Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 5

Essence of the Tantras

तन्त्रसारः

SK
तत्र यदा विकल्पः स्वयम् एव संस्कारम् आत्मनि उपायान्तरनिरपेक्षतयैव कर्तुं प्रभवति तदा असौ पाशवव्यापारात् प्रच्युतः शुद्धविद्यानुग्रहेण परमेशशक्तिरूपताम् आपन्न उपायतया अवलम्ब्यमानः शाक्तं ज्ञानम् आविर्भावयति
SK
तद् एतच् च निर्णीतम् अनन्तर एव आह्निके
SK
यदा तु उपायान्तरम् असौ स्वसंस्कारार्थं विकल्पो ऽपेक्षते तदा बुद्धिप्राणदेहघटादिकान् परिमितरूपान् उपायत्वेन गृह्णन् अणुत्वं प्राप्त आणवं ज्ञानम् आविर्भावयति तत्र बुद्धिः ध्यानात्मिका प्राणः स्थूलः सूक्ष्मश् च आद्य उच्चारणात्मा उच्चारणं च नाम पञ्च प्राणाद्या वृत्तयः सूक्ष्मस् तु वर्णशब्दवाच्यो वक्ष्यते देहः संनिवेशविशेषात्मा करणशब्दवाच्यः घटादयो बाह्याः कुम्भस्थण्डिललिङ्गपूजाद्युपायतया कीर्तयिष्यमाणाः
SK
तत्र ध्यानं तावत् इह उचितम् उपदेक्ष्यामः यत् एतत् स्वप्रकाशं सर्वतत्त्वान्तर्भूतं परं तत्त्वम् उक्तं तद् एव निजहृदयबोधे ध्यात्वा तत्र प्रमातृप्रमाणप्रमेयरूपस्य वह्न्यर्कसोमत्रितयस्य संघट्टं ध्यायेत् यावत् असौ महाभैरवाग्निः ध्यानवातसमिद्धाकारः सम्पद्यते तस्य प्राक्तनशक्तिज्वालाद्वादशकपरिवृतस्य चक्रात्मनः चक्षुरादीनाम् अन्यतमसुषिरद्वारेण निःसृतस्य बाह्ये ग्राह्यात्मनि विश्रान्तं चिन्तयेत् तेन च विश्रान्तेन प्रथमं तद्बाह्यं सोमरूपतया सृष्टिक्रमेण प्रपूरितं ततः अर्करूपतया स्थित्या अवभासितं ततो ऽपि संहारवह्निरूपतया विलापितं ततः अनुत्तरात्मताम् आपादितं ध्यायेत्
SK
एवं तच् चक्रं समस्तबाह्यवस्त्वभेदपरिपूर्णं सम्पद्यते
SK
ततो वासनाशेषान् अपि भावान् तेन चक्रेण इत्थं कृतान् ध्यायेत्
SK
एवम् अस्य अनवरतं ध्यायिनः स्वसंविन्मात्रपरमार्थान् सृष्टिस्थितिसंहारप्रबन्धान् सृष्ट्यादिस्वातन्त्र्यपरमार्थत्वं च स्वसंविदो निश्चिन्वतः सद्य एव भैरवीभावः
SK
अभ्यासात् तु सर्वेप्सितसिद्ध्यादयो ऽपि
SK
स्वप्रकाशं समस्तात्मतत्त्वं मात्रादिकं त्रयम्
SK
अन्तःकृत्य स्थितं ध्यायेद् धृदयानन्दधामनि
SK
तद् द्वादशमहाशक्तिरश्मिचक्रेश्वरं विभुम्
SK
व्योमभिर् निःसरद् बाह्ये ध्यायेत् सृष्ट्यादिभावकम्
SK
तद् ग्रस्तसर्वबाह्यान्तर्भावमण्डलम् आत्मनि
SK
विश्राम्यन् भावयेद् योगी स्याद् एवम् आत्मनः प्रथा
SK
इति संग्रहश्लोकाः
SK
इति ध्यानम्
SK
तत्र प्राणम् उच्चिचारयिषुः पूर्वं हृदय एव शून्ये विश्राम्यति ततो बाह्ये प्राणोदयात् ततो ऽपि बाह्यं प्रति अपानचन्द्रापूरणेन सर्वात्मतां पश्यति ततः अन्यनिराकाङ्क्षो भवति ततः समानोदयात् संघट्टविश्रान्तिम् अनुभवति तत उदानवह्न्युदये मातृमेयादिकलनां ग्रसते
SK
तद्ग्रासकवह्निप्रशमे व्यानोदये सर्वावच्छेदवन्ध्यः स्फुरति
