Essence of the Tantras

Tantrasāra · तन्त्रसारः

Essence of the Tantras

Tantrasāra

तन्त्रसारः

Āhnika 21

SK
एवं समस्तं नित्यं नैमित्तिकं कर्म निरूपितम्
SK
अधुना अस्यैव आगमस्य प्रामाण्यम् उच्यते
SK
तत्र संविन्मात्रमये विश्वस्मिन् संविदि च विमर्शात्मिकायां विमर्शस्य च शब्दनात्मकतायां सिद्धायां सकलजगन्निष्ठवस्तुनः तद्गतस्य च कर्मफलसम्बन्धवैचित्र्यस्य यत् विमर्शनं तद् एव शास्त्रम् इति परमेश्वरस्वभावाभिन्न एव समस्तः शास्त्रसंदर्भो वस्तुत एकफलप्रापकः एकाधिकार्युद्देशेनैव तत्र तु परमेश्वरनियतिशक्तिमहिम्नैव भागे भागे रूढिः लोकानाम् इति
SK
केचित् मायोचितभेदपरामर्शात्मनि वेदागमादिशास्त्रे रूढाः अन्ये तथाविध एव मोक्षाभिमानेन सांख्यवैष्णवशास्त्रादौ परे तु विविक्तशिवस्वभावामर्शनसारे शैवसिद्धान्तादौ अन्ये सर्वमयपरमेश्वरतामर्शनसारे मतंगादिशास्त्रे केचित् तु विरलविरलाः समस्तावच्छेदवन्ध्यस्वातन्त्र्यानन्दपरमार्थसंविन्मयपरमेश्वरस्वरूपामर्शनात्मनि श्रीत्रिकशास्त्रक्रमे केचित् तु पूर्वपूर्वत्यागक्रमेण लङ्घनेन वा इत्य् एवम् एकफलसिद्धिः एकस्माद् एव आगमात्
SK
भेदवादे ऽपि समस्तागमानाम् एकेश्वरकार्यत्वे ऽपि प्रामाण्यं तावत् अवस्थितम् प्रामाण्यनिबन्धनस्य एकदेशसंवादस्य अविगीतताया अनिदंताप्रवृत्तेश् च तुल्यत्वात् परस्परबाधो विषयभेदात् अकिंचित्करः
SK
ब्रह्महननतन्निषेधवत् संस्कारभेदः संस्कारातिशयः तदभावे क्वचित् अनधिकृतत्वम् इति समानम् आश्रमभेदवत् फलोत्कर्षाच् च उत्कर्षः तत्रैव उपनिषद्भागवत् भिन्नकर्तृकत्वे ऽपि सर्वसर्वज्ञकृतत्वम् अत्र संभाव्यते तदुक्ततदतिरिक्तयुक्तार्थयोगात् नित्यत्वे ऽपि आगमानां प्रसिद्धिः तावत् अवश्योपगम्या अन्वयव्यतिरेकाध्यक्षादीनां तत्प्रामाण्यस्य तन्मूलत्वात् सत्यं रजतं पश्यामि इति हि सौवर्णिकादिपरप्रसिद्ध्यैव प्रसिद्धिर् एव आगमः सा काचित् दृष्टफला बुभुक्षितो भुङ्क्ते इति बालस्य प्रसिद्धित एव तत्र तत्र प्रवृत्तिः नान्वयव्यतिरेकाभ्यां तदा तयोः अभावात् यौवनावस्थायां तद्भावो ऽपि अकिंचित्करः प्रसिद्धिं तु मूलीकृत्य सो ऽस्तु कस्मैचित् कार्याय काचित् अदृष्टवैदेह्यप्रकृतिलयपुरुषकैवल्यफलदा काचित् शिवसमानत्वफलदा काचित् ऐक्यपर्यवसायिनी सा च प्रत्येकम् अनेकविधा इत्य् एवं बहुतरप्रसिद्धिपूर्णे जगति यो यादृशो भविष्यन् स तादृशीम् एव प्रसिद्धिं बलाद् एव हृदयपर्यवसायिनीम् अभिमन्यते
SK
इति रिक्तस्य जन्तोः अतिरिक्ता वाचोयुक्तिः तासां कांचन प्रसिद्धिं प्रमाणीकुर्वता अभ्युपगन्तव्यम् एव आगमप्रामाण्यम् इति स आगम आश्रयणीयो यत्र उत्कृष्टं फलम् इत्य् अलम् अन्येन
SK
संवित्प्रकाशपरमार्थतया यथैव भात्य् आमृशत्य् अपि तथेति विवेचयन्तः
SK
सन्तः समस्तमयचित्प्रतिभाविमर्शसारं समाश्रयत शास्त्रम् अनुत्तरात्म
SK
जिस्स दढपसिद्धिघडिए ववहारे सोइ अस्मि णीसंको
SK
तह होहि जहुत्तिण पसिद्धिरूढिए परमसिवो
SK
निजदृढप्रसिद्धिघटिते व्यवहारे लोक अस्ति निःशङ्कः
SK
तदा भवति जनोत्तीर्णप्रसिद्धिरूढः परमशिवः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source