Essence of the Tantras
Tantrasāra
तन्त्रसारः
SKयदा पुनर् आसन्नमरणस्य स्वयं वा बन्धुमुखेन शक्तिपात उपजायते तदा अस्मै सद्यः समुत्क्रमणदीक्षां कुर्यात्
SKसमस्तम् अध्वानं शिष्ये न्यस्य तं च क्रमेण शोधयित्वा भगवतीं कालरात्रीम् मर्मकर्तनीं न्यस्य तया क्रमात् क्रमं मर्मपाशान् विभिद्य ब्रह्मरन्ध्रवर्ति शिष्यचैतन्यं कुर्यात्
SKततः पूर्वोक्तक्रमेण योजनिकार्थं पूर्णाहुतिं दद्यात् यथा पूर्णाहुत्यन्ते जीवो निष्क्रान्तः परमशिवाभिन्नो भवति
SKबुभुक्षोस् तु द्वितीया पूर्णाहुतिः
SKभोगस्थाने योजनाय तत्काले च तस्य जीवलयः नात्र शेषवर्तनम् ब्रह्मविद्यां वा कर्णे पठेत् सा हि परामर्शस्वभावा सद्यः प्रबुद्धपशुचैतन्ये प्रबुद्धविमर्शं करोति
SKसमय्यादेर् अपि च एतत्पाठे ऽधिकारः
SKसप्रत्ययां निर्बीजां तु यदि दीक्षां मूढाय आयातशक्तिपाताय च दर्शयेत् तदा हि शिवहस्तदानकाले अयं विधिः त्रिकोणम् आग्नेयं ज्वालाकरालं रेफविस्फुलिङ्गं बहिर्वात्याचक्रध्यायमानं मण्डलं दक्षिणहस्ते चिन्तयित्वा तत्रैव हस्ते बीजं किंचित् निक्षिप्य ऊर्ध्वाधोरेफविबोधितफट्कारपरम्पराभिः अस्य तां जननशक्तिं दहेत् एवं कुर्वन् तं हस्तं शिष्यस्य मूर्धनि क्षिपेत् इति द्वयोर् अपि एषा दीक्षा निर्बीजा स्वकार्यकरणसामर्थ्यविध्वंसिनी भवति स्थावराणाम् अपि दीक्ष्यत्वेन उक्तत्वात् वायुपुरान्तर्व्यवस्थितं दोधूयमानं शिष्यं लघूभूतं चिन्तयेत् येन तुलया लघुः दृश्यते इति