SK
एवं शून्यात् प्रभृति व्यानान्तं या एता विश्रान्तयः ता एव निजानन्दो निरानन्दः परानन्दो ब्रह्मानन्दो महानन्दः चिदानन्द इति षट् आनन्दभूमय उपदिष्टाः यासाम् एकः अनुसंधाता उदयास्तमयविहीनः अन्तर्विश्रान्तिपरमार्थरूपो जगदानन्दः
SK
तत् एतासु उच्चारभूमिषु प्रत्येकं द्व्यादिशः सर्वशो वा विश्राम्य अन्यत् तद्देहप्राणादिव्यतिरिक्तं विश्रान्तितत्त्वम् आसादयति
SK
तद् एव सृष्टिसंहारबीजोच्चारणरहस्यम् अनुसंदधत् विकल्पं संस्कुर्यात् आसु च विश्रान्तिषु प्रत्येकं पञ्च अवस्था भवन्ति प्रवेशतारतम्यात्
SK
तत्र प्राग् आनन्दः पूर्णतांशस्पर्शात् तत उद्भवः क्षणं निःशरीरतायां रूढेः ततः कम्पः स्वबलाक्रान्तौ देहतादात्म्यशैथिल्यात् ततो निद्रा बहिर्मुखत्वविलयात्
SK
इत्थम् अनात्मनि आत्मभावे लीने स्वात्मनः सर्वमयत्वात् आत्मनि अनात्मभावो विलीयते इति अतो घूर्णिः महाव्याप्त्युदयात्
SK
ता एता जाग्रदादिभूमयः तुर्यातीतान्ताः
SK
एताश् च भूमयः त्रिकोणकन्दहृत्तालूर्ध्वकुण्डलिनीचक्रप्रवेशे भवन्ति
SK
एवम् उच्चारविश्रान्तौ यत् परं स्पन्दनं गलिताशेषवेद्यं यच् च उन्मिषद् वेद्यं यच् च उन्मिषितवेद्यं तद् एव लिङ्गत्रयम् इति वक्ष्यामः स्वावसरे
SK
परं चात्र लिङ्गं योगिनीहृदयम्
SK
तत्र मुख्या स्पन्दनरूपता संकोचविकासात्मतया यामलरूपतोदयेन विसर्गकलाविश्रान्तिलाभात् इत्य् अलम्
SK
अप्रकाशः अत्र अनुप्रवेशः
SK
पूर्वं स्वबोधे तदनु प्रमेये विश्रम्य मेयं परिपूरयेत
SK
पूर्णे ऽत्र विश्राम्यति मातृमेयविभागम् आश्व् एव स संहरेत
SK
व्याप्त्याथ विश्राम्यति ता इमाः स्युः शून्येन साकं षडुपायभूम्यः
SK
प्राणादयो व्याननपश्चिमास् तल्लीनश् च जाग्रत् प्रभृति प्रपञ्चः
SK
अभ्यासनिष्ठो ऽत्र तु सृष्टिसंहृद्विमर्शधामन्य् अचिरेण रोहेत्
SK
इति आन्तरश्लोकाः
SK
इति उच्चारणम्
SK
अस्मिन् एव उच्चारे स्फुरन् अव्यक्तानुकृतिप्रायो ध्वनिः वर्णः तस्य सृष्टिसंहारबीजे मुख्यं रूपं तदभ्यासात् परसंवित्तिलाभः तथाहि कादौ मान्ते साच्के अनच्के वा अन्तरुच्चारिते स्मृते वा समविशिष्टः संवित्स्पन्दस्पर्शः समयानपेक्षित्वात् परिपूर्णः समयोपेक्षिणो ऽपि शब्दाः तदर्थभावका मनोराज्यादिवत् अनुत्तरसंवित्स्पर्शात् एकीकृतहृत्कण्ठोष्ठो द्वादशान्तद्वयं हृदयं च एकीकुर्यात् इति वर्णरहस्यम्
SK
अन्तःस्पर्शद्विमर्शानन्तरसमुद्भूतं सितपीताद्यान्तरं वर्णम् उद्भाव्यमानं संविदम् अनुभावयति इति केचित्
SK
वाच्यविरहेण संवित्स्पन्दाद् इन्द्वर्कगतिनिरोधाभ्याम्
SK
यस्य तु समसंप्रवेशात् पूर्णां चिद्बीजपिण्डवर्णविधौ
SK
इति आन्तरश्लोकः
SK
इति वर्णविधिः
SK
करणं तु मुद्राप्रकाशने वक्ष्यामः

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source
Tantrasāra — Reader · Sutraya