Essence of the Tantras
Tantrasāra
तन्त्रसारः
SKवैष्णवादिदक्षिणतन्त्रान्तेषु शासनेषु ये स्थिताः तद्गृहीतव्रता वा ये च उत्तमशासनस्था अपि अनधिकृताधरशासनगुरूपसेविनः ते यदा शक्तिपातेन पारमेश्वरेण उन्मुखीक्रियन्ते तदा तेषाम् अयं विधिः तत्र एनं कृतोपवासम् अन्यदिने साधारणमन्त्रपूजितस्य तदीयां चेष्टां श्रावितस्य भगवतो ऽग्रे प्रवेशयेत् तत्रास्य व्रतं गृहीत्वा अम्भसि क्षिपेत् ततो ऽसौ स्नायात् ततः प्रोक्ष्य चरुदन्तकाष्ठाभ्यां संस्कृत्य बद्धनेत्रं प्रवेश्य साधारणेन मन्त्रेण परमेश्वरपूजां कारयेत्
SKततः साधारणमन्त्रेण शिवीकृते अग्नौ व्रतशुद्धिं कुर्यात् तन्मन्त्रसम्पुटं नाम कृत्वा प्रायश्चित्तं शोधयामि इति स्वाहान्तं शतं जुहुयात्
SKततो ऽपि पूर्णाहुतिः वौषडन्तेन
SKततो व्रतेश्वरम् आहूय पूजयित्वा तस्य शिवाज्ञया अकिंचित्करः त्वम् अस्य भव इति श्रावणां कृत्वा तं तर्पयित्वा विसृज्य अग्निं विसृजेत् इति लिङ्गोद्धारः
SKततो ऽस्य अधिवासादि प्राग्वत्