Essence of the Tantras

Tantrasāra · तन्त्रसारः

Essence of the Tantras

Tantrasāra

तन्त्रसारः

Āhnika 2

SK
अथ अनुपायम् एव तावत् व्याख्यास्यामः
SK
यदा खलु दृढशक्तिपाताविद्धः स्वयम् एव इत्थं विवेचयति सकृद् एव गुरुवचनम् अवधार्य तदा पुनर् उपायविरहितो नित्योदितः अस्य समावेशः
SK
अत्र च तर्क एव योगाङ्गम् इति कथं विवेचयति इति चेत् उच्यते यो ऽयं परमेश्वरः स्वप्रकाशरूपः स्वात्मा तत्र किम् उपायेन क्रियते न स्वरूपलाभो नित्यत्वात् न ज्ञप्तिः स्वयंप्रकाशमानत्वात् नावरणविगमः आवरणस्य कस्यचिद् अपि असंभवात् न तदनुप्रवेशः अनुप्रवेष्टुः व्यतिरिक्तस्य अभावात्
SK
कश् चात्र उपायः तस्यापि व्यतिरिक्तस्य अनुपपत्तेः तस्मात् समस्तम् इदम् एकं चिन्मात्रतत्त्वं कालेन अकलितं देशेन अपरिच्छिन्नम् उपाधिभिर् अम्लानम् आकृतिभिर् अनियन्त्रितं शब्दैर् असंदिष्टं प्रमाणैर् अप्रपञ्चितं कालादेः प्रमाणपर्यन्तस्य स्वेच्छयैव स्वरूपलाभनिमित्तं च स्वतन्त्रम् आनन्दघनं तत्त्वं तद् एव च अहम् तत्रैव अन्तर् मयि विश्वं प्रतिबिम्बितम् एवं दृढं विविञ्चानस्य शश्वद् एव पारमेश्वरः समावेशो निरुपायक एव तस्य च न मन्त्रपूजाध्यानचर्यादिनियन्त्रणा काचित्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source