Essence of the Tantras

Tantrasāra · तन्त्रसारः

Essence of the Tantras

Tantrasāra

तन्त्रसारः

Āhnika 6

SK
स एव स्थानप्रकल्पनशब्देन उक्तः तत्र त्रिधा स्थानं प्राणवायुः शरीरं बाह्यं च तत्र प्राणे तावत् विधिः सर्वः असौ वक्ष्यमाणः अध्वा प्राणस्थः कल्यते तस्य क्रमाक्रमकलनैव कालः स च परमेश्वर एव अन्तर्भाति तद्भासनं च देवस्य काली नाम शक्तिः भेदेन तु तदाभासनं क्रमाक्रमयोः प्राणवृत्तिः
SK
संविद् एव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अत एव च अवच्छेदयोगात् वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति ततो ऽसौ चेतन इव भाति
SK
तत्र क्रिया शक्तौ कालाध्वा प्राच्यभागे उत्तरे तु मूर्तिवैचित्र्यरूपो देशाध्वा तत्र वर्णमन्त्रपदाध्वनः कालाध्वनि स्थितिः परसूक्ष्मस्थूलरूपत्वात्
SK
देशाध्वस्थितिस् तु तत्त्वपुरकलात्मना इति भविष्यति स्वावसरे
SK
तत्र यद्य् अपि देहे सबाह्याभ्यन्तरम् ओतप्रोतरूपः प्राणः तथापि प्रस्फुटसंवेद्यप्रयत्नः असौ हृदयात् प्रभृति इति तत एव अयं निरूपणीयः
SK
तत्र प्रभुशक्तिः आत्मशक्तिः यत्न इति त्रितयं प्राणेरणे हेतुः गुणमुख्यभावात्
SK
तत्र हृदयात् द्वादशान्तान्तं स्वाङ्गुलैः सर्वस्य षट्त्रिंशदङ्गुलः प्राणचारः निर्गमे प्रवेशे च स्वोचितबलयत्नदेहत्वात् सर्वस्य
SK
तत्र घटिका तिथिः मासो वर्षं च वर्षसमूहात्मा इति समस्तः कालः परिसमाप्यते / तत्र सपञ्चांशे अङ्गुले चषक इति स्थित्या घटिकोदयः घटिका हि षष्ट्या चषकैः तस्मात् द्वासप्तत्यङ्गुला भवति
SK
समानो हार्दीषु दशासु नाडीषु संचरन् समस्ते देहे साम्येन रसादीन् वाहयति / तत्र दिगष्टके संचरन् तद्दिक्पतिचेष्टाम् इव प्रमातुः अनुकारयति //
SK
संविद्रूपस्यात्मनः प्राणशक्तिं पश्यन् रूपं तत्रगं चातिकालम् / साकं सृष्टिस्थेमसंहारचक्रैर् नित्योद्युक्तो भैरवीभावम् एति //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source