा परिनिष्ठितः तं समस्तम् अध्वानं देहे विलाप्य देहं च प्राणे तं धियि तां शून्ये तत्संवेदने निर्भरपरिपूर्णसंवित् सम्पद्यते षट्त्रिंशत्तत्त्वस्वरूपज्ञः तदुत्तीर्णां संविदं परमशिवरूपां पश्यन् विश्वमयीम् अपि संवेदयेत अपरथा वेद्यभागम् एव कंचित् परत्वेन गृह्णीयान् मायागर्भाधिकारिणं विष्णुब्रह्मादिकं वा तस्माद् अवश्यं प्रक्रियाज्ञानपरेण भवितव्यम्
SK
तद् उक्तं न प्रक्रियापरं ज्ञानम् इति
SK
तत्र पृथिवीतत्त्वं शतकोटिप्रविस्तीर्णं ब्रह्माण्डगोलकरूपम्
SK
तस्य अन्तः कालाग्निर् नरकाः पातालानि पृथिवी स्वर्गो यावद् ब्रह्मलोक इति
SK
ब्रह्माण्डबाह्ये रुद्राणां शतम्
SK
न च ब्रह्माण्डानां संख्या विद्यते
SK
ततो धरातत्त्वाद् दशगुणं जलतत्त्वम्
SK
तत उत्तरोत्तरं दशगुणम् अहंकारान्तम्
SK
तद् यथा जलं तेजो वायुर् नभः तन्मात्रपञ्चकाक्षैकादशगर्भो ऽहंकारश् चेति
SK
अहंकारात् शतगुणं बुद्धितत्त्वम्
SK
ततः सहस्रधा प्रकृतितत्त्वम् एतावत् प्रकृत्यण्डम्
SK
तच् च ब्रह्माण्डवद् असंख्यम्
SK
प्रकृतितत्त्वात् पुरुषतत्त्वं च दशसहस्रधा
SK
पुरुषान् नियतिः लक्षधा
SK
नियतेर् उत्तरोत्तरं दशलक्षधा कलातत्त्वान्तम्
SK
तद् यथा नियतिः रागो ऽशुद्धविद्या कालः कला चेति
SK
कलातत्त्वात् कोटिधा माया एतावत् मायाण्डम्
SK
मायातत्त्वात् शुद्धविद्या दशकोटिगुणिता
SK
विद्यातत्त्वाद् ईश्वरतत्त्वं शतकोटिधा
SK
ईश्वरतत्त्वात् सादाख्यं सहस्रकोटिधा
SK
सादाख्यात् वृन्दगुणितं शक्तितत्त्वम् इति शक्त्यण्डम्
SK
सा शक्तिर् व्याप्य यतो विश्वम् अध्वानम् अन्तर्बहिर् आस्ते तस्माद् व्यापिनी
SK
एवम् एतानि उत्तरोत्तरम् आवरणतया वर्तमानानि तत्त्वान्य् उत्तरं व्यापकं पूर्वं व्याप्यम् इति स्थित्या वर्तन्ते
SK
यावद् अशेषशक्तितत्त्वान्तो ऽध्वा शिवतत्त्वेन व्याप्तः
SK
शिवतत्त्वं पुनर् अपरिमेयं सर्वाध्वोत्तीर्णं सर्वाध्वव्यापकं च
SK
एतत् तत्त्वान्तरालवर्तीनि यानि भुवनानि तत्पतय एव अत्र पृथिव्यां स्थिता इति
SK
तेष्व् आयतनेषु ये म्रियन्ते तेषां तत्र तत्र गतिं ते वितरन्ति
SK
क्रमाच् च ऊर्ध्वोर्ध्वं प्रेरयन्ति दीक्षाक्रमेण

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source