Essence of the Tantras

Tantrasāra · तन्त्रसारः

Essence of the Tantras

Tantrasāra

तन्त्रसारः

Āhnika 19

SK
अथ अधरशासनस्थानां गुर्वन्तानाम् अपि मरणसमनन्तरं मृतोद्धारोदितशक्तिपातयोगाद् एव अन्त्यसंस्काराख्यां दीक्षां कुर्यात् ऊर्ध्वशासनस्थानाम् अपि लुप्तसमयानाम् अकृतप्रायश्चित्तानाम् इति परमेश्वराज्ञा
SK
तत्र यो मृतोद्धारे विधिः उक्तः स सर्व एव शरीरे कर्तव्यः पूर्णाहुत्या शवशरीरदाहः मूढानां तु प्रतीतिरूढये सप्रत्ययाम् अन्त्येष्टिं क्रियाज्ञानयोगबलात् कुर्यात् तत्र शवशरीरे संहारक्रमेण मन्त्रान् न्यस्य जालक्रमेण आकृष्य रोधनवेधनघट्टनादि कुर्यात् प्राणसंचारक्रमेण हृदि कण्ठे ललाटे च इत्य् एवं शवशरीरं कम्पते
SK
ततः परमशिवे योजनिकां कृत्वा तत् दहेत् पूर्णाहुत्या अन्त्येष्ट्या शुद्धानाम् अन्येषाम् अपि वा श्राद्धदीक्षां त्र्यहं तुर्ये दिने मासि मासि संवत्सरे संवत्सरे कुर्यात्
SK
तत्र होमान्तं विधिं कृत्वा नैवेद्यम् एकहस्ते कृत्वा तदीयां वीर्यरूपां शक्तिं भोग्याकारां पशुगतभोग्यशक्तितादात्म्यप्रतिपन्नां ध्यात्वा परमेश्वरे भोक्तरि अर्पयेत् इत्य् एवं भोग्यभावे निवृत्ते पतिर् एव भवति अन्त्येष्टिमृतोद्धरणश्राद्धदीक्षाणाम् अन्यतमेनापि यद्यपि कृतार्थता तथापि बुभुक्षोः क्रियाभूयस्त्वं फलभूयस्त्वाय इति सर्वम् आचरेत्
SK
मुमुक्षोर् अपि तन्मयीभावसिद्धये अयम् जीवतः प्रत्यहम् अनुष्ठानाभ्यासवत्
SK
तत्त्वज्ञानिनस् तु न को ऽप्य् अयम् अन्त्येष्ट्यादिश्राद्धान्तो विधिः उपयोगी तन्मरणं तद्विद्यासंतानिनां पर्वदिनं संविदंशपूरणात् तावतः संतानस्य एकसंविन्मात्रपरमार्थत्वात् जीवतो ज्ञानलाभसंतानदिवसवत्
SK
सर्वत्र च अत्र श्राद्धादिविधौ मूर्तियागः प्रधानम् इति श्रीसिद्धामतम् तद्विधिश् च वक्ष्यते नैमित्तिकप्रकाशने

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source